अथ वक्ष्ये विशेषेण अर्चनाविधिमुत्तमम्
अर्चनं द्विविधं प्रोक्तं आत्मार्थं च परार्थकम् १
अन्तरे स्थितिलिङ्गानां जङ्गमन्त्विति कीर्तितम्
पीठार्धेन समं लिङ्गं बन्धं जङ्गममुच्यते २
ब्रह्मविष्णुशिवैर्युक्तं स्थावरं लिङ्गमुच्यते
स्वयम्भूरोहणं चैव देवमानुषराक्षसम् ३
बाणलिङ्गादि लिङ्गानां परार्थमिति कीर्तितम्
एषु नित्यं स्थितो देवो व्यक्ताव्यक्तन्तु मानुषम् ४
सन्ध्याकाले तु सुव्यक्तमव्यक्तं चान्यकालके
ब्रह्मविष्णुश्च रुद्र श्च ईश्वरश्च सदाशिवः ५
उत्तरादीनि मध्यान्तमप्रादक्षिण्यमूर्तिनः
बामं सद्यमघोरं च तत्पुरुषेशान नामकाः ६
उत्तरादीनि वक्त्राणि क्रमेण परिपठ्यते
सद्याद्धरोद्भवञ्चैव वामपादसमुद्भवम् ७
अघोरान्तेजसोत्भूतं पुरुषाद्वायुसम्भवम्
ईशादाकाशमुत्पन्नं इत्येते भूतसम्भवाः ८
आसनं मूर्तिमावाह्य ते तु त्रितयमध्वनि
आसनं शुद्धविद्यान्तम्मूर्त्तिश्शक्त्यन्तगोचरम् ९
आवाह्य सुशिवं प्रोक्तं एवं लिङ्गस्य पूजनम्
आसनं लिङ्गमित्याहुर्मूर्तिस्सदाशिवस्स्मृतः १०
सदाशिवं मन्त्रसम्भूतमष्टत्रिंशत्कलान्वितम्
मन्त्रन्यासं शिवं यावत्सदाशिवमिति स्मृतम् ११
अयं मन्त्रमिति ख्यातम् शिवं जन्यमिति स्मृतम्
आकाशात्सम्भवा रेखा द्वितीयमर्धचन्द्र कम् १२
तृतीयं कुटिलाकारं चतुर्थं वह्निसम्भवम्
पञ्चमन्तु ध्वजाकारं शिवविष्णुसमायुतम् १३
शिवमन्त्रमिति प्रोक्तं सर्वयोनिहृदिस्थितम्
अर्धाक्षरपदन्यासं शक्तिस्थानन्तु षट्पदम् १४
एतन्न्यासकृतं नित्यम् लिङ्गस्य परिणाहकम्
विद्याङ्गास्त्रशिवाङ्गास्त्रमघोरास्त्रं पाशुपतास्त्रकम् १५
क्षुरिकास्त्रन्तु पञ्चैते शिवमन्त्रसमन्वितम्
शिवादुत्पद्यते शक्तिश्शक्तेरुत्पद्यते तथा १६
तस्यास्सदाशिवोत्पत्तिस्सदाशिवादीश्वरस्थितः
ईश्वराद्रुद्र सम्भूति रुद्रा द्विष्णुसमुद्भवम् १७
विष्णोर्ब्रह्मा समुत्पन्नो ब्रह्मणो विश्वसम्भवम्
वाच्यवाचकरहितो वाङ्मनोतीतगोचरः १८
शिवं शुद्धमिति प्रोक्तमरूपीचाव्ययश्शिवः
वाच्यं सादाशिवं मन्त्रमावाह्यं शिवमन्त्रकम् १९
गुह्याद्गुह्यतरं गुह्यं स्वानुभूत्यावगम्यते
वृष्टिश्शक्तिमयं प्रोक्तं अदृष्टं शिवमुच्यते २०
लोकरक्षानिमित्ताय सदाशिवसमुद्भवम्
तस्मात्सर्वप्रयत्नेन पूजयेत्तु सदाशिवम् २१
लोकशान्तिकरं ह्येवं परार्थं पूजयेद्गुरुः
आत्मार्थं च परार्थं च आदिशैवार्हकं भवेत् २२
लिङ्गेक्षणं विनामर्त्यं क्रिमयो भक्षते सदा
तस्मात्सर्व प्रयत्नेन शिवलिङ्गार्चनं कुरु २३
प्रथमन्तनुशुद्धिः स्यात् द्वितीयं स्थानशुद्धिकम्
तृतीयं द्र व्यशुद्धिश्च चतुर्थं मन्त्रशोधनम् २४
पञ्चमं लिङ्गशुद्धिः स्यादित्येते पञ्चशुद्धयः
पूर्वोक्तविधिमार्गेण देहशुद्धिं समाचरेत् २५
देहन्यास क्रमेणैव देहशुद्धिं समाचरेत्
भूमिं समतलं कृत्वा सुखासीन उदङ्मुखः २६
रेचकं पूरकं चैव कुम्भकन्दशमात्रकम्
दशदिक्ष्वस्त्रमन्त्रेण दिग्विरेचनमाचरेत् २७
शङ्खतोयस्य तन्मध्ये सुरभिमुद्रा ंप्रदर्शयेत्
शिवमन्त्रन्न्यसेद्विद्वान् गन्धपुष्पकुशैर्युतम् २८
तदम्भसा शिवनाम्ना शिरसि प्रोक्ष्य मन्त्रवित्
करन्यासं पुराकृत्वा सृष्टिमार्गेण बुद्धिआ!न् २९
अङ्गुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृतम्
कनिष्ठिकाद्यङ्गुष्ठकान्तं यत्संहारन्यासमुच्यते ३०
दक्षिणे मध्यमादिस्याद्वामे स्यादनामिकान्तकम्
स्थितिन्यासमिदं प्रोक्तं सर्वकर्मस्वयं विधिः ३१
मूर्धादि सृष्टिरत्रोक्ता पादादिस्संहृतिर्भवेत्
ईशादिसृष्टिविन्यासं सद्यादिस्संहृतिर्भवेत् ३२
अघोरादि स्थितिन्यासं इत्येवं मन्त्रकं न्यसेत्
हृदयं हृदये न्यस्य शिरश्शिरसि विन्यसेत् ३३
शिखा शिखायां विन्यस्य कवचं स्तनमध्यतः
अस्त्रं हस्ते तु विन्यस्य नेत्रन्नेत्रेषु विन्यसेत् ३४
जान्वोर्नाभि गळे चैव ललाटे मूर्धदेशके
पृथिव्यादीनि बीजानि लवरयहकारकाः ३५
पीतं शुक्लं तथा रक्तं कृष्णाभं धूम्रवर्णकम्
चतुरश्रार्धचन्द्रं च त्रिकोणं च षडश्रकम् ३६
सुवृत्तं च पृथिव्यादि मण्डलाकृतयः क्रमात्
ततस्सप्तशतन्देवम् शिवं प्रणवसंस्थितम् ३७
त्रिकोणमग्निदेवं च वृत्तं च चन्द्र सूर्ययोः
मण्डलाकारमेवोक्तं अग्निसूर्यशशाङ्कयोः ३८
हृदयं शिरश्शिखा कवच अस्त्रनेत्रमिति स्मृतम्
पृथिव्यादीनि बीजानि योजयेत्तु विशेषतः ३९
पृथिव्यादीनि तत्वानां ब्रह्माद्याः पञ्चमूर्तयः
पञ्चोद्धातश्चतस्रश्च त्रयश्च द्वयमेकशः ४०
ह्लां ह्वीं ह्रूं ह्यैं हौं कारं च क्रमेणैव च शोधयेत्
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ४१
पृथिव्यादीनि भूतानि हुं फट्संयुक्तबुद्धिमान्
जानुनाभिगळे चैव ललाटे मूर्धदेशके ४२
हृदयादीनि मन्त्राणि बन्धयेदादिशैवकः
तद्बन्धं पञ्चग्रन्धि स्यादिति शास्त्रस्य निश्चयः ४३
पाशुपतेन चास्त्रेण पञ्चग्रन्धींस्तु छेदयेत्
हृदयादीनि मन्त्राणि पृथिव्यादिषु योजयेत् ४४
शिखाग्रे द्वादशाङ्गुळ्ये हंसेनात्मनि योजयेत्
संहारमुद्र या चैव शिवतत्वे नियोजयेत् ४५
आग्निमण्डलमध्ये तु अग्निबीजन्न्यसेद्बुधः
कळेबरन्दहेत्पश्चाद्दग्धरज्जुं विचिन्तयेत् ४६
आपूर्य –न्ततो ध्यात्वा आत्मानममृतेन च
प्रणवं श्वेतकमलं योगपीठमधोमुखम् ४७
स्रवन्तममृतं ध्यात्वा वृषमण्डलमध्यमे
तेन प्लावितपिण्डन्तु शरीरस्थितिकं कुरु ४८
आत्मानमानयेत्तत्र पूर्ववत्कारयेत्सुधीः
अकारादिक्षकारान्तं वर्णमन्त्रैः क्रमान्न्यसेत् ४९
अकारमूर्ध्नि विन्यस्य आकारन्तु ललाटके
इ ईदन्त द्वये चैव उ ऊ ओष्ठद्वयेऽपि च ५०
ऋ ॠ चक्षुद्वये चैव लृ लॄ नासिद्वये न्यसेत्
ए ऐ श्रोत्रद्वये चैव ओ औ जुह्वागळे विदुः ५१
अं अः कर्णद्वये चैव अक्षरं विन्यसेत्सुधीः
कवर्गन्दक्षिणे पार्श्वे चवर्गं वामपार्श्वके ५२
टवर्गन्दक्षिणे पादे तवर्गं वामपादके
पवर्गन्दक्षिणे हस्ते यवर्गं वामहस्तके ५३
ळं क्षं लिङ्गमपाने च वर्णस्थानं विधीयते
कलाशक्तिकलान्यासं क्रमेणैव तु योजयेत् ५४
पञ्चब्रह्मषडङ्गानि तत्तद्देशेषु विन्यसेत्
मूर्धादि पादपर्यन्तं दशाक्षराणि विन्यसेत् ५५
प्रासादं विन्यसेत्पश्चाच्छिवोहमिति भावयेत्
करार्चनां पुरः कृत्वा पश्चाद्देहार्चनां कुरु ५६
पूर्ववद्देह न्यासं च यथाक्रमेण योजयेत्
एवं कृत्वा विशेषेण आत्मशुद्धिं समाचरेत् ५७
त्रिकालं द्वेककालं वा आत्मार्थं सम्प्रपूजयेत्
नाभिमूलादधः पद्मं तुर्याङ्गुळिप्रमाणतः ५८
मूलाधारमिदं प्रोक्तं शङ्खनाभि ध्वनिं विदुः
बिन्द्वन्तन्नादमन्तं च नादान्तं च शिवं विदुः ५९
बिन्दुनादसमायुक्तं शक्तिरित्यभिधीयते
अग्निमध्ये रवैस्थानं रविमध्ये तु चन्द्र माः ६०
तस्य मध्ये तु सर्वज्ञो व्यक्ताव्यक्तमिति स्मृतम्
आत्मानं चान्तरात्मानं परमात्मानमुच्यते ६१
क्रमेणैवोर्ध्वतस्सर्वं सात्विकादिगुणैर्युतम्
भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् ६२
हृदये यजनं कुर्यान्नाभौ होमं प्रकल्पयेत्
हृत्पद्मे चार्चयेन्नित्यं द्विकालं वा त्रिकालकम् ६३
अथवा एककालन्तु संयजेन्मानसेन तु
अङ्कुरान्नाभिमूले तु हृदये सुप्रतिष्ठितम् ६४
मनोन्मन्यास्तु संयोगं भ्रूमध्ये तु विशेषतः
चतुरष्टद्विरष्टौ च द्वात्रिंशद्विगुणीकृतम् ६५
षडाधारं तु पद्मं स्यादूर्ध्वाधः क्रमयोगतः
त्रिधाधारमथो भागे कुण्डलो नाहवृत्तके ६६
नवाधारमिदं प्रोक्तं सर्वव्यापी सदाशिवः
घण्टाजिह्वयोस्संयोस्तदुत्पत्तिरिव कथ्यते ६७
एवमेव प्रकारेण चिन्तयेदादिशैवकः
आत्मशुद्धिरियं प्रोक्ता स्थानशुद्धिमतः श्रुणु ६८
मार्जनालेपनं चैव वितानध्वजभूषितम्
शोधनीमुद्र याचैव फट्कारेण तु शोधयेत् ६९
शिवाम्भसा तु संस्नाप्य प्रासादाभ्यन्तरे बहिः
हस्तमात्रप्रमाणेन मण्डलं चतुरश्रकम् ७०
आवाहयेत्ततो भूमिं सर्वाभरणसंयुताम्
द्विनेत्रां चतुर्भुजां चैव पुष्पहस्तां तु पिङ्गळाम् ७१
गन्धं तैल तथाभ्यङ्गगव्यं चामृतकन्तथा
कषायं गन्धोदकं चैव प्रोक्तवस्त्रन्तथैव च ७२
पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम्
दीपञ्चैव हविश्चैव उपदंशं तथैव च ७३
ताम्बूलं मुखवासञ्च नीराजनं च दर्पणम्
चामरं तालवृन्तं च छत्रं पादुकमेव च ७४
सौवर्णं राजतं ताम्रं कांस्य पात्रं च शोधयेत्
शङ्खपात्रादि पात्राणां जलद्रो णी वर्धन्यादिकम् ७५
त्रिपाद्यादीनि सर्वाणि शोधयेन्मूलमन्त्रतः
तत्तद्द्रव्याणि पात्राणि क्षाळयेत्तु विशेषतः ७६
