१
अथातः सम्प्रवक्ष्यामि मन्त्रोद्धारविधिक्रमम्
अज्ञानार्णवमग्नानां सर्वेषां प्राणिनाम्मयम् १
सर्वपापविनिर्मुक्तं मन्त्रोद्धारं कथं प्रभो
ईश्वार उवाच
मन्त्रोच्चारमहं वक्ष्ये श्रुणुष्वेकाग्रमानसा २
मननत्राणधर्मित्वान्मन्त्रमित्यभिधीयते
मननं सर्वतत्वार्थं जगत्त्राणन्तथैव च ३
चराचरादिभेदेषु सामान्यं शिवमन्त्रकम्
सर्वार्थं बोधयिष्यामि शिवमॐकाररूपिणम् ४
अकारादिक्षकारान्तं सर्वं मन्त्रमिति स्मृतम्
यत्कार्यं मनसा ध्यत्वा तन्मन्त्रमिति कथ्यते ५
मन्त्रं विना क्रिया नास्ति तस्मान्मन्त्रमिहोच्यते
महेन्द्रे मलये चैव सह्ये विन्ध्ये तथैव च ६
केदारे निषधे चैव गृहे वापि विशेषतः
गङ्गातीरे समुद्रे वा प्रासादे वा विशेषतः ७
नद्यास्तीरे तटाके वा अन्ये च शुभदेशके
मन्त्रमुद्धारयेत्तत्र स्थानन्दक्षिणवत्कुरु ८
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुळीयकैः
विघ्नेशं पूजयेत्तत्र पश्चान्मन्त्रं समुद्धरेत् ९
सितं वा रक्तधातुं वा पीतधातुमथापि वा
द्वादशारस्य चक्रस्य तन्मध्ये वृत्तमालिखेत् १०
यावदक्षरसङ्ख्याभिः तावच्चक्रं समालिखेत्
शिवे तत्वे परे सूक्ष्मे बिन्दोरुत्पत्तिरुच्यते ११
बिन्दोर्नादस्समुत्पन्नर्नादाछशक्तिस्तु जायते
शक्तेस्तु वाक्भवं जातं वाक्भवात्षोडशाक्षरम् १२
कलाभिर्व्यञ्जनं जातं व्यञ्जनात्सर्वशास्त्रकम्
आकाशात्सम्भवा रेखा द्वितीयन्त्वर्धचन्द्र कम् १३
तृतीयं कुटिलाकारं चतुर्थं वह्निसम्भवम्
पञ्चमन्तु ध्वजाकारं शिवविष्णु समायुतम् १४
शिवमन्त्रमिदं प्रोक्तं सर्वप्राणिमयं भवेत्
सान्तं सर्वगतं शून्यं मात्राद्वादशसंस्थितम् १५
हृस्वा ब्रह्मसमाख्याता दीर्घाह्यङ्गमिति स्मृतम्
षष्ठन्त्रयोदशान्तं च पञ्चमे विनियोजयेत् १६
शिवविष्णुसमायुक्तं शिवमन्त्रमिति स्मृतम्
कण्ठमोष्ठद्वयोपेतं मूलदण्डसमायुतम् १७
मूलमन्त्रमिदं प्रोक्तं सर्वेषां प्राणिनामिदम्
पञ्च पञ्च चतुर्थस्य पञ्चमं पञ्च पञ्च च १८
षष्टमं पञ्च पञ्चानां मायाबीजसमन्वितम्
सप्तमस्य चतुर्थ्यन्तं तृतीयाक्षरसम्युतम् १९
यमबीजसमायुक्तं शिवमन्त्रमिति स्मृतम्
भूतान्तान्तं च भूतान्तं भूतभूतान्तसम्युतम् २०
लिङ्गपीठसमायुक्तं मूलमन्त्रमिति स्मृतम्
