कैलासशिखरे रम्ये चामीकरनिकेतने
योगासनस्य चोर्ध्वस्थं वामेगौरि समायुतम् १
सदाशिव स्वरूपं यत्तं प्रभुञ्च श्रवणे विदुः
देव देव महादेव लोकनाथ जगद्गुरो २
अक्षरोत्पत्ति किन्नाथ आगमोत्पत्ति किं शिव
वक्तुमर्हसि देवेश यद्यनुग्रहभागहम् ३
ईश्वरः
शुवतत्वे परे सूक्ष्मे बिन्दोरुत्पत्तिरुच्यते
बिन्दोर्नादस्समुत्पन्नो नादाच्छक्तिस्तु जायते ४
शक्तेस्तु वाक्भवं जातं वाक्भवात्षोडशाक्षरम्
कलाभिर्व्यञ्जनं जातम् व्यञ्जनात्सर्वशास्त्रकम् ५
कामिकं योगजं चिन्त्यं कारणन्त्वजितन्तथा
दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् ६
विजयञ्चैव निश्वासं स्वायम्भुवमथानलम्
वीरं च रौरवञ्चैव मकुटं विमलन्तथा ७
चन्द्र ज्ञानञ्च बिम्बं च प्रोद्गीतं ललितन्तथा
सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च ८
किरणं वातुलन्त्वेतास्त्वष्टाविंशतिसङ्ख्यकाः
कामिकं योगजं चिन्त्यं कारणत्वजितन्तथा ९
दीप्तं सूक्ष्मं सहस्रं च ईशानमुख ज्ञापकाः
तानि विद्येश्वरैर्नाम्ना कामिकादीनि चाष्टकम् १०
प्रथमं सप्त कोटिस्तु तत्सारं त्रिंशलक्षणम्
तत्सारं त्रिंशलक्षन्तु तत्सारं षट्सहस्रकम् ११
अग्नौ विघ्नेश्वरपर गिरीशो ब्रह्म एव च
अंशुमाद्यादि पञ्चैते सद्यवक्त्रे तु ज्ञापकाः १२
अनल —तिञ्चैव नन्दीशो महतश्शिवः
सर्वात्म देवताश्चैव अनलादिषु पञ्चसु १३
आग्नेयादिषु पञ्चैते अघोरमुखेषु ज्ञापकाः
वीरभद्र मनन्ता च बृहस्पतिः प्रशान्तकः १४
शूलिनो विमलादिस्तु नाममुखेषु ज्ञापकाः
शिवाष्टौ सोमदेवश्च श्रीदेवी गरुडस्तथा १५
महाकाळ सुपञ्चैते तत्पुरुषमुखे ज्ञापकाः
परार्धं प्रथमं प्रोक्तं द्वितीयं लक्षमेव च १६
तृतीयं शतसाहस्रं यथाक्रममिति स्मृतम्
चतुर्थं कोटिसङ्ख्या च पञ्चमन्त्वयुतं स्मृतम् १७
षष्ठस्य नियुतं ज्ञेयं सप्तमं पद्मसङ्ख्यकम्
अष्टमं शङ्खसङ्ख्यञ्च नवमं पञ्चलक्षकम् १८
दशमं त्रिकोटि सङ्ख्या च एकादशन्तथैव च
द्वादशं कोटिसङ्ख्या च सार्धकोटित्रयोदश १९
अयुतं चतुर्दशं प्रोक्तं नियुक्तं पञ्चदशं स्मृतम्
षोडशं चायुतञ्चाष्ट शतसाहस्रमाकुटम् २०
त्रिलक्षं विमलं प्रोक्तं चन्द्र ज्ञानञ्च कोटिकम्
मुखबिम्बं सहस्रं तु प्रोद्गीतन्तु त्रिलक्षकम् २१
ललितं चाष्ट साहस्रं सिद्धं स्यात्सार्धकोटिकम्
सन्तानं षट्सहस्रन्तु शर्वोक्तन्तु त्रिलक्षकम् २२
पारमेश्वर तन्त्रन्तु लक्षं द्वादशमेव च
किरणं पञ्चकोटिस्याद्वातुलं शतसाहस्रकम् २३
