विस्तारः (द्रष्टुं नोद्यम्)
The Vijayottara also called trisahasrasaṃhitā is an Upāgama of\nthe śaivasiddhānta. It deals with śaiva ritual.
विजयोत्तरतन्त्रम्
शिवार्चन पटलः
इष्टिर्विधीयते शम्भोस्सामान्ये तदरूपिणे ।
राजाद्रव्यपरित्यागे जीव * * दिश्यभावः ॥
सा च लिङ्गाग्रयाग्रेषु शिवेन परिभावितः ।
लिङ्गस्य गुरुमूर्तिञ्च वह्निर्वा मन्त्रसंस्कृतः ॥
शिवविद्याधिपासार्धं शिवेद्यर्थविवेकलम् ।
लिङ्गाग्निशिवविद्यासु तुल्यप्रीतिं निवस्थितिः ॥
स्थण्डिले(मण्डल)मण्डलं यद्वा समूर्तिरपरं च यत् ।
युक्ते स्थान तया सर्वं शम्भोमूर्तिरनिन्दिता ॥
मूर्ध्निक्तिस्तु द्विविद्या शम्भो साक्षिका च निराक्षिका ।
काम्यामन्यापरामूर्ति नित्याविज्ञानरूपिणी ॥
तया नित्यं शरीरीशः परैर्विज्ञातनुश्शिवः ।
लिङ्गाद्यन्यतमामूर्तिमेवं निश्चित्यसाधकः ॥
प्रत्यहं पूजयेद्देवं पञ्चशुद्धि पुरस्सरम् ।
आत्मस्थान गुणाधार द्रव्यमन्त्रविशुद्धयः ॥
शुद्धयः पञ्चमन्त्रोक्तविध्युच्यते क्रमेण तु ।
तन्त्रमन्त्रकृतस्नानं क्षालिकाङ्घ्रिकरः शुचिः ॥
कृतहस्ताङ्गविन्यासः सामान्यार्घ्येण पूजयेत् ।
गणेशं भारतीमूर्ध्वे लक्ष्मीं मध्ये प्रपूजयेत् ॥
प्। २)
द्वारस्य दक्षिणे भागे नन्दि गङ्गे प्रपूजयेत् ।
अन्यत्रकालयने गन्धैः पुष्पाक्षतैः शुभैः ॥
प्रविश्य सव्यपादेन विद्याङ्गास्त्रमथा यजेत् ।
वास्तु मध्ये तदीशस्यश्च ततः संश्रुत्यविष्टरम् ॥
हरहस्तञ्च सम्पाद्य तेनैव भवरूपिणा ।
संयोजयेच्छिवे शुद्धे मार्गं ध्यात्वा सिरश्शमम् ॥
हृत्पुटेन सान्तेन शिवातीते शिवात्मनि ।
प्रदीप्तकरणे विभुना यद्वा सूर्यमण्डले ॥
हृद्गुहा * हिनो बिम्बाच्च शक्तितेजात् सृजे सः ।
उद्यत्पतङ्गसङ्काशमात्मानं प्राणरूपिणम् ॥
आत्मानमेवसंयोज्य भूतशुद्धिं समाचरेत् ।
भूताद्यं त्रिनिवृत्ताद्य कलास्तत्वादि धारजः ॥
पञ्चोत्पत्तौ इतान्तं संहितेनैव शोधयेत् ॥
धरां शुद्ध्यां स्वतः प्राप्तमप्तत्वं क्षीरसन्निभम् ।
नाभि बी * तमब्जाभं स्मरेत् खण्डेन्दुसन्निभम् ॥
लान्तस्थं शिखयाशोध्यं प्राणायामचतुष्टयम् ।
एवं प्रतिष्ठां संशोध्य कर्णान्तपादतोनलम् ॥
त्रयश्रं स्वस्तिके विद्यात् रूपं विद्यान्तरोचिरम् ।
समृ * त्वोद्धाते स्त्रिभिः पश्चाद्भ्रूयुर्तमनिलं क्षिपेत् ॥
प्। ३)
षट्कोणं बिन्दु षट्कास्यां कृष्णं ह्ये * शोधयेत् ।
हुं फडन्ताः समायोज्या निवृत्ताद्या विशुद्धये ॥
व्योमतन्त्रं ततोगात्रं व्यापकं बिन्दु सञ्ज्ञकम् ।
शुद्धस्फटिकसङ्काशं वृत्तमस्त्रेण शोधयेत् ॥
अस्त्रं शिवास्त्रमेवोक्तं नान्यत्पाशुपतास्त्रकम् ।
एवं कलादि शुद्ध्यादि शोधिताशेषबन्धनम् ॥
मूर्त्यासञ्चिन्तयेन्मूर्तिं प्रणवात्मिकयात्मकाः ।
आनीय तस्य सात्मानममृतं चिन्तयेत् ततः ॥
मूलेन वौषडन्तेन तव मध्ये शिवासनम् ।
तत्र मूर्तिश्च सम्भाव्य ब्रह्माण्यङ्गुष्ठतो न्यसेत् ॥
रु(ई)शादीनि विभाप्रेस्य शक्यतं मन्त्रविग्रहम् ।
दत्वानेत्रं समावाह्य शिवमङ्गानि विन्यसेत् ॥
कनिष्ठान्तः शिवं भूयः परं करणाय च ।
विन्यस्य * वम्मणावेष्ट्य योजयेत् सर्वकर्मसु ॥
देह न्यासं ततः कुर्यात् समुद्राभि यथोच्यते ।
रु(ई)शं तत्पुरुषाघोरं गुह्यकाजातशम्बरात् ॥
आस्य हृद्गुह्यजान्युग्मतक्रूरुद्धवादिति मुखेषु च ।
ब्रह्मवक्त्राख्य यागंस्यादालालोभंश्च विन्यसेत् ॥
रु(ई)शानं परिमूर्ध्नाम्ना पुरुषेण मुखानि तु ।
दुत्कर्णांसद्वयं नाभिर्जठरं चावरो रसि ॥
प्। ४)
कुर्यादघोरमन्त्रेण वसुरूपेण मन्त्रवित् ।
गुह्यलिङ्गो गजस्सानु जङ्घासीत् द्वितयः कटिः ॥
पार्श्वे च कल्पयेन्मन्त्री वामदेवमनु स्मरन् ।
पादपाणीतलं घ्राणं शिरोबाहूरु जानुषु ॥
एवं विद्यातनुं स्मृत्वा शिवस्तद * पं न्यसेत् ।
शिवाङ्गानि न्यसेत् पश्चात् हृदादीनि हृदादिषु ॥
हृदये हृदयं मन्त्री शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखां न्यस्य कवचं सर्वगात्रकम् ॥
स्वहस्ततलयोरस्त्रम् अवस्थानं प्रकृत्यजेत् ।
अन्तर्यागं ततः कुर्यात् हृदये भाव भक्तिभिः ॥
आसनं मनसा कृत्वा शिवमूर्ति द्वयं ततः ।
आवाह्य च शिवं साङ्गम् अर्घ्यपाद्यादि कल्पयेत् ॥
पञ्चामृताभिषेकाद्यैर्दिव्यगन्धानुलेपनैः ।
दुकूलपट्टमेवाङ्गवासोभिर्विविधैरपि ॥
हेमरक्तमयैः पुष्पैः धूपदीपपवित्रकैः ।
नैवेद्यैर्विविधैर्देवं सावारं बाह्यवद्यजेत् ॥
नाऽस्तिनेगं तथा कृत्वा सिद्धं सन्दर्पयेद्दिवि ।
बिन्दोर्निरर्गलस्यन्ति परिशुद्धमृतैश्शिवैः ॥
निर्धूपं धूपदीपाहं बिन्दौ शैव स्मरे सह ।
एवं कृत्वान्तरिष्ठस्य स्थानशुद्धिं समाचरेत् ॥
प्। ५)
तलं त्रयास्त प्रकारं कवचावेष्टितैः क्रमात् ।
ततोऽर्घ्यपात्रमानीय प्रक्षाल्यास्त्रेण वारिणा ॥
पुष्पतण्डुलसिद्धार्थ यवदर्भयवस्तिलैः ।
अर्घ्यं संहितया कृत्वा सुरभ्याचामृतीकृतम् ॥
अमृतं तोयमाधार शक्तिस्तस्य च कुण्डली ।
तद्विकारस्थिलाद्यर्थामृताधारोधरादयः ॥
अर्घ्यं विशिष्यते तेन येन शम्भुः प्रसीदति ।
तेन द्रव्याणि सम्प्रोक्ष्य शरेण(म)मन्त्रयेद्धृदा ॥
तनास्नानं सममर्च्य मन्त्रशुद्धिं समाचरेत् ।
ओङ्कारादि नमः प्रोक्तान् मन्त्रानेकादशोच्चरन् ॥
वारावन्निष्ठुरपदं प्राप्तानु तनु लिङ्गकः ।
गायत्रिष्वापुरापूजां सामान्यार्घ्येण वाचयेत् ॥
सपीठलिङ्गमस्त्रेण क्षालयेन्निर्मलं यथा ।
आसनं कल्पयेत् तस्य विधिवत्तद्विधीयते ॥
शक्तिमादौ हृदा कुर्यात्समस्ताधाररूपिणीम् ।
तथा नन्दं हृदा * यम्य ज्ञानं वैराग्यसम्पदः ॥
अग्नितस्तद्विपर्यासेः प्राप्ते गात्राणि कल्पयेत् ।
माया विद्येमदिभ्रूते पद्मकर्णिकया सह ॥
वामादि शक्तिसूर्येन्दु वह्निबिम्बारिसाधिपम् ।
हृदासङ्कल्पयेद्देवं पञ्चासनमयं विभो ॥
प्। ६)
श्वेतरक्तञ्च पीतञ्च कृष्णं पादान्विचिन्तयेत् ।
नानावर्णानि गात्राणि * दग्नेन रक्तपाण्डरे ॥
पद्ममष्टदलं श्वेतं कर्णिकां पीतवर्णकम् ।
शक्तयः सूर्यसङ्काशमा नवमी स्फटिकोदयम् ॥
योगपीठे विभोर्येवं मूर्तिस्मिन्निवेशयेत् ।
हृन्मन्त्रं पुटिअं सद्य मूर्तिमबिन्द्वतगोचरम् ॥
चतुर्मूर्तिमयं रक्तं शान्त्यतीतकलान्वितम् ।
ब्रह्मभिः सकली कुर्यात् षट्सङ्ख्यैस्तण्डुलोचनैः ॥
एषा विद्यातनुः शम्भोः स्वशक्ति करणात्मिका ।
तत्र विद्या तनुं कृत्वा ब्रह्मरन्ध्रान्तगोचरम् ॥
शुद्धस्फटिकसङ्काशं पञ्चवक्त्रं त्रिलोचनम् ।
दशहस्तं जटाजूडैरारक्तैः पञ्चभिर्युतम् ॥
खड्गश्च शूलश्शक्ति प्रसादाभय सत्कराम् ।
सर्पाक्षमाला समरुत्पलसाडिमवाहिरम् ॥
सुश्वेतेशानवदनं कुङ्कुमाभपुराननम् ।
करालं याम्यपदमामुक्तोत्तर दिङ्मुखम् ॥
क्षीराब्धिपश्चिमोशास्यात् षोडशाब्दोपलक्षितः ।
ध्यात्वैवं परमां शम्भोस्तनां सकलरूपिणीम् ॥
तस्यमावाहये * * * * सर्पाध्वमूर्ध्वगम् ।
पूर्णा पुष्पाञ्जलिः कुम्भिनिवृत्तान्य मनोगिति ॥
प्। ७)
हृत्कण्ठतालुभ्रूरन्ध्र बिन्दुपर्यन्तगोचरम् ।
इनेन सहोद्गीर्य * * * * * सुसन्निभम् ॥
सद्यमन्त्रं समाविश्य विशन्तीं ब्रह्मवर्त्मनाम् ।
स्फुरद्रक्त * * नाद्यैः ललटे कूटसन्निधिम् ॥
अपाने समरे द्वि द्वारा वाहनमिदम् ।
सदीप्त किरण पूर्णा मार्गेण निर्गतम् ॥
पुष्पं जलगतं मूर्तौ हृदासङ्गस्स्थापयेच्छिवम् ।
सन्निधिं सन्निरोधञ्च हृदाद्यङ्गानि विन्यसेत् ॥
महामुद्रा प्रयोगञ्च मूलेन विधिवन्नयेत् ।
एवमावाहनाद्यैस्तु महामुद्रा विपश्चिमैः ॥
यागाधिकरणं कुर्यात् संस्कारैष्षड्भिरीश्वरम् ।
तत्र ब्रह्मादिसोपान त्यागेनाथ शिवात्मना ॥
अह्यतिरध्वामिस्य बिन्दावसुद * * सूतिः ।
आहत्य पुरे * * * * * शस्थापनं विभोः ॥
आहतस्योपविष्टस्य स्वदास्य विनयोदभिः ।
तत्तत्प्रतिगृहीतत्वं यत्तदीशस्यसन्निधिः ॥
अस्य सन्निधि तस्य निरोध इति व्याख्यातो प्रभावतः ।
हृदयादिभिरस्त्रान्तैमक्तित्थर प्रधृष्यति ॥
अवकुण्ड्यत मन्मोक्तं व्यापी * * * * * * ।
पशुत्वस्य शिवत्वस्य मोचनात्वाद्रावणादणोः ॥
प्। ८)
द्व्यक्षरार्थोपपन्नेषु मुद्रारुचिवर्धनी ।
अस्मादत्विक्रियायान्ते विश्वानुग्रहकारिणी ॥
त्वधीं * * * सप्त प्राप्तव्यमयमयाखिलम् ।
एभूषादपि विच्छिन्नं मधि दैव तथागतः ॥
अत प्रहृष्टवदनं सर्वावयवसुन्दरम् ।
स्मृत्वासपात्रमुत्क्षिप्य पाद्यमाचमनं तथा ॥
सम्मुखेन करेणाख्यं संविदद्युद्धुदा विभो ।
धूपयित्वा ततश्शम्भुं दूर्वापुष्पाक्षतैरपि ॥
गव्यपञ्चामृताद्यैस्तु स्नापयित्वा सविस्तरम् ।
तो * प्रसूनधूपार्घ्यप्रदानान्तरितं यथा ॥
पिष्टामलक रजन्याद्यैर्विरुक्ष्यैरां सपिण्डकम् ।
प्रक्षाल्य निर्मलैस्तोयैरन्ते गन्धोदकेन च ॥
चन्द्रचन्दनकाश्मीरपिष्टेनालिप्य धूर्जटिम् ।
सोमं दुकूलपट्टाद्यैर्वसनैः परिधाय च ॥
मुकुटाद्याभरणा प्रोक्ता विसृजैनाविधैरपि ।
दत्वा ब्रह्माङ्गसङ्घातं यथास्थानं विभोस्तनौ ॥
इष्टसुधूपमारात्र्या दत्वा चमनमर्घ्ययोः ।
उद्भूतौ तु हविर्दद्यात्समुद्गमब्रह्मभिर्विभोः ॥
ततस्ताम्बुलदानान्ते कन्यादिभ्यो बलिं क्षिपेत् ।
पश्चादावृतिसम्पूज्य ब्रह्माण्यङ्गान्यनुज्ञया ॥
तत्तत्स्थानात् समाहृत्य गन्धपुष्पादिभिर्यजेत् ।
मध्यं प्रागाद्यसाम्यान्तम्मग्नीशासु रचायुषु ॥
यजेद्विधिवदस्त्रं तु चातुर्दिक्षुदलाग्रतः ।
प्। ९)
ततो धूपं समुत्क्षिप्य प्रोक्षितं हृदयार्चितम् ।
आरात्रिकं च परितो दीपाश्चावृतकल्पिताः ॥
रक्षोघ्नं तिलकं दत्वा ललाटेषु च भस्मना ।
आदर्शं चामरं छत्रं यदन्यमपि मङ्गलम् ॥
हृदा निवेदयेत् पूर्वं शिवं वाद्यादि मङ्गलैः ।
आरात्रिकप्रदानान्ते रात्रौ नीराजन क्रिया ॥
कल्प्या तद्विधिश्चेह प्रसङ्गादुच्यतेऽधुना ।
महानसेऽथवाऽन्यत्र कृते गोमयमण्डले ॥
पात्राणि हेमरौप्यादि कृतानि क्षालितानि च ।
न्यस्या तत्र न्यसेत् वह्नि कुण्डान्तेरारतेश्वरा ॥
नोचेदावतितोद्ब्रह्मे करागुरुवर्तिषु ।
घृताक्तेषु ततस्तानि गवाद्व्यादि मङ्गलैः ॥