अम्बरं अम्बरादिञ्च व्यञ्जनान्तं यमैर्युतम् २१
वसुमती जलवह्निं च मरुत्षष्टिकयायुतम्
लिङ्गपीठसमायुक्तं सर्वकामार्थसाधकम् २२
भूतान्तं तृतीय संयुक्तं मायादीर्घसमायुतम्
आधाराधेय संयुक्तं शक्तिबीजमिति स्मृतम् २३
गन्धर्वं प्रथमञ्चैव वह्निमायासमन्वितम्
शिवविष्णुसमायुक्तं गौरीबीजमिति स्मृतम् २४
आकाशं वह्निमायान्तशिवविष्णुसमायुतम्
यान्तं वह्निसमायुक्तं कलाचतुर्थसम्युतम् २५
आधाराधेयकोपेतं गङ्गापूर्वाग्निकैर्युतम्
कलाचतुर्थकोपेतम् उमामन्त्रमिति स्मृतम् २६
षष्टमस्य चतुर्थस्य वह्निमायासमन्वितम्
प्रथमस्य तृतीयन्तु तृतीयस्यान्तसम्युतम् २७
पञ्चमस्यादिमं बीजं चतुर्थाच्च समायुतम्
मायाबीजयुतञ्चैव वारुणं वह्निवारुणम् २८
अग्निबीजसमायुक्तं सर्वलोकवशं स्मृतम्
स्वाहान्तं गणपतिमन्त्रम् उमामन्त्रसमायुतम् २९
शक्तिगायत्रिरित्युक्तं सर्वलोकवशन्नयेत्
आकाशादिसमायुक्तं सर्वलोकवशन्नयेत्
स्कन्दमिति स्मृतम् ३०
आयोदशान्तसंयुक्तं पञ्चमे विनियोजयेत्
लिङ्गपीठसमोपेतं षष्ठसप्तमसंयुतम् ३१
सर्वगं पर्वसंयुक्तं मायाबीजसमायुतम्
तद्वर्गमन्त्रचतुर्थेन द्वितीयाक्षरसंयुतम् ३२
मरुद्बीजमिदं मन्त्रं आत्ममन्त्रमिति स्मृतम्
स्वनामाद्येन मन्त्रेण बीजनादसमन्वितम् ३३
ॐकारादि नमोन्ताश्च मन्त्रास्सर्वे समाहिताः
दात्वा तृतीया प्रथमान्तभिन्नो कला महीलक्षणमामनाद्याः ३४
जीवत्रियुङ्ना नवमान्तमेयुतं तमोमरुद्व्योम च मूलमन्त्रम्
ॐकारदीपितास्सर्वे नमस्कारान्तमातृभिः ३५
स्वनाममध्यमे योज्य सर्वमन्त्रं प्रशस्यते
हुम्फट् च विसर्गान्तं मन्त्रं पाशुपतं स्मृतम् ३६
मॄं जृं क्षॄं नेत्रमस्यादिर्मन्त्र दशबीजकम्
शिच्छीकृद्दिक्षुकृच्चैव क्षुरिकास्त्रमिहोच्यते ३७
अथातः सम्प्रवक्ष्यामि शिवमन्त्रस्य लक्षणम्
पञ्चाक्षरमयं शैवं शिवमॐकाररूपिणम् ३८
व्योमव्यापि महामन्त्रं चक्रमध्ये प्रतिष्ठितम्
द्वादशारस्य चक्रस्य विभिन्नस्य द्विधा भवेत् ३९
वृत्तं पञ्चदशेनैव मध्ये शिवमयन्न्यसेत्
पूर्वाकारार्धमूले तु नेकारं विन्यसेद्बुधः ४०
तस्य प्रदक्षिणवशादक्षरं विन्यसेद्बुधः
तेन ताश्चैव रवया हुम्फडाश्च नयप्रर ४१
न निशश्चैव फाञ्चं च भश्चन्नेताश्च क्ष्मिश्चज्ञा
र्पश्च मश्च पदे दैक क्रमेण पदविन्यसेत् ४२
