वतुल्लोतरागमः

[पटलक्रमः सम्भ्रान्तः॥]


श्रीः ॥

[१आ]

स्वस्ति श्रीगणाधिपतये नमः ।

निर्विघ्नमस्तु ।

मातामहमहाशैलं महस्तदपितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥

ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् ।
आधारं सर्वलोकानामनाधारमविक्रियम् ॥

अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् ।
अम्बिकापतिमीशानमनिशं प्रणमाम्यहम् ॥

वन्दे हालास्यनगरीं वन्दे वन्दे हेमाब्जिनीमपि ।
वन्दे सुमीननयनां वन्दे सुन्दरनायकम् ॥

शिवाय परिपूर्णाय शीतलाय चिदात्मने ।
चित्तनाथाय नाथाय तेजसे ब्रह्मणे नमः ॥

आनन्दसागररसा कुलशैलकन्या वक्षोजकुम्भयुगलीपरिरम्भणेन ।
रोमाञ्च * * * परिष्कृतगात्रयष्टिं वेदे भजामि मधुरापुरनाथमीशम् ॥

इक्षुकोदण्डपुष्पेषु पाशाङ्कुशकरोज्वलाम् ।
उद्यत्सूर्यनिभां वन्दे महात्रिपुरसुन्दरीम् ॥

नमः सुन्दरनाथाय तस्मै हालास्यवासिने ।
चतुष्षष्टिविधा लीला येन प्रत्यक्षिताः क्षितौ ॥

श्रीमत्सुन्दरनाथस्य देवीं शफरलोचनीम् ।
कलये हृदये नित्यं कदम्बवनवासिनीम् ॥

कारुण्यमदनिष्यन्दं कैवल्यवनचारिणम् ।
कालाम्बुदश्यामलाङ्गं कलभाननमाश्रये ॥

आम्नायाचलमञ्चस्थमाननैः षड्भिरन्वितम् ।
हिमाद्रितनयास्तन्यकुक्षिम्भरमये शिशुम् ॥

श्रीकैलास इति ख्यातः श्रीमतां भूभृतांवरः ।
श्रीपतिप्रमुखैर्देवैः श्रियै मुक्त्यै च सेवितः ॥

श्रीदादीनामपि श्रीदः श्रीकण्ठप्रथितालयः ।
श्रियोऽपि हेतोः क्षीराब्धे स्वयं जित्वा समुन्नतः ॥

जनानां श्रवणादेव जन्ममृत्युजयापहः ।
सर्वशक्तिसमायुक्तः सर्वलोकनमस्कृतः ॥

भूः सुराकीर्णनं वापि कुर्वतां सर्वसिद्धिदः ।
तपोवनेन महता पश्यतामपवर्गदः ॥

विविधैर्भूतसङ्घातैः परितः परिरक्षितः ।
विबुधैरप्यगम्यस्य विश्वभर्तुरनुज्ञया ॥

विष्टपत्रयविख्यातो विधुमण्डलपाण्डरः ।
विद्यते भुवि दिश्यैशां विद्वज्जनमनस्यपि ॥

तस्य मध्ये महामेरोर्मध्यशृङ्गं महत्तरम् ।
प्रशस्तमस्ति शिखरं महामण्डलमण्डितम् ॥

तदूर्ध्वे पवनोऽत्यर्थं दर्पणोदरवत्समम् ।
व्योमवद्विमलीभूतं विशालं भवति स्थलम् ॥

तपोऽन्तरायै कामाद्यैरमरैः परिपन्थिभिः ।
अजेयं तत्स्थलं पाति मुनीन्द्राणां मनो यथा ॥

काननः कल्पवृक्षाणां फलपुष्पसमन्वितैः ।
चिन्तामणिमयैः शैलैः कामधेनु भवैरपि ॥

पयोदधिघृतक्षौद्रसुधामयसरिद्वरैः ।
नानारत्नविचित्रैश्च कुट्टिमैरतिमञ्जुलैः ॥

प्रमथानां मन्दिरैश्च मेरोः शिखरसन्निभैः ।
शातकुम्भमयानेकप्राकारद्वारगोपुरैः ॥

सूर्यकोटिप्रतीकाशैश्चन्द्रकोटिसमप्रभैः ।
व * * * * * * * * * * * * * * * ॥


स्वस्ति ॥


श्रीगणाधिपतये नमः ।

शुभमस्तु

[१अ] क्रोधिसंवत्सरद वैशाखशुद्ध १२? शुक्रवार ईपुस्तकवबरवदक्के प्रारम्भ ।
निर्विघ्नमस्तु ।
श्रीमहागणपतये नमः ॥

४१

विश्वरूप नमस्तुभ्यं भक्तवत्सल शाश्वत ।
मम लिङ्गे च बिम्बे वा छिन्ने नाशाधिकं कथम् ॥

यदि दोषादिके प्राप्ते पूजां कर्तुं कथं शिव ।
विस्तराद्ब्रूहि भगवन् श्रोतुमिच्छामि साम्प्रतम् ॥

श्रीभगवान् उवाच

शृणु देवि प्रवक्ष्यामि भिन्नदोषादिकान् क्रमात् ।
स्वयम्भुवे साम्ब लिङ्गे बिम्बे वा यत्र कुत्रचित् ॥

दोषं शान्तिफलं देवि विस्तराच्च पृथक् पृथक् ।
भिन्ने च स्फुटिते लिङ्गे वह्निनाशनिनाहते ॥

परं राष्ट्रभयं देवि त्रिवर्षान्तं न संशयः ।
राजा च दुःखशोकार्तः जायते च बलक्षयः ॥

खण्डिते शकलीभूते यदि नाशे च हीनके ।
देशत्यागो भवेत्सद्यः राजा भङ्गत्वमाप्नुयात् ॥

निधनं प्राप्नुयाद्देवि त्रिमासान्तं न संशयः ।
पाषाणैरायुधाद्यैर्वा चोर्वा शत्रुभिर्हते ॥

राजा तु मरणं यायात् चतुरङ्गबलं रथा ।
रोधने रुधिरोत्पत्तिः स्वेदकम्पे च नादते ॥

तद्राष्ट्रं पट्टणं देवि राजदानी विनश्यति ।
बहुधा शत्रुबाधास्यादनावृष्टिर्भविष्यति ॥

दुर्भिक्षं दुर्भयं मारी ज्वरापस्मारकादयः ।
विवर्णेधुमसञ्जाते वहिश्वदुदकं पयः ॥

रक्तस्रावं कीटकाद्यैर्यदिलिङ्गे महेश्वरि ।
प्रजापीडा गर्भपीडा नृपपीडा द्विजादिषु ॥

निर्घातसर्पादिभयं वातबाधा मसूशिका ।
एवं दोषादि सम्प्राप्ते नवलिङ्गे च पार्वति ।
आत्मशून्यं यथा देहं सम्प्रविश्येह राक्षसाः ॥

तथैव देवताशून्यं भिन्न लिङ्गे महेश्वरि ।
दोषाढ्ये पूजिते हन्ति निहन्ति तदपूजिते ॥

तस्मात् सर्वप्रयत्नेन तवलिङ्गं रक्षयेत् ।
यद्यस्माच्च स सम्प्राप्ते सन्धानं शान्तिमाचरेत् ॥

लिङ्गे भिन्ने खण्डिते च चिह्निते च गुरूत्तमः ।
एकाङ्गुलं तदर्धं वा चतुरस्रं च पार्वति ॥

बन्धेन बन्धयेल्लिङ्गं सन्धानं च गुरूत्तमः ।
महाशान्तिं क्रमाणित्वा तल्लिङ्गं पूजयेत्पुनः ॥

प्रमादाच्छकलीभूते स्वर्णरौप्यादिसूत्रतः ।
सन्धयेत्सुदृढं महाशान्तिं समाचरेत् ॥

दहिते सेचयेन्मन्त्री स्नपनाद्यैर्गुरूत्तमम् ।
चोरैर्वा शत्रुभिर्देवि भये प्राप्ते च रक्षयेत् ॥

कुम्भे कलां समावाह्य सिकतेन निगूहयेत् ।
तत्कुम्भं पूजयेद्देवि भयान्तं तव लिङ्गके ॥

निर्गते चेत्ततो मन्त्री शान्तिं कुर्याद्विधानतः ।
तत्कुम्भस्थकलां देवि पुनरावाह्य लिङ्गके ॥

यथाविद्युक्तमार्गेण गुरुः कुर्यान्महेश्वरि ।
यदि नाशो भवेल्लिङ्गं प्रमादाच्च महेश्वरि ॥

नवलिङ्गं च संस्थाप्य यद्वा तद्गुणवत्यपि ।
तद्रूपं तन्मयं सौम्यं तन्मानं नान्यथा शुभम् ॥

एवं ज्ञात्वा प्रयत्नेन जीर्णमुद्धृत्य योजयेत् ।
प्रतिष्ठोक्तेन कुर्वीत महाशान्तिं समाचरेत् ॥

रोदनादिषु लिङ्गेषु जाते यदि महेश्वरि ।
लिङ्गं सङ्क्षाल्य संशोध्य पञ्चशुद्धिं यथोक्तवत् ॥

महाशान्तिं च कुर्वीत नवलिङ्गं च पूजयेत् ।
यदि बिम्बे च सम्प्राप्ते वक्ष्यामि शृणु पार्वति ॥

बलौ नित्योक्तबिम्बे वा मूलबेरादिके तथा ।
यद्यकस्माभूतले च पतिते खण्डिते सति ॥

तस्करेभ्यश्च शत्रुभ्यः वाग्निना वा महेश्वरि ।
भिन्ने च स्फुटिते बिम्बे सर्वाङ्गे शिथिले पृथक् ॥

खण्डिते खण्डनं राज्ञां पतिते सर्वनाशनम् ।
दहिते दहनं राष्ट्रं राज्ञो भोगं विनश्यति ॥

भिन्ने भङ्गत्वमाप्नोति स्फुटिते च धनक्षयम् ।
सर्वाङ्गे शिथिले जाते सर्वार्थं नश्यति ध्रुवम् ॥

पादो भिन्ने स्थाननाशं जनुजङ्घे जनक्षयः ।
निस्सतिर्भवेद्राजा कटिभिन्ने महेश्वरि ॥

बाहुभिन्ने शत्रुबाधा विजयं नाप्नुयात्क्वचित् ।
छिन्ने कण्ठे ततः शीघ्रं राजा मरणमाप्नुयात् ॥

मूर्तरूपाङ्गविच्छेदे राष्ट्रनाशो धनक्षयः ।
मुख्याङ्गं भङ्गमापन्ने तां मूर्तिं च परित्यजेत् ॥

नवां मूर्तिं प्रतिष्ठाप्य शान्तिं कुर्याद्गुरूत्तमः ।
तदुपाङ्गादि भग्ने तु सन्धानं यत्ततो नयेत् ॥

स्वर्णपित्तलताम्राद्यैः निश्चलं हि यथा तथा ।
महाशान्तिं विधायाथ सन्धानात्पूजयेत्प्रिये ॥

अङ्गुलोर्ध्वे यदा भिन्ने तां मूर्तिं सलिले त्यजेत् ।
प्रतिष्ठोक्तेन मार्गेण शान्तिं कुर्याद्विधानतः ॥

नवां मूर्तिं प्रतिष्ठाप्य कर्षणैश्च यथोक्तवत् ।
तस्करेभ्यश्च शत्रुभ्यः बिम्बे चापहृते सति ॥

सर्वनाशो भवेत्सद्यः राप्यां कूपतटाकयोः ।
प्रासादादिषु सर्वत्र यदि स्थाने समुद्भवाः ॥

दहने खण्डिते स्फोटे चलिते निम्नगे शिवे ।
पतिते नामृते भिन्ने वाहने परिवारके ॥

ध्वजादकलशे भिन्ने बलिपीठे प्रमादतः ।
क्षेत्रपाले द्वारपालौ चलिते पतिते सति ॥

दीपस्तम्भे चोर्ध्वमाला भिन्ने जाते प्रमादतः ।
प्राकेरे च बहिश्चैव अन्तःप्राकारकेषु च ॥

वीथिमध्ये बहिश्चैव आरामे मण्टपे स्थले ।
उत्सवे बलिकाले वा नित्यनैमित्तिकेऽपि वा ॥

काम्ये वा यदि कालेषु जायते च शृणु प्रिये ।
बलिबिम्बे च पतने छिन्ने भिन्ने प्रमादतः ॥

पादुकें बलिपात्राणि छत्रचामरकादि च ।
पताका विजनं देवि दर्पणं जलपात्रकम् ॥

पर्णपात्रं तदुच्छिष्टं * * दीनां गिरीन्द्रजे ।
उद्भवं चेदिदं देवि तत्तस्थाने प्रचक्षते ॥