तन्त्राणां कामिकादीनां ग्रन्थ सङ्ख्याः प्रकीर्तिताः
नारसिंहं च वक्तारं भैरवोत्तरमेव च २४
कामिकस्य त्रिभेदाश्च —स उच्यते
योगजस्य सुधासक्ता तारको वीणकाख्यकम् २५
शिवोक्तमात्मयोगञ्च योगजं पञ्चधा भवेत्
पापनाशं परोए!द्भूतं सुचिन्त्यममृतात्मकम् २६
सुभगं वामसञ्ज्ञं च चिन्त्यभेदमिति स्मृतम्
यथाक्रमेण चेमानि चिन्त्यभेदास्तु षड्विधाः २७
माहेन्द्रं कारणं दौर्गं पावनं भीमसंहिता
विद्वेषं मारणञ्चैव सप्तधा कारणस्य तु २८
पार्वतीशं परोद्भूतं प्रभूतं पद्मसंहिता
अजितस्य चतुर्भेदं मयाप्रोक्तमतः परम् २९
असङ्ख्यमब्जमाच्छाद्यम् आनन्दममितद्युतिम्
अद्भुतं माधवोद्भूतम् अक्षयन्दीप्तके नव ३०
सूक्ष्मं च एकतन्त्रन्तु तत्सारं षट्सहस्रकम्
अजितं दीप्तकञ्चैव जातिभोगं प्रमेयकम् ३१
विबुधं प्रबुधञ्चैव हस्तशुद्धमलङ्कृतम्
बोधं सहस्र तन्त्रं च तन्त्रभेदाश्च ते दश ३२
काश्यपं वासवं नीललोहितं भूततन्त्रकम्
विद्यापुराणमैन्द्र ञ्च आत्मालङ्कारमेव च ३३
वासिष्ठं गौतमं ब्राह्ममीशानोत्तरमेव च
करणञ्चांशुमाञ्चैव तस्य द्वादश भेदकम् ३४
अभेदं सुप्रभेदञ्च भवं सौम्यमथोद्भवम्
मृत्युनाशमघोरं च महाघोरमतः परम् ३५
वैरेश्वरञ्च विजयम् विजयस्याष्ट भेदकाः
निश्वासोत्तरतन्त्रञ्च ततो निश्वासमेव च ३६
निश्वासाख्यम्महातन्त्रं निश्वासाख्यं मुखोदयम्
निश्वासनयञ्चैव मन्त्रनिश्वासमेव च ३७
निश्वासकारिका चैव निश्वासघोरमेव च
निश्वासमष्टधा प्रोक्तम् प्रजापतिमतन्तथा ३८
पद्मं च द्विविधं विद्यात् स्वायम्भुवं विशेषतः
आग्नेयं व्योमतन्त्रन्तु आग्नेयस्य द्विधामतम् ३९
नाम्नस्तु
प्रस्तरं फुल्लममलम् प्रबोधं बोधबोधकौ
शकटम्मोहसमयम् अमोहं शाकटाविकम् ४०
विलेखनं बिलं भद्रं वीरं वीरे त्रयोदश
कालाख्यं कालदहनम् रौरवं रौरवोत्तरम् ४१
महाकालमतञ्चैन्द्र म् रौरवं षड्विधं स्मृतम्
मकुटोत्तरन्तु मकुटं मकुटस्य द्विधा स्मृतम् ४२
वृषगुह्यमथाक्रान्तम् वृषभं वृषभोदरम्
सुदन्तमतिभूतञ्च रौद्र भोगन्तथैव च ४३
आरेवतम् सुभद्र ञ्च अतिक्रान्तमलङ्कृतम्
अच्युतञ्चाष्टहासञ्च आनन्दम्मारकन्तथा ४४
भेदं विमलतन्त्रस्य षोडशैव प्रकीर्तिताः
एकपादपुराणञ्च स्थाण्वाख्यन्नन्दिकेश्वरम् ४५
शङ्करं विजयं प्रोक्तं श्रीमुखं शिवरुद्र कम्
कल्पभेदमिति ख्यातम् शिवशासनमेव च ४६
देव्यामताख्य तन्त्रञ्च शिवशेखरमेव च
वारुणञ्चैव वायव्य चन्द्र ज्ञानञ्चतुर्दश ४७