षश्रिस्थश्च ममूयश्च योनिपातश्च षडानन
प्रपाश्च सश्च मुश्चैव वश्च सावश्च सावाबः ४३
सश्च नश्च इति ख्याता द्वितीया वरुणे न्यसेत्
व्यानासनश्च नश्चैव दश्च मूर्तश्च अश्चरू ४४
वेश्च रूश्च तिते स्वश्च शिवाय हश्च दश्चना
क्षश्च पश्च वमोश्चैव तृतीया वृतिसंलिखेत् ४५
उर्वश्च यश्च ॐभूतप्रेतिश्च नाश्च वै
अद्योनाश्चैव ॐ वश्च ते तर्वप्रश्च अश्चसा ४६
भश्च शीतश्च एतेषां चतुरावरणे स्थितिः
सयवीरं रजागोश्च ज्योति पित्किश्च अश्च वै ४७
हश्च हापखश्चैव रतिविक्षय पञ्चमे
यथागराय व्योमभ्यो ये ये रे इज्यो ह्यभुश्चनोत् ४८
मधु वसुश्च वस्थिश्च ससुवाश्चैव षष्ठके
भानायाभाश्च वा अश्य द्यॐ ह्याता अश्च अश्चज ४९
भश्च ॐच सरगाशश्च तद्र श्चर्वश्च तं क्षशी
सप्तमे पदविन्यासे चतुर्विंशतिकाक्षरम् ५०
रुश्च कश्च नयश्चैव शिश्च यश्च संसुश्च च
रूयश्च विन् च स्तेकश्च भूनिश्च येम गुरू च ५१
आपसूयश्च ते सर्वे सदाष्टकमपि न्यसेत्
मयानानेश्च वेत्राश्च यश्च निधिराश्च व ५२
व्याज म ओ नश्च भेज सर्वश्च ष्णुश्च त
शब्द पाश्च नया सङ्ख्या क्रमेण परिपठ्यते ५३
व्योमाश्च नेह वह्ना वा गावपिन् तेश्च धूश्च धू
धमश्च ते प्रधश्चैव पिततं शं पदेश च ५४
नेनशायो वृषश्चैव व गुं गुं घोरश्वस्य पास्यते
अधूनिश्च महा मद्भु ब्रह्मताश्च वश्चरूब्दम् ५५
एकादश पदे लेख्यास्सर्वेषां आत्मनः फलम्
अश्च ययोर्वश्च रूश्च वश्च म एव च ५६
वश्च शश्च मिडश्च अग्निश्च धूश्च नमात्मज
यश्च भश्च बृहश्चस्तु रूशन्न द्वादशे पदे ५७
गुह्याय वाक्यं सपुने समेव्यो व्रत धूधर
प्रध्वोर अस्तनाश्चैव ओन्त्रयोदशके पदे ५८
वाधूनि यत तत्मश्च धरमन्म अनाति पश्चञ्चश्च भक्तश्चै ।
रूज्ञार्वश्चतुर्दशे । व्यॐशियश्च रवायश्च नाना पप्योश्च ५९
यश्च प । नाश्च कश्च पपेमुश्च खव्योच्चतुनसश्च
एवं पञ्चदशे वृत्तं व्योमव्यापिरिति स्मृतम् ६०
व्योमव्यापिरिदं मन्त्रं व्योमव्यापि गतो गुरुः
व्योमव्यापि महामन्त्रमृषिछन्दो देवतां कुरु ६१
अगस्त्य ऋषिस्त्रिष्टुप ईश्वरस्तत्र देवता
अथसद्यादिमन्त्राणां उद्धारणं वदाम्यहम् ६२
शिवाङ्गवत्स्थितं चक्रं सप्तमावरणैर्विना
पूर्वाकारार्थमूले तु प्रणवन्दीपकन्न्यसेत् ६३