शोधितान्क्षाळितां चैव सादराद्द्रव्यपात्रकान्
शिवीकृतेन तोयेन प्रोक्षयेन्मूलविद्यया ७७
द्र व्यशुद्धिर्भवेदेवं लिङ्गशुद्धिमतः श्रुणु
कनिष्ठिका नामिका मध्ये पुष्पं गृह्यविचक्षणः ७८
पूर्वसन्ध्यर्चितं पुष्पं अङ्गुष्ठेन विसर्जयेत्
विसर्जने तु तत्काले पुष्पमूर्ध्नि निधापयेत् ७९
देहन्यासक्रमं कृत्वा मन्त्रदेहस्सदाशिवः
अव्यक्तानान्तु लिङ्गानां व्यक्तमेतत्सुचिन्तयेत् ८०
तस्मिल्लिङ्गे वसेद्देवो व्यक्ताव्यक्तस्सदाशिवः
सन्ध्या काले तु सुव्यक्तमव्यक्तं चान्यकालके ८१
आवाहनविसर्गाभ्यां सम्मुखो विमुखोऽपि च
काष्ठेन मर्दयेत्काष्ठं तत्क्रियान्तेग्निसम्भवम् ८२
तावत्सर्वेश्वरे जातं सर्वव्यापि शिवात्कृतः
स्वभावतश्शिवः प्रोक्तः काष्ठमध्ये तु अग्निवत् ८३
उपकाष्ठन्तु मर्दित्वा यावदग्निस्तु जायते
तावत्सदाशिवं प्रोक्तं शिवलीला प्रवर्तते ८४
ज्ञानयोगक्रियाचर्यम् सदाशिवं तु बन्धयेत्
तं शिवं पूज्यकाले तु क्रिययोद्धृत्य चाग्निवत् ८५
स्वभावमध्यगं प्रोक्तं क्रियाकाले तु व्यक्तकम्
कुम्भाकृति शिराकारं आमलस्याकृतिर्वपुः ८६
कूश्माण्डफलवद्रू पं पनसफलरूपकम्
तालफलवदाकारं आर्षकं लिङ्गमुच्यते ८७
बिम्बञ्च नाळिकेरं च बिल्वं चैव कपित्थकम्
चूतं च मातुलुङ्गं च कदम्बफलमल्लिका ८८
इत्येतैर्लक्षणैर्युक्तं गाणपं लिङ्गमुच्यते
यथेष्टाकृतिसंयुक्तं स्वयम्भुलिङ्गमुच्यते ८९
स्वायम्भ्वार्षदेवानां त्रिसूत्रं मुकुळैर्विना
त्रिसूत्रमुकुळैर्युक्तं गाणपं लिङ्गमुच्यते ९०
आवाहनोद्वासनन्नास्ति स्वायम्भ्वार्षक गाणपे
आवाहनोद्वासनैर्युक्तं मानुषं लिङ्गमुच्यते ९१
लिङ्गायामत्रिभागेकं पृष्ठभागमथोचितम्
मध्यमे विष्णुभागं स्यात्तदूर्ध्वशिवभागकम् ९२
शिवभागन्तु तिथ्यंशं पादमेकांशमुच्यते
द्वितीयं जङ्घभागं च तृतीयम्मूरुमेव च ९३
चतुर्थं कटिदेशं च पञ्चमं कटिरूर्ध्वतः
षट्भागन्नाभिदेशं च सप्तमम्मुदरं विदुः ९४
अष्टमं हृदयं प्रोक्तं नवमं स्तनमध्यतः
दशमं कण्ठदेशं स्यात् चिबुकमेकादश स्मृतम् ९५
-———————–चतुर्दशं ललाटं स्यात्पञ्चादशं सुमूर्तिषु ९६
मूर्धादि पादपर्यन्तं अष्टत्रिंशत्कलान्यसेत्
शशिर्ना मूर्ध्व मूर्ध्निस्तु अङ्गदां पूर्वमूर्धनि ९७
इष्टान्दक्षिणमूर्ध्नि वै मरीचिञ्चोत्तरे न्यसेत्
ज्वालिनीं पश्चिमे मूर्ध्नि प्रणवेनोर्ध्ववक्त्रकम् ९८
अव्यक्तकला इति ख्यातम् ऊर्ध्ववक्त्रमिति स्मृतम्
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ९९
पूर्वे च पश्चिमे याम्ये सौम्ये चैव क्रमेण तु
यथाक्रमेण विन्यस्य पञ्चवक्त्रेकभागतम् १००
तमो धराक्षयानिष्ठा धृतिः क्षान्तिस्स्मृतिक्षमा
अघोरस्य कलानान्तु अष्टौ वै शक्तयः क्रमात् १०१
हृदये कण्ठदेशे तु अंसयोरुदरेपि च
नाभौ पृष्ठोरसोश्चैव अघोरस्य कलान्यसेत् १०२
रजो रक्षा रतिः पाल्या कामा यंयमिनी क्रिया
तृष्णामेधा क्षुधा पीता ग्रामणीर्भामणी तथा १०३
वामदेव कलानान्तु शक्तयस्स्युस्त्रयोदश
गुह्ये गुदे च ऊर्वोश्च जान्वोर्जङ्घाद्वयेऽपि च १०४
पृष्ठे कट्यां पार्श्वयोश्च वामदेव कलान्यसेत्
सिद्धिरिद्धिद्युतिलक्ष्मीर्मेधा कान्तिस्वधा प्रजा १०५
सद्यमन्त्रकलाश्चाष्टौ दिव्यदेहे तु कल्पयेत्
पादयोरुभयोश्चैव हस्तयोरुभयोस्तथा १०६
बाह्वोर्नास्योश्शिरस्येव सद्योजातकलान्न्यसेत्
गौरी कलास्त्वहं वक्ष्ये गौरीबीजसमुद्भवम् १०७
तारा ईशकलाज्ञेया विद्यावक्त्रकला भवेत्
मृत्युश्श्रद्धा जरा मेधा स्वधास्वस्ति च वर्मणा १०८
पालिनी ज्वालिनी प्राणा धृतिः कामा मतिः प्रजा
शान्ता भूतिः क्रिया क्षान्तिः घोरवामकला भवेत् १०९
शान्तिर्दान्तिर्दया सूतिद्युतिस्सन्ध्यास्तु सद्यगाः
षड्विंशति कलाह्येता गौरी देहे तु विन्यसेत् ११०
मूर्ध्नि वक्त्रे तारविद्ये अन्यत्सर्वं क्रमान्न्यसेत्
हृदये च गळे बाह्वोर्जठरे नाभिदेशके १११
अघोरस्य कलान्यासं योनिगुह्यप्रदेशयोः
ऊर्वोर्जानुद्वये चैव पृष्ठे द्वयोश्च पार्श्वयोः ११२
वामदेवकलाह्येता देहे तु विन्यसेत्
पादयोरुभयोश्चैव हस्तयोरुभयोरपि ११३
स्तनयोरुभयोश्चैव सद्योजातकलान्न्यसेत्
अकारादिक्षकारान्तं विन्यसेत्तु विशेषतः ११४
शिरो ललाटनेत्रेषु कर्णयोश्चैव गण्डयोः
नास्यो रोष्ठद्वये चैव दन्तपङ्क्तिद्वयेपि च ११५
जिह्वायां तालु रन्ध्रे च स्वरान्षोडश विन्यसेत्
कवर्गन्दक्षिणे हस्ते चवर्गं वामहस्तके ११६
टवर्गन्दक्षिणे पादे तवर्गं वामपादके
पफौ च दक्षिणे पार्श्वे बभौ च वामपार्श्वके ११७
मकारं कण्ठदेशे तु क्रमेण परिपठ्यते
यकारादि सकारान्तं रसास्रं मांसमेदजम् ११८
अस्थि मज्जाश्च शुक्लं च क्रमेणैव तु विन्यसेत्
हकारं हृदये न्यस्य ळकारं वृषणे न्यसेत् ११९
क्षकारं मेढ्रदेशे तु विन्यसेत्तु विशेषतः
षडद्ध्वा अङ्गसम्पूर्णं दिव्यदेहमिति स्मृतम् १२०
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं चैव तु पञ्चमम् १२१
वाक्पदिपाणिपायू उपस्थञ्चैव तु पञ्चमम्
शब्दं स्पर्शं च रूपं च रसं गन्धं च पञ्चमम् १२२
मनो बुद्धिरहङ्कारः प्रकृतिः पुरुषस्तथा
रागो माया च विद्या च कालो नियतिरेव च १२३
विग्रहेश्वरसकळं शुद्धमाया तथैव च
शुद्धविद्या शुद्धकला सदाशिवमिति स्मृतम् १२४
षट्त्रिंशत्तत्वमेवोक्तं तत्तत्वं प्राणमुच्यते
कलाध्वात्वङ्गमित्युक्तं तत्वाध्वा प्राणमुच्यते १२५
वर्णाध्वा च त्वचोपेता मन्त्राध्वारुधिरान्विता
भुवनाध्वा रोमरूपं च पदाध्वासिरमेव च १२६
ततस्सप्तदशन्देवम् शिवं प्रणवसंस्थितम्
पूर्ववत्सकलीकृत्य शिवमावाहयेत्ततः १२७
कपालीशस्त्वजो बुद्धो वज्रदेहः प्रमर्दनः
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः १२८
इत्येषां पूर्वदिक्भागे दशदेवाः प्रकीर्तिताः
हुताशनश्च पिङ्गश्च खादको हर एव च १२९
ज्वलनो दहनो बभ्रुर्भस्मान्तकः क्षयान्तकः
इत्येषां अग्निदिक्भागे दशदेवाः प्रकीर्तिताः १३०
याम्यो मृत्युर्हरो धाता विधाता कर्तृरेव च
संयोक्ता च वियोक्ता च धर्मश्च पतिरेव च १३१
इत्येषां याम्यदिक्भागे दशदेवाः प्रकीर्तिताः
निरृतिर्वरुणो हन्ता क्रूरदृष्टिर्भयानकः १३२
ऊर्ध्वकेशो विरूपाक्षो धूम्रो लोहितदंष्ट्रवान्
इति नैरृतिदिक्भागे दशदेवाः प्रकीर्तिताः १३३
अतिबलो पाशहस्तर्महाबलश्वेत एव च
जयभद्रो दीर्घबाहुर्जलान्तको मेखनादकः १३४
सुनादश्च इति ख्याता वारुणे दिशि देवताः
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः १३५
पञ्चान्तकः पञ्चशिखः कपर्दीमेघवाहनः
इति वायव्य दिक्भागे दशदेवाः प्रकीर्तिताः १३६
निधीशो रूपवान्धन्यो सौम्यदेहो जटाधरः
लक्ष्मीधरो रक्तधरः श्रीधरश्च प्रसादकः १३७
प्रकामदश्च इत्येषां उत्तरे च प्रकीर्तिताः
विद्याधिपश्च ईशश्च त्रिदशस्सर्व एव च १३८
ज्ञानभुग्वेदपारश्च सुरेशश्शर्व एव च
ज्येष्ठश्च भूतपालश्च बलिप्रियश्च एव च १३९
ईशान्यदेवदिक्भागे दशदेवाः प्रकीर्तिताः
वृषो वृषधरश्चैव अनन्तः क्रोध एव च १४०
मारुतो ग्रसनश्चैव उदुम्बरीश एव च
फणीन्द्रो वज्रदंष्ट्री च इत्यधो दिशि देवताः १४१
शम्भुर्विभुर्गणाध्यक्षः त्र्यक्षश्च त्रिदशेश्वरः
संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः १४२
इत्यूर्ध्वे दिशि देवाश्च दशदेवाः प्रकीर्तिताः
तदुपरि वीरभद्र भद्र काळि द्वयन्न्यसेत् १४३
ब्रह्मविष्णुश्च रुद्र श्च दिशि देवाः प्रकीर्तिताः
ब्रह्माण्डमध्ये भुवनानि शतरुद्राः प्रकीर्तिताः १४४
निवृत्तिकलायां चैव पृथिवी तत्वमुच्यते
क्षकारो वर्ण इत्येषां भुवनमष्टाधिकं शतम् १४५
नमो नमश्शिवाय ॐ सर्वद शर्व शिव सूक्ष्म सूक्ष्म
शब्द शब्द ज्ञान ज्ञान पिङ्ग पिङ्ग पतङ्ग पतङ्गं तुरु तुरु १४६
साक्षिन्साक्षिन् पूर्वस्थित असंस्तुता संस्तुत
अनर्चितानर्चित ब्रह्मविष्णुरुद्र पर सर्वसान्निध्यकर १४७
सर्वभूतसुखप्रद भवोद्भव भव भव शर्वशर्व
प्रथम प्रथम मुञ्च मुञ्च योगाधिपतये महातेज १४८
सद्भावेश्वर महादेव इति
व्योमव्यापि महामन्त्रमष्टाविंशत्पदं भवेत् १४९
निवृत्तिकला व्याप्तिश्च षड्विधाध्वमिति स्मृतम्
प्रतिष्ठा कलां वक्ष्ये आपाग्निर्वायुव्योमकम् १५०
गन्धं रसं रूपस्पर्शं शब्दन्तन्मात्रपञ्चकम्
वाक्पाणिपादपयूपस्थम् कर्मेन्द्रि यम्मतम् १५१
श्रोत्रत्त्वक्चक्षुजिह्वाघ्राणं बुद्धीन्द्रि यं मतम्