वाहयित्वाऽङ्गनाभिर्वा यदि वा परिचारकैः ।
शिवाग्रे मण्डलं कृत्वा सदयोरेषु मध्यतः ॥
नव * बापञ्च यद्वैकमुज्ज्वद्दीपसञ्चयात् ।
सम्प्रोक्ष्यहेतिनार्घ्येण हृदाधूपान्तमर्चयेत् ॥
सामान्यवृत्तिसम्भूतय * दीपास्समाहृताः ।
तदा नाभ्युदिनादग्नेस्संयोज्याहृत्यविन्यसेत् ॥
पुरकोद * * क्तिभ्यां नीत्वा सद्यादि पञ्चकम् ।
तता पूर्वोक्तसंस्कारान् कृतोपमभ्रमयेद्विभोः ॥
प्। १०)
त्रिधात्रिस्येकधा वापि लवणाद्यैश्च हृष्टवत् ।
ततो भस्मप्रदानान्ते दीपान्तात् प्रक्षिपेद्बहिः ॥
तत्रैव नित्यहोमं वा कुर्वीत समिदादिभिः ।
हेमरौप्यादि पात्रेषु यन्त्रिकासारपत्रिषु ॥
नैवेद्याभ्याय संसिद्धि नैवेद्यं विविधं ततः ।
सोपस्कारविशेषेण सावाराय त्रिशूलिने ॥
पानीयं च पृथक् दत्वा भस्तोद्बाहाय चन्दनम् ।
ताम्बूलं चन्द्रसंयुक्तं दत्वा चण्डायदापयेत् ॥
नन्द्यादि परिवाराणां बलिं च परितोऽथ वा ।
परिवारतया यत्र बहिर्बाह्याङ्गसंस्थितिः ॥
तदा बलि प्रदानान्ते नैवेद्यापनयादिकम् ।
दूर्वा पुष्पाक्षतं यज्ञ सूत्रञ्च परमेष्ठिनः ॥
सौवर्णं वासकार्पासं दत्वा मूलाणुनादतः ।
पूर्ववच्छिवमावाह्य धूपमारात्रिकं नयेत् ॥
जप्त्वा शक्त्या हृदा दद्यात् गुह्येप्यादिकया गिरा ।
गन्धाम्बु विधिना गुप्तम् अस्त्रेण कवचेन च ॥
गेय नृत्त स्तुति स्तोत्रैर्जयशब्दादि मङ्गलैः ।
प्रणामस्तवनाद्यैश्च तोषयेत् परमेश्वरम् ॥
ततो होमाय लब्धज्ञो यायादनलसंश्रयम् ।
हुत्वा च तत्र विधिवत् बाल्या चमनपश्चिमम् ॥
प्। ११)
कृत्वाङ्गकर विन्यासो होमकर्म समर्पयेत् ।
कारयित्वोत्सवं नित्यं ताण्डवं च विधानतः ॥
पराङ्मुखेन हस्तेन सदातादिव मूर्ध्निषु ।
दत्त्वार्घ्यमङ्गानुत्थाप्य हेतिमुद्रा प्रयोगतः ॥
यथा स्थानं ततो शम्भोः अङ्गजालमुपाहरेत् ।
विसर्जनस्यापेक्षश्च शिष्टलिङ्गेषु सन्ततम् ॥
भूयोप्यर्घ्य प्रदानेन शिवस्याप्युपसंहृतिः ।
गमिदं निरपेक्षं स्यात् स्थण्डिलादिषु सर्वदा ॥
निरपेक्षं शिवं त्यक्ते लिङ्गशुद्धिर्विधीयते ।
निर्माल्यमन्यथा लिङ्गे पुष्पादिकमवस्थितम् ॥
प्रतिमाया यजेद्देवं चतुःसन्ध्यामथाऽपि वा ।
पूर्वमध्याह्न तत्प्रातः सायं सायान्तकेषु वा ॥
पूर्वमध्याह्न सायाह्नेषु पूर्व मध्याह्नयोस्तु वा ।
नियतात्मा यजेद्देवं गतिहंस ततो तदा ॥
अष्टपुष्पिकाया सोव्यादि स्नपनान्तरम् ।
अशक्तो हीनवृत्तो वा सा च लेशान्निगद्यते ॥
शिवासनं ततो मूर्ति मूलमङ्गानि पञ्च च ।
दानमेभि प्रसूतानां स्याच्छिवायाष्टपुष्पिका ॥
अष्टपुष्पिकया पूर्व सस्वनं न समाप्यते ।
सायान्ते देवदेवेश देव्या सह समर्चयेत् ॥
पुष्कलैर्गन्धपुष्पाद्यैरपूपाद्युपदंशकैः ।
समन्तात्पुष्पमालाभिरलं कृत्यसुविस्तरम् ॥
प्। १२)
पूजावसाने स्वगुरुं गन्धपुष्पपवित्रकैः ।
सम्पूज्य श्रद्धया नित्यं स्वेष्टलिङ्गविधे वरम् ॥
स्वस्य धारणं लिङ्ग स्वेष्टमन्यत्परेष्वपि ।
स्वेष्टं स्वस्यैव फलदम् अन्यदन्यत्फलावहम् ॥
ब्राह्मण क्षत्रियोवैश्यश्शुद्रा वापि तदङ्गना ।
सौवर्णाद्यनु लोमाश्च स्वेष्टयागाधिकारिणः ॥
अन्येष्वपि च पूज्येष्टा प्रदक्षिण जवात्मिका ।
सामान्यलिङ्गे पूजां वा नान्ये जात्यन्तरोऽपि वा ॥
साधारणेषु लिङ्गेषु पराऽनुग्रह रूपिणी ।
पूजयेत्ततस्तत्र समयनाथकारवित् ॥
अभिषिक्तस्ततो न्येव साधको दीक्षितोऽथवा ।
स सारणार्चये योग्या शिवतत्वादि तत्पराः ॥
स्वेष्टलिङ्गा विधौ नष्टौ विधिनित्योत्सवात्मिका ।
चोदिता शिवपूजैषा सर्वमन्त्रसनातनी ॥
सर्वतन्त्र प्रवेशोऽस्य शेष्यते शङ्कराय तत् ।
गोपनीया प्रयत्नेन प्राग निर्यागनिर्मभिः ॥
अत ऊर्ध्वं समासेन वह्निकार्यं विधीयते ।
इति विजयोत्तरे त्रि सहस्त्रिसंहितायां शिवार्चनपटलः ॥
सर्पार्चितोयागविधिः
अथ सर्पार्चितो यागं कामायातो विधीयते ।
आग्नेय्यां कारयेत् कुण्डं वृत्तं वा चतुरश्रकम् ॥
हास्तिकं मेखला सूत्रं योन्या चोपर शोभितम् ।
हस्तमात्रायता कुण्डं द्वित्रिवेदाङ्गुलोदयाः ॥
मेखलास्तद्धनश्चान्तः कर्णमानाद्बहिः स्थितः ।
कुण्डिका तत्प्रमाणेन विस्तार सदृशं मतम् ॥
द्विहस्तादि मानान्ता त्र्येष्ट विभाजिते ।
तेषु भातोङ्गुको ज्ञेयं स्तेन तम्मेखलां नयेत् ॥
वसु मात्र ततिः कार्या दैर्घ्यतो द्वादशाङ्गुला ।
गजेषु सदृशे योनि कार्य वा कुण्डसन्निधिः ॥
कर्णपादववृत्तार्ध पुरः पञ्चाशयोगता ।
योनि कुण्डं भवेदेव द्योन्य हन्यद्योगिकम् ॥
वसु भागं द्रुमादर्घं शभु क्रोध शशाङ्गकैः ।
त्रिभाग वृद्धितोमत्स्यै स्त्रिभिर्नैशाचरं भवेत् ॥
दशांश वृद्धितो वृत्तं मग्रमादखिलकामदम् ।
षड्भासवृद्धितो मत्स्येषस शृच्चागनैनिलैः ॥
पद्माभमेखलं पद्मं मर्दनं दण्डन स्थितम् ।
गायत्रियाङ्गयिकदार कर्णात् द्युमानतः ॥
आ कर्णां लोचने यष्टा पट्टनि * दि काङ्क्षिणाम् ।
स्थण्डिलं तदभावे तु यद्वा गोमयमण्डलम् ॥
सम्पाद्या लोक्यदूलेन हेतिना प्रोक्ष्यवर्मणा ।
अभ्युक्ष्यास्त्रेण सन्तास्या खननोद्धारपूरया ॥
समीकरणसेकौ च तथा कुट्टन पार्जरे ।
लेपदं कुण्डनिर्माणा परिधानार्चने तथा ॥
प्राङ्मुखाभिस्त्रिरेखाभि रुदग्रेशाविनिर्मिता ।
वज्रीकरण भृङ्गादौ कर्तव्यौ मननासिना ॥
ततो विष्ठुतमध्यस्थं कृत्वा दिपेन विष्टरम् ॥
तं मध्ये पूजया मन्त्री हृदा वागीश्वरा विभो ।
स्मृत्यादीशंशु तद्योगजवी मध्यवमि वा नलम् ॥
गर्भन्या स्यां क्षिपेत् तस्याः परित्यक्ष्य सुरांशकम् ।
समेत्य वह्नि त्रितय मन्य स वा तत्रानु लक्षणम् ॥
मन्त्रसंहिताया लभ्य धेनु मुद्रामृती कृतम् ।
रपूर्जितं कृतं कृत्वा यमकुण्डोपरित्रिधा ॥
ततोऽपि शीणु मनलं * * सद्रव्यं क्षिपेत् ।
गर्भाधानाय सद्येन सम्पूज्य जुहुया धृतः ॥
पुं * त्वा वामेन पूज्यशिरसा जुहुयाद्धृदा ।
इष्वावोषेण शिखया हुनेत्सुमन्त कर्मनि ॥
तयै च लक्तरण्यङ्गानि दर्भे नाग्नेः प्रकल्पयेत् ।
प्। १५)
निकृत्युद्घाटने दत्वा ततोऽग्नेर्जनन क्रिया ॥
ततोग्निं दीपयेद्विद्वान् स्वसेन शिवं स्मरन् ।
नरे नेष्वातनुत्रेण तिस्रो दद्यात् तिलोहुतिः ॥
ततस्सूतक नाशाय कुण्डमर्घ्येण सेचयेत् ।
आस्तीर्य परितो दर्भान् नासीनालालभानयेत् ॥
सकृत् कृत्वा हुनेत् पञ्च समिधः पञ्च एव च ।
विन्यसेद्विष्टरस्तेषु ब्रह्मरुद्राच्युतेश्वरान् ॥
मेखलासु च लोकेशान् रक्षार्थङ्कारि योजयेत् ।
रु(ई)शानानामकर्मार्थमिष्ट्वास्त्रेणाहुतीर्दिशेत् ॥
नाम कुर्यात् ततो वह्नेः शिवाग्निस्त्वमिति ब्रुवन् ।
ततः स्रुक् स्रुवयोः शुद्धिर्विधेया याग कर्मणि ॥
स्रुक् स्रुवौ वैकङ्कती कार्या यद्वा यज्ञ तरुद्भवः ।
सा च स बाहुमानाय सर्पाङ्गुलकृतानना ॥
एक कर्णापि सद्वेति द्विमात्रा स च चतुष्किका ।
द्विसप्त दण्ड्यकूले तु चतुष्कलशशोभिना ॥
द्विमात्रा वा षट् वृत्त घृतपुष्कर शोभितान् ।
पृष्टतोष्ठ दलोपेतकराचाकारमण्डलान् ॥
कनिष्ठिका प्रमाणानि भागक्ताज्य निर्गमाः ।
स्रुवेगमचलोप्यण्यु स्वाधम षट्त्रिंशदंशकम् ॥
आनेपोपि दैर्घ्यतो मात्रै तैरेवत्रस्त्र्यष्ट सम्मिधैः ।
प्। १६)
अङ्गुष्ठमानकर्मास्य सक्र्मषाधारपुष्करः ।
द्विपुटं पुरतोऽन्यत्र गजमस्तकसन्निभम् ॥
मूलं च कर्षया धारैः कर्तव्यो नाहतस्समौ ।
आकण्डरं कृशः कार्यो गोष्पालमिव कूलताः ॥
कर्तव्यौ स्रुक् स्रुवापीथं सदा विश्वफलार्थिभिः ।
सर्व तन्त्रेषु सामान्यं विमानं चाहमश्वरः ॥
स्रुक् क्रिया रूपिणी शक्तिस्स्रुवः साक्षान्महेश्वरः ।
तास्याभिदक्रियते होमौ ततस्तौ शुभलक्षणौ ॥
कृत्वैवं स्रुक् स्रुवावद्भिः प्रक्षाल्येदं हनोपरि ।
भ्रामयित्वाथमग्रेण मध्यं मध्येन बर्हिषा ॥
दूलर्मूलेन स्पृष्ट्वा सर्वे सर्वात्मनात्मनः ।
न्यस्तो परित्रिखण्डञ्च शिवशक्ति तयोर्यजेत् ॥
ततो गव्यं सुपात्रस्थं परिशुद्धञ्च वाससा ।
आनीयाग्नौ प्रताप्योर्धे नाभेत्सम्प्लवौ नयेत् ॥
दर्घाग्रद्वितयं मध्य ग्रन्थितं सत्पवित्रकम् ।
अनामाङ्गुष्ठयोगा एन्त्रया अनलस्सम्मुखम् ॥
तं मन्त्रेण त्रिधा तद्वत् हृदयेनात्मसम्मुखम् ।
तं मन्त्रेण त्रिधा तद्वत् हृदयेनात्मसम्मुखम् ॥
प्रादेशमात्रदर्भाग्रमाज्यमध्ये ततो न्यसेत् ।
नीराज्योदीत्य बर्हिर्भिः वक्ष्यर्थं व स्मरेत् ॥
प्। १७)
मध्यतोऽग्नि स मध्या तु सोमद्यात् पदद्वयम् ।
अग्निस्विष्ट कृतञ्चैव हुनेत् पक्षे सिते गुरुः ॥
सितेतरेन्यधा किन्तु सोमं हुत्वा रविं हरेत् ।
एवं कृते भवेद्वह्नि शिखाय शिव कर्मसु ॥
ना शिवे शिवकर्माणि कर्तव्यानि कदाचन ।
ततो हेतोः शिवः कार्या प्रयुक्तेन हुताशनः ॥
प्रवृत्तिरस्य बाटित्वा संस्कारानितरा नपि ।
गर्भाधानादि संस्काराः पञ्चभित्वा शिवागमः ॥
त्रयाग्नेन न्यथा सिद्धा संस्काराः कृते पुनः ।
अभिचारादि कृत्येषु विज्ञाने नैव सिद्धये ॥
अन्यथा सिद्धिसंस्कारे पर्णमन्त्रांश वात्माने ।
हुनेद्यसिद्धये दूदौ नाशयत्य विचरेणतम् ॥
शैवा नामेव * * * होमः प्रोक्तः शिवानले ।
अन्येषां प्रागतस्तत्र शिवाग्नि * च्छिवात्मशः ॥
मन्त्रं वै वैदिकायां च क्रियाभेदादि चोदिताः ।
शिवेऽनले नियुक्तश्चेत् स होतु वितिपात्रकृत् ॥
अस्मिन्नवसरे वाच्यं हव्यकव्यादि लोतले ।
आवास्रित शिवे होम इति शास्त्रार्थ निर्णयः ॥
अरणे सम्भवे योऽग्निना गर्भादि संस्क्रियाम् ।
गायत्री वारणी यस्मात् सन्ति तस्याः प्रजायते ॥
प्। १८)
अमन्त्रो योग भवेदग्निः शृकान्तादि सम्भवः ।
कर्तव्यस्तस्यसंस्कारः पँचगर्भानध्ः क्रमात् ॥
एवं शिवानले सिद्धे विन्यसेत् प्राश्यनानलम् ।
तस्मिन्मूर्तिद्वयं नीत्वा व्यक्ताव्यक्त स्वरूपकम् ॥
तत्र भूयः शिवं प्राग्वत् अन्यद्वा वरणान्वितम् ।
समित्सर्पस्तिलैर्ब्रीहिर्यवस्योदिनादिभिः ॥
समस्ते रथवार्यस्ते होमकार्यो निजेच्छया ।
आज्या भावात् तिलैर्होमः कर्तव्यः कृष्णपर्जसा ॥
शिवदिदांशके होम स्वङ्गानां ब्रह्मणामपि ।
एवं हुत्वा स्वमन्त्रोभिश्चदूताम्बुलपञ्चिमम् ॥