मिकारं च ततः स्थाप्य सविसर्गो म एव च
खश्च पश्च विसर्गेण मोश्चलश्चक एव च ६४
मोश्च श्चयकारश्च मनाभ्यर्गकमेव च
रश्च तश्च विसर्गेण स्तेपुभानोस्तथैव च ६५
ईश्च मीश्च तया बुश्च शिकारं ओश्च इति स्मृतः
द्यानभक्तश्च नद्रा श्च मकारं विसर्गयुक् ६६
नश्च भूश्च नादश्च त्रह्ये घर्वसम्युतम्
सविसर्गो मकारश्च तन्मतश्चैव एव च ६७
ॐकारं चैव नाकार नाह्मा शीकारमेव च
पश्च वैश्च वोयश्च यश्चरुश्चनयस्तथा ६८
णश्चतश्च मनावोश्च वभ्योश्च सश्चन एव च
ओमश्च येभिश्च यान्याता बृश्च ताश्च तथैव च ६९
प्रश्चयश्चैव नाभश्च वामो यश्च नरस्तथा
मश्च भ्रमकरोभ्योभ्यो सविसर्गह्यात्म एव च ७०
मेश्च वश्च विभ्रती स क्रमेण परिपठ्यते
तश्च ताश्च तथैवेमान्देन लाकारमेव च ७१
पुश्चर्पश्च तथामोश्च ॐ फारैर्पश्च एव च
पैश्च वीश्च तथा धी च चोर्पर्पस्तु च एव च ७२
जाजाभश्च तथा स्वश्च तथैव हि
रकम्पविलसञ्चैव नमधश्च तसश्चरु ७३
ययप्रस्ससधीयंश्च षष्ठमे पदविन्यसेत्
द्योद्योवेजश्च पाषाम विलयश्चस्य एव हि ७४
नश्च झरञ्चैव सर्वश्च तद्र श्च तथैव च
षादवाश्चैव दृनीश्चैव वरणञ्चैव सप्तमे ७५
सस्यश्च भश्च भिश्चैव ॐ ज्ये श्चालस्तथा
वलमोश्च ननायश्च यश्च वाश्च रू शरूः ७६
देरूशामं महाश्चैव अष्टमे पदविन्यसेत्
एवं सद्यादिमन्त्राणां द्विर्नवतित शतं भवेत् ७७
द्वात्रिंशदक्षरं सद्यं षट्षष्टिर्वाममन्त्रकम्
अघोरं षट्त्रिंशकैर्युक्तं चतुर्विंशति पूरुषम् ७८
त्रयस्त्रिंशदीश्वरं चैव प्रणवेन समायुतम्
ऋषि छन्दो देवतानाम् अधुना सम्प्रवक्ष्यते ७९
कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च
पराशरश्च पञ्चैते सद्यादि ऋषिरुच्यते ८०
अनुष्टुप्त्रिष्टुप्छन्द आर्यो वृत्तकमेव च
गायत्री चैव पञ्चैते सद्यादि च्छन्दसस्मृताः ८१
ब्रह्मविष्णुश्च रुद्र श्च ईश्वरश्च सदाशिवः
सद्यादीनां तु पञ्चानां देवताः परिकीर्तिताः ८२
ऋग्यजुस्सामाथर्वश्च चतुर्वेदान्तसारकम्
सद्यादिमन्त्रमुद्धारं गम्यते तदुदाहृतम् ८३
गज्यं ब्रह्ममिति प्रोक्तं गछामङ्गमिति स्मृतम्
ब्रह्माङ्गमूलरूपस्य सूक्ष्ममॐकाररूपकम् ८४
सूक्ष्मरूपं शिवं प्रोक्तं स्थूलरूपं सदाशिवम्
पूर्ववच्चक्रं विन्यस्य चतुरावरणैर्विना ८५
ॐकारश्च लवोशिश्च तेशुयश्च पुनश्चफम्