मनोबुद्धिरहङ्कारं अन्तःकरणकं स्मृतम् १५२
गुणाः प्रकृतिरित्युक्त चतुर्विंशन्तत्वमेव च
गकारादि हकारान्त वर्णास्त्रयो विंशतिः १५३
शिरो वाममन्त्रेण मन्त्रद्वयमिहोच्यते
षट्पञ्चाशद्भुवनानां यथाक्रममिति स्मृतम् १५४
अमरेशः प्रभासश्च नैमीशो पुष्करस्मृतः
आषाढी डिण्डिमुण्डी च भारभूतिर्लकुळीश्वरः १५५
इत्यष्टकतत्वानां पदन्तत्वमिति स्मृतम्
हरिश्चन्द्र श्च श्रीशैलो जल्पेशॐम्रादिकेश्वरः १५६
मध्यमेशो महाकाळो केदारो भैरवेश्वरः
इत्यष्टकसञ्ज्ञायामग्नितत्वे प्रकीर्तिताः १५७
गया चैव कुरुक्षेत्रो नाखलो नखलस्तथा
विमलेशोदृहासश्च महेन्द्रो भीमकेश्वरः १५८
इत्येषामष्टभुवनम् वायुतत्वे प्रकीर्तितम्
वस्त्रपादो रुद्र कोटि अविमुक्तो महाबलः १५९
गोकर्णो भद्र कर्णश्च स्वर्णाक्षो स्थाणुकेश्वरः
इत्येषामष्टभुवनं व्योमतत्वे प्रकीर्तितम् १६०
छगरण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः
काळाञ्जनश्शङ्कुकर्णो मूलेश्वर इति स्मृतः १६१
इत्येषामष्टभुवनं अहङ्कारे स्थितं भवेत्
पैशाचं राक्षसं यक्षं गान्धर्वमैन्द्र मैव च १६२
सौम्यं प्रजेशं ब्राह्मं च इत्यष्टौ बुद्धिके स्थितम्
अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवम् १६३
कौमारमौमकं चैव श्रीकण्ठमिति कथ्यते
याष्टकं प्रकर्तव्यं गुणप्रकृतिरुच्यते १६४
एवं भुवनसप्ताष्टकानि एकविंशत्पदं स्मृतम्
महेश्वर परमात्मन्शर्व शिवविधनोद्भवनिधन १६५
अनिधन ॐभुवः धू धू धू ना ना ना अनादे
अभस्म अधूम अनग्ने अरूप ज्योतिर्ज्योति १६६
तेजस्तेज प्रथम प्रथम प्रथम अरूपिन्नरूपिन्
महेश्वर पदमारभ्य अरूपिन्नरूपिन्नित्यन्तम्
-——प्रतिष्ठाकलायां व्याप्तं सञ्चिन्तयेदिति
षड्विधाध्व व्याप्तिर्विद्याकलायां पुनः १६७
पुरुषरागविद्याकलानियति मायान्ततत्वानि
सप्तवर्णाः घकारादि ञकारान्ताः मन्त्राणि अघोरशिखा १६८
भुवनानि सप्तविंशतिः । वाम भीम उग्र भव ईश इति एक ।
विंशति पुरुष । प्रचण्ड उमापति अज अनन्त एक वीर १६९
इति भुवन पञ्चकम् रागे क्रोध चण्डेशौ विद्यायाम्
ज्योतिस्संवर्तौ कलायां सूकरखादकौ नियत्याम् १७०
एकवीरै शिखेदौ काले महातेजवामदेवौ
भवश्चोद्भव एकपिङ्गळ एके क्षण ईशान १७१
अङ्गुष्ठमात्र इति मण्डलेश्वराष्टकं मायायाम्
एवं भुवनानि वेददेवतानि तत्वानि पदानि विंशतिः १७२
व्यापिन्व्यापिन् व्योमिन्व्योमिन् अचेतनाचेतन
परमेश्वरपराय ज्योतीरूपाय सर्वयोगाधिकृताय १७३
अनिधनाय गोप्त्रे गुह्याति गुह्याय ॐ नमो नमः
सद्योजातमूर्तये वामदेव गुह्याय अघोरहृदयाय १७४
तत्पुरुषवक्त्राय ईशानमूर्धाय शिवाय सर्वप्रभवे
शिवाय ओन्नमः ध्यानाहाराय इति व्यापिन्यादिध्याना १७५
हारान्तानि एवं पञ्चविधमध्वानं कलाव्याप्तम्
सञ्चिन्तनीयमिति षड्विधाध्व व्याप्तः शान्तिकलायां पुनः १७६
शुद्धविद्या चेश्वर सदाशिवाख्यं तत्वत्रयम् वर्णास्त्रयः
गखकाः मन्त्रे तत्पुरुषकवचे भुवनान्यष्टादश १७७
वामाज्येष्ठा रौद्री काळी कलविकरणी बलविकरणी
बलप्रमथनी सर्वभूतदमनी मनोन्मनीति भुवनकम् १७८
शुद्धविद्यायाम् —————-अनन्तेशस्तथा सूक्ष्मश्शिवोत्तमश्चेक नेत्रकः १७९
भुवनाष्टकमीश्वर तत्वे सादाख्ये सदाशिवभुवनम्
पादान्येकादश नित्यं योगिने योगपीठसंस्थिताय १८०
ध्रुवाय अनाश्रिताय अनाथाय शिवाय सर्वव्यापिने
व्योमरूपाय व्योमव्यापिने नित्यं योगिने इत्यादि १८१
व्योमव्यापिन्नन्तानि पदानि एवं पञ्चविधमध्वानम्
षड्विधया शान्तिकलया व्याप्तं सञ्चिन्तयेदिति षद्विधाध्वव्याप्तिः १८२
शान्त्यतीत कलायां पुनः शिवतत्वं वर्णाष्षोडश स्वराः
विसर्गाद्या अकारान्ताः शिवेशानमस्त्रं मन्त्रत्रयम् १८३
भुवनानि सप्त पञ्चादश निवृत्तिश्च प्रतिष्ठा च विद्याशान्ति
शान्त्यतीतायां बिन्दुकला भुवनानि इन्धिकादीपिकास्तथैव च १८५
रोचिका मोचिका ऊर्ध्व गामिनीति नादकलाभुवनानि
व्यापिनी व्योमरूपा अनन्ता अनाथा अनाश्रिता इति १८६
शक्तिकलाभुवनानि व्योमव्यापि मन्त्राद्यॐकार पदमित्येव मध्व पञ्चकम्
शान्त्यतीत कलायाम् व्याप्तं विभावयेत् इति १८७
षड्विधाध्व व्याप्तिः एवमेवात्र षडध्वव्याप्तिर्व्याख्याता ।
तत्रकला पञ्चतत्वानि षट्त्रिंशत् वर्णाः पञ्चाशत् मन्त्रान्येकादश भुवनानि
चतुर्विंशत्यधिकशतद्वयं पदान्येकाशीतिः । एवम् । १८८
षडध्वज्ञान सम्पन्नो मुच्यते पाशबन्धनात् । एवम् १८९
षडध्वाङ्गसम्पूर्णं सदाशिवमनुस्मरन्
कुलाध्वात्वङ्गसम्पूर्णं भुवनाध्वा रोमरूपधृक् १९०
वर्णाध्वसुत्वचोपेतं मन्त्राध्वरुधिरान्वितम्
पदाध्वान्त सिरामांसं शुक्लमज्जास्थितत्वगम् १९१
सदाशिवष्षडध्वात्मा तस्य प्राणश्शिवस्मृतः
हृदयाद्यङ्गसम्पूर्णो ध्याने सकळरूपधृक् १९२
कुन्देन्दुस्फटिकाभासं जटामकुटमण्डितम्
पञ्चमूर्धं पञ्चवक्त्रं नेत्रपञ्चदशैर्युतम् १९३
सर्वाभरणसंयुक्तं दशदोर्भिस्समन्वितम्
शूलं च परशुं खड्गं वज्राभयं च दक्षिणे १९४
पाशन्नागाङ्कुशं चैव घण्टां वह्निं च वामके
सद्यञ्चक्षीरसदृशं वामं रत्ननिभं भवेत् १९५
अघोरमञ्जनप्रख्यं पुरुषं कुङ्कुमप्रभम्
शुद्धस्फटिकवर्णाभं ईशानमुखमुच्यते १९६
ईशानं कनकं वर्णं मुखवर्णमिति स्मृतम्
दिव्याम्बरधरन्देवं दिव्यपुष्पैरलङ्कृतम् १९७
दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम्
स्थितमासीनशयनम् लिङ्गाकृतिविशान्नयेत् १९८
वर्धमानं स्थितं लिङ्गं आसीनन्तं शिवाधिकम्
त्रैराशिकं च शयनम् समखण्डं त्रिकर्मभाक् १९९
चतुर्विंशदंशकृतं लिङ्गमधो ब्रह्मभागं भवेध्वातु ।
रंशकम् । पुनर्मध्यमे विष्णुभागं वसुञ्च नवांशम् २००
शिवांशं भवेद्वर्धमानं । समभागं ब्रह्मविष्ण्वीशं शिवभागाधिकन्तथा
शिवाधिकमिति प्रोक्तं समखण्डं समं भवेत् २०१
एकत्रिंशति भागे तु शैवं ब्राह्मणवैष्णवम्
रुद्रा द्रुद्र मिति प्रोक्तं त्रैराशिकमिति स्मृतम् २०२
स्वायम्भुवादिलिङ्गानां समाकारं स्थितं भवेत्
स्थूलमूलं कुशाग्रन्तु आसीनन्तु प्रचक्ष्महे २०३
कुशमूलन्तु स्थूलाग्रं शयनमिति पठ्यते
त्रिकर्मभाक्स्थूलं स्याल्लिङ्गानामाकृति स्मृतम् २०४
पीठे शक्तिं समावाह्य तद्रू पमिति कथ्यते
उपानं पादमेवं स्याज्जगती जङ्घमुच्यते २०५
कुमुदं कुक्षिरित्याहुर्बाहुभ्यां फुल्लमेव च
कण्ठं कण्ठमिति प्रोक्तम् अधरमधरपट्टिका २०६
महापट्टिमुखं प्रोक्तं घृतवारि शिरस्तथा
मन्त्रोच्चारे स्मरेन्मन्त्री द्विनेत्रां द्विभुजान्विताम् २०७
रक्तवर्णान्त्रिभङ्गाङ्गीञ्चित्तवस्त्रेण वेष्टिताम्
सर्वाभरणसम्पूर्णां पीनोरुजघनस्तनाम् २०८
नूपुरैः पादजालैश्च उदरबन्धसम्युताम्
सुमुखां गन्धपुष्पाढ्यां केशालकविभूषिताम् २०९
पद्मोत्पल धरां देवीं वरदाभयपाणिनीम्
एवं ध्यात्वा सुपीठे तु गौरीदेहं विचिन्तयेत् २१०
षड्विंशतिकलाह्येता गौरीदेहे तु विन्यसेत्
अकारादिक्षकारान्त पूर्ववद्विन्यसेत्क्रमात् २११
वृत्तपीठे स्थितागौरी आसीनां भद्र पीठके
शयानां पद्मपीठे स्यादन्येषु च चराचरा २१२
एवं ध्यात्वा तु मन्त्रज्ञो सर्वपीठं विशेषतः
अग्नौ वा निरृतौ वापि स्थित्वा देवं प्रपूजयेत् २१३
हस्ताद्धीनं तु लिङ्गानां सुखासीनस्सुपूजयेत्
आधारं स्वाधिष्ठानं च मणिपूरमनाहतम् २१४
विशुद्धिराज्ञा स्थितं स्थानमित्येताधारशक्तयः
आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लिङ्गकम् २१५
मणिपूरन्नाभिमध्यं हृदयन्त्वनाहतन्तथा
कण्ठदेशं विशुद्धिश्च आज्ञा —–२१६
आधारमासनं प्रोक्तं आधेयः परमश्शिवः
नादं लिङ्गमिति प्रोक्तं बिन्दुः पीठमिति स्मृतम् २१७
न शिवेन विना शक्तिर्न शक्तया रहितश्शिवः
पुष्पेषु गन्धवद्ज्ञेयं तिलेषु तैलवत्तथा २१८
देहे च प्राणवच्छक्तिस्तस्माद्युक्तं प्रपूजयेत्
शिवशक्त्योश्च संयोगादन्यरूपं समुत्भवम् २१९
आदिशक्तिर्यथारूपं तद्रू पं च मनोन्मनी
मनोन्मन्या शिवसंयोगं सदाशिवगौर्युत्भवम् २२०
सदाशिवगौरीसंयोगान्महेशो भवानि चोत्भवम्
महेशनाम इत्याहुर्नृत्तमूर्तिरिति स्मृतम् २२१
महेश भवानि संयोगादुमारुद्र समुद्भवम्
उमारुद्र स्य संयोगाद्विष्णुश्रीभूमिचोद्भवम् २२२
हस्ताधिकप्रमाणे तु स्थित्वा देवं प्रपूजयेत्
विष्णुश्रीभूमिसंयोगाद्ब्रह्मागीश्च सावित्रिकम् २२३
ब्रह्मासरस्वती योगाददित्यज समुद्भवम्
ब्रह्मासावित्रिसंयोगादिति वेदसमुद्भवम् २२४
आदित्यजसम्मूर्गां दादित्यादि समुद्भवम्