मन्त्रयित्वा ततो भस्म शिवं प्राग्वत् विसर्जयेत् ।
वह्निं संरक्षयेन्नित्यं चतुर्व्याहृतिहोमतः ॥
यद्वा विसर्जयेद्वह्निं पुनः संस्कृत्य योजयेत् ।
प्रत्यहं कुण्डसंस्कारो भस्मापनयपूर्वतः ॥
ततो मण्डलकं कृत्वा गन्धपुष्पादिभिः क्रमात् ।
रुद्रादीन् परितोऽभ्यर्च्य बलिनस्तोषयेत् तथा ॥
प्राच्यां रुद्राः स्थिता याम्ये मातरः पश्चिमे गणः ।
यक्षसौम्ये ग्रहास्सर्वे सप्तार्चिषु सुर स्थितः ॥
पालाश्यानीन्द्रतौ वायौ नागनक्षत्रराशयः ।
तथा विश्व * * चाता क्षेत्रपो वायु दक्षिणे ॥
प्। १९)
यथा स्थानं स्थितो तेजः सन्तर्प्य बलिभिः शुचिः ।
उपसंहृत्यतान्यायात् सार्ध्यपात्रः शिवान्तिकम् ॥
समर्पिता क्रिया पुनरष्टा सकृच्छिवम् ।
विसर्जये तत्रकदेवं तत् प्रकारः पुरोदितः ॥
विसर्जयित्वा देवमग्नि मध्ये स्थितं पुरा ।
चरमं लिङ्गमध्यस्था * * निमित्तकेव्य च ॥
रात्रौ प्रजागिरं हुत्वा शिवार्चा परिकल्प्यते ।
निशाची भवनं पूजा गिरं हुत्वाशिवार्चापरिकल्प्यते ॥
निशाची भवनं पूजामित्याह भगवाञ्छिवः ।
अग्निकार्यं समाप्तेऽस्मिन् कार्यो नित्योत्सवो विधिः ॥
सकलाराधन क्रमम् ॥
अथ वक्ष्ये विशेषेण सकलाराधन क्रमम् ।
स्वतः प्रधान मङ्गञ्च द्विधा तत्परिकीर्तितम् ॥
घरिवारियुतानाञ्च द्वितीयं तद्विवर्जितम् ।
पुनस्तद्द्विविधं ज्ञेयं मलयाचल भेदतः ॥
चल लोहमयं प्रोक्तं शैलजं रत्नजं तु वा ।
पटादि लिखितं बेरं मृण्मयं काष्ठजं तु वा ॥
एत देव स्थिता कार्यं पट चित्रविवर्जितम् ।
चित्रहीनं चलं शैलं चित्रतं चेत् स्थिरं भवेत् ॥
चित्रितां चार्घ चित्रञ्च तथाऽऽभासमिति त्रिधा ॥
प्। २०)
चित्रं सर्वाङ्ग दृष्टं स्यात् दर्भमर्भाभुगदर्शनम् ।
निम्नोन्नतत्पहीने यत् पटभीमादि कल्पितम् ॥
चित्रभासमिति प्रोक्तं दैविकं मातृषु तथा ।
कर्मार्च सहितं पूज्य चित्रयुक्तं यदाखिलम् ॥
मणिलिङ्गं तु वा पीठं रूपददर्पणं तु वा ।
कर्मार्चस्वानुके योज्यं केवल स्थण्डिलं तु वा ॥
मूले बेरो च्छ्रयोत्थाय द्विभज्याथनवां स्मृतम् ।
उत्तमादि प्रभेदेन नवधा समुदीरितम् ॥
त्रिमात्रादपि पात्रं वा पञ्चापञ्चाङ्गलान्तकम् ।
पदाद्युष्णीषपर्यन्तं मानं द्वादशधा मतम् ॥
द्वारार्थं नवधा कृत्वा भागभान्योत्तनादिकम् ।
नवधामानकददिष्टुं धामपदार्थमेव वा ॥
आयादि षट्शुभोपेतम् अंशैरङ्गुलिभिस्त्वया ।
मूलबेराकृतिं श्रेष्ठं कृत्वा बालेन्दुशेखरम् ॥
सोमास्कन्देश्वरं वाथ यजमानेन लब्ध वा ।
स्वतन्त्रेशुद्ध नृत्ताङ्गं नैवेद्यान्तं तथैवरे ॥
स्नानादि नित्यानिर्वृत्य प्रविशेद्बाह्यमण्टपम् ।
विशुद्धभूतले तत्र सुखासीनो पदं मुखम् ॥
भूतशुद्धिं पुनः कृत्वा दिव्यदेहं विचिन्त्य च ।
आप्लाव्यामृत धाराभिरन्तर्यागं विधाय च ॥
प्। २१)
स्नानशुद्धिं ततः कुर्यादस्त्र प्राकार कल्पयेत् ।
कवचेनावकुण्ठ्याथ वेदिकाकल्पनादपि ॥
द्रव्याणि शोधयेत्पश्चात् पूजार्थं कल्पितानि तु ।
सामान्यार्घ्य जले प्रोक्ष्य स्पृशेत् सर्वार्थमन्त्रितः ।
ततस्तु शोधयेन्मन्त्री ओङ्कारादि नमोन्तकात् ।
सकृता नादान्ता शुद्धं तत्वं समाश्रयात् ॥
गन्धपुष्पाक्षतोपेतं सामान्यार्घ्यं तु हे निरे ।
कल्पयित्वा तु पाद्यादीन् क्रमशः परिकल्पयेत् ॥
हेमरूप्यादिके पात्रे शङ्खं वा यत्रिकास्पतेः
क्षालिते हेतिना तोयैः पूरितो त्रितये पुनः ॥
चन्दनो रुधिरसंयुक्तं पुष्पोदकमथाऽपि वा ।
पाद्यं सङ्कल्प्य पादाभ्यां सद्योजातेन पावकम् ॥
लवङ्गकुटिकर्पूरं पुष्पजातिफलान्वितम् ।
मुखेष्वा चमनं धीमान् कल्पयेन्मुखमन्त्रितः ॥
क्षीरतण्डुलसिद्धार्थं कुशाग्रं समनःशिलम् ।
यबेरबहितं चार्घ्यं केवलं गन्धपुष्प युक् ॥
कल्पितं संहिता मन्त्रैः कवचेनावकुण्ठितम् ।
क्षीरं क्षीरसुनाकारं मुद्रया सम्प्ररोचयेत् ॥
अथ वा वर्धनी पात्रे सङ्कल्प्य चण्दमुद्बुधः ।
अर्घ्यपात्रोदकेनैव प्रोक्षयेद्द्वारकं बुधः ॥
प्। २२)
सदा घण्टारवैस्सार्धं द्वारपालान् समर्चयेत् ।
द्वारदक्षिणशाखायां तिगर्भां च वामके ॥
कालीकलीगकन्यां च ग * मूर्ध्वे सरस्वतीम् ।
नन्दिश्यामनिभास्त्र्यक्ष चतुर्दण्डमण्डितः ॥
अभयं सुचिमुद्राञ्च वामदक्षकरद्वये ।
वरावृताङ्गुलिं वामे तदान्तोमरमेव वा ॥
काली कुङ्कुम वर्णाभो नेत्रहस्तं च नन्दिपत् ।
महद्विर्ग पयदींश युतं तु क्षुकर द्वयम् ॥
भस्मचाभयसंयुक्तं वामपाणितले द्वयम् ।
जटाकूटसंयुक्तमाव्याल यज्ञोपवीतिनौ ॥
दंष्ट्राकरालवदने नन्दीकालो विचिन्तयेत् ।
यद्वा द्विभुजयुक्तं चेत् अन्यैः पूर्वोक्तवत्सुधीः ॥
रक्तवर्णं चतुर्बाहुं गजवक्त्रं स्वदन्तकम् ।
सलस्सलकुठाराक्षा मालाभसित त्रिलोचनाम् ॥
वागीशं श्वेतवर्णाभं चतुर्हस्तत्रिलोचनम् ।
सदृशपुस्तकं चाक्षमालामथकमण्डलम् ॥
धारयन्ति प्रसन्नास्या जटामकुटमण्डिताः ।
गन्धादिनार्चयेद्द्वार पालान्वेतान्वनामभिः ॥
दिव्यन्तरिक्षभूमिष्ठान् पुष्टिपुष्टाङ्घ्रि निग्रहैः ।
अस्त्रेणोच्चाटयेद्विघ्नान् वामशाखापसारितम् ॥
प्। २३)
प्रविश्य गर्भगेहं तु विन्यस्यास्त्र दुर्बरैः ।
तद्विघ्नोच्चटमार्थं तु महाप्यर्णां प्रतासयेत् ॥
पार्परो परिमृष्ट नास्तिक प्रतिलोमकैः ।
अदर्शनार्थं तत्काले क्षिपेद्यवनिकाकाम्बुधः ॥
वास्तोष्पतिञ्च सम्पूज्य देवदेवश्य पारथम् ।
प्रणम्य दण्डवद्भूमौ पूजां विज्ञाप्य देशिकः ॥
पूर्वसन्ध्यार्चितां पूजां गायत्र्याभ्यर्च्ययो मरुत् ।
ब्रह्मभिर्माल्यमादाय चण्डेशाय निवेदयेत् ॥
आद्यं चेद्धोरमन्त्रेण शोधयेद्दासकादिभिः ।
शुद्धं कृत्वा तु तद्देवं जलेनार्घ्याम्बुना सह ॥
न शुन्यमस्तकं देवं कुर्यामन्त्रि कदाचन ।
आधाररूपिणीं शक्तिं गोक्षीरधवलप्रभाम् ॥
चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशवराभयम् ।
वेदपद्मासनासीनां ततो नन्दं प्रपूजयेत् ॥
दशबाहुं चतुर्वक्त्रं कुन्देन्दु सदृश प्रभम् ।
खड्गखेटधनुर्बाण कमण्डलसूत्रिणाम् ॥
वराभय करोपेतं शूलपङ्कज पाणिनम् ।
आसनाम्बूरुहात्मानं शक्तिबुद्धाब्धिसम्भवम् ॥
धर्मज्ञानञ्च वैराग्यमैर्श्वर्यं चरणा नमून् ।
सिता काश्मीरताम्बूल चारुं सिंहाकृतिं स्मरेत् ॥
प्। २४)
अग्निरक्षो मरुत्सर्पाकष्ठासु च विपर्ययात् ।
पूर्वादि चित्र वर्णाञ्ञ्च गात्रकान् परिकल्पयेत् ॥
अत ऊर्ध्वं चिते तत्र रक्तपाण्डर सन्निभैः ।
नैर्-ऋतेशानयोर्न्यस्य नालङ्ग्रथ्यन्तकं स्मरेत् ॥
तदूर्ध्वेष्ट दलं पद्मं कर्णिका केसरान्वितम् ।
केसरेषु च वामाद्या सूर्यकोटिसमप्रभम् ॥
चतुर्भुजास्तथैकस्य पद्मावराऽभयान्विता ।
पूर्वपादे चाभिमुखः कर्णिकायां मनोन्मनीम् ॥
ज्योत्स्न भावे मण्डलीनीकं स्वस्वरूपेण चिन्तयेत् ।
मण्डलाधिपतिं देवान् ब्रह्मविष्णुहरात्मकान् ॥
अथोर्ध्व व्यापिनीं शक्तिं पूजयेत्कुटिलात्मिकाम् ।
व्याधि शुद्ध विद्यान्तं व्याप्तं शिवासनम् ॥
स्नानात्पूर्वं यजेद्गन्ध पूष्पधूपैर्विचक्षणः ।
मण्डलत्रयसञ्जातां व्यक्ताव्यक्तस्वरूपिणीम् ॥
मूर्तिमीश्वरत्वाङ्गी मूर्तिमन्त्रे प्रपूजयेत् ।
तत्तद्वेरानुसारेण विद्वान् देहं विभावयेत् ॥
ब्रह्मणि ब्रह्मभूतं या तन्यासाङ्गं स्वस्वदेशिके ।
मूर्तयो बहुधा शम्भोस्तत्तत्कर्मानुसारतः ॥
दृश्यन्ते निष्कलस्यापि साधकानुग्रहे प्रिया ।
निरोधनं पुरुषेणैव कवचेनावकुण्ठनम् ॥
प्। २५)
अमृतीकरणं पश्चात् मूलमन्त्रेण देशिकः ।
इत्येवं पजक्ति संस्कारसंस्मृतं परमेश्वरम् ॥
उपचारैर्यथा भाव उपदिष्टेत् समाहितः ।
सोमास्कन्देश्वरंश्चेत्तु तयोरावाहनादिकम् ॥
विदध्यात् स्वस्वमन्त्रेण स्वस्वव्यक्तगुरुत्तमाः ।
ताम्बूलं मुखवासं च भक्तितो हृदयाणुना ॥
रणपूजात्म तं मध्येषु प्रयत्नतः * * * ।
स्कन्दोमा सहितं देवं * द्येभ्यर्च्य समन्ततः ॥
ईशपीटकवं रुद्रम् ऊर्ध्वन्नेद्रे कुङ्कुमवन्नरः ।
दक्षिणे जनवद्घोरं सौम्येव कुसुमं भवेत् ॥
चन्द्रांशु निर्मलं सद्यं पश्चिमे तु विचिन्तयेत् ।
एक वक्त्रा त्रिणेत्राश्च जटामकुटसंयुतम् ॥
हृदयाद्धृदयं श्वेतम् आग्नेय्यां तु हृदा ततः ।
शिरसं शिरसैशान्यां शिरसा कनक प्रभम् ॥
नैर्-ऋतेयां शिवाङ्गं च * * * शिखरारुणम् ।
सर्वाङ्गं कवचं कृष्णं वायव्यां कवचेन तु ॥
नेत्रं कपिलवर्णं तु शिवस्थानेन पूजयेत् ।
पूर्वाद्यादि चतुर्दिक्षु हत्रिकालाग्नि सन्निभम् ॥
एवमावरणं यष्ट्वा पुनर्देशं प्रपूजयेत् ।
देवी स्कन्दादि युक्तानां चेराणाममदङ्गं च सर्वेषानावृतपूजनम् ।
प्। २६)
स्नानं प्रोक्षणं वाऽपि कुर्यान्नित्यार्चना विधौ ।
नैमित्तिके प्रभोः कुर्यात् स्नपनं मण्डपादिषु ॥
परिवेष्टक्रमं कृत्वा गेयनृत्तादिसंयुतम् ।
विशुद्धतैलं भस्मार्ध हस्तथा दुर्वाङ्कुराक्षतम् ॥
पिष्टलक्षणं सारं र * * * मलकादिवत् ।
वर्णोनं च वच्छूद्राद्यु पिष्वादि परिकल्पयेत् ॥
सुगन्ध वस्त्रपुष्पाद्यमन्यद्वाङ्गला हिम ।
विप्राद्यैर्वाहयित्वाभि शङ्खतूर्यायवादिभिः ॥
स्नपनाद्योग्यदेशे तु देवदेवादिमं बुधः ।
सम्प्रोक्ष्य कैतकन्नम्रती कृत्यमुद्रया नत्वा पर्यापकम् ॥
पश्चात् ताम्बूल मुखवास युक् ।
शैलं संस्थाप्य देवाग्रे सम्प्रोक्ष्याभ्यर्च्य हेतिना ॥
तैलाद्यं वस्त्रभिः पुष्पैः बिन्दु देवस्य मूर्धनि ।
दत्वाऽथ पादयोर्बाहौ मूर्ध्निदूर्वाङ्कुराक्षतैः ॥
पश्चात् पिष्टावनोपर्ण द्व्यन्यलं सारं * दोदकैः ।
उद्धृत्य देवं मूर्धानम् अभिषिच्योदकैः शुभैः ॥
रजन्या लेपयेत्पश्चात् पुष्पदानान्तरी कृतिम् ।
ततो ग्रामार्चनं कुर्याद्देवाग्रस्सापिनैश्शनैः ॥
वर्णकश्चैव वज्राद्यैः लाजिकास्त्रात्र चन्दिना ।
देवत्वा नेनमीशः स्यात् शुद्धवस्त्रे प्रमृज्य च ॥
प्। २७)
वस्त्रमाभरणं गन्धं माल्यं च धूपदीपकम् ।
परिवा * निवोद्येथ कुर्यादारात्रिकं शुभम् ॥
सप्तपञ्चति पात्रस्थैर्दीप स्थपकैनुस्थरैः ।
प्रभूतोपिष्टसंस्थैराजिनी * * द्विजातिभिः ॥
सर्वालङ्कारसंयुक्तैः देवाग्रे दक्षिणे यथा ।
