०८

अथ वक्ष्ये विशेषेण शीतकुम्भविधिक्रमम्
ज्वरापस्मारनाशाय वसूरि उष्णदाहकम् १
सर्वरोगविनाशाय वर्षार्थं च प्रकल्पयेत्
द्वात्रिंशत्प्रस्थसम्पूर्ण बिम्बप्रभवसम्भवम् २
त्रिसूत्रं वेष्टयित्वा तु यवान्तरस्मन्वितम्
ग्रीवाग्रे स्थण्डिलं कृत्वा —दळकसमन्वितम् ३
स्थण्डिलैश्शोभितं कृत्वा लाजदर्भतिलैर्यथा
वस्त्रपूतेन तोयेन पूरयेत्कुम्भमुत्तमम् ४
सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम्
सवस्त्रं सापिधानं च सकूर्चं हेमसम्युतम् ५
स्थण्डिले विन्यसेत्कुम्भं सर्वमन्त्राणि विन्यसेत्
आचार्यस्सोपकरणै गन्धपुष्पाक्षतैः क्रमात् ६
पूर्वद्युरधिवासस्याद्रा त्रौ जागरणं चरेत्
आचार्यश्शिवकुम्भन्तु कुशैस्स्पृष्ट्वा जपं चरेत् ७
व्योमव्यापिमहामन्त्रं रोगशान्त्यै जपं चरेत्
इति होमं व्रतन्तस्य तस्याग्रे तु विशेषतः ८
प्रभाते देव देवस्य मूर्धमध्ये तु विन्यसेत्
चतुष्पाद्यान्तु विन्यस्य याज्ञिकैर्वृक्षकैश्शुभैः ९
लिङ्गोर्ध्वे —चतुर्दिक्षु विचक्षणः
वृत्तं चतुरश्रं वा षोडशाङ्गुलविस्तरम् १०
एकाङ्गुळप्रमाणेन मध्ये सुषिरमुच्यते
वस्त्रैरावेष्ट्य कुम्भं च पुष्पमाल्यैर्विभूषितम् ११
कुम्भ्यान्यान्यतरम्मूले सुषिरं कारयेद्बुधः
लोहसूच्यग्रमानेन नाळं हेममयम्भवेत् १२
द्विगुणं क्षीरधारायां मधुनि त्रिगुणन्तथा
हृदयेन तु मन्त्रेण कुम्भमारोप्य यत्नतः १३
शिवकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववद्बुधः
सप्ताहे चैव पञ्चाहे त्रियहे वा विशेषतः १४
स्रवन्मूर्धन्यहोरात्र सर्वशान्तिकरं स्मृतम्
नित्यपूजां विशेषेण काले काले विशेषतः १५
द्विगुणं पूजयेत्तत्र यथाशक्त्या तु पूजयेत्
उपकुम्भे तु निक्षिप्य जलं वा क्षीरमेव वा १६
कुम्भावरोहणं यावत्तावच्छान्तिं समाचरेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः १७
अन्ते कुम्भं परित्यज्य अस्त्रमन्त्रेण मन्त्रवित्
स्थापनन्तु यथाशक्त्या यथोक्तं कारयेद्बुधः १८
प्रभूतहविषन्दद्यात् पूर्वोक्तविधिना सह
सर्वभक्तजनानां च अन्नपानादि दापयेत् १९
इति योगजे क्रियापादे शीतकुम्भविधिर्नाम अष्टमः पटलः