द्वादशादित्यवसवो एकादश गुणाश्विनौ २२५
त्रयत्रिंशद्देवताह्येते स्वर्गलोकनिवासिनः
दितिधातासंयोगादैत्यराक्षसयोर्भवम् २२६
आदित्यात्संसृता कालो उषादेवी समुत्भवम्
आदित्योषससंयोगान्मृगपक्षिस्त्वजायत २२७
मृगपक्ष्योस्सुसंयोगात्पक्षिजातिस्तु संसृता
रक्षो यक्षसुसंयोगात्सर्वा अमृतिसंसृता २२८
सर्पो अमृति संयोगात्सरीसृपवृषसम्भवम्
सरीसृपवृषसंयोगाद्वृक्षाणां सम्भवस्मृता २२९
एवन्नरो मृगश्चैव पशुपक्षिसरीसृपम्
वृक्षाणामेव सर्वेषां यथाक्रमेण संस्मृता २३०
महदव्यक्तसङ्काशमव्यक्तादाकाशकं स्मृतम्
आकाशाद्वायुस्सञ्जातः वायोरग्निस्तु सम्भवः २३१
अग्नेरापस्समुद्भूतारद्भ्यः पृथिवी च संसृता
पृथिव्यप्तेजवाय्वाकाशसमवायं प्राणतो स्थितम् २३२
तस्य प्राणस्य विभिन्न घटाकाशवदीरितम्
घटच्छेदस्य काले तु आकाशात्प्राणतो स्थितम् २३३
सर्वप्राणिस्तु जननं सर्वप्राणिलयन्तथा
आकाशवल्लिङ्गमित्याहुर्वायुना लिङ्गमुच्यते २३४
लिशब्दात्प्रापणो दर्शं गंशब्दाद्गमनं स्मृतम्
सर्वप्राणिस्तु गमनं सर्वप्राणि लयं भवेत् २३५
लिङ्गनाममिति प्रोक्तं तल्लिङ्गं सम्प्रपूजयेत्
सदागर्भाकारगृहे पूजयेत्तु सदाशिवम् २३६
तत्वानामादितत्वन्तु शिवतत्त्वमिति स्मृतम्
द्वितीयं शक्तितत्वं तु तृतीयं सादाख्यकं स्मृतम् २३७
चतुर्थमीशतत्वं तु पञ्चमं शुद्धविद्यका
शुद्धतत्वमिति प्रोक्तं शिवतत्वादिपञ्चकम् २३८
इच्छाज्ञानक्रियाशक्तिश्शिवलीला इति स्मृतम्
ज्ञानक्रियाख्ययो शक्त्योरपकर्षोत्कर्षयोरिव २३९
तत्सादाख्यमिति ख्यातं इच्छाशक्तेस्तु जन्यते
अल्पज्ञानं क्रियाधिक्यमीशत्तत्वमिति स्मृतम् २४०
अल्पज्ञानं क्रियाहीनं विद्यातत्वमिति स्मृतम्
विद्यारुद्र मिति ख्यातं शुद्धतत्त्वं च पञ्चधा २४१
मायाद्यवनिपर्यन्तन्तत्वलक्षणमुच्यते
मायायाः कालसम्भूति मायायान्वियति स्मृतः २४२
मायायां कला सम्भूतिमशुद्धतत्वमिति स्मृतम्
तत्कलारुद्र सम्भूतिं विद्यारागविनिर्गतम् २४३
रागादव्यक्तजननं अव्यक्ताद्गुणसम्भवम्
तद्गुणं त्रिविधं प्रोक्तं सात्विकादिमहागुणम् २४४
सात्विकं राजसं चैव तामसं च क्रमात्स्मृतम्
गुणाद्बुद्धिस्तु सञ्जाता बुद्धेरहङ्कारसंस्मृता २४५
तेजसोहङ्काराज्जननमित्यभिधीयते
ततो वैखारिकमहङ्काराद्बुद्धीन्द्रि यं प्रसूयते २४६
भूतादिकादहङ्कारात्तन्मात्रं पञ्चसम्भवम्
मनेन्द्रि यादि तन्मात्रारहङ्कारेषु जन्यते २४७
तन्मात्रपञ्चभूतानि अहङ्कारेषु जन्यते
यथाजातमिदं सर्वं तथालयं प्रकीर्तितम् २४८
मायाद्यवनिपर्यन्तन्तत्वलक्षणमीरितम्
सर्वेषामपि तत्वानां शिवाज्जन्यं ततो लयम् २४९
नादबिन्दुकलाह्येते सदाशिव —-ताः
देवचेतनावर्गं सदाशिवसमायुतम् २५०
तदेव वर्गमित्युक्तं अचेतनमिति स्मृतम्
अनन्तेशादि विद्येशाः ईशतत्वाद्विनिर्गताः २५१
मन्त्रमर्थं इदं सर्वं विद्यातत्वे तु सम्भवम्
एवमेव प्रकारेण तत्त्वामामुत्भवं स्मृतम् २५२
एवमेवं गृहीतार्थशिवलिङ्गार्चनं कुरु
अज्ञानी स्पर्शनाल्लिङ्गं सर्वदोषमिति स्मृतम् २५३
तस्मात्सर्वप्रयत्नेन ज्ञानी पूजां समाचरेत्
उदिते तु संस्पृष्टम् सर्वसम्पत्सुखावहम् २५४
अस्तमयोदितं संस्पृष्टं यथालिङ्गं प्रकीर्तितम् २५५
अस्तमयास्तमनं स्पृष्टं सर्वदोषमिति स्मृतम्
उदितास्तमयं मन्त्रं शिवमन्त्रेण पूजयेत् २५६
शुद्धात्मा शिवसंस्कारी अध्वमार्ग सुपूजयेत्
भगमध्ये स्थितं लिङ्गं लिङ्गमध्ये स्थितं भगम् २५७
सदाशिवासनाल्लिङ्गं लिङ्गमासनपिण्डिका
पिण्डिकासनभूमिस्थन्देशिकस्थानमासनम् २५८
एवं ध्यात्वा तु मनसा पराशक्तिस्तु जन्यते
अम्बी चैव गणाम्बी च गङ्गै गौरी उमात्मिका २५९
ईशानस्याम्बिका चैव तत्पुरुषस्य गणाम्बिका
गङ्गावाममुखाशक्तिर्गौरी सद्यस्य शक्तिका २६०
अघोरस्य उमा ज्ञेया शक्तिरित्यभिधीयते
चन्द्रा र्कनाशयजनं सर्वसम्पत्सुखावहम् २६१
सङ्क्रान्तौ विषुवे पूजा न कर्तव्या कदाचन
अर्केन्दु चरिता पूजा निष्फलन्त्विति कीर्तितम् २६२
निर्माल्यं च विसृज्याथ लिङ्गं पीठं च वारिणा
निर्माल्यं च विसृज्याथ लिङ्गं पीठं च वारिणा २६३
शोधयित्वाक्षाळयित्वा पुनः पुस्पन्निधापयेत्
लिङ्गशुद्धिरियं प्रोक्ता मन्त्रशुद्धिमतश्श्रुणु २६४
पञ्चब्रह्मषडङ्गं च क्षुरिकां पाशुपतास्त्रकम्
व्योमव्यापिशिवाख्यं च शक्तिमन्त्रं च पाणिकम् २६५
गायत्रीं चैव सर्वेषां श्रीसूक्तं च तथैव च
विद्येश्वरगणेशं च दिक्पालकदशायुधम् २६६
दशाक्षरं कूटाक्षरं चैव परिवारद्वारपालकम्
श्रीसूक्तं पवमानं च पुरुषसूक्तं त्र्यम्बकम् २६७
ब्रह्मसूक्तं विष्णुसूक्तं गौरीगायत्रिमन्त्रकम्
अरुणन्त्वरितरुद्रं च ज्येष्ठसामन्तथैव च २६८
विकर्णं जातवेदं च देवस्यत्वेति मन्त्रतः
दुर्गासूक्तमुमासूक्तं परिवारद्वारपालकम् २६९
गाणपत्यं स्कन्दमन्त्रं सूर्यमन्त्रं सरस्वती
अन्यत्सर्वेषु देवानां पूजासमुद्धरेत् २७०
आलयान्तर्गतं लिङ्गं लिङ्गस्यान्तर्गतं शिवम्
कुम्भमध्ये तु संस्थाप्य किं लिङ्गे न्यासयेच्छिवम् २७१
यथा कुण्डतलञ्चाग्नि तथा विहरिणा ज्वला
प्राणप्रकृतिस्तं बन्धं लिङ्गं जङ्गमथान्यसेत् २७२
यत्र पूजाहृतो मन्त्रतन्त्रमन्त्रं समुच्चरेत्
उमास्कन्दादिदेवानां तस्य लीलान्तु भावयेत् २७३
स्थितञ्च नृत्तमूर्तिञ्च शयनं किं समर्चनम्
आचार्यं मनसा ध्यात्वा आसनं सम्प्रकल्पयेत् २७४
तस्य रूपेण सम्पूज्य तत्र मन्त्रं समुच्चरेत्
ओङ्कारादिनमोन्ताश्च -मन्त्रान् समुद्धरेत् २७५
पञ्चशुद्धिक्रमं ज्ञात्वा पश्चादेव समुच्चरेत्
मुखमण्डलद्वारेषु द्वारपालान् समर्चयेत् २७६
कृताञ्जलिपुटास्तिष्ठन् तत्स्थले नन्दिकेश्वरम्
दक्षिणे महाकाळो पूर्वद्वारे प्रकीर्तिताः २७७
नन्दिसूचिमुखो हस्तकृताञ्जलिश्च दक्षिणम्
दण्डधारी नागधारी वामहस्तप्रकीर्तितम् २७८
हलपद्माञ्जली चैव दक्षिणे काळहस्तकम्
दण्डाधराञ्च मुद्गाञ्च वामहस्तञ्च काळकम् २७९
वामपादञ्च दण्डाध्वकुञ्चितं दक्षिणस्थितम्
किञ्चित्त्रिभङ्गिगङ्गायां वामपादस्तु कुञ्जितम् २८०
कराण्डमकुटोपेतं कराळवक्त्रदंष्ट्रकम्
त्रिनेत्रं चतुर्भुजञ्चैव रौद्र भावसमन्वितम् २८१
कटिसूत्रोदरबन्धं च यज्ञोपवीतनागभाक्
एवं लक्षणसंयुक्तं पद्मपीठोपरि स्थितम् २८२
गन्धपुष्पादिभिः पूज्य स्वनाम्ना चैव देशिकः
नन्दीशो रक्तवर्णं स्यात्काळकं रक्तवर्णकम् २८३
सर्वाभरणसंयुक्तं उग्ररूपं च ध्यानकम्
तस्य रूपेण सम्पूज्य तत्र मन्त्रं समुच्चरेत् २८४
अथवान्यप्रकारेण हस्तरूपं च वक्ष्यते
नन्दिनं श्यामवर्णन्तु द्विहस्तं परशुसम्युतम् २८४
परशुं वामहस्ते तु दक्षिणे वेणुकीलकम्
नन्दीशं कुङ्कुमाभन्तु परशुं वेणुदण्डकम् २८५
द्विनेत्रौ द्विभुजौ चैव नन्दिकाळावथो पुनः
पूर्वद्वारे स्थितौ यत्र नन्दिकाळौ महात्मकौ २८६
अनन्तः पशुपतिश्चैव दक्षिणद्वारपालकौ
अनन्तो रक्तवर्णस्तु वज्रायुधसमन्वितः २८७
पशुपतिर्नीलवर्णस्तु शक्तिहस्तोग्रलोचनः
पश्चिमद्वारपालौ तु दण्डिमुण्डी तथैव च २८८
दण्डी धरेन्द्र चापाभो खद्गहस्तोग्रदंष्ट्रकः
मुण्डीकुन्देन्दुवर्णस्तु भिण्डिपालायुधस्तथा २८९
विजयश्चैव भृङ्गीशो उत्तरद्वारपालकौ
विजयश्चेन्द्र कोपाभश्शूलहस्तो भयङ्करः २९०
भृङ्गीशो भृङ्गवर्णस्तु क्षुरिकायुधयुक्
त्रिभङ्गी कुञ्चितं पादं उग्रदंष्ट्रं समं विदुः २९१
प्रासादमण्टपद्वारे द्वारे चैव प्रकीर्तिताः
गोपुरद्वारदेशेषु भूताकाराणि कारयेत् २९२
संवर्तं च त्रिधावर्तं कुण्डोदरं महोदरम्
सिंहं गजमुखं चैव एकपादन्त्वधोमुखम् २९३
श्वेतश्श्याम निभास्सर्वे खड्गहस्तसमन्विताः
केचिच्छूलायुधाश्चैव द्वारे द्वारेषु भूतकाः २९४
प्राकारगोपुरेष्वेवञ्चतुर्द्वारेषु कल्पितम्
शङ्खवर्णं काळवर्णं मण्टपद्वारकल्पितम् २९५
अभयं शूलहस्तं च द्विनेत्रं श्यामवर्णकम्
वानरमुखं श्यामवर्णं नृत्तमण्टपभूतकाः २९६
बहिर्गोपुरद्वारेषु भूतमेवं प्रचक्ष्महे
ऊर्ध्वपादं विरूपाक्षं कमलकं वक्त्रपादकम् २९७
वामनं गळकं चैव दण्डपालं महाबलम्
महागोपुरद्वारेषु सर्वादीनि प्रकल्पयेत् २९८
श्यामं पीतनिभञ्चैव शूलायुधं च पाशयुक्
द्विनेत्रा द्विभुजाश्चैव द्वारे द्वारे च भूतकाः २९९
पश्चिमालयद्वारे तु सुलभं सुमुखं यजेत्
श्वेतपीतनिभाश्चैव वेणुदण्डधरान्विताः ३००
सर्वेषां द्वारपालानां पुंस्त्वं पुंस्त्वं प्रकल्पयेत्
स्त्रीद्वारे स्त्रीत्वमेवं स्याद्यथाक्रमेण कल्पयेत् ३०१