विश्वाधामस्त्रमावाह्य स सार्पपरिवेशितः ॥
मध्यादीशानपर्यन्तं गन्धपुष्पाभि पूजितैः ।
हस्त द्विकेश्वरं ब्रह्मं प्यरन्ध्रति ऋच्यरुन्धतीवतैः ॥
मुदितैर्गोस्तनेनैव रथस्यादि मनादिकैः ।
दत्तेथमङ्गलैस्स्तोत्रैरातोद्य ध्वनिमिशितैः ॥
पादतोष्णीषपर्यन्तं पुष्पाणि स तु हेतिना ।
उच्चैरुच्चैस्तरस्सम्यक् नीचैर्नीचैस्तरावपि ॥
देवदेवस्य विशाखेन सह भक्तियुतो गुरुः ।
सोमास्कन्देश्वरं चेत्तु केवलं देवमेव वा ॥
दत्वा चाचमनार्घ्यं च भादायाभि मन्त्रितम् ।
अङ्गुष्ठानामिकाभ्यां तु मथि * र्पधिपोपरि ॥
त्रिं कृत्वा प्रक्षिपेद्दीपे तस्य विघ्नोपशान्तये ।
क्षिपेन्मूर्ध्नि ललाटे च गले हृदि तथांवयोः ॥
नाभौ पाद द्वयोः पृष्ठे ककुद्देशे क्रमाद्बुधः ।
देव्या ललट गलयोस्स्कन्दे देव वदा चरेत् ॥
प्। २८)
भस्मशेषं ततो दद्यात् चण्डायाऽथ प्रसाधिनाम् ।
शन्तदीपनिवात्राणि वाहयित्वाङ्गनादयः ॥
महापीठाग्रतो वापि तटाके पादवाग्रतः ।
क्षिपेयुः शङ्खतूर्याभि दिनादैर्बहुदीपकैः ॥
श्रीमान् पञ्चमहाशब्द दर्पणच्छत्रचामरैः ।
गेयान् रक्तस्तु तैस्स्तोत्रैः दामभिर्नन्दयेत् ॥
प्रभूतं तु हविर्दद्यात् सर्वोपचारसंयुतम् ।
प्रदापयेत् प्रभूताद्यैः निवेद्यानि पृथक् पृथक् ॥
हेमरूप्यादि पात्रेषु पादादारभ्य पत्रिषु ।
दघ्यन्न पायसादीनि शाकपर्यस्तकानि तु ॥
दद्यादाचमनं चान्ते हस्तोद्वर्तन पूर्वकम् ।
ताम्बूलं मुखवासं च जपं कुर्यात् ततो गुरुः ॥
पूजां निवेद्यदेवाय तृप्तवाञ्छेमितं फलम् ।
अन्वक्षमन्यतन्त्रेषु ज्ञात्वासम्पूज्य चाचरेत् ॥
एवं नैमित्तिके पुण्यं सर्वदुर्भिक्षनाशनम् ।
ज्वरग्रहमहामारी प्रमुखा नपि नाशनम् ॥
अभ्यङ्गनादि निर्वाच्या रहितस्सेव चाम्रता ।
द्ये द्रव्यैय नीराजन मथवस कल्पना लेपनं च पुष्पम् ॥
धूपं च दीपहरविदनहविरमुदं हरेत् ।
पुन * * मदानां गेयचाद्यसानृत्तं तिलकतसुरण मात्रिकान्ते च
पञ्च ।
प्। २९)
? पञ्चनादि पस्कृति
? रथ मुकुरञ्च्छत्रं दानं जपो देवासवस्तत् ।
? पदयजनपरिति नमस्कारं द्वात्रिशत्यते शिव यजनविधौ
? चोदितास्ते परेश ज्यष्ठशृ क्वचित्षो साक्ष्यदिवात्र पञ्चास्यम् ॥
इति विजयोत्तरे सूत्रसङ्ग्रहे त्रिसहस्रसंहितायां सकलाराधनपटलः ॥
अङ्कुरार्पणम्
अद्यते सम्प्रवक्ष्यामि सङ्क्षेपान्मङ्गलाङ्कुरम् ।
तदङ्कुरञ्च मूलं स्यात् पुंस्याकाममहामरुः ॥
स्थापनो स्थापने तीर्थ संस्थानेत महोत्सवे ।
दमनोत्सव यागेयं चातुर्मास्य विधावपि ॥
अन्यस्मिन्नपि कल्याणे विदध्यान्मङ्गलाङ्कुरम् ।
द्विविधं तत्समुद्दिष्टं व्यक्ताव्यक्तविभागतः ॥
तत्तत्कर्म दिनात् पूर्वं न च सप्तेषु वह्निषु ।
तमिनेषु च या बीजा नाथव्यो व्यक्तना महत् ॥
प्रत्यासत्यकालस्य स जा बीजपुरणम् ।
फलपल्लवसंयुक्तं नालिकेरप्रसूनकम् ॥
पालिकादिषु संस्थाप्यं खण्डितमुखाक्षतैः ।
पवित्रैर्वर्णकैर्वाथ साधाराङ्कुरुवत्तरम् ॥
प्। ३०)
व्यक्ताव्यक्तं च मित्युक्तम् अन्यद्भूताङ्कुरात्मकम् ।
निर्दिष्ट दिवसात्पूर्वात् रात्रै देवाङ्कुरार्पणम् ॥
उक्त ऋक्ष क्षपायां तु मर्त्यानां मङ्गलाङ्कुरम् ।
मृतकुम्भादि वत्वेन कालात्मानं यजेद्दिनम् ॥
पाली घटिशरावाख्यास्तदाधारः त्रिधा मतः ।
हेमजास्तारजस्ताम्रं सम्भव त्रयमत्रयन्तु वा ॥
प्रत्येकं कल्पयेदष्टौ चतुरो वा स्वशक्तितः ।
तद्वर्तकं समासेन वक्ष्ये तं मानपूर्वकम् ॥
अङ्गाङ्गुलं समारभ्य व्योमाङ्गुले विवृद्धृतः ।
विंशत्यन्तं विशालोच्च तत्क्षेत्रस्य समीरितम् ॥
एकाशीति पदं क्षेत्रं प्रविभज्यसमाङ्गणम् ।
ओष्टस्यदन्तधानां तुङ्ग मूर्धादि तत्समः ॥
व्योमाग्निलसक्षांशैः क्षेत्रव्यासो धरान्तकम् ।
नवसप्तेषु कोष्टेषु पालिकार्णा गताब्जवत् ॥
दण्डं त्रिभागविमलं तत्पादं सप्तभिः पदैः ।
पालिका वर्तनं प्रोक्तं शरावाकृतिरुच्यते ॥
पीनोष्ठं तत्र पैतोक्तं येश्च श्रावससंहृदम् ।
चतुरंशोनताशोच्चं किन्तु पाली प्रभा मतः ॥
आस्यधृकलशाकारं दण्डपाद यथाक्रमम् ।
शिवव्योमरथाग्नीन्दु भावोच्च भवराङ्गितैः ॥
प्। ३१)
अहं वेद फलीन्द्रार्पी मानभागैस्सुविस्मृताः ।
वर्तयेत्कलशाकारमुक्तमानेषु भित्तिषुभिः ॥
मुखं पादं च तन्नाभं घटयेदति सुन्दरम् ।
आननाग्नि चतुर्दिक्षु * * रिद्व्यङ्गुलेन तु ॥
घटिका निगदृह्येवं वक्ष्ये सूपन क्रमम् ।
पदाद्येश्वर पञ्चाशत् कृत्वा विष्टाक्तसमत्रतः ।
मध्य कोष्ठवृतं बाह्ये रेखान्तं लेपयेत्पदम् ॥
पूर्वपश्चिमवासोस्तु बहिःकोणपदाष्टिके ।
संस्थाप्य येच्छरावार्णि तदन्त पालिकाष्टकम् ॥
अर्काकीपाश चन्द्रेषु तदश्च द्विपगस्थितम् ।
संस्थाप्य घटिका चाष्टौ पादानामष्टके क्रमात् ॥
भद्रसंस्थापनं प्रोक्तं क्षुद्रस्य विधिरुच्यते ।
तत्वैर्विभज्य तं क्षेत्रं मध्ये पद चतुष्टयम् ॥
संस्थाप्य लेपयेद्बाह्य रेखातमभितं पदम् ।
पदद्वयमथैकैक दिक्षु कोणेष्ववस्थितः ॥
शरावपालिकाकुम्भा क्रमादीशानतो न्यसेत् ।
उक्तं मानव कल्याणैः पालिकापञ्चकं क्वचित् ॥
क्षेत्रेनैव पदेनैवं दिक्षु कोष्ठ चतुष्टयम् ।
पुत्रकालानुरोधेन निश्चित्येक मतः क्रमात् ॥
शूलास्त्रं चण्डकुद्दालं समस्त व्यस्त योगतः ।
प्। ३२)
वस्त्रादिभिरलङ्कृत्य यथारोप्य रथादिषु ।
स्नानैः शुक्लाम्बरैः शैवैः सोष्णीषैस्स साधनैः ॥
धारयित्वाङ्कुरा धारा नग्रतः शार्धमेधसे ।
आकीर्णं रुद्रकन्याभि रुद्रतदासिभिरावृतम् ॥
ब्रह्मघोषसमायुक्तं हरिशब्दसमाकुलम् ।
सङ्गीतनृत्तवादित्र वेदिभिर्ज्येसवैदितम् ॥
च्छत्रचामरसङ्कीर्ण धूपदीपैस्समायुतम् ।
नानापरिणोपेत देवस्या नृपतेरिवा �॥ ॥
वास्तुं प्रदक्षिणीकृत्य प्रासादं वा पुरादिकम् ।
नीत्वा सरित्तटां शुद्धामुद्यानं चैत मेव च ॥
यद्वा प्रदक्षिणस्थानं प्रागुत्तर मुखस्थितः ।
सम्प्रोक्ष्य भूतलं तत्र गन्धतोयेन भेदिना ॥
नवखण्डं प्रकल्प्याथ समध्ये साधारणात्मके ।
साद्यकोष्ठेऽथवाभूमिम् अर्चयित्वा स्मन्त्रितः ॥
अस्त्र मूर्तिञ्च कुद्दालमपि सम्पूज्य हेतिना ।
खात्वा मृदं समाहृत्य पात्रेषुस्खालिकादिषु ॥
अतर्य द्वैस्सद्वस्त्रैरभ्यर्च्य हृदयेनताः ।
प्रविशेदालयं पश्चात् वाहयित्वा गजादिभिः ॥
वास्तुं प्रदक्षिणं पश्चात् यदद्या पूर्वदा हृदः ।
अन्त्रं परीक्ष्य धाताय मूर्तिकां वा प्रदक्षिणम् ॥
प्। ३३)
यात्रा पुरस्तद्यदि वासो मे सोमार्धशेखरे ।
अन्यस्मिन्न न पोदेशे मण्डपादौ विनिर्मिते ॥
मण्टपेऽथ विना नित्ये बीजनिर्वापमारभेत् ।
घट्टस्य घटिकादीनां मध्ये तदभिमतं क्रमात् ॥
आसनं कल्पयेत् पश्चात् पद्मशालिभिस्तण्डुलैः ।
लाजतिलैश्च सन्दर्भ प्रस्थान फल पल्लवैः ॥
अलङ्कृत्यासनं मध्ये पूजयेत् प्रणवासनम् ।
न्यस्त्वां सर्वात्मनां मध्ये चन्द्रक्ताम्भमनोहरम् ॥
तन्तुना वेष्टयेद्गन्ध वारीणाङ्ग चलावधिः? ।
स्रग्वस्त्र भूषितं हेम चन्द्रमण्डलगर्भितम् ॥
पिधानं कूर्चसंयुक्तम् इन्दुमूर्ति मयं परम् ।
दूर्वा पञ्चाङ्कुरां चण्डा मालाभिस्समलङ्कृतम् ॥
दूर्वापुष्पाक्षताश्चैव कुशानां चण्डपूजिताः ।
अष्टमूर्तिकया पूर्णा पूर्णाङ्क यमलाहरान् ॥
सटपाली शरावास्तु विन्यसेदनुपूर्वशः ।
प्रोक्षयित्वाथ पुण्याहं गन्धार्घ्य जलबिन्दुभिः ॥
सिताग्नितोमसन्ताना मृत्ये प्रत्ये बटोदरे ।
कुन्दपुष्पनिभं सौम्यं कुम्भद प्रसवास्पदम् ॥
प्रत्यङ्वदनसङ्कल्प रोहिण्यां सप्तवामकम् ।
शब्दं मात्रतत्वान्तं व्याप्ति कर्मसमर्चयेत् ॥
प्। ३४)
स्थाणुना गन्ध पुष्पाद्यैः दत्वान्ते पायसं हविः ।
ताम्बूलं मुखवासं च सोमा मन्त्रयेत् पुनः ॥
ॐ चन्द्र चन्द्रिकया जालसम्भुदित जगत्त्रयम् ।
बीजान्यत्फलार्प्यर्प्यै समादिमुखं कुरु ॥
चातुर्वमर्दे दण्डं महेशासु * * * * स्तु ।
शक्तिसम्भवेषु सम्पूज्य लाजा स पमुद्गानिमाषशाल्यासकादि च ।
स तिलान्यादितश्शक्यस्सङ्गृह्येकमङ्गमः(म्) ।
पात्रस्थ क्षीरसंस्थाप्य मनप्पामोबशक्तिदम् ॥
प्रोक्षयित्वास्त्रमन्त्रेण समालभ्य हृदाणुना ।
अभ्यर्च्य सोमबीजेन धेनुमुद्रां प्रदर्शयेत् ॥
बीजान् निर्वपेत्पश्चात् स्वस्वमन्त्रेण देशिकः ।
आवाह्य च वरं शैव सिद्धान्त पदवर्तिभिः ॥
वादयेदपि वा ब्रह्म निष्ठातैर्वेदनेषुतैः ।
शङ्खकम्बलवादित्रैः स्तोत्रमङ्गलवाचकैः ॥
ताम्बूलं पुष्पकं दत्वा मङ्गलाङ्कुर सेवितम् ।
ध्यायन् पूरिता कुम्भं कुशादिकमनन्तरम् ॥
नितराम्बबा पुरैर्चन्द्रकुम्भ हृदं शुभः ।
प्रोक्षयित्वा सुखं बीजं सिञ्चन्निवसुधाकणैः ॥
पूजयित्वा पुनर्देवं रोधयित्वा क्षताय च ।
तोषयित्वा कुण्टकालयोक्तन्न मुद्रकादिभिः ॥
प्। ३५)
यत्रैवं क्रियते देशे कालदेशः प्रवर्षति ।
ईतयो नैव वर्तन्ते तत्राङ्गं ककथा न्यसत् ॥
कदाचिद्भुविदम्पत्योः न भवेद्विरहव्यथा ।
किन्तुर्बबहुनोक्तेन मयबीजाङ्कुरो धनम् ॥
सदैव सर्वजन्तूनां वर्धन्ते काम्य तत्क्रमा ॥
इति विजयोत्तरे त्रिसहस्रसंहितायाम् अङ्कुरार्पण पटलः ॥
शिवोत्सवविधि-पटलः
अथ वक्ष्ये विशेषेण शिवोत्सव विधिक्रमम् ।
अज्ञान मलसंलग्नात् जन्तूनुद्धृत्य बन्धनात् ॥
प्रसूतिं कुरुते तेषां ज्ञानस्येत्युत्सवो मतम् ।
उद्भूत सृष्टिकारित्वाच्चाथ दुःखनिवारणात् ॥
नित्यो नैमित्तिकः काम्यस्त्रिविधस्स तु कीर्तितः ।
नित्यपूजा वसाने तु यत्र * तो नित्य उच्यते ॥
चैत्र मासादि मासेषु तत्तन्मासादिना विधिः ।
राज्ञां जन्मान्तनक्षत्राद्यन्तो नैमित्तिको भवेत् ॥
प्रार्थितार्थ प्रसिद्ध्यर्थं कृतं काम्यं विधिर्बुधः ।
स्वरूपेण तयोर्भेदो यन्नैमित्तिक काम्ययोः ॥
तस्मान्नैमित्तिकोक्तिर्या काम्योक्तिरविधा दयेत् ।
त्रयाणामपि चैतेषां नित्य पूर्वमुदाहृतम् ॥
आद्यन्ते परमेशस्य वक्ष्यते नैमित्तिकोत्सवम् ।
प्। ३६)
चित्राविशाखमूलाश्च चोत्तराषाढ दिनान्तकम् ।
तथा श्रवणपुषाथाऽश्विनी कृत्तिकान्तकम् ॥
आद्या पुष्यमघार्क्षान्तमुत्तरान्त मनु क्रमात् ।
प्रकुर्यादुत्सवं प्राज्ञो मेषमासादिषु प्रभो ॥