चतुर्वक्त्रञ्च संस्तोभम् प्रतिबिम्बन्तु योगजम्
अर्धालङ्कारमैशानं तटिनीरन्तु कोटिकम् ४८
कुट्टिमाख्यन्तुलायोगम् तुलाप्रत्ययमेव च
महाविलं महायौरं पट्टशेखरमेव च ४९
नैरृतं स्मृतिसङ्ख्या च मुखबिम्बस्य भेदकम्
दण्डधारं पाशबन्धं पिङ्गळामतमेव च ५०
वाराहं कवचं क्रौञ्चम् शिवज्ञानं धनुर्धरम्
कालज्ञानं च विज्ञानम् आयुर्वेदञ्च गीतकम् ५१
भरतञ्च धनुर्वेदम् आतोद्यं सर्वदंष्ट्रकम्
प्रोद्गीताख्यस्य तन्त्रस्य भेदाष्षोडशधा स्मृताः ५२
लळितोत्तरं च कौमारं लळिताख्यमतः परम्
लळितस्य त्रयो भेदा शामाख्यं शशिमण्डलम् ५३
सारोत्तरं मोसनकम् सिद्धञ्चैव चतुर्विधम्
अमरेशं सुराध्यक्षम् लिङ्गाध्यक्षम्मधाख्यकम् ५४
अनलं शाकरद्वन्द्वं सन्ताने सप्तभेदकाः
ईशानं शिवधर्मं च शिवधर्मोत्तरन्तथा ५५
दिव्य प्रोक्तं कुबेराख्यं शर्वोक्तस्येह पञ्चधा
हंसं पद्मं च मातङ्गं सामान्यं यक्षकन्तथा ५६
पुष्कलं सुप्रियायोगम् सप्तधा पारमेश्वरे
पद्माख्यं गारुडन्नीलं भानवी पञ्चरौक्षकम् ५७
प्रबुद्धं धेनुकञ्चैव कालाख्यं किरणे नव
वातुलोत्तरमन्त्रं च कालज्ञानं पुरोहितम् ५८
श्रेष्ठं सर्वात्मकं सर्वं शुद्धन्नित्यं महानलम्
विश्वं विश्वात्मकं तत्वं वातुळे द्वादश स्मृतम् ५९
एषां भेदोपभेदञ्च समासात्परिकीर्तिताः
सदाशिवमुखाब्जेषु भेदोपभेदकाश्श्रुताः ६०
अष्टादशभिस्सिद्धान्तं कथितं पारमेश्वरम्
ईशानस्य मुखोद्गीर्णे तन्त्रार्णवमिदं परम् ६१
तत्पुरुषस्य मुखे जातं सिद्धवेदान्तमुच्यते
ऋक्शाखा शतविंशत्तु यजुश्शाखा शतं भवेत् ६२
सामशाखा सहस्रं चाथर्वशाखा नवापि च
नवोपनिषदञ्चैव सर्वोपनिषदः स्मृताः ६३
योगशास्त्राणि द्वात्रिंशद्विरहेण श्रुतं स्मृतम्
पाशुपतं महातन्त्रं भेदाष्षोडश एव हि ६४
लाकुलं विमलं तन्त्रं केवलं वै विनर्णयम्
महापाशुपतन्तन्त्रम् केवलं शिवनिर्णयम् ६५
महापाशुपतन्तन्त्रम् शुद्धपाशुपतन्तथा
लक्षव्यूह समावेशं भारद्वारस्य निर्णयम् ६६
रुद्रो द्गीतं शिवधर्म विज्ञानं सुप्रबोधकम्
अशुद्धक्तं षोडशं तन्त्रं महापाशुपतं भवेत् ६७
चतुर्दशप्रमाणन्तु सोमसिद्धान्तमेव च
रुद्रा कुं!शं सुवर्णं च प्ररोहन्तु तथैव च ६८
हृदङ्कुशं प्रमाणं च हृदयनिर्णयन्तथा
पञ्चोद्गीतं पञ्चशतं शिवमात्ररुद्र मात्रकम् ६९
कपालं योगमुण्डं च सोमयागकरण्डकम्
गारुडं भूततन्त्रं च पञ्चार्थं च प्रपञ्चकम् ७०
अघोरस्य मुखे जातं दशकोटिप्रविस्तरम्