तेषां नामानि वक्ष्यामि उत्पातान् शृणु पार्वति ।
स्वयम्भुवादिलिङ्गे च बिम्बे वा यदि पार्वति ॥

रोधनं रुधिरोत्पत्तिः स्वेदकम्पं च नादकम् ।
स्फुटितं पातितं देवि विवर्णं धूमसम्भवः ॥

वह्निश्वेदुदकं रक्तं पयः कीटकदर्शनम् ।
तिष्ठत्यूर्ध्वमुखो देवः करपादविहीनकः ॥

अधोमुखाद्यनेकानि हीनास्यः कृशवामनः ।
लिङ्गनाशे च बिम्बे वा चोरैर्वा शत्रुभिः प्रिये ॥

गर्भागारादि वक्ष्यामि उत्पातान् शृणु पार्वति ।
गर्भगेहे प्राङ्कणे वा लक्ष्मीमण्टपसञ्ज्ञके ॥

प्राकारे गोपुरे देवि शिखरे शिखरान्तरे ।
मण्टपे वाहने देवि परिवारालयादिके ॥

द्वारदेशे सभास्थाने ईशान्यामष्टकोणकम् ।
ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डं तु कारयेत् ॥

यावन्मानं तु विस्तारं तावन्मानं प्रमाणकम् ।
त्रिमेखलासमायुक्तं सर्वलक्षणलक्षितम् ॥

हस्तद्वययुतं खातम् ऊर्ध्वमेखलया सह ।
इत्येवं कारयेत्कुण्डं द्वात्रिंश म्भसंयुतम् ॥

चूतपल्लवरम्यैश्च पताकध्वजशोभितम् ।
प्राग्द्वारे पीतवर्णं च दक्षिणे कृष्णवर्णकम् ॥

पश्चिमे रक्तवर्णं च उत्तरे श्वेतमेव च ।
पूर्वादिद्वारदेशं च तौरणैश्चाप्यलङ्कृतम् ॥

कदलीं स्थाप्य मतिमान् नववस्त्रेण वेष्टयेत् ॥
पण्टपञ्चाप्यलङ्कृत्य सफलङ्कुरपुष्पकैः ।
इत्येवं मण्टपे रम्ये शान्तिं कुर्याद्विचक्षणः ॥

नवाहं सप्तरात्रं वा पञ्चत्रि * * * * * ।

राष्ट्रदुर्गबलं देवि परराज्ञाहृत भवेत् ॥

द्विजादिश्च त्रयोवर्णाः शूद्रत्वं प्राप्नुवन्ति हि ।
निस्सत्वं निर्जनत्वं च सर्वकर्माणि नाशनम् ॥

इति दोषहरं देवि दर्शयेच्च नृपोत्तमः ।
चन्द्रतारानुकूले च नक्षत्रकरणान्विते ॥

राज्ञो राष्ट्रानुकूले च उद्दिश्य दिवसे गुरुः ।
मण्टपान् कारयेद्देवि तव लिङ्गादिके स्थले ॥

पूर्वे वा चोत्तरे वापि ईशान्यां मण्टपं गुरः ।
विंशद्धस्तप्रमाणं तु चतुरश्रं सवेदिकम् ॥

नवकुण्डं च परितः पूर्वादिषु यथाक्रमम् ।
तत्पूर्वे चतुरश्रं स्यात् आग्नेयां तु भगाकृतिः ॥

अर्धचन्द्रं तु याम्यायां नै-ऋ-ऋत्यां तु त्रिकोणकम् ।
वारुणे वर्तुलं कुण्डं षट्कोणं चैव वायवे ॥

उत्तरे पद्मकुण्डं तु * * * * * * * * ।

सर्वदोषहरं सद्यः अपमृत्युनिवारणम् ।
सर्वभोगांश्च लभते सत्यं सत्यं मचोदितम् ॥

ओ इति श्रीवातुलोत्तरे

प्रायश्चित्तखण्डे उत्पातजातस्थानविधिर्नाम चत्वारिंशत्पटलः ॥

श्रीदेव्युवाच -

सम्यगुक्तं त्वया शम्भो उत्पाता * * योद्भवाः ।
तत्सर्वं च श्रुतं देव दोषं शान्तिं पृथक् कथम् ॥

वदस्व कृपया देव सर्वलोकहिताय च ।

शिवः -

अथातः सम्प्रवक्ष्यामि दोषं शान्तिं पृथक् पृथक् ॥

तत्फलं च क्रमेणैव विस्तराच्छृणु पार्वति ।
भूमिकम्पे दिशान्दाहे जाते यदि महद्भयम् ॥

तद्राष्ट्रं नाशमाप्नोति त्रिमासान्तं न संशयः ।
पट्टणे राजधान्यादि सर्वस्थाने च कम्पने ॥

राज्ञस्तु मरणं सद्यः सर्वनाशं भवेत्प्रिये ।
प्रति * * * * देवि राजदानी विनश्यति ॥

बहुधा शत्रुबाधास्युः अनावृष्टिर्नसंशयः ।
नदी गेहे च सम्प्राप्ते त्रिमासा मृत्युमाप्नुयात् ॥

प्रजापीडा गर्भपीडा नृपपीडा द्विजादिषु ।
वेतालक्षेत्रपालाश्च ज्वरापस्मारकादयः ॥

एवमादीनि चान्यानि देशे तत्र प्रजायते ।
तद्दोषशमनार्थाय शान्तिं कुर्यान्नृपोत्तमः ॥

देव्यौवाच -

महदुत्पातजनने अरिष्टे चागते सति ।
शान्तिं कृताचेद्देवेश नाशनं च कथं वद ॥

शिवः -

यथा भुजगदष्टस्तु गारुडेनौषधेन च ।
स्वस्थो भवति देवेशि तथा शान्तिर्तृणा प्रिये ॥

तस्मात् सर्वप्रयत्नेन औषधं भिषजा सदा ।
तथा दौ* * * * * * * * * रणे सति ॥

पत्तनादि गृहे देवि वने चोपवने स्थले ।
पर्वते चोद्भवे देवि शृणु देवि यथाक्रमम् ॥

गोवधे स्त्रीवधेश्चैव द्विजादीनां च नाशने ।
व्यालेतेर्पावदुष्टेभ्यः शस्त्राद्यैश्च महेश्वरि ॥

मण्डूकेन मृतेदेवि कूपे कूभसमुद्भवे ।
अनड्वान् महिषव्याघ्रखरोष्ट्रादि प्रवेशने ॥

अगाधे भूमिपतने ग्रामादीनां महेश्वरि ।
गम्भीरैश्च नदीस्रोतैः लिङ्गे ग्रामादिनाशने ॥

चैत्यवृक्षादिपतने वने वा सर्वपादपैः ।
पर्वते शकलैर्भिन्नैर्यदि भूमे निपातिते ॥

एवमादीनि नामानि उत्पातानि महेश्वरि ।
तत्र दोषं प्रवक्ष्यामि शृणु देवि वरानने ॥

राज्ञस्तु मरणं सद्यः चतुरङ्गबलक्षयः ।
तद्राष्ट्रपत्तनं * * आयुधानां महेश्वरि ॥

वेत्रं च बलिदीपं च शङ्खभेर्यादिपातने ।
देशिके पारके देवि बिम्ब दारुक एव वा ॥

वाद्यके सेवके देवि पतिते च महेश्वरि ।
शिबिके रथभङ्गे च वाहने पतिते तथा ॥

वाहनार्थं गजाश्वाद्यैः वृषभैश्चाप्यलङ्कृतैः ।
सेनानायकवस्त्राणां धारकैश्च नृभिः प्रिये ॥

परस्परविरोधेन पतिते रक्तपातने ।
मुष्टियुद्धे दण्डयुद्धे नखदन्तक्षते सति ॥

शस्त्रैर्वाहतदुष्टेभ्यः एतैः प्राणि मृते सति ।
प्रवेशे मरणे प्राप्ते शृणुदेवि समुद्भवम् ॥

वन्यैर्वा प्राणिभिर्दुष्टैः दूषिते च चतुष्पदैः ।
द्विपदैः क्षुद्रजन्तू नदीं व्यालैर्पा हंसगृध्रकैः ॥

मधुपञ्जरसम्भूतैः वल्मीकैश्च समुद्भवम् ।
बृहत्पिपीलिका क्षुद्रप्रवेशेतेकमेव वा ॥

शान्तिकर्मप्रकुर्वीत दीक्षां कुर्याद्गुरुः प्रिये ।
वपनं स्नानमौनं च शुक्लाम्बरधरं शुचिः ॥

क्षीरान्नभोजनं नित्यं दुस्सङ्गादिविवर्जितः ।
ब्रह्मचर्यव्रतं कुर्यात् आचार्यादि द्विजां प्रिये ॥

दीक्षाकर्म प्रकर्तव्यं नवरात्रौ यथाविधि ।
त्रिरात्रं चैकरात्रं च दीक्षाकर्म न कारयेत् ॥

यागद्रव्याणि सम्पाद्य होतृभिर्जापकादिभिः ।
प्रातरुत्थाय विधिवद्दन्तधावनपूर्वकम् ॥

प्रातस्स्नानं प्रकुर्वीत आचार्यो यजमानकः ।
सन्ध्याकर्म प्रकुर्वीत नित्यकर्मविधाय च ॥

मृत्तिकास्नानपूर्वं च कुशगोमयभस्मना ।
सर्वघोषसमायुक्तं पुण्यस्त्रीभिः समन्वितम् ॥

नानामङ्गलवाद्यं च वेदघोषैश्च सूक्तकैः ।
स्नानं कृत्वा विधानेन शान्तिं कुरु महेश्वरि ॥

ततो देवालयं गत्वा फलपुष्पं समर्प्य च ।
प्रार्थयेन्यजमानेन नमस्कारैश्च भक्तितः ॥

आचार्यः सहविप्रैश्च प्रविशेद्यागमण्टपम् ।
आचार्यवन्दनं पूर्वं पूर्वेवा चैशकोणके ॥

दर्भासने चोपविश्य प्राणायामं समाचरेत् ।
पूण्याहं पञ्चगव्यं च प्रोक्षयेत्प्रशन प्रिये ॥

दशदिग्बन्धनं कृत्वा मातृकान्यासपूर्वकम् ।
दिनसङ्ख्यं समुद्दिश्य सङ्कल्प्य विधिपूर्वकम् ॥

गणेशं च समाराध्य नान्दीकर्म समाचरेत् ।
पुण्याहं पञ्चगव्यं च प्रोक्षयेत्प्राशन प्रिये ॥

वरये भूसुरान् देवि आचार्यादिद्विजोत्तमान् ।
स्वशाखोक्तरतान् सर्वान् ब्रह्मदेशिकहोतृकान् ॥

घोषकान् जापकान् देवि स्वस्वशाखयुताः प्रिये ।
वरये भूसुरान् मन्त्री फलं दत्वा पृथक् पृथक् ॥

अलङ्कारं सुवस्त्रं च मधुपर्कं च दापयेत् ।
अङ्कुरार्पणपूर्वं च शोधयेन्मण्टपे गुरूः ॥

द्वारतोरणकुम्भांश्च स्थापयेत् पूजयेत् प्रिये ।
राक्ष(सो)घ्नं वास्तुहोमं च पूजा बलि समाचरेत् ॥

गणेशक्षेत्रपालं च भूसूक्तं वास्तुसञ्ज्ञकम् ।
राक्षोघं चतुरस्त्रं च मृत्युञ्जयनवग्रहम् ॥

महासौरं सप्तशतिं प्रासादं च महेश्वरि ।
शक्तिपञ्चाक्षरीं जप्य वेदपारायणं पृथक् ॥

विनिद्राकर्म कुर्वीत पुनः सूर्योदये प्रिये ।
नित्यकर्माणि कुर्वीत पुण्याहं प्रोक्षणादिकम् ॥

मण्टपं पूर्वदिग्भागे ग्रहमण्डलमुल्लिखेत् ।
चतुरस्रं समं कृत्वा ग्रहाकारं विचक्षणः ॥

ग्रहसङ्ख्यानि कुर्वीत तत्र कोष्ठे महेश्वरि ।
तत्तद्वर्णविभेदैश्च लिखेत्तं पञ्चरङ्गिकम् ॥

गोधूमादीनि धान्यानि तत्तत्स्थानेषु पूरयेत् ।
कर्षमात्रसुवर्णैश्च अर्धं वापि तदर्धकम् ॥

तत्तद्ग्रहविभेदैश्च प्रतिमां च प्रकल्पयेत् ।
कुम्भं तत्र प्रतिष्ठाप्य ग्रहसङ्ख्यानि पार्वति ॥

सूर्यादिग्रहभेदैश्च पूजयेच्च विधानतः ।
तदग्रे पद्ममालिख्य पूरयेच्छालितण्डुलैः ॥

लिखेद्यन्त्रं सूर्यबीजं द्वादशादित्यरूपकम् ।
सम्पूज्य विधिना मन्त्री प्रतिसूर्यस्य दर्शने ॥