आर्द्रान्तं सर्वमासेषु ज्येष्ठेषु भ्यन्तमेव च ।
राजाभिषेक निर्याणं त्रिर्जन्मर्क्षावसानकम् ॥
लोकदेव प्रसम् ऋक्षं नीव्यन्तमपि बुद्धिमान् ।
चक्रवर्ती महाराज्ञो यत्र वारोचिते मनः ॥
तद्दिनान्तञ्च तल्लिङ्ग प्रतिष्ठाभान्तमेव च ।
सौरमासः प्रशस्तः स्यात् चान्द्रमासो प्रशस्तिकाम् ॥
तीर्थर्क्ष द्वयसम्प्राप्ते एक मासे परं वरम् ।
यत्र योग बलं पूर्णं योगो यद्वानुकूलतः ॥
पूर्वस्मिन्नपि कर्तव्यो यथा वित्तनुसारतः ।
स्नायादत्रमहादेवः तत्र पर्वप्रधानतः ॥
संवीक्ष्य कल्पयेत्तीर्थम् उक्तां सङ्क्षेपाश्च योस्तव ।
ध्वजा रोहस्तथा तीर्थमेक मासे द्वयोस्तु वा ॥
अन्त्यमे तद्दिनं श्रेष्ठं पूर्वं चेत् कर्तृनाशनम् ।
एकत्रिपञ्चसप्ताह नवाहानु दिनेषु च ॥
तथा पञ्चदशाहेषु नामान्यत्र यथाक्रमम् ।
शैवं गौणं विभूतिञ्च भौवनं दैविकं तथा ॥
प्। ३७)
पैतृकं विजयं चेति भिद्यन्नथ त्रिधा पुनः ।
पुष्कलं विजयाख्यं च केवलं च क्रमेण तु ॥
निर्दिष्ट दिवसात् पूर्व रात्रौ यत्राधिवासनम् ।
भवेद्बिम्बोत्सवो यत्र केवलान्तं विनिर्दिशेत् ॥
तदेव भ्रमणिमाहुर्वशात् पक्षोत्सवादिषु ।
ध्वजारोहणपूर्वादि भेदैर्भिन्नास्त्रिधा पुनः ॥
शैवं भौणं विभूतौ च वर्जयेत् केतुरोहणम् ।
भौवना द्विजयान्तौ च ध्वजारोहणमारभेत् ॥
तत्रोक्त दिनमात्रे च द्विगुणे द्विगुणे क्रमात् ।
अङ्कुरार्पण पूर्वं च कारयेदुत्सवं सुधीः ॥
ध्वजारोपयित्वाह्नि भेरीं सन्ताड्य तं निशि ।
उत्सवस्यादि रात्रौ तु यत्रस्यादङ्कुरार्पणम् ॥
ध्वजारोहणपूर्वं तु विजानीयाद्विचक्षणः ।
पूर्वं निधिस्समुक्ता स्यात् भेरीं पश्चात् ध्वज क्रियाम् ॥
कृत्वां कुरार्पणं यत्र कुर्याद्वै पूर्ववन्निशि ।
भेरी ताडन पूर्वं स्यात् रात्रै चैवाङ्कुरार्पणम् ॥
ध्वजारोह दिनात्पूर्वं द्यासादर्वाक् शुभे दिने ।
दारु सङ्गहणं कुर्यात् यथा तेरनुस कर्मणि ॥
अनुरूपशमेपेतं वनमुद्यानमेव च ।
प्रविश्य पूर्वरात्रै तु देशिकः शिल्पिभिस्सह ॥
प्। ३८)
भूम्यस्त्रेण समायुक्तं चण्डनाथसमन्वितम् ।
वृक्षं सम्पूज्य सन्तर्प्य कौतुकं बन्धयेद्धृदा ॥
ततः प्रभाते विमले शूलास्त्रसहितो मुरुः ।
पूर्ववत्पूजयित्वाथ विसृज्यवनदेवताम् ॥
वृत्तात्तेन कुठारेण च्छीरद्या मृत्युजितं जपन् ।
शिल्पिभिः च्छेदयेत्पश्चात् वास्तुविद्याविशारदैः ॥
पादं विलक्षयेत् तस्य शुभाशुभ विभेदतः ।
अन्तर्न्यत्तत्पलाशाम्बुमरुद्दिक्षु न शोभनः ॥
पातो वनस्पतेः शिष्टं दिक्षु पादसुशोभनः ।
देशिकं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकैः ॥
दैवज्ञं पूजयेत्पश्चात् ताम्बूलं दापयेज्जनैः ।
एवं सग्रीषु वृक्षादीनारोप्य शकटादिकैः ॥
कर्मशाला निवेश्याथ विन्दतीकरथोदिकान् ।
तद्दिनेषु मुहूर्तेषु तु कुर्यान्मङ्गलैः सह ॥
तत्र यानं प्रपादीनां मुहूर्तस्तम्भ वेशनम् ।
प्राकारं गोपुरं शालां मण्टपाद्यन्तरं तथा ॥
परिचारा लयं पीठम् ऋषभं तच्च तुष्करम् ।
कारयुक्तसुधापिण्ड कृतानिसन्निबन्धनम् ॥
तत्साधु धवलं कृत्वा चित्रयेच्चित्रक्तिमैः ।
यत्रालङ्कृतलीलार्थम् आस्थानं कुरुते विभुः ॥
तत्र तत्र विधातव्या मण्टपाद्यास्सुशोभताम् ।
प्। ३९)
साघ्रकेश घृतालिप्या रङ्गलेखा चिताञ्चताः ।
वितानवस्त्रातपत्रेण संयुक्तादामभूषितः ॥
शुभाभिर्वैजयन्तीभिः उत्पतन्ती वृता परी ।
हैमरत्नार्चिता चित्र दुकूलाम्बरभूषिता ॥
स पौष्पा देव देवस्य विधातव्या रथारयः ।
नाना विधानि यन्त्राणि कर्तव्यानि पृथक् पृथक् ॥
अथादिस्तम भानु हुनेन दारुचर्ममयं जपेत् ।
शैल ऋञ्चेष्टकं चान्य नासी कुर्याद्विचक्षणः ॥
अङ्कुराण्यर्पयित्वादौ पूर्वोक्तविधिना गुरुः ।
वृषयागं ततः कुर्याच्छिवं विज्ञाप्य देशिकः ॥
ध्वजारोहण पूर्वेद्युः नीतगन्धादिना वृषम् ।
अर्चयित्वा शिवाग्रस्थं कौतुकं बन्धयेन वा ॥
शृङ्गेसवृषमन्त्रेण बद्धाऽग्रे पृष्ठतोऽपि वा ।
देशे सम्भाधनिर्मुक्ते शालिभिस्तण्डुलैः तिलैः ॥
तत्र देशानुरोधेन सङ्कल्प्य स्थण्डिल द्वयम् ।
पृथमास्थापयेत्केतुं तल्लक्षणमिहोच्यते ॥
दृसलक्ष्याः सितः सूक्ष्मो घटितः पुनकर्तृभिः ।
लोकचिर ध्वजा नष्टा ववीयद्वा समानयेत् ॥
शिवध्वजाद्दशांशादि लितान्ताय विस्तरान् ।
तद्वाहने युतो पेतान् स्वस्ववर्णानुसारतः ॥
प्। ४०)
रक्त पीतोऽथवा कृष्ण श्रुत्वा वसवस्सुतपसैः ।
रसैर्भूतकरैस्सम्यगायतो रोमवाजितः ॥
शो * था चेक्षप्रमाणेन कर्तव्यास्तु ध्वजः ।
देवादि सर्वदेवानाम् उत्सवस्थापनादिषु ॥
ध्वजवस्त्रादि सर्वाणि शालिकास्यधिकारितः ।
तद्वंश जाति कन्याभिः कर्तृतै तन्तुभिः शुभैः ॥
पवित्रारोहणाद्यन्तु कर्मसर्वत्रसंस्थितम् ।
आयामे पञ्च षट् सप्त भागे भागेन विस्मृतः ॥
तन्मान समपूजो वा किञ्च न्यूनाधिकोथवा ।
तदर्ध शिखरोपेतस्तद्भागशिरोऽपि वा ॥
वेत्रद्वयसमोपेतस्तदग्रे रज्जुयत्रवत् ।
ध्वजमेवं समारोप्य तन्मध्ये वृषमालिखेत् ॥
द्वारोर्चन्नवधा कृत्वा भाग भाग प्रमाणतः ।
ज्येष्ठादि कन्यासान्तानि नवमानानि कल्पयेत् ॥
मुखद्वालाभिपर्यन्तं वानन्थत्वा वृषाङ्गुलैः ।
कलाकोलकभागादि * * कल्प्यबुद्धिमान् ॥
शिल्पशास्त्रोक्त मार्गेण स्थितं वा शयितं तु वा ।
पद्मासनसमारूढः पार्श्वे दीपाद्यथान्वितम् ॥
च्छत्रचामरसंयुक्तं पूर्णकुम्भात्मरान्वितम् ।
त्रिशुलास्त्रैः समायुक्तं रहितं वा विचक्षणः ॥
शिल्पिना कारयित्वैवमाचरेदक्षिमोचनम् ।
प्। ४१)
प्रोक्षितं पुष्यतोयेन स्थापयित्वा शिवाम्भसा ॥
सम्प्रोक्ष्यवृषमन्त्रेण गन्धाद्यैरर्चयेद्गुरुः ।
तदग्रे स्थण्डिलं न्यस्त्वा नवकुम्भा नलं कृतान् ॥
वृषं लोकेश्वरा नष्टौ मध्यमे परितो यजेत् ।
तदग्रे स्थण्डिले होमं समिर्द्यरुध्रतैर्गुरुः ॥
वृष गायत्रि मन्त्रेण शतमर्धार्धमेव वा ।
हुत्वातामग्रतो दण्डं स्थापयित्वाधिवासयेत् ॥
धामद्वित्रिगुणं वाथ समं वा शिखरावधिः ।
नासिकान्तं गलान्तं वा वृषस्थलसमं तु वा ॥
चतुस्त्रि द्वितलान्तं वा बहुभूमिषु सद्मसु ।
नवहस्तं समारभ्य यद्वा तिथि करावधि ॥
वैणवं सारदारूढं क्रमुकं वाऽप्यनिन्दितम् ।
तत्वाङ्गुलादि भान्वन्तं शुभनामसमन्वितम् ॥
वैणवं क्रमुकं दण्डं गृह्णीयात् स्वप्रमाणतः ।
सुरेश भानु निम्नाङ्ग रस वेदसमाङ्गुलैः ॥
आयतारि वियतैस्तारर्धं धनसंयतैः ।
दर्वाकारैर्यथा योग्यं रन्धैस्स्कन्दैस्त्रिभिर्युतम् ॥
यथा बलं यथाशोभं दर्व्यनाभान्वि तेन च ।
वैणवाद्युपदण्डेषु तु यन्त्ररज्वा श्रयेण तु ॥
लोहजेन तु नीलेन कटकेन समन्वितम् ।
प्। ४२)
ज्येष्ठाङ्गुलिना हेतु बलयस्यो न रज्जुना ।
ध्वजारोह क्रियायोग्य दैवेन च समन्वितम् ॥
दर्भमालासमायुक्तं प्रोक्षितां चास्त्रतो यतः ।
गन्धादिभिरथाभ्यर्च्य जयशब्दादि मङ्गलैः ॥
पीठगोपुरयोर्मध्ये वृषगोपुरयोरपि ।
पीठाग्रे वा वृषाग्रे वा पृष्ठे वाऽप्युभयोरपि ॥
चतुस्ताल प्रमाणेन खात्वा मृत्सदवर्जिते ।
नम्मत्रले हेमजं कूर्म प्रणवेन विनिक्षिपेत् ॥
दण्डं संस्थाप्य यन्त्रेण तन्मूले वेदिकां कुरु ।
शिला पार्श्वेष्टकोद्भूतौ यद्वापक्षेष्टकान्विताम् ॥
एकहस्ता त्रिहस्तान्ता त्र्यङ्गुलार्घ्यासुविस्तृताम् ।
समाद्यष्टांश वृद्ध्या तु साधान्तं पञ्चतोनताम् ॥
उच्चार्धोर्धोन्नत व्यास पञ्चत्रिंशद्वशोभितम् ।
उच्चाद्यात्वादि रुद्रान्त भागेष्वेकांश मानतः ॥
पतोपानपतीमूले यदि वा मेखलावतीम् ।
मानाङ्गुल वशात् कुर्यात् मात्राङ्गुल वशेन तु ॥
वेदिमथसोपाद्य कृत्वा शिल्पिविसर्जनम् ।
गोमया लेपनं कृत्वा रजोभिस्तु विचित्रयेत् ॥
शुद्धतोयेन सम्प्रोक्ष्य पूर्वनिश्यधिवासयेत् ।
अथवा ध्वजदण्डां तु सद्य एवाधिवासयेत् ॥
प्। ४३)
एवमेवाधिवास्याथ सर्वालङ्कारसंयुतम् ।
त्रिशूलेन समायुक्तं दद्याद्ग्राम बलिर्न वा ॥
प्रभाते नित्यपूजान्ते ध्वजं पुष्पाद्यलङ्कृतम् ।
गन्धादीनां समभ्यर्च्य मुद्गान्नं विनिवेदयेत् ॥
ताम्बूलं मुखवासञ्च श्रीमत्पञ्च महाध्वनिः ।
आतपत्रं च मुकुरं चामरे च प्रदर्शयेत् ॥
कला न्यादि शिवप्रान्तं प्रपञ्चाधाररूपिणम् ।
शक्तिं ध्यात्वा वृषं साक्षात् देवदेवं च शूलिनम् ॥
समारोप्य रथेरङ्गे शिबिकायां रथेषु वा ।
नाना वाद्य समायुक्तं नाना गानैः समन्वितम् ॥
अस्त्रमूर्तिसमायुक्तं दिक्पतिभ्यो बलिं क्षिपेत् ।
एवं प्रदक्षिणं नीत्वा प्रसादाभ्यन्तरं विशेत् ॥
ध्वजं स्थण्डिलसंयुक्तं ब्रह्मघोषसमन्वितम् ।
ग्राम प्रदक्षिणं कृत्वा दण्डस्थानं प्रविश्य च ॥
मुहूर्ते देव निर्मुक्ते यजमानशुभ प्रदे ।
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा तदम्भसः ॥
विद्यादेहमयं दण्डं ध्यात्वा गन्धादिभिर्यजेत् ।
तद्दण्डस्य चतुर्दिक्षु नृत्तगेय रवान्वितम् ॥
रज्जु यन्त्रेण संयोज्य ध्वज घण्टासमन्वितम् ।
वृषमन्त्रं समादाय कुम्भमान् वृषहृदि न्यसेत् ॥
प्। ४४)
गन्धाद्यैरर्चयित्वाऽथ विप्रस्वाध्यायघोषणैः ।
ध्वजमारोहयेन्मन्त्री न द्रुतञ्च विलम्बितम् ॥
लोकपालघटस्तोयैः योजयेद्दण्डमूलतः ।
अस्त्रं सम्पूज्य गन्धाद्यैर्मुद्गान्नं विनिवेद्य च ॥
आमन्त्रयेद्ध्वजं पश्चात् भ्रमणं चेह तत्र च ।
कार्याद्वया स्थिरेणापि भोगमोक्षार्थ सिद्धये ॥
प्रासादध्वजमप्यस्मिन् काले चारो पयेत्सुधीः ।
ध्वजारोहणवेलायां वृषभस्य निवेदितम् ॥
भुक्त्वा चास्या लभेत् पुत्रमीश्वरांशं न संशयः ।
यत्रैतत् क्रियते राष्ट्रे ध्वज यष्टिनिवेशनम् ॥
ना कालमृत्युस्तत्राऽस्ति नाऽलक्ष्मीः पापकृत्स्वपि ।
स्वकला च त्रिपर्जन्यः सुभिक्षं विजयी नृपः ॥
भवानि सहितं देवम् आरोप्यशिबिकादिषु ।
ध्वजेन वा तदन्ते वा सर्वमङ्गलसंयुतम् ॥
पुरं प्रदक्षिणीकृत्यामयेदास्थानमण्डपम् ।
परिवेष क्रमं कृत्वा सोपचारं यथोचितम् ॥
पुनरस्तं गते भानौ भागं निर्वर्त्यनैत्तिकम् ।
मुहूर्ते समनु प्राप्ते भेरीताडन मारभेत् ॥
देवाग्रे वाऽथ लिङ्गाग्रे शालिभिस्तण्डुलैस्तिलैः ।