द्वारस्थान्प्रथमं यष्ट्वा द्वारपालां द्वितीयकम्
वृषभादीन्तृतीयन्तु इन्द्रा दींश्च चतुर्थकम् ३०२
पञ्चमं भद्र पीठन्तु कृत्वेवं बहिरावृतम्
यत्र यत्र मुखद्वारं कवाटार्धन्तु देशिकः ३०३
तत्र तत्र विशेषेण सप्तदेवान्प्रपूजयेत्
ऊर्ध्वाधस्कन्धपट्यां च विघ्नेशं पूजयेद्बुधः ३०४
गङ्गां च यमुनां चैव श्रीदेवीं च सरस्वतीम्
दक्षिणे दक्षिणे चैव यथाक्रमं यजेद्बुधः ३०५
भुवङ्गं च पतङ्गं च योगद्वयमिहोच्यते
विमलं च सुबाहुं च पूजयेत्तु कवाटयोः ३०६
विमलन्दक्षिणे पूज्यसुबाहुं वामके यजेत्
स्वनामाद्येन मन्त्रेण पूजयेत्तु विशेषतः ३०७
वृषादिबलिपीठान्तं परिवारं प्रपूजयेत्
पूर्वे तु वृषभं पूज्य तीक्ष्णशृङ्गाय मन्त्रतः ३०८
आग्नेय्यां चैव दुर्गां च कात्यायनीति मन्त्रतः
दक्षिणे सप्तमातॄश्च वर्णवाहनचिह्नधृक् ३०९
स्वनामाद्यक्षरेणैव पूजयेत्तु विशेषतः
पूर्वे तु वीरभद्रं च विनायकं पश्चिमे यजेत् ३१०
वीरभद्रं च विघ्नेशं सप्तमातॄश्च पूजयेत्
नैरृत्यां गणपं पूज्य गणानान्त्वेति मन्त्रतः ३११
वारुण्यां सुकुमारन्तु सुब्रह्मण्याय मन्त्रतः
वायौ ज्येष्ठां च सम्पूज्य काकध्वजायमन्त्रतः ३१२
सौम्ये विष्णुं समभ्यर्च्य इदं विष्ण्विति मन्त्रतः
ऐशाने चण्डमभ्यर्च्य चण्डेशायेति मन्त्रतः ३१३
इन्द्रा दिलोकपालांश्च वर्णवाहनचिह्नधृक्
स्वनामाद्यक्षरेणैव पूर्वादीनि प्रदक्षिणम् ३१४
अस्त्राणि पूजयेत्तत्र बालयौवनदेवतान्
आमोदं च प्रमोदं च प्रमुखन्दुर्मुखन्तथा ३१५
अविघ्नोऽविघ्नकर्तारौ बलिपीठे तु पूजयेत्
भूतपीठस्य चाग्रे तु इन्द्र पीठन्तु कल्पयेत् ३१६
आग्नेयादीशपर्यन्तं स्वस्वस्थाने प्रपूजयेत्
अन्तर्मण्डलबाह्ये च वशिन्यन्तरकेऽपि वा ३१७
इन्द्रा दिलोकपालांश्च पूजयेत्तु विशेषतः
द्वारस्योत्तरपार्श्वे तु ब्रह्माणं पूजयेद्बुधः ३१८
पितामहेशयोर्मध्ये द्वादशादित्यकान्यजेत्
भास्करक्षेत्रपालौ च शाङ्करे दिशि चार्चयेत् ३१९
पूर्वपावकयोर्मध्ये अश्विनौ सम्प्रपूजयेत्
आग्नेय यमयोर्मध्ये पूजयेत्सप्तरोहिणीः ३२०
याम्यनैरृतयो मध्ये पितृस्थानं विधीयते
निरृतिवरुणयोर्मध्ये अप्सरो गणमेव च ३२१
वरुणवायव्ययोर्मध्ये मुनीनां पूजयेद्बुधः
वायव्यसोमयोर्मध्ये अष्टौ च वसवो यजेत् ३२२
उत्तरेशानयोर्मध्ये रुद्रे कादश पूजयेत्
द्विप्रकारेऽथवा यत्र त्रिःप्रकारेऽथवा पुनः ३२३
एक प्राकारस्थाने तु उक्तस्थाने तु पूजयेत्
उक्तस्थाने तु सम्पूज्य बलिपीठन्ततोच्यते ३२४
बलिपीठन्ततः कृत्वा चतुर्दिक्षु विशेषतः
बाह्याभ्यन्तरपीठं वा पूर्वद्वारे तु विन्यसेत् ३२५
अभ्यन्तरे भूतपीठं वा बाह्यपीठे पिशाचकम्
यक्षाणां दक्षिणे पीठं राक्षसानान्तु पश्चिमे ३२६
गन्धर्वाणान्तु सौम्ये तु मध्यमं पूर्वपश्चिमे
अधमन्तु तदग्रे तु अथवाभ्यन्तरे बुधः ३२७
स्वनामाद्येन मन्त्रेण ॐकारादि नमोन्ततः
हुङ्कारेण तु मन्त्रेण महाघण्टान्तु ताडयेत् ३२८
अस्त्रमन्त्रं समुच्चार्य पटन्तत्रापनीय च
गर्भगेहं ततः प्राप्य गर्भद्वारे तु पूजयेत् ३२९
ज्ञानशक्तिन्दक्षिणे पूज्य क्रियाशक्तिमथोत्तरे
द्विभुजां श्यामवर्णां च स्वनामाद्येन पूजयेत् ३३०
गर्भगेहन्ततः प्राप्य आसीनो वा स्थितोऽपि वा
शङ्खतोयस्य तन्मध्ये अमृतं धेनुमुद्र या ३३१
शिवमन्त्रं न्यसेत्पश्चात् गन्धपुष्पैः कुशैर्युतम्
शक्तिरेवासनं प्रोक्तं आधारक्रमयोगतः ३३२
चतुष्कोणे महासिंहमासनं पादनिर्मितम्
चतुरश्रायतं प्रोक्तं स्नाने सिंहासनं भवेत् ३३३
योगासनं दशाश्रन्तु चित्रवर्णं सुशोभनम्
दशाक्षरेण विन्यस्य पूर्वादीनि प्रदक्षिणम् ३३४
चतुष्पदं महावृत्तं चतुर्वेदन्तु धारकम्
गुणत्रयेण सञ्छाद्य चतुर्दिक्ष्वीळकान्यसेत् ३३५
एवं योगासनं प्रोक्तं आवाहयेत्सदाशिवम्
पूर्वोक्तलक्षणैर्युक्तं सद्यमन्त्रेण वाहयेत् ३३६
आवाहनासनं योगं स्नाने विमलमासनम्
पादे पाद्यं हृदा दधादाचमनन्तु दापयेत् ३३७
सिंहासनं ध्यायेन्मन्त्री अभिषेकं समाचरेत्
जलद्द्रोणाञ्जलं ग्राह्य गण्डिकाभिरभिषेचनम् ३३८
आढका पूरितान्गण्डी क्रमेण स्नापयेद्बुधः
आमलीफलचूर्णैश्च शिवमन्त्रैरभिषेचनम् ३३९
पिष्टचूर्णेन वालिप्य देहं सम्मर्द्य देशिकः
स्नापयेत्तु शनैश्चैव क्रमेणेव तु पूजयेत् ३४०
गन्धपुष्पैश्च धूपैश्च अन्तरेण तु चार्चयेत्
रजनीलेपनं पश्चात् गन्धोदकैश्च पूजयेत् ३४१
त्रिभारमुत्तमं प्रोक्तं द्विभारं मध्यमं स्मृतम्
अष्टौ द्रो णमधमं ज्ञेयं पूजयेत्तु जलैः क्रमात् ३४२
उशीरं चन्दनं चैव एलञ्चैव जलोषितम्
मन्त्रपुष्पं च संयोज्य महाहविः प्रदापयेत् ३४३
स्नानान्ते वस्त्रमावेष्ट्य आर्दवस्त्रं परित्यजेत्
वेदाध्ययनं चतुर्दिक्षु वाद्यगीतसमन्वितम् ३४४
पञ्चब्रह्मशिवाङ्गैश्च त्र्यम्बकं विष्णुसूक्तकम्
ब्रह्मसूक्तं गैरिसूक्तं श्रीरुद्रं पवमानकम् ३४५
षट्सूक्तमरुणं चैव त्वरितरुद्र मतः परम्
स्वस्तिसूक्तं च सर्वेषां जपेत पूजाकालके ३४६
दशाक्षरेण मन्त्रेण हृदये नैव विन्यसेत्
अथानन्तासनं कल्प्यार्चयेत्तु विशेषतः ३४७
शक्तिबीजाङ्कुरन्यायं पश्चाद्धर्मादि विन्यसेत्
धर्मज्ञानं च वैराग्यं ऐश्वर्यन्दिक्षु विन्यसेत् ३४८
गुळिका चतुर्युगाज्ञेया पुरुषाकारा नपुंसका
श्वेतं रक्तं तथापीतं कृष्णं तेषान्तु वर्णकम् ३४९
ऐशान्ये तु शिरोयुग्मं पादयुग्मन्तु नैरृते
आग्नेय्यान्तु चतुष्पादं वायव्यान्तु चतुष्पदा ३५०
तस्योपरि न्यसेदेतान् अष्टौविद्येश्वरान्क्रमात्
अनन्ताद्येकनेत्रान्तं पूर्वादिषु च विन्यसेत् ३५१
ईशानादिषु कोणेषु एकरुद्रा दिकन्न्यसेत्
जपानिभं च कुन्दाभं बन्धूकाशोककुङ्कुमम् ३५२
पद्माभमञ्जनाभं च विद्येशानां तु वर्णकम्
त्रिणेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम् ३५३
वरदाभयहस्तं च कृष्णं परशुधारिणम्
एवन्न्यस्त्वा विधानेनानन्तासनमिहोच्यते ३५५
अनन्तासनमर्चयेदेवं गन्धं पुष्पादिभिः क्रमात्
अङ्कुरं जातमूर्ध्वे तु नाळपद्मं सकर्णिकम् ३५६
ऊर्ध्वे दळाष्टकोपेतं केसरैश्च समायुतम्
ध्यात्वा चैव समालोच्य शक्तीश्चाष्टदळे न्यसेत् ३५७
वामाज्येष्ठा च रौद्री च पश्चिमोत्तरदक्षिणे
काळीं चैन्द्रे तु विन्यस्य कलविकणीं तु वामके ३५८
बलविकरणीं तु नैरृत्यां बलप्रमथिनीं च वायवे
सर्वभूतदमनीम्मनोन्मनीमुत्तरेशानके दिशि ३५९
अतसीकुसुमप्रख्यां द्विनेत्रां चैव धारिणीम्
वामाज्येष्ठाधूम्रवर्णा पाशहस्तामहाबला ३६०
बलविकरणी कृष्णा परशुहस्ता त्रिनेत्रका
बलप्रमथिनी देवी रक्तवर्णायुगायुधा ३६१
सर्वभूतदमनी देवी गदाहस्ता सुगाम्बरी
शुद्धस्फटिकवर्णाभा मनोन्मनी चाक्षमालिनी ३६२
एवं ध्यात्वा विधानेन गन्धपुष्पादिनार्चयेत्
सद्यमङ्कुरसंयुक्तं वामदेवन्तु नाळकम् ३६३
अघोरदळसङ्कीर्णं पुरुषं कर्णिकाभवेत्
ईशानं चैव पत्राणि पद्मलक्षणमीरितम् ३६४
एवं पद्मासनं प्रोक्तं तस्योर्ध्वे स्थापयेच्छिवम्
पाद्यमाचमनं दद्यात्सद्यवामेन मन्त्रतः ३६५
अर्घ्यं शिरसि विन्यस्य पुरुषेणैव पुष्पकम्
वस्त्रं दद्याद्धृता पश्चात् वामेनाचमनं ददेत् ३६६
पवित्रं हृदयमन्त्रेण कवचेनोपवीतकम्
गन्धन्दत्त्वा तु वामेन पुष्पमीशानमन्त्रतः ३६७
मकुटं कुण्डलं चैव कटिसूत्रोदरबन्धनम्
शिखामन्त्रेण दातव्यम् हारं हृदयमन्त्रतः ३६८
भूषणैर्हेमपुष्पं च दापयेद्धृदयेन तु
सुवर्णतोरणं स्वर्णप्रभां पत्रछेदफलान्वितम् ३६९
कवचेन तु दातव्यम् चित्रवस्त्रेण वेष्टयेत्
दुकूलपट्टदेवाङ्गैः कम्बली पञ्चवर्णकम् ३७०
सर्वाभरणसंयुक्तं पुष्पमालाविभूषितम्
धूपन्दद्याद्यथान्यायं क्रमेणैव विशेषतः ३७१
अगरुं चन्दनं चैव निर्यासं गुग्गुलुन्तथा
कर्पूरं कस्तूरिकां चैव मधुसर्पिगुळैर्युतम् ३७२
सर्वगन्धसमायुक्तं धूपन्दद्याद्यथाक्रमम्
लिङ्गं पीठं विशेषेण चन्दनैर्लेपयेद्धृदा ३७३
कस्तूरीकर्पूरसंयुक्तं वेष्टयेल्लेपनन्तथा
तदूर्ध्वे वस्त्राभरणं दद्यात्पश्चाद्धूपं प्रदपयेत् ३७४
प्रच्छन्नपटमावर्ज्य महाघण्टान्तु ताडयेत्
धूपं पूर्वेण दातव्यं घण्टानादसमन्वितम् ३७५
हस्तेन घण्टां सङ्ग्राह्य शिखरं हस्तसंयुतम्
दक्षिणे धूपमादाय कपित्थहस्तसंयुतम् ३७६
एवं धूपं प्रदातव्यं आचमनन्तु दापयेत्
पुष्पं हस्तेन सङ्ग्राह्य पताकावक्त्रसंयुतम् ३७७
ऊर्ध्वाधौ पञ्चमुखन्दत्वा पश्चाज्जलन्तु दापयेत्
दीपन्दद्यात्तदन्ते तु घण्टानादसमन्वितम् ३७८