ईशानकोणे संलिख्य पद्ममष्टदलं प्रिये ।
धान्यद्रोणमितं पूर्य आधारादि यथाक्रमम् ॥

सुवर्णप्रतिमां कुर्याल्लक्षणानि यथाक्रमम् ।
कन्दं नालं च पद्मं च दिग्गजैश्चाष्टभिर्युतम् ॥

पूर्णं कूर्मं च धरणिं कृत्वा स्थापयेत्पूजयेद्गुरूः ।
दिक्पाल परितः पूज्य प्रागादिषु यथाविधि ॥

भूकम्पे चेत्पिदं पूज्य तत्तन्नामादिभिः प्रिये ।
वेदिमध्ये च संस्थाप्य सहस्रं वा तदर्धकम् ॥

कलशान् पूजयेन्मन्त्री पूर्वोक्तेन विधानतः ।
ततः कुण्डान्तिकं गत्वा होतृभिस्सह देशिकः ॥

ब्रह्माणं धनदं देवि उपविश्य यथाक्रमम् ।
कुण्डसंस्कारपूर्वं च जनयेत्पावकं प्रिये ॥

तदग्निं विभरेन्मन्त्री प्रागादिषु यथाक्रमम् ।
अग्निकार्योक्तवत्कुर्यात्तत्तत्कुण्डेषु मूर्तिपाः ॥

प्रधानकुण्डे जुहुयात् मूलमन्त्रं महेश्वरि ।
अयुतं च तदर्धं वा सहस्रं वा महेश्वरि ॥

भूबीजं भुवनेशीं च आधारादीश्च पूर्वके ।
अघोरं चाग्निकोणे च तदर्धार्धं महेश्वरि ॥

मृत्युञ्जयं च याम्ये च नैर्-ऋत्यां च वराहकम् ।
प्रासादं वारुणे कुण्डे वायव्यै शान्तिदौर्गकम् ॥

पञ्चब्रह्मा च सोमे च ईशाने तत्वमन्त्रकान् ।
सहस्रं च हुनेद्देवि तत्तन्मन्त्रं पृथक् पृथक् ॥

समिदाज्यचरुद्रव्यैः सर्षपैश्च तिलैस्सह ।
व्रीहिभिस्सक्तुभिश्चैव गोधूमैः पृथुकैर्हुनेत् ॥

कुण्डस्य परितो दिक्षु हुतसङ्ख्याश्च होतृकान् ।
विभज्य च यथा मन्त्री दिनसङ्ख्येन पार्वति ॥

पूर्वोक्तसङ्ख्यया हुत्वा उद्दिश्य दिवसे गुरुः ।
उपहोमं ततः कुर्यात् रुत्विग्भिस्सह देशिकः ॥

गणेशं क्षेत्रपालं च त्रियम्बकनवग्रहान् ।
दिक्पालमन्त्रैर्हुत्वाथ स्विष्टकृत्तदनन्तरम् ॥

पूर्णाहुतिं हुनेदन्ते भूकम्पे चेत्पिदं प्रिये ।
प्रतिसूर्ये दर्शने च हुनेन्मन्त्री यथाक्रमम् ॥

आदित्यं पूर्वकुण्डे तु अघोरं चाग्निगोचरे ।
वामे मृत्युञ्जयं हुत्वा नैर्-ऋत्यां च नवग्रहम् ॥

वारुणे दिक्पतीन् मन्त्रान् वायव्येशान्तिदौर्गकाम् ।
सोमे च द्वादशादित्यान् ईशे पञ्चाक्षरीं हुनेत् ॥

पूर्वोक्तद्रव्यसङ्ख्यैश्च हुनेन्मन्त्रं पृथक् प्रिये ।
होमान्ते स्विष्टकृन्मन्त्री पूर्णाहुतिमथाचरेत् ॥

स्थापितान् कलशान् मन्त्री सेचयेत्तव लिङ्गके ।
महारुद्रांश्च विधिवन्महापञ्चामृतं प्रिये ॥

सेचनान्ते च उद्वर्त्य महापूजां समाचरेत् ।
नानापुष्पैश्च गन्धैश्च नैवेद्यं बहुधा प्रिये ॥

नीराजनं च सम्भ्राम्य उपचारैस्समर्पयेत् ।
दशदानं च दत्वाथ सूर्यं स्वर्णेन निर्मितम् ॥

द्वादश प्रतिमां कृत्वा ब्राह्मणेभ्यः प्रदापयेत् ।
भूचक्रं कारयेद्देवि दशनिष्कप्रमाणतः ॥

ब्राह्मणाय प्रदातव्यं दक्षिणाभिः समन्वितम् ।
आचार्यं पूजयित्वाथ गोभूवासो हिरण्यकैः ॥

तत्रोपकरणैः सार्धं प्रदद्याच्च महेश्वरि ।
दक्षिणां दापयेद्भक्त्या मूर्तिपेभ्यो यथाक्रमम् ॥

ब्राह्मणान् भोजयेत्पश्चात् यथा विभवविस्तरम् ।
भूमिदानं ततो दद्यात् रात्रौ दीपोत्सवं गुरुः ॥

भूतेभ्यश्च बलिं दत्वा कृच्छ्रदानं प्रदापयेत् ।
इत्येवं कारयेद्भक्त्या भूकम्पे च महेश्वरि ॥

प्रतिसूर्ये दर्शने च शान्तिं कुर्यादिदं प्रिये ।
आयुरारोग्यमैश्वर्यं सर्वसम्पत्करं नृणाम् ॥

सुभिक्षं भवेद्भूमौ आयुर्वृद्धिकरं नृणाम् ।
ब्रह्मक्षत्रियवैश्यानां स्वधर्ममभिवृद्धये ॥

सर्वप्राणिहितं पुण्यं सर्वाघौघनिवारणम् ।
प्रायश्चित्तमिदं देवि तव प्रीत्या मयोदितम् ॥

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे भूकम्पादिप्रतिसूर्यदर्शनशान्तिविधिर्नाम एकचत्वारिंशत्पटलः ॥

४२

अतः परं प्रवक्ष्यामि इन्दुक्षयदिनं शिवे ।
निशि नक्षत्रनाशे च रात्राविन्द्रधनूत्थिते ॥

दिवा नक्षत्रदर्शे च यदि जाते महेश्वरि ।
मांसौ चेदधिके न्यूना उभौ प्राप्ते च वत्सरे ॥

क्रूरादि ग्रहयोगे च पञ्चमे वाथ सप्तमे ।
द्वात्रिंशत्केतुरुत्पन्ने रूधिरस्रावपातने ॥

वह्निवृष्टिस्तथा भूमौ यदि जाते महेश्वरि ।

मसौचे ।

दोषं शान्तिं लभन्देवि क्रमेण शृणु पार्वति ॥

इन्दुक्षये ऋक्षनाशे रात्राविन्द्रधनूत्थिते ।
दिवा नक्षत्रदर्शे चेत् यत्रकुत्र स्थले शिवे ॥

देशे देशपतिश्चैव मन्त्रिसेनाधिपक्षयः ।
मासौ चेदधिके न्यून उभौ प्राप्ते च वत्सरे ॥

सेनाजनो ग्रामपश्च दुर्भिक्षस्यान्महेश्वरि ।
क्रूरारिग्रहयोगे चेत् जाते राशौ नृणां प्रिये ॥

मृत्युबाधा भवेच्छीघ्रं षण्मासान्तं न संशयः ।
यदि केतुश्च ये दृष्टे त्वकस्माद्विविधे शिवे ॥

क्षामक्षयौ भवेद्राज्ये भूपामृत्युमृतिं ययुः ।
वह्निवृष्टिस्तथा भूमौ रुधिरस्रावपातने ॥

अनावृष्टिस्तथा देवि फलनाशं च सर्वतः ।
सस्यनाशं भवेल्लोके वत्सराणां न संशयः ॥

तस्मात्तद्दोषशान्त्यर्थं राजधान्यां तवालये ।
देशे देशे पृथग्ग्रामे शान्तिकर्म समाचरेत् ॥

दशहस्तमितेनादौ मण्टपं कारयेद्गुरुः ।
एकं वा पञ्चकुण्डं वा हस्तत्रयसमन्वितम् ॥

लक्षणं पूर्ववद्देवि प्रमाणेन विचक्षणः ।
द्वारादि भूषणादीनि रचयेन्मण्टपं गुरूः ॥

सुतिथौ च सुनक्षत्रे राजग्रामानुकूलके ।
ततः प्रात समुत्थाय स्नानसन्ध्यादितर्पणम् ॥

समाप्य विधिना मन्त्री ब्राह्मणैस्सह भक्तितः ।
देवालयं प्रविश्याथ विघ्नेशार्चनपूर्वकम् ॥

पुण्याहं पञ्चगव्यं च नान्दीकर्म समाचरेत् ।
वरयेद्भूसुरान् मन्त्री आचार्यादि यथोक्तवत् ॥

अलङ्कारं भूषणादिवस्त्रहेमाङ्गुलीयकैः ।
ताम्बूलं च फलं दत्वा मधुपर्कं यथोक्तवत् ॥

अङ्कुरं तु प्रकुर्वीत सद्यो वाथ महेश्वरि ।
मण्टपं शोधयेद्रात्रौ तत्कुम्भान् स्थाप्य होमयेत् ॥

वास्तुराक्षोघ्नहवनं बलिपूजां समाचरेत् ।
वेदपारायणं दिक्षु विदिक्ष्वस्त्रमनुं शिवे ॥

क्षेत्रपालं वास्तुमन्त्रं मृत्युञ्जयनवग्रहम् ।
मूलमन्त्रं दिशामन्त्रं भूसूक्तं विष्णुसूक्तकम् ॥

अभयङ्करं शान्तिदुर्गाप्रासादं भुवनेश्वरीम् ।
सप्तशतीन् केतुमन्त्रान् अष्टौ वाक्यं तदुक्षकान् ॥

जपेत् होमावसानान्तं रक्षाबन्धं समाचरेत् ।
ततः प्रात समुत्थाय नित्यकर्म विधाय च ॥

ब्राह्मणैस्सह संयुक्तः सङ्कल्प्य विधिपूर्वकम् ।
पुण्याहं वाचयेद्देवि स्वकुण्डे विधिवद्गुरुः ॥

जननाग्निं च कुर्वीत ब्रह्माणं होतृभिस्सह ।
तदग्निं चान्यकुण्डेषु स्थापयेच्च यथाक्रमम् ॥

अग्निकार्योक्तवत्कुर्यात् कुण्डस्य परितः पृथक् ।
उपविश्य यथान्याय्यं प्रयुतं मूलमन्त्रकम् ॥

प्रधानकुण्डे जुहुयादघोरं पूर्वकुण्डके ।
ग्रहमन्त्रं दक्षिणे च पश्चिमेचाभयङ्करम् ॥

त्रियम्बकं चोत्तरे च ततन्मन्त्रं हुनेत् पृथक् ।
खदिरं च पलाशं च अर्कमौदुम्बरं तथा ॥

दूर्वा च समिधं हुत्वा प्राधानादि यथाक्रमम् ।
घृतं चरुं तिलं चेति सर्षपं पृथुकं प्रिये ॥

सक्तुं व्रीहिं च गोधूमं मधुक्षीरं यथाक्रमम् ।
पूर्वोक्तसङ्ख्यया हुत्वा ऋत्विग्भिः सह देशिकः ॥

उपहोमं ततो हुत्वा प्रधानादि यथाक्रमम् ।
शान्तिदुर्गामनुं होमं तत्तन्मासर्क्षदेवताः ।

पञ्चब्रह्मं च प्रासादं सहस्रं च हुनेत्प्रिये ।
स्थापयेद्वेदि मध्ये तु सहस्रं चोत्तमं शिवे ॥

तदर्धार्धं च सम्पूज्य कलशान् विधिवद्गुरुः ।
जपपारायणं कुर्यात् उद्दिश्यदिवसान्तकम् ॥

पूर्णाहुति हुनेदन्ते तद्घटान् सेचयेद्गुरुः ।
शतरुद्रं चातिरुद्रं तत्तत्कल्पोक्तमार्गतः ॥

सेचयेत्तव लिङ्गं च महापञ्चामृतैः पृथक् ।
नानासूक्तैश्चाभिषिच्य ततो गन्धविलेपयेत् ॥

पूजयेत्तव लिङ्गं च नानापत्रैः प्रसूनकैः ।
धूपदीपं च नैवेद्यं षड्रसान्नैश्च भक्षकैः ॥

फलपक्वं च ताम्बूलं नीलाजनमनन्तरम् ।
बलिदानं ततो दद्यात् ब्राह्मणान् भोजयेद्बहून् ॥