स्थण्डल द्वितयं कृत्वा गर्भपुष्पाद्यलङ्कृतम् ॥
प्। ४५)
एकस्मिन् क्षपयित्वास्त्रं गन्धाद्यैरर्चयेद्गुरुः ।
तदग्रे स्थापयेद्भेरीं लक्षणोक्तामनिन्दिताम् ॥
अग्रे पृष्ठे यथासव्यं वामात्मकमुखद्वयम् ।
सौरं चान्द्रं यथादेहं मुखसङ्कल्प्य च ॥
पुण्याहं वाचयित्वाथ प्रोक्षयित्वा च तोयतः ।
नन्दी बीजं न्यसेन्मध्ये सौरश्चान्द्रमुखस्य योः ॥
सम्पूज्यगन्धपुष्पाद्यैः नैवेद्यान्तैरूपस्करैः ।
आमरू युक्ततो मन्त्री नन्दिकेशं सुमन्त्रतः ॥
दुन्दुभिध्वनिनादो वार्थं परमानन्द नन्दिकः ।
नन्दीश्वर नमस्तुभ्यं त्रिणेत्राय महात्मने ॥
सन्तास्य हेतिमन्त्रेण त्रिःकृत्वा प्रथमं गुरुः ।
आहूय शुद्धं शैवदीक्षा सम * * * न्वितम् ॥
सम्प्रोक्ष्य गन्धतोयेन तत्वतोरुसमङ्क्षिपेत् ।
सौख्याचारैर्विदग्धै भेरीद्गेनोद्यपञ्चभिः ॥
तत्पुष्पं तत्र निक्षिप्य मनस्कृत्वा तनिन्दितम् ।
वादयेत्सुमुखो भूत्वा वाद्य विद्या विचक्षणः ॥
नर्तको मर्दनश्चैव गायकोवंशकस्तथा ।
तण्डिमोरविकश्चेति पञ्चाचार्य उदाहृताः ॥
पञ्चाचार्य विधौवर्णा अनुलोमाश्च सर्वतः ।
नानावाद्यैरथातोद्यैर्भेरी पटहमर्दिकैः ॥
प्। ४६)
तुमुलो झल्लरीभिश्च सरित्कारीत् तथा परैः ।
वीणा वेणु मृदङ्गैश्च शङ्खकाहलकच्चक्तैः ॥
सककीम भिज जयाखण्डाभिरिन्द्र बहुभाषितैः ।
श्रीमत्पञ्च महायज्ञे ब्दर्देव श्रुतिसुतिप्रदैः ॥
वादयेकश्शान्त समतालादि तालकात् ।
चर्मच्छन्नं च सक्तञ्च धरणं वंशमेव च ॥
गानश्चेति विदुः पञ्च महाशब्दामनीषिणः ।
क्वचित्तदभिसञ्ज्ञाभिः कीर्तिता परमेष्ठिना ॥
ततोदितालगेयञ्च तत्तद्दिक्पाल तृप्तये ।
ब्रह्मणि समब्ध्ना च भृङ्गिणी मल्लतालकम् ॥
नवाख्यो बलि तालञ्च छोटितालं चढक्करी ।
गौरी कुटि वरादी च कूर्जरी भेरिपस्तथा ॥
देशारिशीर्ष त्रयन्न्त इत्येते गानमुच्यते ।
अन्तालि मेघ नागञ्च कोल्लिकौशिकपञ्चमः ॥
शालको नट्टनागञ्च तुङ्गनागञ्च तर्कशः ।
ब्रह्मादीशानपर्यन्तं तालकेयाः प्रकीर्तिताः ॥
ततो देवास्समाहूय तदा मन्त्रेण पूर्वकम् ।
देशिको वाऽथ तच्छिष्यं सम्पाद्य बलि साधनम् ॥
ग्रामप्रदक्षिणं कुर्यादस्त्रमूर्तिसमन्वितम् ।
शुद्धौदनेन साज्येन दिक्पतिभ्यो बलिङ्क्षिपेत् ॥
प्। ४७)
दिक्पाला एवयेत्सर्वान् तत्तिर्क्षञ्च विचक्षणाः ।
भेर्याघोषेण चेलाय दद्यास्तु दिवसं निधे ॥
प्राणिनः सर्वथा तस्मात् न गच्छेयुस्सिचेकिनः ।
ततो देवेशकल्याणं सव्यमातीर्थकर्षणम् ॥
तीर्थ स्नानं ततोऽन्ये कार्यमारोग्यकाङ्क्षिभिः ।
चक्रवर्ती महाराज्ञा नैवायं नियमो भवेत् ॥
परा यत्नात्मन्यं पुंसामपि तस्यात्मनाहते ।
देवेशेथ ध्वजारोहे भवे नैवान्तरध्वजः ॥
देवकल्याण वेलाय नृपकल्याणं तथा भवेत् ।
विघ्नयाग नादर्वाक् ध्वजारोह दिनोपरि ॥
पक्षवारोत्सवादिश्च नैव कुर्वीत वा सुधीः ।
ऊर्ध्वतानपि तत्काले समारब्धे महामखे ॥
कुण्डास्त्रानल कॢप्तस्स्यान्न पृथग्याग यामिनी ।
यागेश्वरार्चनं होमं तत्तद्द्विगुणमाचरेत् ॥
बिम्बोद्भवं ततः कुर्यात् नैववाक वाञ्छिता ।
यागार्थं मण्टपं कुर्यात् वितानध्वज यादृशम् ॥
तदात्र निखिलं वक्ष्ये शर्वैन्द्रो वाररा ले ।
कर्ता शयानरूपेण सोन्यत्रापि समीरितः ॥
कन्यसो मध्यमं ज्येष्ठस्त्रिविधोऽपि त्रिधा भवेत् ।
पञ्चभ्यो सप्तमैर्हस्तैः यावस्त्रिसप्त यत्नयः ॥
प्। ४८)
मानं हिते बहिर्मध्य भ्यन्तरं भुयो गतः ।
तत्र भक्ति यथा स्तम्भाश्शुद्धाष्पट्टारवोथवा ॥
घनोघोषधी रागश्च काञ्चनं कामरामकौ ।
सुघोषा सर्वरोदक्षा मण्टपा नव मानताः ॥
शैलजं वेष्टके वाथ मृण्मयं याग मन्दिरम् ।
समार्थं निर्गमं कक्ष्ये गीतो वेद च तोरणम् ॥
चतुर्दिक्षोदको वापि मुखशालाविराजितम् ।
प्रागाप्यवाहितद्द्वारं सम्बोधेत दिगन्तरे ॥
समन्ततः प्रचाच्छायाच्छन्न प्राङ्कणभूतलम् ।
सुविभक्ताङ्गसम्पूर्णं भद्रं यज्ञ निकेतनम् ॥
कारयेच्छिल्पिकोचिदो * * * नाथ शिल्पिना ।
नाना कारोप भिन्नैर्वा कुण्डैर्नवभिरन्वितम् ॥
पञ्चभिर्वै कृतो वाऽथ मूर्तिभेद वशो न वा ।
तन्मण्डलैरलं कुर्यात् परितो मखमण्डपम् ॥
शान्तिभूति बलारोग्य सञ्ज्ञानितादितो न्यसेत् ।
त्रिकारा स च पञ्चान्त पाद पाद विवर्धनात् ॥
उत्सेधाय विशालानि सञ्छन्त्यूनाधिकानिव ।
तोरणानि पयो वृक्ष (जाति)जातिभेदेन वैकतः ॥
शाखा विस्तार बाहुल्यं द्व्यङ्गुलाद्याविधङ्गुलम् ।
अष्टाङ्गुलात्करा भारि शूलशृङ्गाण्यथोपरि ॥
प्। ४९)
ऊर्ध्वशाखा ललाटस्थ मध्यमे तु विनायकम् ।
तत्सव्ये वामभागे च श्रियं वागीश्वरीमपि ॥
पार्श्वयोः स्वस्तिकं पद्मम् उत्पलं वा निवेशयेत् ।
अभावे पादपानां तु यथाला * प्रमाणतः ॥
आत्मार्थे वा परार्थे वा तोरणानि प्रकल्पयेत् ।
अष्टमङ्गलसंयुक्तं वज्रायुधसमारथम् ॥
स्रवन्ती वारि सम्पूर्णैः त्रिपादाधारवर्तिभिः ।
आज्ञादि पल्लवास्तीर्णवत्यै फल विभूषितैः ॥
पूर्णकुम्भे प्रतिद्वारं रम्भास्तम्भैश्च भूषयेत् ।
भीमेन्द्रायुध बन्दूक कृष्णनीलाघनोपमैः ॥
हेमाम्भोज निभैः शार्व ध्वजैश्च परिमण्डितम् ।
सवितार समादञ्च सम्प्रोक्ष्य च समाचरेत् ॥
मण्डपश्शाङ्करं धाम निर्वृत्यादि कला मयम् ।
सदाशिवं स्मरेत् साक्षात् पाताकश्शक्तिलक्षितम् ॥
तन्मध्ये वेकों कुर्यात् हस्तैर्भक्तिवशेन वा ।
त्रि चतुः पञ्चहस्तैर्वा तद्विस्तारं त्रिभागतः ॥
एकहस्तसमुत्सेद्याः यद्वामुष्टिसमुन्निताम् ।
उपवेदिकयोपेता यथाशोभप्रमाणतः ॥
दर्पणोदर वच्छुद्धाम्मसृणां तद्वदेव तु ।
कुण्डानि परितः कुर्या नव पञ्चैक भेदतः ॥
प्। ५०)
वेदियोशशाङ्कार्ध त्र्यश्रावृत्तानि पञ्चसु ।
ते सुश्राश्च जाष्ठ कोणानि दिक्षु न्यासं प्रकल्पयेत् ॥
वतुलं नवमं मध्ये वारुणां वृषाङ्कयोः ।
सर्वत्र चतुरश्राणि भवेयुर्वर्तुलानि च ॥
चतुरश्रामयेकंश्चेत् वर्तुलं पद्ममेव वा ।
बहिरङ्गुष्ठकाभत्वा च स्त्रीद्यङ्गुलाः क्रमात् ॥
अर्ध्वतोमेवलास्तिस्रो यदि वेकाशडङ्गुलाः ।
उत्तराभिमुखा तेषु नाभिनकनलाकिषु ॥
पूर्वाननास्तृतान्येषु यथाशोभं समन्ततः ।
वेदि तोरणकुण्डानां तस्यवादि प्रभेदतः ॥
मानं मानाङ्गुलैर्मात्राङ्गुलैर्वा कल्पयेद्गुरुः ।
इत्थं विनिर्मिते तत्र कृत्वाशिल्पिविसर्जनम् ॥
गोमया लेपिते वास्तु होमकर्मसमन्विते ।
पुण्याह प्रोक्षणोपेते विशुद्धे मखमण्टपे ॥
शैवादि विजयान्तानाम् उत्सवं विजयात्मकम् ।
कर्तुरिच्छेद्यथदा यत्र ध्वजारोहनोमितः ॥
द्वादशेऽहनि विघ्नार्थ मर्चयित्वा यथाविधिः ।
नानाविद्येपहरणि निवेद्यप्रार्थयेद्गुरुः ॥
भगवान्मादि शैवोऽस्याहं महोत्सवः ।
प्रवर्तित प्रधात्वन्तं विघ्नं तव सन्निधौ ॥
प्। ५३)
एवं सम्प्रार्थ्यविघ्नेशं सर्वमङ्गलसंयुतम् ।
ग्रामं प्रदक्षिणी कृत्य प्रविश्य भगवान् ततः ॥
कौतुकं बन्धयेत्सोमं यद्वा सोमार्ध धारिणम् ।
उत्पात धौकं वाधैवं वा नैकं वा कर्तृवाच्छया ॥
चोराद्यैः सङ्कुलो ष्ट्रे शूलास्त्रं केवलं तु वा ।
संस्नाप्य देवदेवेशं शुक्लाम्बर विभूषितम् ॥
शुक्लोत्तरीय सममाल्या मण्डपादा बलं कृते ।
स्थापयित्वाथ तस्याग्रे स्थण्डिले शालि निर्मिते ॥
हेमरौप्यादि पात्राणि तण्डुले च प्रपूजयेत् ।
त्रिपाद्युपरि विन्यस्य तदूर्ध्वे कौतुकं न्यसेत् ॥
सौवर्णं राजतं वापि क्षौम कार्पासतन्तुजम् ।
निष्कमर्धं तदर्धं वा पञ्चत्रिसरजं तु वा ॥
भस्म ताम्बुल पूर्वं स्यात् पुण्याहं वाचयेद्द्विजान् ।
गन्धादिभिर्हृदाभ्यर्च्य देशोको मन्त्र विग्रहः ॥
सोष्णीषः सोत्तरास्स कुण्डलाद्यैरलङ्कृतम् ।
ताम्बूलं पुष्कलं दद्यात् केवं सेवाद्यतां नृणाम् ॥
मुहूर्ते समनुप्राप्ते त्र्यम्बकेन तु मन्त्रतः ।
तद्भस्मन्यासमालभ्य ध्यात्वा तत्तु पणिमकङ्कणम् ॥
देवस्य दक्षिणे हस्ते बन्धयेत्कोतुकं(सु)हृदा ।
ध्यात्वा चन्द्रकला रूपं देव्याः सव्येकराम्बुजे ॥
प्। ५२)
स्कन्द नन्दीश चण्डेश यदि तत्पार्श्ववर्तिनः ।
तेषामपि करे सव्ये सन्धयेत् स्वस्वमन्त्रतः ॥
भस्मनापि कला दद्यात् द्रक्षोघ्ना लौकिकं विभो ।
अत्राविशिष्टा तद्भस्मा भक्तितो भक्तिं नयं निथौ ॥
नन्दयन्ति पित्रान् सर्वान् मन्दन्ति यमलत्रयम् ।
सर्वमङ्गलसंयुक्तम् अस्त्रलोकेश हेतिभिः ॥
नये दन्तेथ देवेशं पीनो वामल त्रयम् ।
सकृतः पुण्यतोयैश्च गर्वैर्गन्धोदकैरपि ॥
प्रोक्षयित्वास्त्रमन्त्रेण समन्ताद्यागमन्दिरम् ।
सम्पूज्य द्वारशाखासु दघादि द्वारपालकान् ॥
प्रविश्यान्तरथैशान्यां कृत्वास्थण्डिलमुत्तमम् ।
तदूर्ध्वे विन्यसेदस्त्रं लोकेशास्त्र समद्वृतः ॥
सम्पूज्य गन्धपुष्पाद्यैर्हविरन्तैरूपस्करैः ।
शिवाग्निं कल्पयित्वान्द्रे त्वीशानशु मध्यमेऽथवा ॥
सर्वमुर्तात्मकं ध्यात्वा तर्पयेत्समिदादिभिः ।
पालाशसमिदाज्यान्तं लाजानथ तिलानपि ॥
सिद्धार्थमकस्य राजान्नं शिवेनाङ्गरनु क्रमात् ।
हुत्वा तदन्ते ताम्बुलं पूर्णामन्ते विधाय च ॥
ततोऽन्तर्बलिदानान्ते रोधयित्वा युवानलम् ।
आदिश्यबलिसामग्री दद्याद्ग्राम बलिं पुनः ॥
प्। ५३)
ब्रह्मादीशान्तकं यत्र द्वादशाश्शङ्करावपि ।
बहुविधियुते ग्रामे मध्ये वा तद्बहिस्तु वा ॥
कर्तव्यस्तु विचारेण यथा योगं बलिं क्रमात् ।
चतुष्पथेषु परिता वलिक * रि दण्डके ॥
केवलैः दण्डकैः पूर्वोदीशानान्तं यथाविधि ।
तत्तद्दिनाथ ए धानाम् उक्तद्रव्येण मन्त्रवित् ॥
द्रव्यास्त्रं लोकपालास्त्रम् अन्नलिङ्गसमन्वितम् ।
समारोप्य रथे अस्मिन् पिञ्छाद्यैस्समलङ्कृतम् ॥
बलिवाद्यसमुद्घोषैः सुरेतर भयङ्करैः ।
ग्रामप्रदक्षिणं कृत्वा क्षिपेद्भूत बलिं क्रमात् ॥
शुद्धोदनेन साज्येन दधिकान्नेन वा गुरुः ।
ततो ग्राम बलिं दद्यात् तदन्ते तं प्रविश्य च ॥
महापीठे बलिं दद्यात् तदन्येन्य प्रविश्य च ।
यक्षादि स्वस्वमन्त्रतः * * * * * * * * ॥
अन्नलिङ्गं विसृज्यास्त्रं साव्रतीन् सर्व विन्यसेत् ।
एवं दत्वा बलिं प्रातः कालं सायं तनेऽपि वा ॥
तदन्ते कारयेद्देवं ग्रामादिषु महोत्सवम् ।