शश्चैव तथा यो भूय श्चैव तथापरम् ८६
सान्ते च सकसा भूयो वश्चजस्सविर्गकः
हन्ति च ततश्चाच गश्च यश्च तथान्तकम् ८७
द्वारर्प च न्तथैवस्यान्नदीर्घोश्च द्वितीयकः
पुकारश्च रकारश्च विकारप्रचविस्तरम् ८८
कौकावर्पयार्णश्च इळारः प्रणवस्मृतः
चर्मायन्ते पुनर्णे च रन्ध्यनज्ञहिकौ तथा ८९
दश्च पूश्च तथागश्च हेश्च भूयोन्त एव च
प्ररू प्रमा विसर्गेण मकारं पिङ्गशस्सुकः ९०
मोन्ते षष्ठस्य मार्गस्य कारुशाशवगाकरी
कहो चैव तताहाच यक्रमायश्चरा पुनः ९१
लकारस्पुश्च देकार परूनाक क नमेपथ
प्यमाकमराचैव भश्च पाच ततोन्ततः ९२
स साहूयश्च ताम्भश्च किळवेशश्च यस्ततः
मेद्या नादद्वितीयश्च कन्धि प्राश्च मम मीश्वधि ९३
श्वसौ शि यववाक्षुश्च विघाम्याश्च म एव च
रद्यवज्वत्त चासूर्य रमाश्चैव ततश्च हि ९४
प्रबप्रली भक्ष्मो सतखातञ्चतुर्दश
रावसानि ममावश्च द्विराता नो विरामतः ९५
यभन्नास्वाश्च माज्ञाच ज्ञकारा पुनयाश्चशि
योकारश्च वनोहा च घोया चष्टा चनुस्ततः ९६
घाचावन्ते पुनर्भाच हश्चमो च तथोक्षरः
मरुतस्तरुतः प्रश्च ययोस्तु शिकमास्ततः ९७
तथा तत्र वकारश्च भ —-यवो ततः
योद्गते एव प्रज्ञाश्च यदे भुदे पुनस्ततः ९८
गमोस्त्वात्मश्च वन्दश्च शबस्तम्भश्च वि चयात्
सन्न सञ्च तथा भ क वीय निहौस्तथा ९९
यश्च तश्च तथोकारः भर्वेण प्रणव एव च
मगौ बलौ तथा यश्च गमजुङ्कार एव च १००
अन्ते वासुगो लब्ध गुहुप्रभे स ऊष्मणः
सर्वात्म सञ्ज्ञहृदयं कक्षाणानि तु सप्तमी १०१
ॐकारादि हकारान्तमुद्धरेत्क्रमशः पुनः
अष्टाक्षरं शिवां तस्मात्सुशिवाक्यसमुद्धरेत् १०२
रिज्वनी परितस्तस्माछिशवामेकाकदशाक्षरम्
षष्ठोत्तरशतं दद्यादक्षराणान्तु पिङ्गळम् १०३
अघोरास्त्रं ततस्त्रिंशद्द्वादशाक्षर लक्षितम्
चतुर्विंशति गायत्री मुद्धरेत्क्रमशस्तथा १०४
नेत्रस्य अक्षरं तस्माद्विद्यानामालयं परम्
च –क्तं विज्ञेयं अक्षराणां शतद्वयम् १०५
हृदयादि विभागेन कथिदं सिद्धिमुक्तिदम्
एवं शिवाङ्गमित्युक्तं ब्रह्मलक्षणमुच्यते १०६
पदब्राह्मस्थनामानि पञ्चानां पञ्चविन्यसेत्
चतुर्थं च त्रीणि चात्र हकारान्तन्तु मध्यमम् १०७
आद्यन्ते कामिनीर्द्देशो विभज्यन्ते तु भामनि
अष्टषष्ट्यक्षरं शैवम् तकारात्परतस्ततः १०८