रात्रौ दीपोत्सवं देवि रङ्गपूजां समाचरेत् ।
महाभूतबलिं दद्यात् दशदानं प्रदापयेत् ॥

इन्दु-ऋक्षादिनाशे च तद्रूपप्रतिमां प्रिये ।
कारयेत्स्वर्णजं दद्याद्दक्षिणां च विशेषतः ॥

भूरिदानं ततो दद्यात् कृच्छ्रदानं ततः परम् ।
आचार्यं पूजयेद्भक्त्या वाहनैर्भूषणादिकैः ॥

गोभूम्यादिनि दत्वा तु दक्षिणां च स्वशक्तितः ।
ब्राह्मणं च सदस्यं च होतृकादि यथाक्रमम् ॥

तत्तदंशं दक्षिणां च दापयेच्च पृथक् पृथक् ।
इत्येवं कारयेच्छान्तिं सर्वमङ्गलं नृणाम् ॥

राजामात्यप्रजानां च सर्वेषां वृद्धिदं शिवे ।

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे इन्दुनक्षत्रनाशकेतुदर्शनशान्तिविधिर्नाम द्विचत्वारिंशत्पटलः ॥

४३

श्रीदेव्युवाच -

श्रुतं देव मया सर्वं नित्यनैमितिकाधिकम् ।
प्रायश्चित्तविधिं सम्यक् त्वयोक्तो मे सदाशिव ॥

इदानीं श्रोतुमिच्छामि उत्पाता बहवो भुवि ।
कथते दुद्बलं देव कारणं वद साम्प्रतम् ॥

तेषां नाम कथं देव दोषाणां च कथं पृथक् ।
तच्छान्तिश्च कथं शम्भो वदस्व कृपया शिव ॥

ईश्वर उवाच -

साधु देवि त्वया पृष्ठ उत्पाता बहवोद्भवाः ।
कथं चेदुद्भवं देवि कारणं शृणु तत्वतः ॥

केचित् स्थानविनाशाय केचिन्मृत्युभयं शिवे ।
केचिच्छत्रुभयं नॄणां दुर्भिक्षं जायते भुवि ॥

केचिद्वसुहरं नॄणां ग्रामे जनपुरक्षयम् ।
एवमादिषु कालेषु उत्पाद्यन्ते मया भुवि ॥

तस्माज्ज्ञात्वा नृणां श्रेष्ठः तद्दोषशमनाय च ।
शान्तिं कुर्वीत विधिवत् सर्वप्राणि हिताय च ॥

तेषां नामानि वक्ष्यामि क्रमेण शृणु पार्वति ।
भूमिकम्पं दिशां दाहं प्रतिसूर्यस्य दर्शनम् ॥

दिवा नक्षत्रमुत्पन्नं रात्राविन्द्रधनुस्थितम् ।
निशिनक्षत्रनाशे च इन्दुक्षयदिने शिवे ॥

मासौ चेदधिके न्यूना उभौ प्राप्ते च वत्सरे ।
क्रूरारिग्रहयोगे च पञ्चमे वाथ सप्तमे ॥

द्वात्रिंशत्केतुरुत्पन्ने अन्यैश्च बहुभिश्शिवे ।
वह्निवृष्टिस्तथा भूमौ रुधिरस्रावपातनम् ॥

दिव्यन्तरिक्षभूम्यां च जायते च महेश्वरि ।
देवालये गृहे वापि ग्रामेवा नगरे स्थले ॥

पत्तने राजधान्यां च वने चोपवनेऽपि वा ।
नदीतीरे तटाके वा कानने पर्वते स्थले ॥

सिन्धुतीरे च दिक्स्थाने भूम्या * * * * * * ।

तद्बिम्बं च प्रयत्नेन पुनः प्राप्ते गुरुः प्रिये ।
शान्ति कुर्याच्च सम्पूज्य उत्सवं च समारभेत् ॥

यदि नाशादिके बिम्बे यथापूर्वोक्तलक्षणम् ।
नवं बिम्बं च कुर्वीत प्रतिष्ठाशान्तिमाचरेत् ॥

तिष्ठत्यूर्ध्वमुखे बिम्बे करपादविहीनके ।
अधोमुखाद्यनेकानि हीनास्यकृशवामनाः ॥

दर्शनं चेदिदं बिम्बं विस्मयीकृत्य तत्क्षणात् ।
वेतालक्षेत्रपालाश्च भूतबाधा च वर्धते ॥

सर्पव्याधिभयं राज्ञः देशे तत्र प्राजायते ।
तद्दोषशमनार्थाय प्रायश्चित्तं समाचरेत् ॥

तवलिङ्गादिबिम्बे च बिम्बदोषादिकान् क्रमात् ।
सम्यगुक्तं मया देवि तच्छान्तिं विस्तराच्छृणु ।

भिन्नदोषादिके प्राप्ते यथावदनुपूर्वशः ।
आचार्यं भोजयेत्पूर्वं पायसेन घृतेन च ॥

हेमरत्नादिकं तस्य दातव्यं वाहनादिकम् ।
मण्टपं देवदक्षस्थे कलशं पूर्ववद्यजेत् ॥

होमं कृत्वा विधानेन संहारोक्तेन देशिकः ।
लिङ्गमभ्यर्च्य सन्तर्प्य त्रितत्वं च विसर्जयेत् ॥

द्वारमाच्छाद्य वस्त्रेण फलपक्कं निवेदयेत् ।
ततः सन्धाय पूर्वोक्तं लिङ्गं वा बिम्बमेव वा ॥

प्रायश्चित्तं प्रकर्तव्यं गुरुः कुर्यान्महेश्वरि ।
तवाग्रे चेशभागे च उत्तमोत्तममण्टपम् ॥

नवकुण्डं प्रकल्प्याथ यथापूर्वोक्तमार्गतः ।
रचयेन्मण्टपं देवि द्वारतोरणभूषणैः ॥

सुतिथौ च सुनक्षत्रे सुयोगकरणान्विते ।
प्रायश्चित्तं प्रकुर्वीत सद्योवाथमहेश्वरि ॥

ततः प्रातः समुत्थाय ब्राह्मणैः सह देशिकः ।
नित्यकर्माणि निर्वर्त्य मृत्तिकास्नानपूर्वकम् ॥

धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः ।
देवालयं ततो गत्वा प्रार्थयेच्च महेश्वरि ॥

उपविश्यासने मन्त्री पूर्वे वा चैशकोणके ।
प्राणायामं ततः कुर्यान्मातृकादि यथाक्रमम् ॥

न्यासं कृत्वा ततो मन्त्री गुरुवन्दनपूर्वकम् ।
दिनमुद्दिश्य सङ्कल्प्य पञ्चसप्त नवाहकम् ।

ममात्मजं प्रपूज्याथ नान्दीपुण्याहमाचरेत् ।
वरयेद्भूसुरान् देवि पूर्वोक्तलक्षणैर्युतान् ॥

गुरुं विधिं च धनदं सदस्यं चाष्टमूर्तिपान् ।
होमसङ्ख्यमितान् देवि होतृभिश्च यथोक्तवत् ॥

जपार्थं च तदर्धं स्यात् वेदपाठार्थषोडशान् ।
परार्थं दश विप्रांश्च रुद्रसङ्ख्यांश्च सेचकान् ॥

पूजार्थं दशविप्रांश्च नमस्कारप्रदक्षिणे ।
षड्जनान् वरयेन्मन्त्री मधुपर्कं च दापयेत् ॥

वस्त्रालङ्कारकं दद्यात् फलताम्बूलमेव वा ।
अङ्कुरार्पणपूर्वं च मृत्तिकाहरणं गुरुः ॥

ध्वजारोहे ततः पश्चात् नवरात्रौ महेश्वरि ।
एक त्रिपञ्चरात्रौ तु ध्वजं वा पूजयेद्गुरुः ॥

सायं सन्ध्यामुपास्याथ यागगेहं प्रविश्य च ।
पुण्याहं पञ्चगव्यं च कुण्डमण्डपशोधनम् ॥

विद्येशादिघटान् स्थाप्य द्वारतोरणकुम्भकम् ।
तण्डुलाढ्यं जलाढ्यं च राक्षोघ्नं वास्तुहोमकम् ॥

बलिं च विकिरेद्वास्तो रक्षबन्धक्रियां नयेत् ।
स्थानशुद्धिघटान् न्यस्त्वा बिम्बशुद्धिं तथैव च ॥

लिङ्गशुद्धिं घटान् स्थाप्य पूजयेद्विधिना गुरुः ।
वेदपारायणं दिक्षु विदिक्षुस्तमनुं जपेत् ॥

सर्वमन्त्रान् जपेद्देवि तत्तत्सूक्तांश्च मन्त्रतः ।
अधिवासं च कुर्वीत यथा पूर्वोक्तवद्गुरुः ॥

लिङ्गशुद्धिं ततः पश्चात् पूर्वोक्तद्रव्यमन्त्रकैः ।
विनिद्रांस्तु ततः कृत्वा तत्परे प्रातरुत्थितः ॥

स्नानसन्ध्याक्रिया नीत्वा पुण्याहं वाचयेत्ततः ।
देशिकाग्निं समानीय प्राधाने च न्यसेत् प्रिये ॥

तदग्निं जनयेन्मन्त्री होतृभिर्जापकादिकैः ।
वेदपारायणं सार्धं होमकर्मसमाचरेत् ॥

मूलमन्त्रप्रधानं स्यात् लक्षं वाथ तदर्धकम् ।
पूर्वादिकुण्डे जुहुयात् कलावृद्धिं च तत्वकम् ॥

शान्तिदुर्गां मृत्युजितं तदर्धं च यथाक्रमम् ।
विदिक्षु कुण्डे जुहुयात् चतुरस्त्रं पृथक् पृथक् ॥

समिदाज्यादिकैर्मन्त्री दशद्रव्येण होमयेत् ।
उपहोमं ततः पश्चात् प्रधानादि यथाक्रमम् ॥

लिङ्गशुद्धिं बिम्बशुद्धिं स्थानशुद्धिमनुं प्रिये ।
प्रासादं च दिशामन्त्रं ग्रहहोमं च मन्त्रवित् ॥

मूर्तिहोमं गणेशं च क्षेत्रपालमनुं शिवे ।
सहस्रं च तदर्धं वा सर्पिषा जुहुयात् पृथक् ॥

जपपारायणं कुर्यात् तत्तन्मन्त्रान् बहून् प्रिये ।
स्थापयेत् कलशान् मन्त्री सहस्रं च यथोक्तवत् ॥

पूजयेच्च ततः पश्चात् स्पृष्टेन्मूलमनुं प्रिये ।
उद्दिश्य दिवसान्तं च होतृभिश्च पृथक् पृथक् ॥

पूर्वोक्तसङ्ख्यया हुत्वा ततः पूर्णाहुतिं हुनेत् ।
होमान्ते तव लिङ्गे च कलां संयोज्य देशिकः ॥

स्थापितं जीवकुम्भं च सेचयेन्मन्त्रवित्तमः ।
निरीक्षाकर्म कर्तव्यं मुखवस्त्रं विसर्जयेत् ॥

ततः पञ्चामृतैर्लिङ्गं सेचयेद्रुद्रमन्त्रतः ।
नानासूक्तं पावमानैः तत्तन्मन्त्रेण पार्वति ॥

स्नापयेत्कलशैर्मन्त्री सहस्रैश्च यथाक्रमम् ।
सेचनान्ते तदुद्वृत्य अष्टगन्धं विलेपयेत् ॥

महापूजां च कुर्वीत नानापुष्पैश्च नामभिः ।
बिल्वपत्रैर्द्राणपुष्पैः कमलैश्च महेश्वरि ॥

स्वर्णेन निर्मितैः कुर्यात् पूजयेत्तवलिङ्गके ।
नैवेद्यं बहुधापान्नं भक्षभोज्यैश्च पायसैः ॥

निवेदयेत्ततो मन्त्री मूलमन्त्रेण पार्वति ।
ताम्बूलं च समर्प्याथ नीराजनमनन्तरम् ॥

बलिदानं ततः कुर्यात् उत्सवं च विशेषतः ।
दिने दिने प्रकर्तव्यम् उद्दिश्य दिवसान्तकम् ॥

दशदानं ततो दद्यात् लिङ्गं स्वर्णमयं प्रिये ।
बिम्बं वाथ प्रकुर्वीत दक्षिणां च स्वशक्तितः ॥

दद्याच्च गुरवे भक्त्या कृच्छ्रदानं प्रदापयेत् ।
ब्राह्मणान् भोजयेद्देवि यथा चाहुतिसङ्ख्यया ॥

दक्षिणां दापयेदन्ते आचार्यादि यथोक्तवत् ।
भूमिदानं ततो दद्यात् गुरुपूजां समाचरेत् ॥