नानाविध महारत्न सूक्तहेमाम्बरादिकम् ॥
दुकूलपट्टकार्पास सद्वस्त्रैरावृतं बहुम् ।
दिव्यरत्नमयाकलैर्मण्डितं मकुटादिभिः ॥
प्। ५४)
अपरिव्यक्तसौरभ्य नाना सृक्दामभूषितम् ।
ललट लोचनालोक निरस्त निखिलासुरम् ॥
दक्षिणो पादङ्गदानात्त मनोरथ महाजनम् ।
गौरी मुखाम्बुजा सक्त वामाकी भ्रमरं हरम् ॥
बोधयन्तमिवा दित्यमदनिद्रावशं गतान् ।
अशेषः प्राणिनः पद्म कुड्मलानीव भास्करः ॥
शिबिकादौ समानीय वेदातोद्यरवान्वितम् ।
आतपत्रेण शुभ्रेण हेमदण्डेन चोपरि ॥
निरस्तकटकप्रभाजालं विद्यमानीं च चामरैः ।
नाना परिकरोपेतं राज्ञामिव महाजनाम् ॥
अग्रतो गम्यमानाभिरप्सरोभिरलङ्कृतम् ।
हिरण्यकासांसि वासांसि पक्षयन्तं तदस्थिषु ॥
निम सभक्तिश्चर्वीक सीमतमनोम्बुजैः ॥
आमन्दित जनाकीर्णं प्रयुक्तस्तोत्रसंविदैः ।
नीलनीररु(ह)छाया तस्करैरायतेक्षणैः ॥
दवस्यो भयो मुक्तेरे पौरैरर्च्यमानं विकासिभिः ।
क्वचित् सेवान्तिके शैवे क्वचिद्भैरवतान्त्रिकैः ॥
वामस्थैः कुलमार्गस्थैः भूततन्त्रार्थवेदिभिः ।
गुरुसैरितिमार्गज्ञैः क्वचिदध्यात्मवादिभिः ॥
प्। ५५)
वेदिकैर्लौकिकैरन्यैः परलोका * * दिभिः ।
स्वस्वसिद्धान्तमार्गेण स्तवानैश्चानु सेवितम् ॥
कामकालानुकाघात त्रिपुरध्वंसनादिभिः ।
नानाविधपिशाचैश्च स्तूयमानपराक्रमम् ॥
संसारसागरोद्धार पौरभूतपुरोगसाम् ।
वालुकाविलसाध्वस्त शिखाशोधितभूतलम् ॥
चन्दनक्षेथ सौगन्धिकोत्पलोमिश्रवारिभिः ।
जलदैरिवसंसिक्त सर्वमङ्गलविधिङ्क्रमाम् ॥
ध्वजस्रग्दर्भमालाभिराकीर्णा भवनाखिलम् ।
आबद्धकिङ्किणीमाला समुत्क्षिप्तमहाध्वजम् ॥
स पूग कदलीस्तम्भ बद्धकाञ्चन तोरणम् ।
दीपाङ्कुरोपकुम्भाद्यैः प्रतिद्वारं विभूषितम् ॥
सन्ताद * * * धूपगन्धादि कृतदिङ्मुखम् ।
दिव्यपानीयताम्बूल मुखवासा ननु क्रमात् ॥
तत्तत्कालोचिताचारैर्देवाय प्रतिचत्वरम् ।
सन्ध्यामारभ्य तत्काले भूयो भूयो निवेदयेत् ॥
वास्तु प्रदक्षिणं कुर्यात् सोमसोमार्धमूर्धजम् ।
यस्मिन् पुरा पुरा दातु यदि ताम्रा करोति च ॥
बिम्बोत्सवञ्च तत्रैव कारयेत् तत्र वित्तमः ।
विप्रकृष्टमधिष्ठानं नद्याद्यन्तरिक्षात् यदि ॥
प्। ५६)
तदन्य त्राप्यधिष्ठानेन दोषाय महोत्सवम् ।
तुषारचार चोराद्यैस्सम्बाधे तत्र वास्तु कृति ॥
बलि चात्र विधिं कृत्वा शान्ति होमं समाचरेत् ।
तदन्ते देव देवे * भयेदास्थानमण्टपम् ॥
भद्रं पीठे समासीने देवदेवं जगत्पतिम् ।
मण्टपे वाऽथ रङ्गे वा प्रपाद्ये वा मनोहरे ॥
दुकूलाम्बरपुष्पादि वितानाद्यैरलङ्कृतम् ।
परिवेषसमासाद्य तत्रोक्त विधिपूर्वकम् ॥
पाद्यमाचमनं चार्ग्यं दत्वा देवाय पूर्ववत् ।
उपचारैर्यथायोगम् उपतिष्ठेत् समाहितः ॥
हेमाभरण वस्त्रादि कर्मकारालयोत्सवे ।
सायं प्रातः यथाशक्त्या स्नपनं शान्ति होमकम् ॥
नृत्तवादित्र गीताद्यै रथकालं विलम्बयेत् ।
एवं दिनानि चत्वारि नीत्वा पञ्चमवासरे ॥
सरित्तटे वोद्याने केदारे वा मनोहरे ।
सर्वालङ्कारसंयुक्तं प्रापयित्वा महेश्वरम् ॥
प्राङ्मुखः सा गताभूमिं नाज्ञामाहर्तुम् ईप्सिताम् ।
तत्तत्पदे यजेद्भूमिं ध्यात्वा पूर्वोक्त विग्रहम् ॥
पृथ्वी बीजेन गन्धाद्यैर्भूमिमामन्त्रयेत् ततः ।
ॐ भव्य सुगन्धरे भद्रे सर्वभद्राश्रये स्थिते ॥
प्। ५७)
सर्वकाम प्रदे देवि भूपतेरचला भव ।
एवमभ्यर्च्य गन्धाद्यैः देवीमामन्त्रयेत् ततः ॥
भूपतिर्विजयी भूयाद्भूमिः संवर्धतामपि ।
तज्जनाः सुखिनस्सर्वे भूयासं चोत्तरोत्तरम् ॥
आहरेदिष्ट कोष्ठस्थां भूमिं तद्वासु रूपिणीम् ।
हेमरूप्यादि पात्रेषु तद्बीजेन गुरूत्तमः ॥
इत्यादाने नृपश्रेष्ठम् आहरिष्यामि भूतलम् ।
परमेश विशेषोऽयं यागास्त्र विजयात्मनः ॥
मृत्सङ्ग्रहेऽङ्कुरार्थञ्च विधिरेषस्सनातनः ।
तृतीये दिवसे वास्त्र मूर्तिं चण्डसमन्वितम् ॥
सौवर्णाद्यङ्कुराधारैरग्रतः समलङ्कृतैः ।
नीयमानैर्महेशांशै वेरूष्णीष धारिभिः ॥
वास्तुं प्रदक्षिणी कृत्य नित्योद्गानादिकांशुभिः ।
सम्प्रोक्ष्य हेतिना भूमिं खात्वाकुद्दालतो मृदम् ॥
गृहीत्वा भवनं नीत्वा याति चास्तं गते सति ।
कृत्वां कुरार्पणं पूर्व विधिना देशिकोत्तमः ॥
सुमुहूर्ते शुभे लग्ने विस्तीर्णायागमारभेत् ।
अलब्ध्वा विधिसामग्रीमस्त्रयागमहोत्सवे ॥
अनर्च्यास्त्रं महाघोरं कोवाशत्रून् जयिष्यति ।
अमोघेनास्त्रयागेन नृपास्त्रस्थाप्यमोघतः ॥
प्। ५८)
मूलध्वजाः चतुः पञ्च षडंशेन प्रमाणकम् ।
यद्वातत्थि दिक्पाल हेति वाहन लक्षितम् ॥
सतं ताम्बूल हर्म्यादि दिक्ष्वष्टासु ध्वजाष्टकम् ।
अन्तहीराङ्गणे मध्ये हारस्स्यादि भित्तिके ॥
अष्टौ दण्डान् न्यसेत् प्रोक्तास्तेऽपि मूलप्रमाणतः ।
चतुःपञ्च षडंशे तत्पीठे तथैव च ॥
स्कन्दोपदण्डरज्वादीन् यथार्हं परिकल्पयेत् ।
प्रासादाभिमुखान् केतु तत्तद्दिक्पालमन्त्रतः ॥
आरोप्य पूर्ववन्मन्त्री गन्धाद्यैरर्चयेत् ततः ।
दिक्पालवर्णमन्नं वा शुद्धान्नं वा निवेदयेत् ॥
द्वारपूजा
ततोयाग गृहं प्राप्य द्वारपूजादिकं चरेत् ।
तोरणानि घटान्यष्टौ न्यस्त्वा पूर्वादितः क्रमात् ॥
चतुर्दिक्षूत्तमाङ्गेषु विघ्नेशं भारतं श्रियम् ।
नन्दिं कालं यजेत् पूर्वेऽथाद्य भृङ्गी विनायकौ ॥
वारुणे वृषभस्कन्दौ देवी चण्डौ यथोत्तरे ।
स्वाभिधानैश्चतुर्थ्यन्ते नान्यन्तैः प्रणवादिभिः ॥
ततस्तोरण शाखासु तद्भावैः सह पूजयेत् ।
निधी नष्टौ यजेत् प्रोक्तं प्रशान्तशिशिरो ततः ॥
पर्जन्या शोक नामानौ भूसञ्जीवनतामृतौ ।
धनश्रीदौ च कुम्भेषु प्रणवेन हृदा तथा ॥
प्। ५९)
कृत्वा त्रिविध विज्ञान मण्डपादपसारयन् ।
विशेत्पञ्चाद्यमार्गेण वामपादपुरस्सरम् ॥
प्रदक्षिण क्रमेणाब्ज मण्डला स्थान दक्षिणे ।
स्थित्वोत्तरा ननो यज्ञ द्रव्याणि शुभलोकयन् ॥
भद्रपीठे समासीने तत्वदृष्ट्या समाहितः ।
प्राकृतीं तनुमुत्सृज्य शैवमापाद्यशम्बरैः ॥
इष्ट्वा हुत्वा समाधाय शिवं हीनोभबिन्दुषु ।
कृत्वा व्यपात्रं तद्द्रव्यैः कर्महस्तं विधाय च ॥
वर्धनी
संहृत्यतानथैशान्यां वर्धन्याधारकल्पने ।
अहं गन्धार्घ्य पानीयैः सम्प्रोक्ष्यमखमण्डपम् ॥
ईशान्यां स्थण्डिले कुम्भं शिवार्घ्यं विकिरोपरि ।
न्यस्त्वा पश्चिमदिग्नाला वर्धनीमपि देशिकः ॥
विधात सूत्रतत्कूर्चं फलपल्लवसंयुतम् ।
स हेम पुष्पं कुम्भाया पूजयेत् तज्जलासनम् ॥
मूर्तिञ्च देवं खड्गं च मन्त्रिगन्धादिभिर्यजेत् ।
वर्धन्यां सिंहसंस्थायां न्यसेत्पाशुपतास्त्रकम् ॥
इन्द्रादि घटसंस्थेषु लोकपालांश्च सायुधान् ।
वर्धनीं सौम्यमादाय घटप्यष्टानु गामिनीम् ॥
वर्धनीधारयायुक्त शिवकुम्भं परिभ्रमेत् ।
शिवाज्ञा श्रावयन् लोकपालेभ्यो यागरक्षणे ॥
प्। ६०)
संस्थाप्य कुण्डवर्धन्यो यजेद्देवं स्थिरादसम् ।
वर्धन्यासंयजेत् पश्चात् स्थण्डिलं वेदिकोपरि ॥
शालिभिर्विमलैरर्घस्तत्तद्दलैः स्तिक्तैः ।
लाजदर्भैः प्रकल्प्याथ पञ्चद्यैरेक वृद्धिदः ॥
तत्वान्तस्य नलिनं सम्यगालिखेत् ।
मध्यमे विन्यसेत् कुम्भं शिवाख्यं वर्धनीं तथा ॥
उत्तरे नालनं युक्तं विद्येश्वर घटानपि ।
तत्सूत्र वेष्टनोपेतान् सापिधानान् स कूर्चकान् ॥
खारिद्रोणप्रमाणैश्च शिवकुम्भादिकान् क्रमात् ।
नवरत्नं शिवाख्ये तु वर्धन्यां पञ्चरत्नकम् ॥
अभावे पञ्चरत्नानां वर्धन्यां हेम निक्षिपेत् ।
विद्येश्वर घटेष्वेवं हेमपुष्पाणि विन्यसेत् ॥
रत्नभागे गुरुहेम पुष्पं शिवघटे न्यसेत् ।
शिवाख्ये वस्त्र युग्मं च वर्धन्यामेकवस्त्रकम् ॥
एवं सम्पाद्य सर्वं तु देवेशं प्रपूजयेत् ॥
विशेष स्नपनोपेतं विशेषयतनान्वितम् ।
प्रभूतहविषोपेतं ताम्बूलादि समन्वितम् ॥
ततो विस्तीर्ण यागार्थं सोमास्कन्देश्वरादिके ।
विशेषस्नपनोपेतः प्रा पत्कौतुकमाचरेत् ॥
प्। ६१)
ततो मण्टपमासाद्य देवेशसहितं तु वा ।
शिवकुम्भं यजेद्देवं साधनं च समूर्तिकम् ॥
साङ्गां मनोन्मनीं देवीं वर्धन्यासम्प्रपूजयेत् ।
यजेद्विद्येश्वरा प्रोक्त निशानान्तघटेष्वपि ॥
दर्पणादौकमादर्के जलादेक्षपदागिदीन् ? ।
श्रियं सरस्वतिन्न्दुमर्चयन्तं यजेद्गुरुम् ॥
प्राग्वत् संस्कृत्यकुण्डाद्यं शिवाग्निम्मन्त्रकल्पयेत् ।
नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिग्गतम् ॥
तस्याग्निं मध्यमांशे तु शिवंसाङ्गं च तर्पयेत् ।
द्रव्यैः पूर्वोदितैरेवं शतमष्टोत्तरं गुरुः ॥
जुहुयात् स्वस्वमन्त्रेण शिवाण्वर्धेन मूर्तिपाः ।
अन्ते तु जुहुयात् पूर्णं ताम्बूल प्रभृतीनपि ॥
होमान्ते तु बलीं दद्यात् होमादौ वा विचक्षणः ।
सर्वादि तत्रानृत्तं च सर्वालङ्कारसंयुतम् ॥
ऋग्यजुः सघनं मन्त्र जपं स्तोत्रं जपं तथा ।
चतुर्दिक्षु प्रकर्तव्या दद्यादन्तर्बलिं ततः ॥
दद्याच्चन्दन ताम्बूलान् जनेभ्यो गुरुपूर्वकम् ।
तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ॥
नवान्नलिङ्गकं कुर्यात् दधिमिश्रहविर्मयम् ।
प्राग्वत् प्रधानं तद्बाहु पतात्रिं गन्धपुष्पकैः ॥
प्। ६२)
लोकपालादिकान्येषु अन्नलिङ्गेषु पूजयेत् ।
तन्तस्त्रि शूलसंयुक्तं दशायुधसमन्वितम् ॥
वृषादि परिवाराणां बलिं दद्याद्ध्वजावधि ।
प्रविश्यनगराद्यं तु देवतार्चन देशके ॥
बलिं दद्यात् क्रमेणैव देशिकः शिष्य एव च ।
गुलापूजादि भक्ष्यं च प्रथमेह्नि गणेश्वरम् ॥
पायसं पद्मपुष्पञ्च ब्रह्म प्रिय द्वितीयके ।
तृतीये कृसरान्नं तु भूतानां स घृतं बलिम् ॥
चतुर्थ रात्रौ चूर्णान्नं गन्धर्वाणां घृतान्वितम् ।
पञ्चमेह्नि प्रियं यन्न साज्यमिन्द्र प्रियार्थकम् ॥
वेण्वन्नं दधिमृषीणां षष्टमेऽहनि ।
गुलान्नं घृतसंयुक्तम् ऋषीणां षष्ठमेऽनि ॥
दधात्तु सप्तमे * * * * * * * * *
अष्टमे राक्षसानां तु माषान्नं तु घृतान्वितम् ॥
शुद्धान्नं दधिसंयुक्तं शिवस्य नवमेहनि ।
ब्रह्मस्थाना * * * * * * * त बलिं क्षिपेत् ॥
सर्वेषां दिन देवानां शुद्धान्नेन बलिस्तु वा ।
ततो लोकेश तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ॥