हार्दन्तु पञ्चमन्तर्वा त्रिंशदादिषु मूर्च्छितम्
ईकारमूर्च्छितं शैव द्वितीयन्तु ततः परम् १०९
पञ्चाक्षरं चतुर्थ्यन्तन्नाम्ना देवमतः परम्
एकोनविंशतं वाममैकारन्त मनोततः ११०
शर्वसर्वात्मना ब्रह्म पदमेकञ्चतुर्थकम्
ऐकारश्च रसद्भिन्नं वाकारद्वयकन्न्यसेत् १११
द्विरीभ्यास पदादेकमष्टमाश्चैवमक्षरम्
आदित्रीणि पदान्त्यन्ते प्रमूर्च्छिन्नामतः परम् ११२
पूर्वमेव द्विरभ्यासान्पदमन्याक्षरं विना
योगाधिप पदव्यादीन्पदान्तं परमन्ततः ११३
अन्नबिन्दुद्वयं क्षीणं न पदादष्टमं पदम्
जाक्षरात्सप्तमं शैव मामूर्छितमतोक्षरम् ११४
ततो मन्त्र समाप्त्यर्थं मुञ्च मुञ्च पदात्पदम्
पञ्चमं विन्यसेद्धीमान् बीजस्य षोडशन्यसेत् ११५
वामपादादूर्ध्वपद ———सूक्ष्मद्वितीयकम्
ऐकारेण ततो भिन्नं रुद्रा ण्यां प्रथमाक्षरम् ११६
अनन्तं पिङ्गळं तस्मात्समाप्तौ नवमाक्षरम्
गङ्गारी यत्कृतं यच्च न्यसेत्सूक्ष्मपदं यतः । पुनः । ११७
रुद्र नामचतुर्थ्यन्तं त्रिमूर्तिं त्रिभिरेव च
ताभ्यान्न पैङ्गळं दीर्घं कळकारादक्षरद्वयम् ११८
यन -ति पूर्ववत्ताभ्याम् यथा संस्थन्तु पैङ्गळम्
गायत्र्यामक्षरं षष्ठं पैङ्गळं पूर्वमक्षरम् ११९
द्वितीयं परमं तस्माद्विद्याङ्गं शिरसोक्षरम्
अपयुद्य षकारस्थं शैवं द्विगुणविन्यसेत् १२०
यनतीति ततस्तस्मात् वामदेव पदानुगे
संस्थाप्य विन्यसेद्वर्णं धकारं पिङ्गळात्मकम् १२१
लकाराद्यष्टमं भूय स्थाप्य तत्र द्वितीयकम्
ळकारद्वय सम्भिन्नं कुर्यान्मन्त्रात्मवित्तमः १२२
बन्धकाराक्षरे द्वेन्ये सुशिवात्मं पैञ्जलं न्यसेत्
आद्यन्ततस्ततस्ताभ्यां विद्याङ्गास्त्र्यक्षरद्वयम् १२३
पञ्चाक्षराच्छिवाच्चैव षष्टमञ्च ततोक्षरम्
सर्वात्मकं द्वितीयं च पदन्तत्परतो न्यसेत् १२४
ब्रह्माण्डादेस्तृतीयस्य पदमध्ये पदस्य तु
विन्यसेदितरन्तस्य पदार्थस्यादिमाक्षरम् १२५
तृतीयन्तु ततश्चैव सप्तविंशकमेव च
द्वितीयस्य पदस्यान्तं पदं सूक्ष्माक्षरानुगम् १२६
इदमेव पदं सूक्ष्मं अम्बीजं परिकीर्तितम्
गायत्र्यामक्षरं चैव द्वितीयं विन्यसेद्बुधः १२७
त्रिमूर्त्यन्त नतीस्तस्मान्नियमाक्षरद्वयम्
न्यसेन्मन्त्रसमाप्त्यर्थं पुनर्यदुपवर्णितम् १२८
विद्याङ्गास्त्र तृतीयन्तु ह्योकारात्परतोक्षरम्