गोभूम्यादीनि दत्वा तु तन्त्रोपकरणैस्सह ।
इत्येवं कारयेच्छान्तिं लिङ्गनाशादिके प्रिये ॥

भिन्ने च स्फुटिते दग्धे खण्डिते यत्रकुत्रचित् ।
तदर्धार्धं च कुर्वीत बिम्बे वाथ महेश्वरि ॥

रोदनादिषु दोषेषु कीटकादि निदर्शने ।
करपादविहीने तु दर्शने कृशवामने ॥

पतनादिषु दोषेषु तस्यार्धं च तदर्धकम् ।
शान्तिं कुर्वीत पूर्वोक्तं सर्वदोषनिवारणम् ॥

सर्वशान्तिकरं लोके सर्वसम्पत्करं नृणाम् ।
चतुरङ्गाभिवृद्धिः स्यात् राज्ञो राज्याभिवर्धनम् ॥

पुत्रपौत्रादि वृद्धिश्च सर्वत्र विजयो भवेत् ।
सर्वमृत्युहरं शीघ्रम् आयुर्वृद्धिकरं प्रिये ॥

सन्निधानं भवेल्लिङ्गे सर्वाभीष्टप्रदं शिवे ।
गर्भागारादि वक्ष्यामि दोषं शान्तिं क्रमाच्छृणु ॥

गर्भगृहे मण्टपे च प्राकारे गोपुरे तथा ।
प्रासादादिषु सर्वत्र दहने स्फुटिते सति ॥

छिन्ने भिन्ने खण्डिते च प्रावेशे मरणे सति ।
वाहने परिवाराणां ध्वजे वा कलशे यदि ॥

बलिपीठे क्षेत्रपालद्वारपालौ महेश्वरि ।
दीपस्तम्भे चोर्ध्वमालाश्छत्रचामरकादिषु ॥

शिबिके वाहनादीनां पादुके वाद्यकादिषु ।
पतिते खण्डिते दग्धे चोरैरपहृते सति ॥

एवमादि समुत्पन्ने राजाराष्ट्रभयं भवेत् ।
गर्भगृहे च सम्प्राप्ते राष्ट्रनाशं जनक्षयः ॥

मण्टपे गोपुरे देवि त्रिमासान् सचिवक्षयः ।
प्रासादादिषु सम्प्राप्ते सेनानायकनाशनः ॥

वार्नने परिवारेषु यदि प्राप्ते महेश्वरि ।
चोरमारिभयं तत्र दुष्टबाधा च वर्धते ॥

वस्तुवाहननश्यन्ति त्रिवर्षान्तं न संशयः ।
ध्वजे वा कलशे भङ्गे बलिपीठे प्रमादतः ॥

क्षेत्रपाले द्वारपाले दीपस्तम्भादिके प्रिये ।
शत्रुबाधाद्भवेत्सद्यः भूतबाधा च वर्धते ॥

न सन्निध्यं भवेल्लिङ्गे तत्स्थानं नाशमाप्नुयात् ।
छत्रचामरसेवादि शिबिके पादुकादिषु ॥

बलिदीपे वाद्यकादि पतिते खण्डिते सति ।
राज्ञां भोगविनाशः स्यात् गजाश्वपशुनाशनम् ॥

सर्वभङ्गं भवेत्सद्यः ग्रामलक्ष्मीर्बहिर्गता ।
एवं दोषादिके प्राप्ते शान्तिं पूर्वोक्तमाचरेत् ॥

अघोरं नियुतं हुत्वा मूलमन्त्रं च पार्वति ।
दिशाहोमं शान्तिदुर्गामृत्युञ्जयमनुं गुरुः ॥

तदर्धार्धं च हुत्वाथ यथादोषबलाबलम् ।
सहस्रार्धं घटं मन्त्री तदर्धार्धं च सेचयेत् ॥

दानं च विविधं दद्यात् सर्वं पूर्वोक्तमाचरेत् ।
शान्तिकर्ममयेत्युक्तं लिङ्गबिम्बादिनाशने ॥

सर्वसम्पत्प्रदं नॄणां सर्वदा मङ्गलप्रदम् ।
देशकोशाभिवृद्धिः स्यात् मम लोके वसेच्चिरम् ॥

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे लिङ्गबिम्बादिदोषशान्ति सन्धानविधिर्नामत्रिचत्वारिंशत् पटलः ॥

४४


स्वस्तु ।

रथभङ्गप्रवक्ष्यामि काम्ये नैमित्तिके यदि ।
वत्सराद्युत्सवादीनाम् आदिमध्यावसानके ॥

शकटादिरथे भिन्ने पथिते शिथिले सति ।
दग्धे नष्टे खण्डिते च तदङ्गे च महेश्वरि ॥

तवोत्सवे चाद्भुते च यदि प्राप्ते प्रमादतः ।
दोषं शान्तिं च सन्धानं तत्फलं शृणु पार्वति ॥

चक्रे हीने त्वलक्ष्मी स्यात् तद्ग्रामं नाशनं भवेत् ।
राज्ञा दण्डे बलं हन्ति धननाशं च पार्वति ॥

तिर्यद्गाण्डे च सचिवं नाशनं पट्टिका भवेत् ।
मूर्तियुक्पलके स्तम्भे स्वराज्यं पत्तनक्षयम् ॥

पान्तराले च मध्ये वा यदि नम्रे च पार्वति ।
रोगबाधा च तद्राज्ञः स्वस्त्रीनाशनमाप्नुयात् ॥

रथद्वारादिके नाशे राजलक्ष्मी बहिर्गता ।
रथभित्तौ विहीनेत्तनन्तले च विहीनके ॥

दुर्भिक्षं प्राप्नुयुस्सर्वे मृत्युबाधां च पार्वति ।
शलाके रज्जुबन्धे च सेनानायकमन्त्रिणाम् ॥

नाशनं च भवेन्मृत्युः बलिबेरस्थले शिवे ।
भौमे चान्तरमध्ये वा खण्डिते म्रियतेऽपि वा ॥

आकुञ्चिते वा पतने तद्राजा मृत्युमाप्नुयात् ।
बलिबिम्बे च पतने देशिकादिजने सति ॥

देशनाशो भवेत्सद्यः चतुरङ्गबलक्षयः ।
राजदानी विनश्येत शत्रुबाधा भवेन्नृणाम् ॥

छत्रे चैव पताके वा अलङ्कारविहीनके ।
यशः कीर्त्यादिकं हन्ति राजभोगं च नश्यति ॥

रथाग्रकलशे भिन्ने रथाग्रे पातिते सति ।
तद्राज्ञः सर्वभङ्गत्वं दरिद्रत्वं न संशयः ॥

त्रिमासान्मृत्युमाप्नोति राजलक्ष्मीर्बहिर्गता ।
रज्जुच्छेदे ध्वजे भङ्गे तज्जनेन निपातिते ॥

जयाभिगमनं नास्ति बन्धुनाशं च पार्वति ।
सर्वाङ्गे शिथिले जाते सर्वार्थं नश्यति ध्रुवम् ॥

रथे वा पतिते देवि खण्डिते भूतले यदि ।
तद्राजमरणं सद्यः चतुरङ्गबलक्षयः ॥

तद्राष्ट्रं नाशमाप्नोति त्रिवर्षान्तं न संशयः ।
दिक्पालं तु ततो वक्ष्ये पतिते च महेश्वरि ॥

सार्वभौमक्षयप्राप्यां गेहाग्नेय्यां च भूपतिः ।
यमे क्षयश्चक्रवर्ति मण्डलिकस्तथा सुरे ॥

प्रभुक्षयश्च वारुण्यां वायव्यां प्रभुसारथिः ।
सोमे मृतिर्मण्डलिकः ईशे भूपसतिक्षयः ॥

तस्माच्छान्तिं प्रकर्तव्या सर्वलोकहिताय च ।
सर्वदोषहरं नॄणां शान्तिं कुर्यान्नृपोत्तमः ॥

रथभङ्गं तदा राज्ञः दर्शयेन्न कदाचन ।
आचार्यः शिल्पिभिश्चैव सशिष्यैश्चारकादिभिः ॥

रथभङ्गं तदा दृष्ट्वा पुनस्तत्रैव सन्धयेत् ।
सुदृढं शिल्पिभिः कुर्यात् * * * * * * * * ॥

पुण्याहं वाचयेत्तत्र विघ्नेशार्चनपूर्वकम् ।
चक्रादिमन्त्रं जुहुयात् साष्टोत्तरशताहुतिम् ॥

घोरमन्त्रं च तस्यार्धं मूलमन्त्रं च पार्वति ।
प्रायश्चित्तं च शान्तिं च दिशामन्त्रं हुनेद्गुरुः ॥

समिदाज्यचरुद्रव्यै तुटिकैस्सर्षपैस्सह ।
पृथङ्मन्त्रेण होतव्यं तदङ्गे शिथिले गुरुः ॥

स्नापयेद्घटतोयेन साष्टोत्तरशतं गुरुः ।
भिन्नस्थानं च तद्बिम्बं स्नपयेच्च महेश्वरि ॥

तद्रथं स्नपयेत्पश्चात्तदर्धं च पृथक् पृथक् ।
पूजयेच्च ततो मन्त्री वेदपारायणादिकैः ॥

दशधा दापयेद्दानं कृच्छ्रदानं महेश्वरि ।
रथस्य परितो दिक्षु प्रशस्ताश्चान्नराशयः ॥

कूश्माण्डशकलैस्सार्धं ततो भूतबलिं हरेत् ।
लाङ्गुल्यादिस्फलैस्ताड्य शेषं चोत्सवमाचरेत् ॥

महाशान्तिं ततः कुर्यात् विधानं न गुरूत्तमः ।
तद्रथं यदि सन्धानं न कृते चेत्तदा शिवे ॥

तव बिम्ब चावरोप्य स्वस्तिसूक्तेन देशिकः ।
शिबिकाद्यैस्समारोप्य उत्सवं च समाचरेत् ॥

शेषं कर्म समाप्याथ नवं कृत्वा दृढं रथम् ।
यथा पूर्वोक्तवत्कुर्यात् त्रिमासे सप्तमे शिवे ॥

तदूर्ध्वे वत्सरे मासे तदृक्षे तत्तिथावपि ।
बीजकर्मादि तीर्थान्तं पुनरूत्सवमाचरेत् ॥

महाशान्तिं च पूर्वेद्युः गुरुः कुर्याद्विधानतः ।
रथोत्सवं ततः कुर्यात् ध्वजारोहादिपूर्वकम् ॥

महाशान्तिं प्रवक्ष्यामि विस्तराच्छृणु पार्वति ।
तवाग्रे मण्टपं कुर्यात् ईशान्ये वाथ देशिकः ॥

द्वात्रिंशद्धस्तपर्यन्तं चतुरश्रं समन्ततः ।
हस्तमात्रं चोन्नतं स्यात् मध्ये वेदिं सलक्षणाम् ॥

द्वात्रिंशस्तम्भसंयुक्तां चतुर्द्वारं प्रकल्पयेत् ।
दण्डं संस्थाप्य कुदलीं तोरणैश्चाप्यलङ्कृतम् ॥

द्विहस्तसम्मितं कुण्डं चतुरश्रं चतुर्दिशि ।
विदिक्षु वृत्तकुण्डं स्यात् वेदिकोपरिकल्पयेत् ॥

इन्द्रचैशानयोर्मध्ये वृत्तकुण्डं प्रधानकम् ।
कुण्डनाभिसमायुक्तं मेखलोपरि शोभितम् ॥

इत्येवं मण्टपं रम्यं शान्तिं कुर्यान्महेश्वरि ।
एतद्दिनेषु निश्चित्य सत्यवादी जितेन्द्रियः ॥

दीक्षावान् कर्मनिष्ठज्ज्ञः विप्रानाहूय देशिकः ।
प्रातः स्नानं प्रकुर्वीत नित्यकर्म समाप्य च ॥

ततो देवालयं गत्वा फलपुष्पं समर्प्य च ।
प्रार्थयेच्च ततो मन्त्री शान्तिं कुर्यात्तवाज्ञया ॥

ततः कर्माणि कुर्वीत आचार्यादि द्विजैस्सह ।
निशि सायं दिवा प्रातः कर्मारम्भं समाचरेत् ॥

मण्टपं च प्रविश्याथ आसने चोपविश्य च ।
गुरुवन्दनपूर्वादि प्राणायामं समाचरेत् ॥

दिनमुद्दिश्य सङ्कल्प्य यथाविभवविस्तरम् ।
विघ्नेशमर्चनान्द्यादि पुण्याहं पञ्चगव्यकम् ॥

