पादुकार्चनकं कार्यं गन्धपुष्पादिभिः क्रमात्
शुद्धनृत्तसमायुक्तं स्वस्थाने देवमर्चयेत् १
अष्टोत्तरशतन्नृत्तं भावयेगणिकान्तकम्
नृत्तस्थान्ते विशेषेण देवदेवं विशेषतः २
अभिमुखीकरणं यत्तु तदावाहनमुच्यते
पूजापरिसमाप्तौ तु विमुखन्तद्बहिः स्थितम् ३
सकळार्चनकाले तु पञ्चमावरणं विना
आसनन्तु प्रकर्तव्यम् ———–४
गन्धपुष्पादिभिः पूज्य स्वनाम्ना चैव देशिकः
आगमार्चनकं कुर्यात्स्वगृहं प्रविशेद्बुधः ५
नित्योत्सवेन पूजायां तस्यां संवत्सरोत्सवम्
कारयेत्तु विशेषेण अन्यथा चेन्नकारयेत् ६
बलि नित्याग्निश्रीबल्यां त्रिकालन्तु समाचरेत्
एवं क्रमेण विधिवत् यथा विभवविस्तरम् ७
अथ वक्ष्ये विशेषेण मुद्रा दर्शनमुत्तमम्
त—ताभ्याण् ताडयेत्ताळं शोधये जायनो भवेत् १
तर्जनी मूलपर्वस्थ अङ्गुष्ठां नु —कृता
एतां हि शङ्खमुद्रा ंच स्नानकालप्रदर्शयेत् २
मणिबन्धन्ततः कुर्यादङ्गुष्ठतलमध्यगम्
तर्जनीमूलपर्वस्थ मध्यलग्नौ प्रकीर्तिता ३
कनिष्ठाभ्यन्तरन्नाभि —सुरभि स्मृतः
संयोज्य हस्तौ द्वौ कन्तु अन्तरे सुषिरं कृतम् ४
बिसिनी मुकुळाकारं स्नानकाले प्रदर्शयेत्
त्यक्त्वा करतलाङ्गुष्ठौ शेषं श्लक्षोर्ध्वगं क्रमात् ५
कृत्वावाहनमाख्यातम् कुर्यादावाहनन्तथा
मुष्टिं कृत्वा तु हस्ते च का प्रष्ठे तु योजने ६
कनिष्ठौ विसृतौ दीर्घौ निष्ठुरा सन्निरोघने
अङ्गुष्ठौ प्रक्षिपेन्मध्ये कनिष्ठौ विसृतौ युतौ ७
बीजमुद्रे यमाख्याता दर्शयेच्छक्तिकल्पने
द्वौ हस्तौ तलके योज्य मध्याङ्गुळ्याग्रहं युतौ ८
तर्जनी नामिके योज्य अङ्गुष्ठाभ्यां कनिष्ठके
इमां पञ्चमुखी मुद्रा ंदर्शयेद्वक्त्रकर्मणि ९
कराभ्यामञ्जलिं कृत्वा सवक्त्रास्यादनामिका
तयोरग्रे तु संलग्नौ शेषाश्च विसृताश्च यः १०
द्र व्यमुद्रा भवेदेषा द्र व्याभावे प्रदर्शयेत्
उत्तानौ तु करौ पश्चान्मणिबन्धन्तु कारयेत् ११
प्रसार्य मध्यमाङ्गुळ्यौ शिवाख्यां स्थापनावहम्
वामाङ्गुळीव प्रसृता अङ्गुष्ठमूर्ध्निसंयुतम् १२
दक्षिणे दक्षिणे मुष्टिमङ्गुष्ठं त्वोर्ध्वगस्थितम्
मुष्टिमूर्ध्वगतं कृत्वा संहारं मुद्र या विदुः १३
उत्तानौ तु करौ कृत्वा मणिबन्धन्तु कारयेत्
तर्जनी च कनिष्ठा च प्रस्थितौ संस्थितौ तथा १४
मुद्रा सदाशिवाख्याता आह्वाने च प्रदर्शयेत्
उत्तानौ तु करौ कृत्वा कनिष्ठाङ्गुष्ठसम्युतौ १५
तर्जनी मध्यमा युक्तौ अनामिकोर्ध्वकृतासनौ १६
इति योगजे क्रियापादे मुद्रा लक्षणन्नाम षष्ठः पटलः