विन्यस्य तु पुनस्तस्मादघोरादीनि विन्यसेत् १२९
अघोरास्त्रात्मकाद्वर्णात्सप्तमाष्टम घोरतः
योभ्योकारमतो भावं पुनरेवाक्षरद्वयम् १३०
पैङ्गळं सघोराक्षरं स्थाप्य तच्चक्रोपरिस्थितम्
विन्यसेदेकरुद्रा न्तं सर्पाकाराक्षरद्वयम् १३१
एकादशमघोरास्त्रं नकारं सविसर्गकम्
कर्मेन्द्रि य पदन्तस्मात्पुनर्मघोर्वश्च संयुतम् १३२
न्योकारश्च न तस्त्याज्ये धस्तेया शैवमेव च
रुद्रा कारो ततो रूश्च व्येश्च व्यश्च ततः परम् १३३
चतुर्थस्य तु गायत्र्या षष्टमाद्यक्षरद्वयम्
न्यसेदेवं चतुर्थ्यर्थं महादेवपदं पुनः १३४
पदन्त्रयोदशोत्तरं तस्माद्गायत्र्यर्णञ्चतुष्टयम्
अन्त्यञ्चान्त्यन्तयोर्मध्ये नारुद्रा स्तु शिवात्मकाः १३५
वामदेवोत्तरैर्हार्दैष्षष्ठां गायत्रिकाक्षरम्
सप्तमस्याद्यमेतानि ततो मध्यानि विन्यसेत् १३६
अष्टमन्नाक्षरं शैवं मनस्कर्म समन्वितम्
पदैशानादि भूयोपि विन्यसेत्परतो बुधः १३७
स्पर्शन्तं मात्रकस्यापि पदस्वोत्तरम्
सविसर्गे पुनर्नादे भूताक्षकाराक्षरद्वयम् १३८
शैववर्गा बिन्दुयुक्तं ब्रह्माचैवमतः परम्
यसोदाकार सम्भिन्नं एकारं वामदेवतम् १३९
धियत्पदे विपोतान्ने अष्टमं शाष्टमक्षरम्
ब्रह्मभूयस्ततोरेकम् पूर्ववत्कान्तरन्यसेत् १४०
अनन्तेशं चतुर्थ्यन्त वोहाद्यं शैवमष्टमम्
स्तुङ्कारस्तु चतश्शैव मन्वनन्तेशं च विन्यसेत् १४१
विन्यसेदेकरुद्रा न्तमामूर्छेदमनृक्षरम्
ततः पञ्चम षष्ठे तु सर्वान्ते तु शिवात्मकौ १४२
अनुष्टुप्छन्द समायुक्तम् त्रयो मन्त्राः प्रकीर्तिताः
यजुषा वामदेवस्तु गायत्रेण चतुष्टयम् १४३
इति योगजे क्रियापादे मन्त्रोद्धारपटलः
२
अथ वक्ष्ये विशेषेण शौचाचम विधिक्रमम्
प्रातरुत्थापयेन्मन्त्री शुद्धस्थानगते सति १
वल्मीके च शिवस्थाने जलाशये गुरुसन्निधौ
वृक्षसङ्घे च गोकाष्ठे पथि भस्मनि गोमये २
देवस्थानसमीपेतु नदीस्थाने विशेषतः
शिलायां पर्वतश्रेष्ठे कुर्यान्नावश्यकं बुधः ३
नगरग्रामपुरादीनां मध्ये चैव प्रयत्नतः
उत्तराभिमुखो भूत्वा तृणं प्रक्षिप्य भूतले ४
शिरोवस्त्रावकुण्ठी च उपवीतं च बाह्यतः
कुर्यादावश्यकं चैव मौनी भूतो शिवद्विजः ५
रात्रौ दक्षिणतः कृत्वा रविं दक्षिणतो पि वा
एवं कृत्वा ततो मन्त्री गच्छेत् प्रतिजलं बुधः ६