जलन्दत्त्वा शङ्खपात्रे हस्तद्वयसमन्वितम्
पुष्पाञ्जलिं ततः कृत्वा सुरभिमुद्रा ंप्रदर्शयेत् ३७९
लिङ्गमुद्रा ंततः प्राप्य नीराजनन्तु दापयेत्
मुखवासेन सत्भस्म प्रदद्यात्पञ्चमूर्धसु ३८०
ललाटहृदयन्नाभिं पादञ्चैव यथाक्रमम्
बाहुद्वयं च कर्णौ च पृष्ठं ग्रीवासमन्वितम् ३८१
अथवान्य प्रकारेणाष्टत्रिंशत्कलान्वितम्
भस्मदद्याद्विशेषेण तथा षोडश सन्धिषु ३८२
हस्तं प्रक्षाळ्य तत्काले तथागौरीं सुपूजयेत्
सकळार्चनं ततः पश्चादाचमनोक्तक्रमेण तु ३८३
लिङ्गानामर्चनान्ते तु पञ्चावरणकं यजेत्
ब्रह्माङ्गकानां प्रथमावृतिस्स्या विद्येश्वराणां च गणेश्वराणां
दिक्पालकानां च दशायुधानां ईशस्य पञ्चावरणं क्रमेण
पञ्चावरणमिति प्रोक्तं तत्तद्देशेषु विन्यसेत् ३८५
शुक्लं र्शक्तं तथा कृष्णं पीताभं क्षीरसन्निभम्
सद्यादि ब्रह्मवर्णास्स्युस्त्रिनेत्राश्च चतुर्भुजाः ३८६
टङ्कशूलसमायुक्ता अभयवरदान्विताः
शान्तमीशानमित्युक्तं अन्ये रौद्रा इति स्मृताः ३८७
हृदयं शिरश्शिखाकवचं अस्त्रनेत्रसमन्वितम्
षडङ्गैश्च समभ्यर्च्य ब्रह्माङ्गं पूजयेत्ततः ३८८
जपानीलं च कुन्दाभं बन्धूकारुणकुङ्कुमम्
पद्माभमञ्जनाभं च विद्येशानां च वर्णकम् ३८९
त्रिनेत्रं चतुर्भुजं सौम्यं जटामकुटमण्डितम्
वरदाभयहस्तं च कृष्णापरशुधारिणम् ३९०
एवं लक्षणसंयुक्तान्विद्येशान्पूजयेद्बुधः
शुद्धकाञ्चनवैडूर्य पद्मरागसमप्रभम् ३९१
मस्तकं बिसिनी पत्रम् शारदाभ्रकसन्निभम्
रजतं रक्तवर्णं च गणेशानान्तु वर्णकम् ३९२
पूर्वोक्तलक्षणैर्युक्तं गणेशानान्तु पूजयेत्
श्वेतं रक्तं तथा नीलं पीतं शुक्लं च धूम्म्रकम् ३९३
रजतं शुक्लनिभञ्चैव दिक्पालानान्निभं भवेत्
तत्तदायुधवर्णन्तु तत्तद्रू पसमायुतम् ३९४
गजमजं महिषं सिंहं मेघं कूर्ममृगन्तथा
वृषभवाहनमेतेषां इन्द्र वाहनमेव वा ३९५
एवं पञ्चावरणपूजानां गन्धपुष्पसमायुतम्
पञ्चावरणकं पूज्य पश्चाद्धूपन्ददेद्बुधः ३९६
धूपं दीपं च पुष्पं च तालवृन्तं च चामरम्
व्यजनं दर्पणं चैव हृदयेन प्रदापयेत् ३९७
सकळाराधनं पश्चान्नृत्तगेय समायुतम्
सकळार्चनकाले तु पञ्चमावरणं विना ३९८
पश्चाद्विमलासनं कल्प्य भोजनासनमेव तु
वृत्तन्तु विमलं प्रोक्तं शुद्धस्फटिकसन्निभम् ३९९
गणाम्बिकामुत्तरे न्यस्य ऐन्द्रे चैव महातपा
ततो गौरीं तु याम्यायां वारुणे तु प्रचोदयात् ४००
पीतं शुक्लं तथा श्वेतं कृष्णन्तेषान्तु वर्णकम्
द्विनेत्राश्चारुवदनाः पीनोन्नतपयोधराः ४०१
चतुर्षु दिक्षु संस्थाप्य गन्धादिभिस्समर्चयेत्
विमलासनो परिष्टान्तु सदाशिवन्तु ध्यानयेत् ४०२
नैवेद्यं विधिमार्गेण हविर्देवे समर्पयेत्
एवमासनमाख्यातं तत्तत्काले तु कल्पितम् ४०३
आवाहनासनं योगं स्नाने सिंहासनं भवेत्
अर्चनायां महापद्मं विमलं भोजनासनम् ४०४
पञ्चासनमिति ख्यातं पञ्चभूतात्मिकास्त्विमे
तत्तत्काले प्रकल्प्याथ आसनन्तु यथाक्रमम् ४०५
सिंहासनं चतुरश्रं योगासनन्मथाश्रकम्
पद्मासनमॐस्यादनन्तासनन्तु कूर्मवत् ४०६
वृत्तन्तु विमलं प्रोक्तं आसनाकारमेव च
श्वेतं रक्तं तथा पीतं कृष्णं चैव विचित्रितम् ४०७
गुणत्रयेण सञ्छाद्यम्मध्यपादन्तु केशवः
आसनानान्तु सर्वेषां पट्टमाच्छादयेत्ततः ४०८
अग्निसूर्यशशाङ्कैश्च क्रमेणोपरिविन्यसेत्
रजश्चैव तमश्चैव सात्विकं चोपरिन्यसेत् ४०९
आत्मानं चान्तरात्मानं परमात्मानकं न्यसेत्
गन्धादिभिस्समभ्यर्च्य हृदयेन स्वबीजयुक् ४१०
ध्यात्वा सदाशिवं देवं पूर्वोक्तलक्षणैर्युतम्
एवं ध्यात्वा तु मनसा सदाशिवं प्रपूजयेत् ४११
पूर्वाह्ने ब्रह्मजज्ञानं मध्याह्ने तु त्र्यम्बकम्
इदं विष्ण्विति मन्त्रेण सायं काले तु पूजयेत् ४१२
पार्थिवान्तमधः कन्दन्नाळं वह्ण्यन्तमेव च
आकाशान्तं हि पीठं स्यात्पञ्चभूतात्मिकास्त्विमे ४१३
पृथिव्यन्तं योगासनं सिंहासनमपान्तकम्
अनन्तमग्न्यन्तकं प्रोक्तं पद्मं वायुरिति स्मृतम् ४१४
आकाशान्तन्तु विमलं पञ्चभूतात्मिकास्त्विमे
एवमासनं कल्प्य यथाक्रमेण पूजयेत् ४१५
विमलासनस्य चोर्ध्वे तु हविश्चैव प्रदापयेत्
आढकं वा तदर्धं वा द्रो णं द्रो णार्धमेव वा ४१६
शालिस्वर्णमयं प्रोक्तं तण्डुलं शुक्लवर्णकम्
तत्समं मुद्गसारं च तदर्थं वापि पाचयेत् ४१७
गुळखण्डमाज्यपयसां दधिपयसमन्वितम्
उपदंशसमायुक्तं नाळिकेरन्तु दापयेत् ४१८
निवेदयेत्पुरुषेणैव दिग्बलिं च समाचरेत्
सकळानान्तु सर्वेषां परिवारान्निवेदयेत् ४१९
नित्याग्निं कारयेत्पश्चात् अग्निकार्योक्तमाचरेत्
नित्योत्सवन्ततः कृत्वा नृत्तगेयसमन्वितम् ४२०
हविःकाले मन्त्रगेयं स्याच्छुद्धनृत्तन्तु कारयेत्
चुळुकोदन्ततः पश्चात् आगमार्चनमाचरेत् ४२१
एवं प्रातस्तु मध्याह्णे सायं काले समाचरेत्
किं चिदस्ति विशेषोस्ति सायं कालस्य पूजने ४२२
रात्रे रादौ ततः प्राप्य नृत्तमण्टपशोधनम्
प्रोक्षयेत्पुरुषेणैव पूर्वपुष्पं व्यपोह्य च ४२३
नृत्तमूर्तिमलं कृत्य शुद्धनृत्तं च ध्याययेत्
गणिकानां च सर्वासां अलङ्कृत्य विशेषतः ४२४
वाद्यगेय समायुक्तं चतुष्षष्टिकरणान्वितम्
वाद्यकाद्वाचयेन्नित्यं तदन्ते धूपदीपकम् ४२५
सायरक्षाप्रदातव्या शास्त्रमार्गेण देशिकः
सायरक्षा प्रदातव्या भूतपात्रं च निक्षिपेत् ४२६
लवणं कार्पासकं भस्म दीपपात्रे तु पुष्पकम्
पञ्चपात्रं समारोप्य त्रिपाद्यान्देव पूर्वके ४२७
गन्धं पुष्पं च धूपं च पात्राणां च पृथक्पृथक्
सुरभिमुद्रा प्रदातव्या दिग्बन्धं चाविकारिणा ४२८
दीपञ्चैक त्रिपञ्चैव सप्तमन्नव कल्पयेत्
त्रिवारभ्रमणं चैव देवदेव्याश्च कारयेत् ४२९
लवणकार्पासभस्मानि त्रिः भ्राम्य विसृज्य च
दीपेन सर्वं निक्षिप्य रुद्र कन्यै प्रदापयेत् ४३०
पीठाग्रे तु विनिक्षिप्य एवं सायं क्रमान्न्यसेत्
सायरक्षा प्रदातव्या पश्चात्पूजां समाचरेत् ४३१
अहङ्कारं विना यत्र सायं काले तु रक्षकम्
नीराजनसर्वकाले भस्म चैव विनिक्षिपेत् ४३२
अथवान्यप्रकारेण रात्रिकाले विशेषतः
मकुटं कर्णपुष्पं च अर्धचन्द्रं च गोळका ४३३
यज्ञोपवीतकटकं हेमरत्नसमायुतम्
शिरोमाला रुद्र माला होतारं चोत्तरीयका ४३४
पत्रच्छेदविधिं कुर्यात् रत्नचित्रन्तु वल्लिका
हेमप्रासादसंयुक्तं दृक्कराभ्यान्तु तोरणम् ४३५
एवं कृत्वा तु सायाह्णे पूर्ववत्पूजयेत्क्रमात्
काञ्चनं वापि रौप्यं वा सर्वरत्नविचित्रितम् ४३६
पुष्पमण्टपमेवं वा यथाशोभं प्रकल्पयेत्
सङ्क्रान्तावाप्यमावास्यां राज्ञो जन्मदिनेऽपि वा ४३७
यजमानदिने वापि मरणान्तदिनेऽपि वा
अन्येषु पुण्यनक्षत्रे सूर्यवारे विधीयते ४३८
कृत्वा पञ्चमुखं लिङ्गं तप्तहेमन्यनन्तरम्
लिङ्गाकारकृतं हैमम् रौप्यं वा ताम्म्रमेव वा ४३९
एतद्वै गोळकाकारं मुखपञ्च समन्वितम्
तल्लिङ्गन्निक्षिपेल्लिङ्गे पूर्ववत्पूजयेत्क्रमात् ४४०
अर्चनं पूजनं चैव शान्तिकं च त्रिधाभवेत्
दीपान्तमर्चनं प्रोक्तं बल्यन्तं पूजनं भवेत् ४४१
उत्सवान्तं शान्तिकं प्रोक्तं क्रियाकर्मसमाचरेत्
अथवान्य प्रकारेण पश्चिमद्वारवेश्मनि ४४२
सद्यादि पूजयेद्धीमान् परिवारमथोच्यते
कुमारस्थाने वृषभं वृषभस्थाने कुमारकम् ४४३
आदित्यवारे पूजान्ते नित्योत्सवमथाचरेत्
अष्टदिक्षु गणिका डोळा नृत्तं समाचरेत् ४४४
दण्डं हस्तेन सङ्ग्राह्य चारिकान्तु पृथक्पृथक्
एवं कृत्वा विशेषेण पूजयेत्तु सदाशिवम् ४४५
निर्माल्यं च विसृज्याथ चण्डेशाय प्रदापयेत्
ताम्बूलं मुखवासं च पानीयं च प्रदापयेत् ४४६
पञ्चावरणशक्त्यादि सर्वशक्तिमतश्श्रुणु
अम्बाचैव गणाम्बा च गङ्गा गौरी उमा तथा ४४७
पञ्चब्रह्मकशक्त्योस्तु षडङ्गसहितं स्मृतम्
श्रद्धा स्वभा तथा क्षान्तिर्ग्रहा पुष्टिश्रुतिस्तथा ४४८
कीर्तिर्मेधा तथाष्टौ च विद्येशानां तु शक्तयः
कृपादया देवनार्था च कान्ती काळी च मन्त्रिणी ४४९
मालिनी च उमा चैव वज्रिणी च गणेशकाः
अदितिश्चैव देवी च नीलकासितधारिका ४५०
निशिनी चैव ह्लादिनी —-रुषी विदुः
भाषमङ्गरी चैव रिद्धिश्चैव निवृत्तिका ४५१
सवित्री सरस्वती ह्येते लोकपालाश्च शक्तयः
शचीदेवी पुलोमी च स्वाहा चैव स्वधा तथा ४५२
कलकाली तथा चैव जाताचैव सुकेशिनी
लाधिनी महिनी चैव विलासिनी महिषी तथा ४५३
वृत्तिश्चैव निवृत्तिश्च वसुधा च स्वरूपिणी
सावित्री सरस्वती ह्येता लोकपावै च शक्तयः ४५४
विलसिनी विरूपी च सधारी विमुखी तथा
निखी च दङ्मुखी चैव मति श्रीर्हंसमालिनी ४५५