न्यायशास्त्रं चतुर्विंशच्चतुष्षष्टिर्लाकुळं भवेत् ७१
वामदेवमुखे जातम् प्रत्येकन्दशकोटिकम्
अष्टादश पुराणं च धर्मशास्त्रन्तथैव च ७२
मीमांसे न्यायशास्त्रं च षडङ्गानि तथैव च
वेदाश्चत्वार एवन्तु इतिहासं सहस्रकम् ७३
शिवधर्मोत्तरं शास्त्रं शिवधर्म पुराणकम्
-————पदाष्षोडश एव तु ७४
वैशेषिके च ते सर्वे पदार्थाष्षट् प्रकीर्तिताः
द्र व्यं गुणं च कर्मा च सामान्यं च विशेषकम् ७५
समवायं षडेते वै पदार्थास्सम्प्रकीर्तिताः
पाञ्चरात्रं महामार्गं पञ्चलक्षसमाहिताः ७६
सद्योजाताद्विनिष्क्रान्तं ब्रह्मरात्रादिपञ्चकम्
प्रथमं ब्रह्मरात्रं च द्वितीयं रुद्र रात्रकम् ७७
तृतीयमिन्द्र रात्रन्तु चतुर्थमृषिरात्रकम्
बार्हस्याभिधानन्तु पञ्चमं परिकीर्तितम् ७८
सामुद्रं भूतशास्त्रं च वैद्यशास्त्राणि चैव हि
सद्योजाताद्विनिष्क्रान्तं वैद्यशास्त्रन्त्रिलक्षणम् ७९
भूतशास्त्रं षट्सहस्रं सामुद्र मयुतत्रयम्
पञ्चलक्षं धनुर्वेदं धनुष्षोडशमुच्यते ८०
गजस्थञ्चैव चत्वारि हयस्थं चतुरेव हि
रथस्थञ्च चतुष्षष्टि आयोधनञ्चतुरो भवेत् ८१
पञ्चार्थन्तु प्रपञ्चतु प्रत्येकं लक्षमुच्यते
अष्टादश पुराणन्तु प्रत्येकं लक्षमुच्यते ८२
शैवं पुराणं प्रथमं द्वितीयं लिङ्गमुच्यते
तृतीयं स्कन्दपुराण स्कन्दोक्तं पावमानकम् ८३
विद्येश्वरपुराणन्तु चतुर्थं परिकल्पितम्
-———–पुराणं च पञ्चमं परिकीर्तितम् ८४
देव्या पुराणं षष्ठन्तु पुराणानां तु चोत्तरम्
सप्तमातृ पुराणन्तु सप्तमं परिपठ्यते ८५
अष्ठमेकादशं रुद्रं नवमं शतरुद्र कम्
दशमं कोटिरुद्र न्त्वेकादशं विष्णुपुराणकम् ८६
द्वादशं मत्स्यकं प्रोक्तं कूर्मञ्चैव त्रयोदशम्
चतुर्दशं वराहं च पञ्चादशञ्च सिंहकम् ८७
षोडशं मनुपुराणञ्च उपपुराण सप्तदशम्
कैलासाख्य पुराणन्तु अष्टादशमिति स्मृतम् ८८
मानवं प्रथमं धर्मं वासिष्ठन्तदनन्तरम्
आपस्तम्बं तृतीयन्तु गौतमन्तदनन्तरम् ८९
भारद्वाजं च निरसं देवतारं च रक्षकम्
सुमन्तुर्जैमिनी तन्त्रम् शङ्खस्थलीयतस्य च ९०
ज्ञेयवत्सं नारदीय बार्हस्पत्यमेव च
विश्वामित्रमगस्त्यं च धर्ममष्टादशं भवेत् ९१
प्रत्येकमयुतं चैव मयाप्रोक्तमृषीन्प्रति
सौम्यानि कामिकादीनि रौद्राः पाशुपतादिकाः ९२
रौद्रं सौम्येन यष्टव्यम् सौम्ये रुद्रं विवर्जयेत्
नवयामळतन्त्राणि प्रत्येकं लक्षमुच्यते ९३
लाकुळं यामळं चैव शुद्धशैवमिति स्मृतम्
मिश्रं सोममिति प्रोक्तम् आदिशैवार्हकं भवेत् ९४