वामहस्तेन गृह्णीयात् प्रजनं चैव यत्नतः
मृत्पिण्डं दक्षिणे हस्ते गृह्णीयाच्च जलं बुधः ७
आमलीफलमात्रन्तु मृत्पिण्डं पञ्चधा गुदे
दशयाक्षाळयेद्वामम् मृत्पिण्डेन पुनः पुनः ८
दक्षिणे समृत्त्रीणि नखलिङ्गन्तु शोधयेत्
गन्धलेपक्षयकरं शौचं कुर्याच्छनैः शनैः ९
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्
त्रिगुणं वानप्रस्थानां यतीनान्तु चतुर्गुणम् १०
यावन्मात्रं मनश्शुद्धिस्तावच्छौचं समाचरेत्
अथ वक्ष्ये विशेषेण आचमनस्य विधिक्रमम् ११
प्राङ्मुखोदङ्मुखो भूत्वा शिखाबन्धन्तु कारयेत्
सव्य यज्ञोपवीती च पादप्रक्षाळनं शुचिः १२
नान्तर्जले न तिष्ठंश्च न हसन्नब्रुवंस्तथा
ब्राह्मणानां दक्षिणकरे पञ्चतीर्था भवन्ति हि १३
सपवित्र करेणैव सर्वकर्म समाचरेत्
स्थले तु दक्षिणं पादं वाम पादं जले स्थितम् १४
र्ब!ह्मविष्णुश्च रुद्र श्च मखवानिति शैवकम्
अङ्गुळीनाममेतद्धि पञ्चतीर्था भवन्ति हि १५
अङ्गुळ्यग्रे रुषातीर्थ अङ्गुळी मध्यदेविकम्
तर्जन्यङ्गुष्ठयोर्मध्ये पैतृकं तीर्थमुच्यते १६
अङ्गुष्ठाङ्गुळिरेखायां ब्रह्मतीर्थमुदाहृतम्
ब्राह्मणानां करे मध्ये अग्नितीर्थमुदाहृतम् १७
गोकर्णवत्करतले माषमग्नजलं ग्रहेत्
त्रिःपिबदृग्यजुस्सामाः प्रीणन्ति द्विः परिमृजेत् १८
अथर्वेतिहासाः प्रीणन्ति मुखमेकन्तु संस्पृशेत्
अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी समुस्पृशेत् १९
अङ्गुष्ठ तर्जनीभ्यान्तु नासिके संस्पृशेद्बुधः
तथाङ्गुष्ठकनिष्ठाभ्यां श्रोत्रे चैव तु संस्पृशेत् २०
बाहूनङ्गुष्ठमध्यात्तु नाभिमङ्गुष्ठेन स्पृशेत्
सर्वाङ्गुळीभिर्हृदयम् शिरोवै सर्वतोङ्गुलम् २१
एवं कृत्वा तु मन्त्रज्ञेः प्रत्यङ्गेष्वपि संस्पृशेत्
शिरः पादौ तथाभ्युक्ष्य ऋषीणां सप्ततृप्तये २२
मूर्ध्नि चक्षुस्पृशेनैव शर्वादित्ये तु काष्ठ च
नासां वै संस्पृशतः प्रीतिमाश्विन्य देवताः २३
बाहूनाभिश्च हृदयम् इन्द्र विष्ण्वग्निरेव च
मूर्ध्नि संस्पृशेनेनैव सर्वदेवप्रियं भवेत् २४
क्षुधे च कफजाते च पाद्यमाचमनं कुरु
अङ्गुष्ठेनान्यं संस्पृश्य पश्चादाचमनं भवेत् २५
एवमाचमनं प्रोक्तं मन्त्रस्स्नानविधिं श्रुणु २६
इति योगजे क्रियापादे शौचाचमनविधिपटलः तृतीयः