मधुपर्कं च वरयेदाचार्यं यजमानकम् ।
ब्रह्मणं मूर्तिपान् देवि यथा चाहुतिसङ्ख्यया ॥

दिनसङ्ख्यमितं ज्ञात्वा वरयेद्वृत्विजान् क्रमात् ।
वेदपारायणार्थं तु षोडशब्राह्मणान् शिवे ॥

जपार्थं च शतार्धं स्यात् सेवनार्थं च पार्वति ।
रुद्रसङ्ख्यान् पूजनार्थं दशविप्रान् पृथक् पृथक् ॥

प्रदक्षिण नमस्कारान् षड्घनांश्च महेश्वरि ।
चारार्थं दशविप्रांश्च प्रत्येकं वरयेद्गुरुः ॥

वस्त्रं च भूषणं दत्वा फलताम्बूलमेव वा ।
देशिकं मकुटाद्यैश्च स्वर्णयज्ञोपवीतकैः ॥

दुकूलपादुकाद्यैश्च छत्रव्यजनपात्रकैः ।
सुवर्णकुण्डलं चैव अङ्गुलीयं महेश्वरि ॥

दत्वा विभवसारेण देशिकं तु समर्चयेत् ।
मण्टपं शोधयेत्पश्चात् सम्मार्ज्य विप्रगोमयैः ॥

देवालये वितानाद्यैः तोरणैश्चाप्यलङ्कृतम् ।
दर्भदाम्ना च तान्वेष्ट्य संस्कारं च दशाष्टकान् ॥

मण्टपान्तस्थकुम्भानां स्थापयेत्पूजयेद्गुरुः ।
अङ्कुरं तु प्रकुर्वीत सद्यो वाथ महेश्वरि ॥

वास्तुराक्षोघ्नहवनं बलिपूजां समारभेत् ।
रक्षासूत्रं बन्धयित्वा आचार्यादि द्विजान् पृथक् ॥

वेदपारायणं कुर्यात् तत्तन्मन्त्रं जपेत्प्रिये ।
रात्रौ जागरणं कृत्वा निराहारो जितेन्द्रियः ॥

ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च ।
पुण्याहं च ततः कुर्यात्कलशान् साधयेत्प्रिये ॥

सहस्रं चोत्तमं देवि पूजयेच्च यथाविधि ।
जननाग्निं प्रतिष्ठाप्य गुरुकुण्डस्थपावके ॥

विहरेदन्यकुण्डेषु अग्निकार्योक्तमाचरेत् ।
अग्निमध्ये समावाह्य तव मूलेन पार्वति ॥

अघोरं पूर्वकुण्डे तु आग्नेय्यां च सुदर्शनम् ।
मृत्युञ्जयं दक्षिणे स्यात् पञ्चदुर्गांश्च राक्षसे ॥

देव्यास्त्रं वारुणे देवि प्रासादं च ममात्मकम् ।
वायव्यकुण्डेमावाह्य सोमे तत्त्वं कलां हुनेत् ॥

ईशान्ये शान्तिदुर्गां च तत्तन्मन्त्रेण पार्वति ।
अष्टमूर्तीस्समावाह्य मूर्तिपाश्च ततो हुनेत् ॥

घोरमन्त्रं चायुतं स्यात् मूलमन्त्रं तथैव च ।
तस्यार्धार्धं च जुहुयात् तत्तत्कुण्डे च पार्वति ॥

गणेशक्षेत्रपालांश्च दिक्पालांश्च हुनेत् पृथक् ।
नवग्रहान् मूर्तिमन्त्रान् रथदेवान् हुनेद्गुरुः ॥

समिदाज्यचरुद्रव्यैः त्रुटिकैस्सर्षपैस्सह ।
गोधूमं च पृथक् लाजान् सक्तुं व्रीहिं च पार्वति ॥

तत्तन्मन्त्रेण होतव्यम् उद्देशत्यागपूर्वकम् ।
पूर्णाहुतिं हुनेदन्ते उद्दिश्य दिवसे गुरुः ॥

स्नपयेद्घटसाहस्त्रैः रुद्रमन्त्रैश्च सूक्तकैः ।
महापूजां प्रकूर्वीत बहुधा च निवेदयेत् ॥

बलिदानं ततः कुर्यात् दशदानं प्रदापयेत् ।
ब्राह्मणान् भोजयेत्पश्चात् यथा चाहुतिसङ्ख्यया ॥

कुम्भसङ्ख्याथवा देवि भक्षभोज्यैर्यथेप्सितम् ।
भिन्नस्थानं च तद्गात्रौ संहारोक्तेन मार्गतः ॥

रथपूजां च होतव्यं स्नपनं कारयेत्प्रिये ।
तद्देवांश्च विसृज्याथ महाभूतबलिं हरेत् ॥

स्वर्णं वा राजतं वाथ रथं कृत्वा तु दापयेत् ।
दानानि बुहुधा दत्वा भूरिदानं च कारयेत् ॥

महोत्सवं ततः कुर्यादाचार्यं पूजयेत्प्रिये ।
गोभूम्यादीनि दत्वाथ द्रविणं च यथेप्सितम् ॥

तत्रोपकरणं देवि सवस्त्रप्रतिमान्वितम् ।
कलशान् मण्टपं देवि दापयेत्पूर्वकं रथम् ॥

देशिकं तोषयेद्देवि सर्वदोषनिवारणम् ।
दक्षिणां दापयेद्भक्त्या कर्म कुर्याच्च भूसुरान् ॥

शान्तिकर्म समाप्याथ तव लिङ्गे गुरूत्तमः ।
इत्थं कुर्वीत यो भक्त्या रथभङ्गे च पार्वति ॥

सर्वदोषहरं नॄणां सर्वारिष्टनिवारणम् ।
चिरायुष्यं मुदं भूपो पुत्रपौत्रसमन्वितः ॥

स्थिरां लक्ष्मीमवाप्नोति चतुरङ्गबलान्वितः ।
भुक्त्वा च विपुलान् भोगान् कीर्तिमान् धनवान् भवेत् ॥

रथभङ्गेत्विदं देवि प्रायश्चितमिदं शुभम् ।

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे रथभङ्गप्रायश्चित्त निरूपणविधिर्नाम चतुश्चत्वारिंशत्पटलः ॥

४५

अतः परं प्रवक्ष्यामि शृणु देवि यथाक्रमम् ।
वाहनार्थं गजाश्वाद्यैः वृषभैश्चाप्यलङ्कृतैः ॥

एतत्प्राणिविरोधेन पतिते रक्तपातने ।
नखदन्तक्षते शृङ्गी घाते यदि मृते सति ॥

यदि विघ्ने च सम्प्राप्ते नित्यबल्यादि चोत्सवे ।
पक्षे मासोत्सवे देवि अयने वत्सरोत्सवैः ॥

आदिमध्यावसाने तु यदि प्राप्ते महेश्वरि ।
बहुधा शत्रुबाधा स्यादनावृष्टिर्भविष्यति ॥

दुर्भिक्षं सम्भवेल्लोके महामारिभयं नृणाम् ।
निधनं प्राप्नुयाद्राजा राजलक्ष्मीर्बहिर्गता ॥

न सान्निध्यं भवेल्लिङ्गे यदि नष्टे च पार्वति ।
तस्मात्तद्दोष शान्त्यर्थं महाशान्तिं समाचरेत् ॥

न कृते कर्मबाहुल्ये तत्काले शान्तिमाचरेत् ।
कर्मारम्भावसानान्तं शेषं चोत्सवमाचरेत् ॥

तदूर्ध्वमासे सम्प्राप्ते तदृक्षे तत्तिथावपि ।
त्रिमासे पञ्चमे वापि सप्तमे नवमे शिवे ॥

महाशान्तिं च कुर्वीत विधानं शृणु पार्वति ।
गुरुर्देवाग्रतः कुर्यात् उत्तमोत्तममण्टपम् ॥

सवेदिकासमायुक्तं सर्वभूषणभूषितम् ।
द्विहस्तं सम्मितं कुण्डं सयोनिनाभिसंयुतम् ॥

वेदिकाया मध्यमस्य परितः कुण्डकल्पनम् ।
चतुरश्रं तु वृत्तं वा प्रधानं परिकीर्तितम् ॥

चतुर्दिक्षु प्रकुर्वीत चतुरश्रं च कुण्डकम् ।
त्रिमेखला समायुक्तं गुरूस्तल्लक्षणोक्तवत् ॥

द्विजानाह्वापयेद्रात्रौ विघ्नेशार्चनपूर्वकम् ।
नान्दीमुखं च पुण्याहं मधुपर्कसमन्वितम् ॥

वरयेद्ब्राह्मणान् सर्वान् आचार्यादीन् पृथक् पृथक् ।
सद्योऽङ्कुरं प्रकर्तव्यं कुण्डमण्टपशोधनम् ॥

वास्तुराक्षोघ्नहवनं बलिं वास्तोस्समाचरेत् ।
विद्येशादि घटान्यष्ट्वा तोरणं गड्डुकादिकम् ॥

स्थापनं च ततः कुर्याद्रक्षाबन्धं समाचरेत् ।
स्थानशुद्धिं ततः कुर्यात्तत्स्थाने च महेश्वरि ॥

खननं हरणं दाहं पूरणं गोनिवासनम् ।
विप्रोच्छिष्टं च गव्यं च स्थानशुद्धिरियं प्रिये ॥

सम्मार्जनोपलेपं च विकिरेत्सर्वपाटिकान् ।
रक्षाबन्धं ततः कुर्याद्दर्भदाम्ना च वेष्टयेत् ॥

वास्तोष्पतेति मन्त्राभ्यां पावमानमुदीरयेत् ।
भूसूक्तब्रह्मसुक्ताभ्यां तत्स्थानं प्रोक्षयेद्गुरुः ॥

वेदपारायणं कुर्याज्जपेन्मन्त्रं यथोक्तवत् ।
ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च ॥

विघ्नेशमर्च्य पुण्याहं सङ्कल्पविधिपूर्वकम् ।
दिनमुद्दिश्य सङ्कल्प्य होमकर्म समारभेत् ॥

ब्रह्माणं च सदस्यं च शतार्धान् होतृका प्रिये ।
नानासूक्तादि मन्त्रज्ञान् दशपञ्च महेश्वरि ॥

चतुरो वेदपाठार्थं चतुर्दिक्षु यथाक्रमम् ।
परार्थं षड्घनान् देवि रुद्रसङ्ख्यंश्च सेचकान् ॥

पूजार्थं दशविप्रांश्च नमस्कारप्रदक्षिणे ।
एकमेकं पृथक् मन्त्री ब्राह्मणैश्च समन्वितः ॥

यागगेहे चोपविश्य आसनेषु यथाक्रमम् ।
प्रधाने मध्यमे कुण्डे होतृभिर्दशभिस्सह ॥

धनदेन सदस्येन ब्रह्मणा सह देशिकः ।
कुण्डसंस्कारपूर्वं च जनयेत्पावकं शिवे ॥

अघोरेणायुतं होमम् उद्देशत्यागपूर्वकम् ।
प्रत्येकं दशभिर्विप्रैः चतुर्दिक्षु पृथक् पृथक् ॥

होमयेन्मनुना देवि ऋत्विग्भिः सह देशिकः ।
उदुम्बरशमीदूर्वा खदिरं च पलाशजम् ॥

तत्तत्कुण्डेषु जुहुयात्प्रधानादि यथाक्रमम् ।
घृतं चरु तिलं चैव सर्षपं तुटिकं तथा ॥

मरीचं जीरकं लाजं पृथुकं च हुनेत्पृथक् ।
पूर्वोक्तसङ्ख्यया हुत्वा अन्यमन्त्रन् यथाक्रमम् ॥

मृत्युञ्जयमनुं पूर्वे दक्षे पाशुपतं मनुम् ।
शान्तिदुर्गा पश्चिमे च मूलमन्त्रमन्त्रं तु चोत्तरे ॥

प्रत्येकमयुतं चैव कुण्डे कुण्डे यथाक्रमम् ।
होमयेन्मनुना देवि जपेयुर्ब्राह्मणोत्तमाः ॥

नवग्रहं वास्तुशान्तिं राक्षोघ्नं भुवनेश्वरीम् ।
चतुरस्त्रं क्षेत्रपालं गणेशं च सरस्वतीम् ॥

मृत्युञ्जयं च प्रासादं सप्तशत्यादिकं जपेत् ।
स्नपयेद्घटसाहस्रैः तदर्धैर्वा महेश्वरि ॥

पूर्वोक्तेनैव सम्पूज्य सवस्त्रप्रतिमादिकैः ।
औषधं च विनिक्षिप्य मूलमन्त्रं जपेत्प्रिये ॥

होमान्ते सेचयेद्देवीं रुद्रमन्त्रैश्च सूक्तकैः ।
लिङ्गं पञ्चामृतैः स्नाप्य गन्धैरालिप्यदेशिकः ॥