बलिं दद्यात् स्वमन्त्रेण प्रासादं सम्प्रविश्य च ।
बलिपीठ * * * * * * सर्वान्न लिङ्गकम् ॥
प्। ६३)
सप्ताहे वाऽथ पञ्चाहे त्रिदिनो व्योमरात्रिके ।
बेरधात्रा भवेत् प्राग्वत् प्रदीप बहुलान्वितम् ॥
पूर्वोक्त सर्वालङ्कार सर्वमङ्गलसंयुतम् ।
एवं प्रदक्षिणीकृत्य प्रविश्या स्थानमण्टपम् ॥
परिवेष क्रमं नीत्वा यथायोग्यसमन्वितम् ।
दत्वा पाद्यादिकं धूप दीपं भस्म च दापयेत् ॥
एवं प्रतिदिनं सायम् उषश्चाह्नि विधिक्रमम् ।
द्वितीय दिनमारभ्य प्रातः सायान्तरेऽपि वा ॥
त्रिपुरघ्नादि देवानां यानं कुर्याद्विशेषतः ।
तेषां तत्पूर्वरात्रौ तु कृत्वा कौतुकबन्धनम् ॥
यानान्ते स्नपनं कार्यं हविर्दत्वा प्रवेशयेत् ।
तृतीय दिनमारभ्योत्सवं चन्द्रशेखरम् ॥
चतुर्थ दिनमारभ्योमास्कन्दोत्सवं भवेत् ।
पञ्चम दिनमारभ्य वृशेश्वरमथार्चयेत् ॥
षष्ठ दिनमारभ्यार्ध नारीश्वरं तथा ।
पूर्वरात्रौ कौतुकं सर्व * * * * देवताम् ॥
चतुर्थे पञ्चमे षष्ठे कुङ्कुमागरुकर्दमम् ।
चन्दनञ्च क्रमेणैव समालिप्य विशेषतः ॥
अलङ्कृत्य च देवेशं यानं तैलं कृत्वा समाचरेत् ।
सप्तमेऽहनि सायाह्ने तैलाभ्यङ्गं समाचरेत् ॥
प्। ६४)
देवाग्रे तण्डुलं धार्यं तैलं तदुपरि न्यसेत् ।
प्रोक्ष्यार्घ्येण च तम्मन्त्र संहिता मनुना लभेत् ॥
अवकुण्ठ्य तनुत्र्येण हृदा गन्धादिभिर्यजेत् ।
दन्तकाष्ठं च ताम्बूलं दत्वा दर्शनकं हृदा ॥
तैलं शिवाणुना देवा क्रुद्धवादो दापयेद्गुरुः ।
देवादि दन्तकाष्ठादि क्रमेणैव तु दापयेत् ॥
नन्दि चण्डेश्वरादीनां दापयेत्तु पृथक् पृथक् ।
तैल ताम्बूल सहिते * * भ्यो गुरुपूर्वकम् ॥
प्रदद्याद्देवदेवेशं स्नपनाद्यं विधाय च ।
तत्तदन्ते समानीयात् कल्पिपतं याग मण्डपे ॥
देवं स्नाप्य सम्पूज्य विनोदालोकनं नयेत् ।
ग्रामप्रदक्षिणं कृत्वा भवन * प्रपूजयेत् ॥
अष्टमेऽहनि देवेशं मृगयात्रार्थ मानयेत् ।
युद्धारम्भ क्रियोपेतं नागवाजिसमन्वितम् ॥
पुनश्चण्डेश्वरोपेतं मृगयात्रां समाचरेत् ।
मृगयात्रा वसाने तु देवे * स्नपनादिभिः ॥
विधाय पूर्वविधिना पुनः सायन्तन क्रिया ।
तद्रात्रावपि नृत्तेशं स्नापयित्वा विचक्षणः ॥
सितवस्त्रादिभिर्देवम् अलङ्कृत्य विशेषतः ।
धूपदीपादिकं दत्वा कौतुकं बन्धयेत् ततः ॥
प्। ६५)
प्रागुक्त विधिना तत्र सर्वमङ्गलसंयुतम् ।
प्रभूतहविषं दद्यात् अपूपादिसमन्वितम् ॥
शिबिकायां समारोप्य सर्वालङ्कारसंयुतम् ।
नानादीपसमायुक्तं प्रदक्षिणवशं नयेत् ॥
आस्थानमण्डपे तत्र नृत्ताद्यैर्जागरं नयेत् ।
ततः प्रभाते नृत्तेशम् अर्घ्यगन्धविधिर्गुरुः ॥
सहस्रं वा तदर्धं वाऽष्टोत्तर शतं तु वा ।
ऊनमेकं तु पञ्चाशत् अथवापञ्चविंशतिः ॥
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमार्गतः ।
प्रायश्चित्तं तु विधिना अन्ते पूज्याहुतिं हुनेत् ॥
स्नापयेत् कलशं पश्चात् वस्त्रमाच्छादनं परम् ।
नानाभरणसंयुक्तं नानामालासमन्वितम् ॥
अलङ्कृत्य ततोदद्यात् धूपनैवेद्यकादिकम् ।
तत्पार्श्वे स्थण्डिलं कृत्वा पात्राग्निं यक्षकर्दमम् ॥
कर्पूरादि समायुक्तं स्थण्डिलोपरि विन्यसेत् ।
सम्प्रोक्ष्य हेतिनामन्त्र्य संहिताहि समालभेत् ॥
गन्धादिभिर्हृदाभ्यर्च्य कवचे नैव कुण्ठयेत् ।
तदग्रे स्थण्डिलं कुर्यात् शिवाग्निं विधिवद्गुरुः ॥
समिदाज्येन चरुणा हुत्वा मूलाणुना शतम् ।
उद्भूते ये तदांशेन अङ्गा नामाहुतिर्भवेत् ॥
प्। ६६)
आन्ते पूर्णाहुतिं कुर्यात् शिवाग्निञ्च विसर्जयेत् ।
पात्रस्थं तत्समाधाय नृत्तेशे मूलमन्त्रतः ॥
भावाद्यथाङ्गमालिप्य देवीनां दापयेद्गुरुः ।
ततो भक्त जनेभ्यश्च दापयेद्यक्ष कर्दमम् ॥
सवत्साङ्गां सुवर्णञ्च तण्डुलं लवणं तिलम् ।
सर्पिस्तैलं क्रमेणैव दद्यादाचार्यं तृप्तयेत् ॥
जलप्रदानसंयुक्तं यात्रादानमिति स्मृतम् ।
सर्वालङ्कारसंयुक्तं मुखेणसमन्वितम् ॥
स्थानाचार्य समोपेतम् आरोप्य शिबिकोत्तमे ।
पञ्चप्राकार मध्ये वा तद्बाह्ये वा प्रदक्षिणम् ॥
कृत्वा यान क्रमं प्रोक्तं योग्यमङ्गलसंयुतम् ।
प्रविश्य मण्टपं पश्चात् परिवेषक्रमं नयेत् ॥
तदा पाद्यादिकं दत्वा * * नादि समन्वितम् ।
नालिकेर जलाद्यन्तु दत्वाऽऽचमनं पुनः ॥
अग्रतः प्रकीर्याथ दूर्वा पुष्पाक्षतादिकम् ।
धूपदीपादिकं दत्वा सर्वालङ्कारसंयुतम् ॥
विनोद दर्शनोपेतं ततः संस्नापयेच्छिवम् ।
कौतुकं तु विसृज्याथ गुरवे तत्प्रदापयेत् ॥
विशेषस्नपनोपेतं गन्धाद्यैः सम्प्रपूज्यतः ।
प्रभूतहविषोपेतं ताम्बूलं सम्प्रदापयेत् ॥
प्। ६७)
समाचरेत् ।
सायाह्नसमये देवम् अलङ्कृत्य विशेषतः ॥
यानं तदङ्कणे कुर्यात् पूर्व * * * दन्तिके ।
नीराजनं ततः प्राग्वत् प्रकुर्यान्मङ्गलैः सह ॥
रात्रं ते तु समारोप्य * * वेशं प्रवेशयेत् ।
महानसे तथा याग मण्डपे समलङ्कृतम् ॥
निवेद्य देवं तत्रैव लाजैः पाद्य होमभूतिं सदापयेत् ।
द्विज प्रविश्य घ्नं पश्चात् स्नपनादि क्रमाचरे �। ॥
तद्रात्रौ तद्दिनस्यो दयात् पूर्वे गत्व चैवं जलाशयम् ।
गुरुः ॥
हे देवि गङ्गे यमुने नर्मदे च सरस्वतीम् ।
सिन्धो गोदावरीत्वञ्च कावेरी सन्निधिर्भवेत् ॥
इति रूध्वं रवेरस्तमनं ये तु दीक्षिताम् ।
पापशुद्ध्यै च तन्मध्ये त्रिशूलपश्चाच्छिवमन्त्रमनुस्मरन् ॥
वाच्यं * * तुकं तीर्थं प्रकुर्याद्देशिकोत्तमः ।
दशमेऽहनि होमान्ते चूर्णोत्सवमथा चरेत् ॥
गोमया लेपनं नीत्वा तत्पुरः स्थण्डिलद्वयम् ।
एकत्र शूलमन्यत्र लुखलं मुसलं नयेत् ॥
न्यस्त्वा दूर्वाक्षतं तैलं ताम्बूलं बहुलं तथा ।
उलूखले रात्रि चूर्णं तु निक्षिप्य तदनन्तरम् ॥
प्। ६८)
पूजयेद्देवदेवेशं पाद्याद्यैर्धूप चारितम् ।
दूर्वाङ्कुराक्षताद्यैस्तु कुर्याद्धृतशिरोर्पणम् ॥
शिव तत्वादितो वात्मा तत्वादीनामथापि वा ।
स मुखं वापि देव्यां शूलं तथां तथम् ॥
मुसले उलूखले बीजम् आधाराख्यं क्रमाद्यजेत् ।
तयोर्दूर्वा प्रधानञ्च कर्तव्यं देशिकादिभिः ॥
ततोऽसिना त्रिधा रात्रिंर्वाद्यैः चूर्णयेत् क्रमात् ।
अस्त्रेणादाय तच्चूर्णं नानापात्रेषु भावितम् ॥
लिङ्गबेर त्रिशूलार्थं जनार्थं कलशादिषु ।
तैलं पृथक् पृथक् पात्र लिङ्गबेरार्थमाहरेत् ॥
प्रोक्षदिना हृदायष्ट्वा दद्यात्तम्बुलपूर्वकम् ।
रात्रि चूर्णञ्च देयं स्यात् त्रिशूले * * समन्वितम् ॥
कुर्याच्चूर्णोत्सवं शीघ्रं गम्यानु परिचारकैः ।
जनेभ्यः तैलताम्बूलं दापयेद्गुरुपूर्वकम् ॥
ततः समुद्रनद्यादौ महातीर्थार्थमानयेत् ।
बेरी त्रिशूलसंयुक्तं सर्वालङ्कारसंयुतम् ॥
स्थण्डिल द्वितयं तीरे कुर्याच्छाल्यादिना ततः ।
एक त्रिशूलं संस्थाप्य मन्यत्र कलशं न वा ॥
सूत्रकूर्च समायुक्तान् सवस्त्रादि स पल्लवान् ।
पुण्याहं वाचयित्वा तु तेषु गन्धादिकां यजेत् ॥
प्। ६९)
देवानाहूय पूर्वोक्त दामदोष विसर्जयेत् ।
कौतुकस्य विसृज्याथ शूलं संस्नाप्येत्तुतैः ॥
तीर्थ मध्ये ततः प्राग्वत् अवगाहनमाचरेत् ।
जलात्रिशूल मूर्तिर्यत्तत्तीरे विनिवेद्य च ॥
पूजयित्वा ततः शूलं भवनं सन्निवेशयेत् ।
त्रिशूलेन सहस्नानं ये कुर्वन्ति नरोत्तमाः ॥
तेऽपि यान्ति शिवस्थानं न तेषां तु पुनर्भवेत् ।
यागमण्डपमासाद्य पूर्णाहुतिमथा चरेत् ॥
ततो मध्याह्न समये देवं सम्पूज्य देशिकः ।
यागस्थ कुम्भमानीय सर्वमङ्गलसंयुतम् ॥
प्रदक्षिणवशान्नीत्वा लिङ्गपीठ मनु क्रमात् ।
देव देवीं च विद्येशान् ईशा स्यात् परितो न्यसेत् ॥
ततः सम्पूजयेत् पश्चात् यथा विभवविस्तरम् ॥
सायाह्न समये पश्चात् नयेत्तीर्थार्थमुत्तमम् ।
तद्रात्रौ लोकपालानां * * * मवरोहणम् ॥
कृत्वा तद्दिनमारभ्य परिवेषक्रमं नयेत् ।
सप्ताह सर्ववाद्यादि सहितं यानहीनकम् ॥
मौनं सप्तदिनं पश्चात् यजनेन समन्वितम् ।
चण्डपूजां तदन्ते तु होमस्तवनसंयुतम् ॥
पुरश्चण्डेश्वरं नीत्वा यानं सप्ताह माचरेत् ।
प्। ७०)
(सप्ताह सर्ववाद्यादि सहितं यानहीनकम् ।)
तदन्ते पूर्ववत्तीर्थं त्रिशूल सहितं नयेत् ॥
ध्वजारोहण तद्रात्रौ विदध्याद्विधिपूर्वकम् ।
विजयाख्योत्सवः प्रोक्तः विशेषाद्येषु गम्यते ॥
विजयोक्तं नयेत्सर्वं त्रिपञ्चाहादि पैतृकैः ।
लोकपाला ध्वजं चाष्टौ भक्तलिङ्ग विहाय च ॥
देवि कोद्दिष्टशाहानि पैतृ * * * दाचरेत् ।
देविके भवने तीर्थं दिने रात्र ध्वजस्य हि ॥
अवरोहं त्रिपञ्चाब्धि ग्रहरुद्र गणेषु च ।
विश्वपञ्च दशक्षो वा प्रायश्चित्तं तदूर्ध्वतः ॥
ध्वजावरोह नक्षत्रे शुद्धाख्यैः स्नपनं नयेत् ।
लिङ्गे बेरे वृषे शूले स्नपनोक्तप्रकारतः ॥
अर्चनोक्तं समभ्यर्च्य मालाभिरभि भूषयेत् ।
तद्रात्रौ पूजयेच्चण्ड ईश्वरं स्नपनं युतम् ॥
शुद्धा वद्यकं दत्वा होमेन च युतं तु वा ।
ज्ञानतोऽज्ञानतो वाऽपि कृतं न्यूनाधिकं मया ॥
ततस्तु मर्मसम्पूर्णं चण्डनाथ तवाज्ञया ।
ध्वजपीठादिकं पश्चात् गत्वा होमं नयेद्गुरुः ॥
विसर्ज * र्थमुक्षस्तु शताहुत्यावृषाणुना ।
ततो विसृज्य वृषभं * * * चत्वारो हयेत् ॥
प्। ७१)
ततो ग्रामबलिं दद्यात् अन्नलिङ्गसमन्वितम् ।
त्रिशूलेन युतं सर्वं वाद्यघोषन * * * ॥
बलि प्रदान काले तु सर्ववाद्यं प्रघोषयेत् ।
अन्यत्र मौनमास्थाय मौनाख्यं बलिमाचरेत् ॥
ग्रामं प्रविश्य ब्रह्मादीन् बलिं दत्वा विसर्जयेत् ।
ततः प्रविश्य भवनं बलि पीठे बलिं क्षिपेत् ॥
उत्सवादौ च मध्ये च भक्तानामुत्सवं भवेत् ।
उत्सवान्ते स एव स्यात् कर्तव्यं चा वशेन तु ॥
दमना रोहणादौ तु मासपूजार्थमुत्सवम् ।
विधाय कौतुकं पूर्वं रात्रौ वाद्य एव वा ॥
आचार्य पूजा कर्तव्या वस्त्र हेमाङ्गुलीयकैः ।
निन्दा त्रिपञ्च निष्कान्तं तद्वृद्ध्या दक्षिणा भवेत् ॥
यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् ।
एवं महोत्सवं कुर्याच्छ्रद्धापूर्वं नरोत्तमः ॥
त्रि सप्त कुलमुद्धृत्य शैवं स्थानमवाप्नुयात् ।
इति विजयतन्त्रे त्रिसहस्रसंहितायां ��� भक्तोत्सव पटलः ॥
इति विजयोत्तरतन्त्रं समाप्तम्