एता दशायुधा शक्तिः पञ्चावरणशक्तयः
प्रथममासनं कल्प्य द्वितीयमावाहयेच्छिवम् ४५६
तृतीयं पाद्यतोयं च चतुर्थमाचमनीयकम्
पञ्चमञ्चार्घ्यदानं च धूपदानन्तु षष्ठकम् ४५७
सप्तममभिषेकस्यादष्टमं गन्धपुष्पकम्
नवमं वस्त्राभरणं च दशमं धूपदीपकम् ४५८
एकादशन्तु मुद्रा णां द्वादशन्तु निवेदनम्
त्रयोदशं बलिन्दद्या नित्याग्निं वै चतुर्दशम् ४५९
नित्योत्सवं पञ्चदशं षोडशं नृत्तमेव च
इदं पूजाक्रमं प्रोक्तं पञ्चशुद्धिक्रमागतम् ४६०
अथ व्यूहक्रमं वक्ष्ये विद्याव्यूहादिपूर्वकम्
विद्याव्यूहोत्र विज्ञेयो वामदेवादिको महान् ४६१
वानप्रस्थस्थितिं चासौ स्थितिमार्गावलम्बिनः
वामादि शक्तयश्चाष्टौ विद्याव्यूहा इति स्मृताः ४६२
अघोरादिरष्टधा प्रोक्तं विग्रहेश्वरव्यूहकम्
अघोरश्चातिघोरश्च घोरघोरतरस्तथा ४६३
सर्वतश्शर्व सर्वेभ्यो रुद्र रूप इति स्मृतः
विग्रहेश्वरव्यूहानां अष्टधपरिकीर्तिताः ४६४
अम्बिका ब्रह्मवेताळी त्रिगुणी स्थापुमत्यपि
विरूपिणी महाज्वाला मालिनी च तथा पुरा ४६५
सुवेताळी भवेद्गौरी शक्त्यघोरा च नन्दिनी
एकादश विधौ राज्ञ व्यूहामहाबलाव्रता ४६६
रुद्र व्यूहो भवेद्रुद्रो व्रतश्च बलशालिना
ऊर्ध्वकोट्ययुतं रक्तं तत्वमैश्वरमास्थितम् ४६७
विद्येश्वराद्य सज्योति तन्मूर्तिं च गणेश्वरम्
अनन्तेशादि विद्येश व्यूहान्व्यूहक्रमान्न्यजेत् ४६८
ततस्सदाशिवं तत्वं परं व्याप्तं तथा स्थितम्
तत्र ब्रह्माङ्गमन्त्रैश्च नादो बिन्दुस्सदाशिवः ४६९
शान्त्यतीतेन्धिका शक्तिर्दीपिका रोचिका तथा
मोचिकाचोर्ध्वगा चैव व्यापिनी व्योमरूपिणी ४७०
अनन्ताचानाथाचानाश्रिता च तथा भवेत्
मन्त्रयोनिर्महामाया पुनश्शक्तिश्च निष्कळा ४७१
अतीन्द्रि यश्शिवस्तस्मात् निष्कळो निर्गुणोक्षरः
चिद्रू पोयं समाख्यातो शुद्धतत्वे तत्वपञ्चकम् ४७२
शब्दादि दशके यस्मात् गुणैरुक्तान्वये समे
अङ्गाङ्गि भावविहितो विशेषस्यात्क्षमादितम् ४७३
एवन्तु भुवनैरुक्ता शिवान्ततत्वसङ्गति
इत्येते पञ्चनिर्देश व्यूहतत्वक्रमं यजेत् ४७४
पदब्रह्मं कलाब्रह्मं तत्वब्रह्ममनन्तरम्
अक्षरब्रह्मनामानि वर्णब्रह्ममनन्तरम् ४७५
भुवनब्रह्ममित्येषां ब्रह्मनामानि कथ्यते
सदाशिवं लिङ्गकुम्भस्थं महेशं यागमूर्तिकम् ४७६
उत्सवं रुद्र दैवत्यं इत्येता अधिदेवताः
आत्मतत्त्वन्न्यसेत्सव्ये विद्यातत्त्वन्तु सौम्यके ४७७
शिवतत्वं न्यसेन्मध्ये ध्यानकाले सदाशिवम्
एवमेव त्रिसन्ध्यायां पूजयेदादि शैवकः ४७८
निर्माल्यं च निवेद्यं च भुक्त्वा चान्द्रा यणं चरेत्
चण्डदत्तं हि निर्माल्यं भूमौ वह्नौ जले क्षिपेत् ४७९
गवां च कर्मदासानां दापयेत्तु विचक्षणः
षोडश प्रतिमा चैव विघ्नेशः क्षेत्रपालकः ४८०
परिवारादिभिश्चैव गुरूपुस्तकवह्निना
शर्वः पशुपतिश्चोग्रो रुद्र श्चैव भवस्तथा ४८१
ईशानश्च महादेवो भीमश्च वसवस्तथा
उमादिगणेशानं व्यूहं व्यूहक्रमान्यजेत् ४८२
यक्षनागेन्द्र योगीनां विष्णुब्रह्म च दुर्गकाः
काळी च सूर्यदेवाश्च अन्त्यत्सर्वाश्च देवताः ४८३
न निर्माल्यमिति प्रोक्तं सर्वेषां चैव भुक्तये
लिङ्गभुक्तन्निवेद्यं च चण्डेशाय प्रदापयेत् ४८४
एतन्निर्माल्यमाख्यातं वर्जयेत्तु विशेषतः
न निर्माल्यमिति ख्यातं उमास्कन्दादि भुक्तिकम् ४८५
तदादि षोडश देवानां चण्डदत्तं विना भुवि
हविः काले तु धूपं स्यात् हविरन्ते तु धूपकम् ४८६
पूजादौ धूपदीपं स्यात्पूजान्ते धूपमिष्यते
पापीरोगिपरिभ्रष्टैः नास्तिकैश्श्रुतिदूषकैः ४८७
तत्काले तु पटन्तत्र पूजाकाले पटं कुरु
हविः काले पटं यत्र त्रिकाले पटमावहेत् ४८८
महाघण्टाताडनं कालं स्नानं भोजनकालकम्
सन्ध्यात्रिघटिका पूर्वं आत्मशुद्ध्यादिकारयेत् ४८९
घटिका द्वे भवेत्स्नानम् घटिकैकार्चना भवेत्
घटिकार्धन्निवेद्याय बलिदानन्तु तत्समम् ४९०
नित्याग्निकार्यमर्धं च नित्योत्सवं त्रिनाडिका
नित्योत्सवेन पूजायां सार्धेन सप्तनाडिका ४९१
हविष्यन्तन्त्रिपादेन त्रिनाडिरुच्यते बुधैः
एवमेव त्रिसन्ध्यायां पूजयेत्तु विशेषतः ४९२
अर्धरात्रौ बलिं दद्यात्काम्यार्थी च विधानतः
सुगन्ध्यगरुकर्पूरचन्दनं कुङ्कुमान्वितम् ४९३
लेपयेत्तु हृदामन्त्री लिङ्गं पीठं च गौरिकाम्
जातीघनकदम्बानि द्विकर्णी चित्रकर्णिका ४९४
नन्द्यावर्तं श्रियावर्तं नीलोत्पलं च मल्लिका
एवमादि सुगन्धाद्यैः पुष्पमाल्यैश्च पूजयेत् ४९५
शिवमन्त्रेण देवेशं अर्चयेत्तु विशेषतः
गौरीमिमाय मन्त्रेण गौरीं वामेन पूजयेत् ४९६
ध्यायेत्सादाशिवं रूपं देवीरूपं विचिन्तयेत्
धूपन्दद्यादघोरेण घण्टाखसमन्वितम् ४९७
कर्पूरावर्तितन्दीपं वर्तिकार्पाससम्युतम्
गोघृतन्दीपमुज्वाल्य त्र्यङ्गुळमुत्तमं स्मृतम् ४९८
दीपन्दद्याद्विशेषेण प्रशान्तायेति मन्त्रतः
द्रो णद्वयं शिवं वापि गुळखण्डसमन्वितम् ४९९
मरीचिलवणैर्युक्तं नाळिकेरं च मुद्गकम्
अपूपञ्च प्रदातव्यं पायसान्नं गुळैर्युतम् ५००
कदळी मनसाम्म्राणि त्रिफलानि निवेदयेत्
पानीयन्दापयेत्तत्र मुखवाससमन्वितम् ५०१
ताम्बूलं तत्र कर्पूर —-तैलसम्युतम्
इष्टकाद्यप्रसिद्धिं च लभते नात्रसंशयः ५०२
एवं काम्यार्चनं प्रोक्तं अधिदेवाः प्रकीर्तिताः
अष्टपुष्पं त्रिगन्धं च सप्तवारि निवेदयेत् ५०३
त्रिष्वर्घं च त्रिधाधूपं घण्टाताडनमष्ट च
प्रछन्नं च चतुर्णां वै द्वयोर्मुद्रा ंप्रदर्शयेत् ५०४
आवाहनार्घ्यपाद्येषु स्नाने धूपे विलेपने
निवेद्ये च विसर्गे च अष्टपुष्पं सुपूजयेत् ५०५
आवाहनार्घ्यपाद्येषु स्नाने चामने तथा
निवेदने विसर्गे च वारि सप्त नियोजयेत् ५०६
आवाहनेषु पूजान्ते विसर्गान्ते तथैव च
अर्घ्यं दद्यात्तु मन्त्रज्ञस्त्रिष्वेवं सम्प्रकल्पयेत् ५०७
आसनाचनकाले च स्नानान्ते पूजनेपि च
अधवासनपूजान्ते महाधूपं प्रशस्यते ५०८
स्नानानारम्भे तदन्ते च धूपदाने विशेषतः
निवेद्यकाले तस्यान्ते उत्सवादौ तदन्तके ५०९
नृत्त —धीमान्महाघण्टानि ताडयेत्
निर्माल्यापनये चैव पुष्पालङ्करणे तथा ५१०
निवेद्यकाले पूजान्ते प्रछन्नपटमीरितम्
आवाहने च पूजान्ते मुद्रा दर्शनमिष्यते ५११
गन्धन्दद्यात्तु पुष्पैस्तु पुष्पं गन्धैर्नियोजयेत्
धूपन्दद्यात्तु दीपेन दीपं दीपेन योजयेत् ५१२
देवानामर्चने काले प्रछन्नपटसंयुतम्
पपी रोगी परिभ्रष्टैर्नास्तिकैश्श्रुतिदूषकैः ५१३
राक्षसैरसुरैश्चैव पिशाचैर्ब्रह्मराक्षसैः
देवनिन्दाकृतघ्नां च दूरतः परिवर्जयेत् ५१४
गच्छेत्प्राकारबाह्ये तु घण्टाघोषैश्च संयुतम्
मूलमन्त्रशतं जप्त्वा शिवसान्निध्यकं नयेत् ५१५
चिन्तयेत्तु नरास्सर्वे शिवमात्मनि भक्तितः
स्वयमभ्यर्चनं श्रेष्ठं पश्चाद्भोजनमाचरेत् ५१६
अर्चनायामशक्तश्चेत् स्पर्शनं वापि कारयेत्
स्पर्शके चाप्यशक्तश्चेल्लिङ्गदर्शनमुत्तमम् ५१७
दिवारात्रौ त्रिसन्ध्यं वा प्रविशेत्तु शिवालयम्
बाह्य प्राकारदेशे तु सव्यमाहप्रदक्षिणम् ५१८
सव्यापसव्यमार्गेण अन्तर्हारप्रदक्षिणम्
प्रदक्षिणन्ततः कुर्यात् सोमसूत्रन्नलङ्घयेत् ५१९
सोमसूत्रोपरिष्टात्तु शक्तिलङ्घन्नकारयेत्
निर्माल्यलङ्घनं दोषं पतन्तं धरणीतले ५२०
कीटकर्णपतङ्गाद्यैर्जायती धरणीतले
तस्मात्सर्वप्रयत्नेन सव्यापसव्यकं कुरु ५२१
प्रदक्षिणद्विगुणञ्चैव नमस्कारफलं लभेत्
अष्टाङ्गं चैव पञ्चाङ्गं नमस्कृत्वा विचक्षणः ५२२
बाहुभ्यां चैव जानुभ्यां मस्तकं चैव पञ्चसु
प्रभुनाममिति ख्यातम् पञ्चाङ्गमिति कथ्यते ५२३
हस्ताभ्यां मूर्धतश्चैव नमस्कृत्वा तु यत्नतः
दण्डन्नमस्कारमित्युक्तं दण्डवद्र ज्जुवन्मता ५२४
पादे जानुद्वयं चैव हस्तयोरुभयोरपि
ललाटेन च कर्णाभ्यां हनुना धरणीं स्पृशेत् ५२५
अष्टाङ्गमिति विख्यातं सर्वकार्यसुखप्रदम्
एवं कृत्वा तु मनसा शिवलोकं सगच्छति ५२६
प्रदक्षिणनमस्कारमात्मनोर्पणमेव च
अथवान्यप्रकारेण भक्तिहर्म्यं यथाचरेत् ५२७
चुळुकोदन्ददेत्पश्चात्कायशुद्धेस्तु कारणम्
उपचाराण्यहं वक्ष्ये परार्थदेवपूजने ५२८
दशोपचार पूजान्ते हविष्यन्ते तु षोडश
बल्यन्ते पञ्चविंशच्च षट्त्रिन्तत्ताण्डवान्तके ५२९
आवाहनं पाद्यमर्घ्यं आचमनं च स्नानकम्
गन्धपुष्पं च धूपं च नैवेद्यं च विसर्जनम् ५३०
दशोपचारकं ज्ञेयमित्यन्तेन समाचरेत्
आवाहनन्तु संस्थाप्य पाद्यमाचमनार्घ्यकम् ५३१
स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम्
धूपन्निवेद्यन्नमस्कार विसर्जने —-५३२