पूजयेद्बहुधा मन्त्री नैवेद्यं बहुधा शिवे ।
वल्युत्सवं ततः पश्चाद्गोभूम्यादीनि दापयेत् ॥

गजाश्ववृषभं गत्वा पुनस्सन्धानमाचरेत् ।
दक्षिणां च ततो दद्याद्यथा विभवविस्तरम् ॥

ब्राह्मणान् भोजयेत् पश्चात् सहस्रं च महेश्वरि ।
देशिकं तोषयेदन्ते तत्रोपकरणैस्सह ॥

शान्तिकर्ममयेत्युक्तं सर्वदोषनिवारणम् ।
सर्वपापहरं देवि सुभिक्षं तत्क्षणाद्भवेत् ॥

राज्यदुर्गादिवृद्धिस्स्याच्चतुरङ्गबलपदम् ।
सर्वशत्रुहरं सद्यः स्थिरां लक्ष्मीमवाप्नुयात् ॥

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे गजाश्ववृषभादिशान्तिविधिर्नाम पञ्चचत्वारिंशत्पटलः ॥

४६

अथातः सम्प्रवक्ष्यामि शस्त्रधारनृणां प्रिये ।
सेनानायकभृत्यानामन्येषां समवायिनाम् ॥

परस्परविरोधेन युद्धे जाते महेश्वरि ।
मुष्टियुद्धे दण्डयुद्धे नखदन्तक्षते सति ॥

पाषाणैरायुधाद्यैश्च क्षते जाते महेश्वरि ।
पतिते रक्तजाते च मनुजे च मृते यदि ॥

विघ्ने जाते तत्काले नित्यनैमित्तिकेऽपि वा ।
उत्सवे बलिकाले वा दोषं शान्तिं शृणु प्रिये ॥

मुष्टियुद्धे महारोगं दण्डयुद्धे कुलक्षयम् ।
नखदन्तक्षये देवि दुर्भिक्षं जायते भुवि ॥

पाषाणसम्भवे युद्धे प्रजा नाशत्वमाप्नुयात् ।
अनावृष्टिरथान्यत्वं शोणिते पतिते यदि ॥

क्षते जाते मनुष्याणां मानिनो भङ्गमाप्नुयुः ।
मरणं च यदि प्राप्ते राजा मरणमाप्नुयात् ॥

तव लिङ्गेन सान्निध्यं चतुरङ्गबलक्षयम् ।
श्रियमायुर्हरेच्छीघ्रं ग्रामन्तं नाशमाप्नुयात् ॥

तद्दोषशमनार्थाय प्रायश्चित्तं वदाम्यहम् ।
पूर्वोक्तमण्टपं कुर्यान्नवकुण्डं च पञ्च वा ॥

सलक्षणं च कुर्वीत द्वारतोरणभूषितम् ।
तवालयं च सम्भूष्य क्षालयेद्गोमयोदकैः ॥

ततः प्रातस्समुत्थाय नित्यकर्म समाप्य च ।
आदौ गणपतिं पूज्य नान्दीकर्म ततः परम् ॥

पुण्याहं पञ्चगव्यं च प्रोक्षयेन्मनुना गुरुः ।
वरयेद्भूसुरान् देवि पूर्वोक्तद्विजसङ्ख्यया ॥

मधुपर्कं च दत्वाथ शोधयेन्मण्टपो गुरुः ।
द्वारतोरणकुम्भांश्च पूजयेत्स्वस्वनामभिः ॥

वेदपारायणं कुर्याच्चतुरस्त्रं जपेत्प्रिये ।
वास्तुरक्षोघ्नहवनं बलिपूजां समाचरेत् ॥

देहशुद्धिं ततः कुर्यात्तत्स्थानं शोधयेद्गुरुः ।
खननादि विशुद्धिं च सम्मार्ज्य प्रोक्षणादिभिः ॥

भूसूक्तं पावमानं च विष्णुसूक्तं च पार्वति ।
वास्तुसूक्तेन विकिरेत्सर्षपञ्चास्त्रमन्त्रतः ॥

रक्षाबन्धं ततः कुर्यादधिवासनमारभेत् ।
पूर्वोक्तेन विधानेन तत्तत्कुण्डांश्च होमयेत् ॥

भूबीजं च ततो हुत्वा अष्टोत्तरशतं प्रिये ।
भूतेभ्यश्च बलिं दत्वा गेहस्य परितो गुरुः ॥

नृत्तगीतसमायुक्तं पुनस्सूर्योदयान्तिकम् ।
पुनः प्रातसमुत्थाय नित्यकर्म समाप्य च ॥

पुण्याहं वाचयेत्पश्चाल्लिङ्गशुद्धिं समाचरेत् ।
बिम्बप्रासादशुद्धिं च तत्तन्मन्त्रैश्च द्रव्यकैः ॥

शोधयेच्च ततो मन्त्री यागगेहं प्रविश्य च ।
ब्रह्मणा धनदेनाथ होतृभिश्च यथोक्तवत् ॥

उपविश्य यथान्यायं प्रतिकुण्डे महेश्वरि ।
जननाग्निं च कुर्वीत विहरेदन्यकुण्डके ॥

होमयेन्मूलमन्त्रेण अयुतं च महेश्वरि ।
आधारं पूर्वकुण्डे तु आग्नेय्यां तु तवास्त्रकम् ॥

यामे मृत्युञ्जयं चैव दिशाहोमं तु राक्षसे ।
प्रासादं वारुणे देवि वायव्ये शान्तिदौर्गकाम् ॥

कलावृद्धिं सौम्यदेशे पञ्चब्रह्माणमीशके ।
होमयेच्च पृथङ्मन्त्री यथापूर्वोक्तसङ्ख्यया ॥

पूर्वोक्तद्रव्यहोमाञ्च उपहोमं च पूर्ववत् ।
पूर्णाहुतिं हुनेदन्ते स्नपयेत्कलशैः प्रिये ॥

सहस्रैर्विधिवन्मन्त्री तदर्धार्धेन वा शिवे ।
पञ्चामृतं द्रोणमितं क्षीरादिद्रव्यपञ्चकम् ॥

फलपञ्चामृतं देवि महारुद्रैर्यथाविधि ।
अन्यसूक्तैश्च संस्नाप्य उद्वर्त्यामलकैश्शिवे ॥

अष्टगन्धं समालिप्य नानापुष्पैश्च पूजयेत् ।
शाल्यान्नं पञ्चभक्षाद्यैः नैवेद्यं च समर्पयेत् ॥

नीराजनं च ताम्बूलं प्रसन्नयजनं चरेत् ।
दानं दशविधं दत्वा यथाशक्त्या बहून् प्रिये ॥

तिलं च पुरुषं कृत्वा स्वर्णं वाथ महेश्वरि ।
दक्षिणां दापयेद्भक्त्या यथाविभवविस्तरम् ॥

बलिदानं चोत्सवं च ब्राह्मणान् भोजयेद्बहून् ।
रात्रौ दीपोत्सवं कुर्याद्भूतेभ्यश्च बलिं हरेत् ॥

क्रियासमर्पणं देवि कृच्छ्रदानं च दापयेत् ।
दक्षिणां दापयेद्भक्त्या आचार्यादियथाक्रमम् ॥

इत्येवं कारयेद्देवि सर्वदोषहरं नृणाम् ।
पुत्रपौत्रादिसम्पत्तिस्सर्वत्र विजयो भवेत् ॥

सर्वमृत्युहरं शीघ्रम् आयुर्वृद्धिकरं मुहुः ।
तव लिङ्गे च सान्निध्यं सर्वप्राणिसुखं भवेत् ॥

क्षते जाते नृणां देवि नाशनं च मिदं महत् ।
चतुष्पदाञ्च द्विपदां वन्यानां दुष्टजीविनाम् ॥

प्रवेशे मरणे प्राप्ते पूर्ववद्दोषसंयुते ।
प्रायश्चित्तं तदर्धं वा यथा दोषबलाबलम् ॥

शान्तिं कुर्वीत मन्त्रज्ञः यथापूर्वोक्तमार्गतः ।

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे द्विपदचतुष्पदप्रवेशमरणमुष्टियुद्धविरोधशान्तिविधिर्नाम षट्चत्वारिंशत्पटलः ॥

४७

अतः परं प्रवक्ष्यामि पत्तनादिगृहेषु च ।
उत्पाते चोद्भवे देवि प्रायश्चित्तं शृणु प्रिये ॥

पत्तने राजधान्यां च तव क्षेत्रे च दुर्गके ।
राज्ञां गेहे चान्यगृहे द्विजादीनां महेश्वरि ॥

अनड्वान् महिष व्याघ्र खरोष्ट्रादि प्रवेशने ।
यदि गेहे चाधिरोहे यद्यकस्मान्महेश्वरि ॥

तत्स्थानं नाशमाप्नोति महिषी मृतिमाप्नुयात् ।
प्रवेशे मरणे प्राप्ते यत्र कुत्र स्थले शिवे ॥

त्रिमासान्मृत्युमाप्नोति राजपीडा भवेत्सदा ।
मधुपञ्जरसम्भूते छत्रकै च पिपीलिके ॥

वल्मीके यत्र दृश्यन्ते तद्गृहे पीड्यते सदा ।
मृत्युबाधा भवेच्छीघ्रं यजमानस्य पार्वति ॥

गोवधे स्त्रीवधे चैव सरटोडुप्रवेशने ।
व्यालाजगरगृध्रादि प्रवेशे मरणे सति ॥

तद्ग्रामनाशनवथे यजमानं न संशयः ।
तस्य पुत्रस्य भ्रात्रा वा व्याधिना पीडिते भृशम् ॥

मण्डूकेऽग्निमृते देवि कुण्डे कुम्भसमुद्भवे ।
कपोतकाक-ऋक्षादि यदि गेहे प्रवेशने ॥

गोनाशं जननाशं च अर्थनाशं च पार्वति ।
राजपीडा रिपुभयं मृत्युबाधा च वर्धते ॥

अन्यैर्वा प्राणिभिर्दुष्टैः दूषिते च महेश्वरि ।
प्रवेशे मरणे तस्मिन् सर्वार्थं नश्यति ध्रुवम् ॥

दिक्फलं च प्रवक्ष्यामि प्रवेशादि यथाक्रमम् ।
पूर्वे पूत्रविनाशं स्यादाग्नेये स्त्रीविनाशनम् ॥

दक्षिणे शत्रुवृद्धिस्यान्नै-ऋ-ऋते चार्थनाशनम् ।
वारुणे मृत्युबाधा स्याद्वायव्ये व्याधिपीडनम् ॥

सोमे नृपभयं देवि ईशे सर्वार्थनाशनम् ।
प्रवेशद्वारतो गच्छे मासमेकं गृहं त्यजेत् ॥

यदि द्वारान्तरं देवि षण्मासं तु विवर्जयेत् ।
गृहमध्ये प्रवेशे च वत्सराणां न संशयः ॥

तद्गृहं वर्जयेद्देवि शयनासनभोजनम् ।
गमनं देवि तच्चैव विशेषेण विवर्जयेत् ॥

द्वारे कण्टकपाषाण लोष्टान्यन्यानि पूरयेत् ।
देवालये राजगृहे वर्जयेन्न कदाचन ॥

सद्यः शान्तिं प्रकर्तव्यं यथापूर्वाक्तमार्गतः ।
पत्तने वा गृहे देवि सप्तरात्रं विवर्जयेत् ॥

ततः शान्तिं च कुर्वीत सर्वदोषनिवृत्तये ।
तच्छान्तिं च प्रवक्ष्यामि राज्ञः गेहे द्विजादिषु ॥

प्रवेशस्थानदेशे वा पूर्वे वाथ गृहोत्तरे ।
मण्टपे वा प्रपांयां वा कुर्वीत समलङ्कृते ॥

तोरणैरङ्गवाल्यादि कुण्डं वा स्थण्डिलं शिवे ।
तत्स्थानं शोधयेत्पूर्वं खननं च मृदं त्यजेत् ॥

लवणं वा मृदं पूर्य क्षालयेद्गोमयोदकैः ।
चन्द्रतारानुकूले च रुद्रक्षेत्र तिथावपि ॥

तद्दिने च प्रकर्तव्यं शान्तिं चैव विधानतः ।
ततः प्रातः समुत्थाय आचार्यो भूसुरैस्सह ॥

मृत्तिकास्नानपूर्वं च कुशगोमयभस्मना ।
स्नानं कृत्वा विधानेन सन्ध्यादि जपतर्पणम् ॥

नित्यकर्मं विधायाथ गृहमागत्य देशिकः ।
गुर्वादिवन्दनं कृत्वा विघ्नेशार्चनमाचरेत् ॥

पुण्याहं पञ्चगव्यं च प्रोक्षणं प्राशनं प्रिये ।
नान्दीं संवाच्य पूर्वोक्तं मधुपर्कं यथाविधि ॥