रौद्रे ण स्थापकं वक्ष्ये सर्वयत्नेन दर्शनम्
विश्वामित्रो थ वाल्मीकिः काश्यपश्चाङ्गिरस्तथा ९५
गौतमो गालवो गार्गो वासिष्ठश्चोशनस्तथा
त्रिष्टुप्चैवानुष्टुप्छन्दो विकृतिरेव च ९६
जगती शक्वरी चैव उक्तमित्युक्तमेव च
एतच्च छन्द इत्युक्तं छान्दसानी विधीयते ९७
ब्रह्मविष्णुश्च रुद्र श्च ईश्वरश्च सदाशिवः
कालरुद्रो नीलरुद्रः प्रळयानिलसदाशिवः ९८
रुद्रै कादश नवशक्तिश्च देवतानां प्रकीर्तिताः
कामिकादीनि तन्त्राणि अष्टाविंशच्छतं भवेत् ९९
एकतन्त्रमिदं सर्वं सङ्करन्नविधीयते
पाशुपतादितन्त्राणां तन्त्रसङ्करमुच्यते १००
बौद्धादि षट्समयं चैव प्रत्येकं च स्वतन्त्रभाक्
तत्तत्तन्त्रस्य निष्ठा च तत्तत्कर्म समाचरेत् १०१
षट्समयमादिशैवानां पूजायामर्हा भवेत्
आदावेव तु शैवत्वादादिशैव इति स्मृतः १०२
स्थूलसमयं सूक्ष्मं च द्वेधासमयमुच्यते
बौद्धमार्हतं शैवं च न्यायं वैशेषिकन्तथा १०३
लोकायतञ्च सर्वे ते स्थूलं समयमिष्यते
बौद्धमार्हतशैवञ्च पाशुपतं च लाकुलम् १०४
पाञ्चरात्रञ्च इत्येते षडेते समयास्स्मृताः
कौशिकः काश्यपश्चैव भारद्वाजो त्रिरेव च १०५
पराशरश्च पञ्चैते पञ्चवक्त्रेषु दीक्षिताः
शिवेन दीक्षितश्चैव शिवब्राह्मण उच्यते १०६
शैवभेदास्समाख्यातो अष्टाविंशतिसङ्ख्यया
सङ्करोप्येषु भेदेषु न दोषाय प्रकल्पते १०७
एकस्यैव हि भेदो वा न भवेत्तत्र सङ्करः
शैवतन्त्रार्हका प्रोक्ता आदिशैवा इति स्मृताः १०८
शिवश्शिखा तथा ज्योति सावित्री व्योमसञ्ज्ञिकाः
एते तु गोचराः प्रोक्ताः कौशिकादि ऋषिस्तथा १०९
शिवस्सदाशिवश्चैव ईशानो ब्रह्मव्योमकाः
कुलेष्वेतेषु सञ्जाता आदिशैवा इति स्मृताः ११०
आदिशैव इति प्रोक्तस्सशिव ब्राह्मणो गुरुः
देशिकस्थापकश्चैव तस्य पर्याय वाचकाः १११
आदावेव तु शैवत्वात् आदिशैव इति स्मृतः
शिवेन दीक्षितश्चैव शिवब्राह्मण उच्यते ११२
सर्वेषां च गुरुत्वाच्च गुरुरित्यभिधीयते
देश आदिश्यते यत्र सदेशिक इति स्मृतः ११३
लिङ्गस्थापनयोञ्यत्वात् स्थापका इति कीर्तिताः
काणश्च मत्सरी धूर्तो दीर्घाङ्गो बधिरश्शठः ११४
शिपिविष्टो दुराचारो दुश्चर्मा कुनखः कृशः
खञ्जश्च श्यावदन्तश्च वामनः कृपणो जडः ११५
नास्तिको विकृती स्थूलः पिङ्गाङ्गो रोमशस्तथा
हीनाङ्गो ———गतः पापकर्मकृत् ११६
सरोगो विकटाङ्गश्च बालोवृद्धस्तथैव च
एतैस्तु लक्षणैर्युक्तो शिवस्थापनवर्जितः ११७
इति योगजे क्रियापादे तन्त्रावतारपटलः