षोडशान्युपचाराणि हविष्यन्ते समाचरेत्
आवाहनं च संस्थाप्य स्वागतं च मान्यकम् ५३३
पाद्यमाचमनं चार्घ्यं स्नानं वस्त्रोत्तरीयकम्
भूषणं गन्धपुष्पं च धूपदीपन्तथार्घ्यकम् ५३४
नीराजनं व्यजनं च चामरं छत्रदर्पणम्
दशमुद्रा दर्शनं च पञ्चावरणपूजनम् ५३५
नैवेद्यं होमकर्मा च बलिदानं जपन्तथा
समाधिस्स्तोत्र नमस्कारमुत्सवं हितनृत्तकम् ५३६
विसर्जनं च षट्त्रिंशदुपचारमिति स्मृतम्
नृत्तान्ते पौष्टिकेप्येवं परार्थे देवपूजने ५३७
आत्मार्थमुपचारं च अहं वक्ष्ये श्रुणुष्विह
आवाहनं स्थापनं च स्वागतं सन्निरोधकम् ५३८
अङ्गप्रत्यङ्गकल्पं च पाद्यमाचमनार्घ्यकम्
गन्धं पुष्पं च धूपं च दीपं स्नानं तथैव च ५३९
वस्त्रोपवीतगन्धं च पुष्पं धूपं च दर्पणम्
नीराजनं च गीतं च नाट्यन्नृत्तं तथैव च ५४०
मुद्रा दर्शनमेवोक्तं आवृतार्चनमेव च
नैवेद्यं होमकर्मा च मूलमन्त्रजपन्तथा ५४१
बलिदानं जपञ्च
प्रदक्षिणनमस्कारञ्चुळुकोदमाचमनीयकम्
चत्वारिंशद्विधानेन आत्मार्थे च प्रपूजने ५४२
सन्ध्याया लक्षणं वक्ष्ये श्रुणुष्वेकाग्रमानसा
स्वस्थन्नराक्षिनिमिषं चतुर्भागं तृटिस्मृतम् ५४३
तद्द्वयन्तु लयं प्रोक्तं निमिषं तद्द्वयं भवेत्
निमिष पञ्चदशं काष्ठा तिथिकाष्ठा कला स्मृता ५४४
त्रिंशत्कला मुहूर्तं च तदेव घटिकाद्वयम्
भास्करोदयमारभ्य त्रिपादेन त्रिनाडिका ५४५
रात्र्यन्तकमिति प्रोक्तं ज्ञात्वैवं सर्वमाचरेत्
जलसङ्ग्रहणं चैव पुष्पसङ्ग्रहणन्तथा ५४६
देवतास्थापनन्तीर्थ रात्र्यन्ते च विशेषतः
तच्छेषमर्चनं चैवऽपरं त्रिदशनाडिका ५४७
उदयास्तमनं चैव चतुर्यामं प्रकीर्तितम्
अस्तमयादुदयान्तं च चतुर्यामं प्रशस्यते ५४८
अष्टयाममिति ख्यातं अहोरात्रमिति स्मृतम्
अधिवासनानि सर्वाणि मध्यरात्रौ तु कारयेत् ५४९
उदयादि मध्याह्नान्तं प्रतिष्ठाकर्मयोग्यकम्
अपराह्ने न कर्तव्यं मृगयात्राक्रमं कुरु ५५०
उशीरन्नन्दनं चैव दूर्वासिद्धार्थकैर्युतम्
यवेलाभ्यां च संयुक्तं अर्घ्यद्र व्यं प्रकीर्तितम् ५५१
पाद्यद्र व्यमिति ख्यातं पादौ पाद्यं च निक्षिपेत्
एलालवङ्गकर्पूरतिम्बुजाती फलं मुरम् ५५२
षडङ्गमाचमनं द्र व्यमाचमने तु दापयेत्
आपक्षीरकुशाग्राणि यवैस्सिद्धार्थ तण्डुलैः ५५३
तिलदूर्वासमायुक्तं अर्घ्यद्र व्यं प्रकीर्तितम्
अगरुं चन्दनं चैव कोष्ठं कुङ्कुममेव च ५५४
तदर्धपादमेवन्तु कर्पूरेण समायुतम्
गन्धद्र व्यमिदं प्रोक्तं पुष्पाणां विधिरुच्यते ५५५
श्वेतं रक्तं तथा कृष्णं सत्वं रजस्तमस्स्मृतम्
पीतवर्ण —-शोणमुदीरितम् ५५६
नीलोत्पलसमं पुष्पन्नभूतन्नभविष्यति
नन्द्यावर्तं श्रियावर्तं श्वेतार्कमुदये ददेत् ५५७
करवीरद्रो णपुष्पं च पद्मम्मध्यदिने ददेत्
पट्टिकाचैव धुर्त्तूरं पट्टीचम्पकमिष्यते ५५८
सायाह्ने च प्रदातव्यं अन्यत्सर्वं प्रदापयेत्
जातीघनकदम्बा च द्विकर्णीं चार्धरात्रके ५५९
नन्द्यावर्तं श्रियावर्तं मन्दारं श्रुतिपत्रिका
श्वेतार्कं मालतीं चैव पुन्नागं कुरवन्तथा ५६०
एवमादीनि पुष्पाणि सात्विकानि प्रचक्षते ५६०
रक्तोत्पलं तथा पद्मं बृहती धूर पाटली
एवमादीनि रक्तानि राजसानीति कथ्यते ५६१
कर्णिकारं च धुर्तूरं पुष्पं कारण्डवन्तथा
एवमादीनि चान्यानि मिश्रकानि इति स्मृतम् ५६२
तुलसी च नृपञ्चैव जम्बुका नागनन्दिका
एकपत्रा रविन्दं च विष्णुक्रान्ति तथैव च ५६३
अपामार्गं कुशन्दूर्वा पञ्चबिल्वं शमी तथा
एतानि पत्रजातीनां तामसानीति कथ्यते ५६४
पत्राणां जातिभिस्सर्वैस्सार्वकालं प्रपूजयेत्
ततो नीलोत्पलं चैव तामसन्त्विति कीर्तितम् ५६५
करञ्जं वकुळं चैव केतकी माधवी तथा
लागुळीं धूकनिर्गुण्डी किंशुकं चैव वर्जयेत् ५६६
अतिपक्वमपक्वं च मुकुळं चैव वर्जयेत्
केशकीटोपविद्धं च लूतसूत्रावृतानि च ५६७
स्वयं पतितपुष्पाणि सञ्चितान्यपि वस्त्रके
एकाहोषितपुष्पाणि वर्जयेत्तु विशेषतः ५६८
शमीबिल्वमपामार्ग कुशदूर्वा महातथा
नागनन्दी रुद्र वल्ली धातकी पत्रमेव च ५६९
ऐन्द्री चैव महाभद्री द्रो णपत्रन्तथैव च
पद्मजातिषुसर्वेषु नीलोत्पलसमन्नहि ५७०
पुष्पलक्षणमाख्यातं श्रुणु धूपस्य लक्षणम्
अगरुं चैकभागं स्यान्निर्यासं द्विगुणं भवेत् ५७१
चन्दनं त्रिगुणं प्रोक्तं ———–वृक्षबीजोद्भवैस्सर्वैश्शिवदीपन्तु वर्जयेत् ५७२
गोघृतन्तदलाभे तु शुद्धतैलेन दीपयेत्
शुद्धतैलस्य भावे तु मधूकतैलमाचरेत् ५७३
स्नानद्र व्यालाभे तु शुद्धतोयेन स्नापयेत्
गव्यानामप्यलाभे तु घृतेनैवाभिषेचयेत् ५७४
हविषामप्यलाभे तु दीपारोपणमाचरेत्
वस्त्राणामप्यलाभे तु पत्रिणा चैव पूजयेत् ५७५
पञ्चामृतमलाभे तु घृतञ्चैव तु पूजयेत्
सर्वं ध्यायेत्तु मनसा सर्वद्र व्यमलाभके ५७६
त्रिसन्ध्यं च बलिं दद्यात् द्वारादि बलिपीठकम्
दिग्देवमस्त्रसंयुक्तं बलिं चैव प्रदापयेत् ५७७
महापीठन्ददेत्भूतमामोदापूर्वमादिकम्
आमलीफलमात्रं वा मुष्टिं वा बलिकन्ददेत् ५७८
गन्धपुष्पैर्स्समभ्यर्च्य वाद्यताळसमन्वितम्
बलिप्रदानमेवोक्तं उदकादीन्क्रमाद्ददेत् ५७९
एवं बलिविधानान्ते नित्याग्निं कारयेद्बुधः
आग्नेय्यां तु प्रकर्तव्यं अग्निकार्योक्तमाचरेत् ५८०
समिदाज्य चरूँ ल्लाजान्सर्षपांश्च यवान्तिलान्
-——–क्रमेणैव तु होमयेत् ५८१
शतमर्धं तदर्धं वा तदर्धं होममाचरेत्
होमद्र व्यन्तु कुटुम्बं समित्षोडशमेव च ५८२
कुण्डं वा स्थण्डिलं वापि वृत्तं प्रधानकं कुरु
गार्हपत्यं गृहस्थानां पितॄणां दक्षिणानलम् ५८३
आहवनीयं च देवानां तत्तद्रू पं वदाम्यहम्
बालयौवनवृद्धाग्निस्त्रिविधन्तत्प्रकीर्तितम् ५८४
बालाग्निश्च कर्तव्यो प्रतिष्ठाकालकर्मणि
उत्सवादीनि कर्माणि कारयेद्यौवनाग्निका ५८५
सव्यापसव्यनित्याग्नि वृद्धाग्निर्नित्यहोमके
अग्निकार्योक्तमार्गेण शेषकार्यं समाचरेत् ५८६
एवमग्निं समभ्यर्च्य नित्योत्सवमथाचरेत्
पूर्वाह्णे पुष्पलिङ्गं च मध्याह्ने चान्नलिङ्गकम् ५८७
सायाह्ने चाक्षतं लिङ्गं द्वादशाङ्गुळमानतः
सर्वकालेध्वादकारोहन्तु चेत्पुष्पन्निक्षिप्य यत्वतः ५८८
चन्द्र शेखरति नाम मास्कन्दसहितन्तु वा
केवलं वा प्रकर्तव्यं सर्वाभरणभूषितम् ५८९
गन्धपुष्पादिनाभ्यर्च्य पादुकारोहणन्त्यजेत्
देवदासी शिरोद्धृत्य क्रमात्कृत्वा प्रदक्षिणम् ५९०
स्वर्णं मरकतं चैव स्फाटिकं रजतताम्म्रकम्
पादुकं च प्रकर्तव्यं लिङ्गं स्वर्णं च राजतम् ५९१
ताम्म्रं मरकतं चैव स्फटिकं चैव कारयेत्
लिङ्गानां कौतुकं चैव पट्टु शैवकरोपरि ५९२
सशिबिकां —-वा ——-———-सर्वालङ्कारसम्युतम् ५९३
उष्णीषमुत्तरीयं च पवित्रहस्तसम्युतम्
शिरो–हे दात्रि दशनैः शनैः प्रदक्षिणम् ५९४
शुद्धनृत्तसमायुक्त गीतवाद्यसमायुतम्
मन्त्रपाठकसम्युक्तं स्वस्तिवाचसमायुतम् ५९५
वितानध्वजसम्युक्तं छत्रचामरसम्युतम्
व्यजनतालवृन्तैश्च क्रमेणैव समाचरेत् ५९६
पिञ्छचामरसम्युक्तं श्वेतचामरसंयुतम्
प्रज्वालदीपसंयुक्तं पुष्पवृष्टिसमायुतम् ५९७
दण्डनृत्तसमायुक्तं यष्टिनृत्तसमन्वितम्
डोलानृत्तसमायुक्तं नित्योत्सवन्तु कारयेत् ५९८
प्रथमं प्रदक्षिणं कुर्यादन्तर्हारे विशेषतः
द्वितीयं प्रदक्षिणं कुर्यान्मध्यहारे विशेषतः ५९९
गोपुरे वाद्यहीने तु बलिहीनं प्रदक्षिणम्
अन्तर्हारे पुनर्गत्वा प्रदक्षिणमथाचरेत् ६००
प्रथमप्रदक्षिणं कुर्यान्मङ्गिणीताळवाद्यकम्
परिवाराणां द्वितीयं प्रदक्षिणमथाचरेत् ६०१
वृषस्य वृषताळन्तु होतव्यं मन्त्रिणी तथा
मातॄणां चण्डवाद्यन्तु विघ्नेशस्य ढक्करी ६०२
वारुणे च पुटं –स्य ज्येष्ठायां पुन्निताळकम्
ता -प्रहारसौम्यायां वृषभं विघ्नचण्डके ६०३
गोपुरे वाद्यनिर्घोषैः शङ्खघोषसमन्वितम्
ततः पुरास्थितं कृत्वा त्रिःकृत्वा तु प्रदक्षिणम् ६०४
शम्बरे बलिपीठस्य प्रविश्याभ्यान्तरन्ततः
एक प्राकारसम्युक्ते कारयेत्त्रिः प्रदक्षिणम् ६०५
त्रिः प्राकारयुतं गेहं पीठमेकं प्रदक्षिणम्
गान्धारं द्वारदेशे तु आग्नेय्यां कौशिकन्तथा ६०६
दक्षे श्री कामरञ्चैव नैरृत्यां तक्करागकम्
कोल्लीं पश्चिमदेशे तु वायव्यः न्नृपसङ्करम् ६०७
सोमे तक्केशिरित्युक्तं रामं गिरीशगोचरे
बलिपीठे –ण्डकी चैव ताळं गीतसमायुतम् ६०८
मवराजमकञ्चैव देवसन्निधिगीतकम्
इत्येवं गीतभाषाभिः प्रदक्षिणमथाचरेत् ६०९
एवं प्रदक्षिणं कृत्वा प्रविशेदालयं शुधीः ६१०
इति योगजे क्रियापादे नित्यार्चनाविधिर्नाम पञ्चमः पटलः