आचार्यं वरयेत्पश्चाद्ब्राह्मणं धनदं शिवे ।
ऋत्विजान् वरयेत्प्राज्ञः त्रिपञ्च-ऋषिसङ्ख्यकान् ॥

जपार्थं वेदपाठार्थं वरयेच्च पृथक् पृथक् ।
गृहशुद्धिं ततः कुर्यात्प्रोक्षणैः पावमानकैः ॥

यवं च सर्षपं चैव माषमुद्गं विकीर्य च ।
सम्मार्ज्यालिप्य गन्धैश्च वायुमन्त्रेण चास्त्रतः ॥

भूसूक्तं पावमानं च सर्वत्र प्रोक्षयेद्गुरुः ।
द्वारस्तम्भौ च सम्पूज्य राक्षोघ्नं होमयेत्ततः ॥

वास्तुहोमं ततः कृत्वा विकिरेच्च बलिं गुरुः ।
रक्षाबन्धं ततः कुर्यात्तत्परे दिवसे गुरुः ॥

गृहशुद्धिं ततः कुर्यादाचार्यो ऋत्विजैस्सह ।
कलशस्थापनार्थाय व्रीहिराशिं प्रकल्पयेत् ॥

खारिद्वयं तदर्धं वा ततो न्यूनं न कारयेत् ।
तद्रोणकुम्भं सुश्लक्ष्णं स्थापयेदव्रणं घटम् ॥

नवपञ्चैककलशं पूजयेद्विधिना गुरुः ।
पञ्चपल्लवसंयुक्तं पञ्चगव्यसमन्वितम् ॥

पञ्चरत्नसमायुक्तं पूरयेतीर्थवारिणा ।
पलार्धेन सुवर्णेन कर्षेणाथ स्वशक्तितः ॥

प्रतिमां कारयेद्भक्त्या त्र्यम्बकं च शचीपतिम् ।
अघोरं लोकपालांश्च गणेशं च नवग्रहान् ॥

दुर्गां च क्षेत्रपालांश्च तत्तद्रूपान् पृथक् पृथक् ।
कलशेषु विनिक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥

पूजयित्वा ततो मन्त्री तत्तन्मन्त्रं जपेत् पृथक् ।
उपचारैः षोडशभिः यद्वा पञ्चोपचारकैः ॥

ततः कुण्डान्तिकं गत्वा स्थण्डिले वा गुरूत्तमः ।
स्वगृह्योक्तप्रकारेण कुर्यादग्निमुखान्तिकम् ॥

अयुतं च सहस्रं वा मृत्युञ्जयमघोरकम् ।
नवग्रहं वास्तुमन्त्रं शान्तिदुर्गामनुं हुनेत् ॥

अभयङ्करदिक्पालान् क्षेत्रपालं हुनेत् प्रिये ।
पालाशसमिदाज्यं च चरु व्रीहि तिलान् पृथक् ॥

हुत्वा पूर्वोक्तवान् मन्त्री जपपारायणं शिवे ।
ततः पूर्णाहुतिं हुत्वा कलशैश्च यथाक्रमम् ॥

प्रोक्षयेद्यजमानादीन् स्नपयेत्कलशोदकैः ।
दशदानं ततः कृत्वा भूरिदानं तु दापयेत् ॥

ब्राह्मणान् भोजयेद्देवि यथाशक्त्या बहून् ततः ।
दक्षिणां दापयेदन्ते आचार्यादि यथाक्रमम् ॥

इत्येवं कारयेच्छान्तिं सर्वारिष्टविनाशनम् ।
सर्वमृत्युप्रशमनम् आयुर्वृद्धिकरं नृणाम् ॥

इति श्रीवातुलोत्तरे प्रायश्चित्तकाण्डे शिवपार्वतीसंवादे देवालय राजगृहद्विजवेश्मादिदुष्टप्राणि प्रवेशनमरणशान्तिविधिर्नाम सप्तचत्वारिंशत्पटलः ॥

४८

देव्यौवाच -

महादेव नमस्तुभ्यं महीपतिसुखाय च ।
महाजनमुदार्थाय राज्यकोशाभिवृद्धये ॥

पूजकाद्याश्च सम्प्रोक्ता त्वल्लिङ्गे स्नानकर्मणि ।
सहस्रार्धं घटार्चान्तं स्नानकर्म त्वयेरितम् ॥

नवाधिकसहस्रान्तकलशस्नपनक्रियाम् ।
कथं वद महाभाग विस्तरेण च मां प्रति ॥

श्रीसदाशिवः -

शृणु देवि प्रवक्ष्यामि राज्यार्थं विभवाय च ।
सहस्रस्नपनं कर्म नवकुम्भाधिकं प्रिये ॥

सूत्रसङ्ख्याश्च वीथिश्च तत्सन्धीन् व्यूहसङ्ख्यकाः ।
व्यूहनामान्यौषधानि विस्तरात्कुम्भदेवताः ॥

तासां पूजादि सर्वाणि होमकार्याणि शङ्करि ।
तव लिङ्गाग्रतः कुर्यान्मण्टपं चोत्तमोत्तमम् ॥

चतुरश्रसमायुक्तमष्टद्वारसमन्वितम् ।
वेदितोरणभूषादि स्तम्भभूमौ मनुत्तमः ॥

कुण्डखातादिकं सर्वं मम लिङ्गे यथेरितम् ।
तथा कुर्वीत मतिमान् स्नानकर्मविधानवित् ॥

नित्यनैमित्तिके काम्ये प्रतिष्ठायां महोत्सवे ।
प्रायश्चित्ते तथोत्पाते युद्धादौ तज्जयादिके ॥

सर्वसन्दिग्धकार्येषु बन्धकर्मणि शाम्भवि ।
दुर्भिक्षादिषु कालेषु स्नपनं कारयेत्प्रिये ॥

कुम्भसंस्थापनार्थाय सूत्रपातं समाचरेत् ।
चतुश्चत्वारिञ्च सूत्राणि षट्सूत्राण्यधिकानि च ॥

प्रागग्राण्युदगग्राणि सुसमानि लिखेद्बुधः ।
तेषु सूत्रेषु मनुविन्मध्ये मध्ये पृथक् पृथक् ॥

हित्वा चैव चतुस्सूत्रं मार्जयीत पदैकतः ।
दृश्यन्ते च गतव्यूहा चैव विंशाधिकास्तदा ॥

नवकोष्ठसमायुक्ताः प्रतिव्यूहे पृथक् पृथक् ।
मार्गद्वादश पूर्वाग्रश्चोत्तराग्रास्तथैव च ॥

चत्वारिंशच्च चत्वारत्स्वधिकाः शतसन्धयः ।
सन्धिसङ्ख्याश्च वीथीनां मयेत्युक्ता तवानघे ॥

उच्चस्तम्भ चतुष्कस्य मध्यवेद्युच्चतिक्रमात् ।
सर्वव्यूहाः समाः कुर्युः मध्यव्यूहास्तवात्मकाः ॥

तन्मध्ये च नवव्यूहाः तद्बाह्ये कालिका वृतिः ॥

तन्मध्ये षोडशव्यूहास्तेषां बाह्ये रमावृतिः ।
चतुर्विंशतितन्मध्ये व्यूहश्चे परिकीर्तिताः ॥

तद्बाह्ये शारदाव्यूहाः द्वात्रिंशत्संयुता गजे ।
वनदुर्गावृतिस्तेषां बाह्ये व्यूहा महेश्वरि ॥

चत्वारिंशदिति ख्याता मध्यव्यूहं विना प्रिये ।
व्यूहावरण पञ्चात्र नवव्यूहाश्च मध्यमे ॥

वीथिं विनाथ सम्मार्ज्य कोष्ठलीनं च था भवेत् ।
रजोभिः पञ्चभिः पश्चात् श्वेतपीतादिकैः पदम् ॥

रञ्जयेत्सर्वकोष्ठानि पद्मदष्टदलादिकैः ।
वीथिश्च श्यामलाभेति रजसा पूरयेत्ततः ॥

तन्मध्यस्थापनव्यूहे मध्यमे च नवाक्षरीम् ।
कालिकावृत्तिमध्यस्थ व्यूहानां मध्यतोऽष्टके ॥

स्वरान् षोडश संलिख्य प्राच्यादिषु यथाक्रमम् ।
रमावरणव्यूहानां व्यञ्जनं मध्यमे लिखेत् ॥

शारदाव्यूहमध्ये तु दिग्विदिक्षु च देशिकः ।
मादि सान्ताक्षरान् लिख्य बालाबीजत्रयं परम् ॥

अवशिष्टव्यूहमध्यकोष्ठके लेखयेद्बुधः ।
नवदुर्गावृतिस्थानां व्यूहानां मध्यमे पदे ॥

धारणाख्यांश्च नादादि प्रागादि मनुवित्तमः ।
वर्णन्यासक्रमो ह्येवं पूरयेच्छालितण्डुलैः ॥

तवातुक नवव्यूह मध्ये धान्यं नगोद्भवे ।
प्रस्थत्रयं पृथक् पूर्व धान्यार्धं तण्डुलं तिलम् ॥

तण्डुलार्धं च सम्पूर्य पूजयेत्त समूलतः ।
कालिकावरणव्यूह मध्यकोष्ठे मनूत्तमः ॥

धान्यप्रस्थद्वयं देवि सार्धप्रस्थं तण्डुलम् ।
प्रस्थं तिलं च सम्पूर्य कालिकामनुना यजेत् ॥

रमयावरणव्यूहमध्यकोष्ठेषु शङ्करि ।
सार्धप्रस्थमितं धान्यं तण्डुलं प्रस्थमुच्यते ॥

तण्डुलार्धतिलं योज्य रमाबीजेन चार्चयेत् ।
शारदावरणव्यूह मध्ये धान्ययुतं गुरुः ॥

पृथक् प्रस्थं तण्डुलं च धान्यार्धं तत्र कोविदः ।
तिलं तदर्धं सम्प्रोक्तं शारदामुख्यबीजकम् (तः) ॥

पृथव्यष्ट्वा सुभक्त्यार्थः षण्मुद्रां दर्शयेत्परम् ।
नवदुर्गावृतिर्व्यूह मध्यकोष्ठे ततः परम् ॥

पादं न्यूतमितं प्रस्थं धान्यं धान्यार्धमुच्यते ।
तण्डुलं तण्डुलस्यार्धं तिलं सम्पूर्य बुद्धिमान् ॥

तैर्बीजैर्नवभिर्यष्ट्वा योनिमुद्रां महेश्वरि ।
कोष्ठजालेषु सर्वेषु प्रस्थं धान्यं पृथक् पृथक् ॥

धान्यार्धं तण्डुलं पूर्य तण्डुलार्धं तिलं गुरुः ।
तानि कोष्ठानि सम्पूज्य तव मूलेन वल्लभे ॥

तालमानयुतं दर्भं पृथक्कोष्ठोपरि न्यसेत् ।
सुवर्णरौप्यताम्राद्यैः मृदा मौक्तिक शुक्तिभिः ॥

चषकैः कलशाः कार्याः द्रोणार्धार्धजलान्विताः ।
जलेन क्षालयेत्सर्वान् वेष्टयेद्गुणतन्तुना ॥

ग्रहदिग्रनिषद्दर्भैः बाणसङ्ख्यादिकैर्गुरुः ।
कूर्चं कुर्वीत मूलेन तव बीजेन वा प्रिये ॥

घटमन्तस्तदूर्ध्वादः पृथक् कूर्चं त्रयं न्यसेत् ।
मध्यव्यूहेषु नवसु द्रोणमानघटान् न्यसेत् ॥

सर्वेषु मध्यकोष्ठेषु द्रोणार्धार्धमितान् घटान् ।
परितश्चोपकोष्ठेषु प्रस्थत्रयमितान् प्रिये ॥

प्रमादेव घटान्न्यस्थां पृथक् पूजीत कोष्ठके ।
आदावधोमुखान् सर्वान् ततः सन्धूप्यचोन्मुखान् ॥

मध्यव्यूहादि सर्वेषु मध्यकोष्ठादितो गुरुः ।
यथाक्रमेण कुम्भौघान् न्यस्त्वा सम्पूजयेत् क्रमात् ॥

नवगन्धाष्टकं देवि लोलयित्वा शुभोदके ।
तत्तोयेन घटान् सर्वान् पूरयेन्मनुना गुरुः ॥

चन्दनञ्चैव कर्पूरमगरुं कुङ्कुमं तथा ।
कपिमांसिरोचनं च चोरगन्धाष्टकं तव ॥

मध्यकुम्भेषु नवसु न वरणं पृथक् न्यसेत् ।
शेषव्यूहघटेष्वन्तः पञ्चरत्नानि चण्डिके ॥

सार्धनिष्कप्रमाणेन सुवर्णप्रतिमा नव ।
पृथक् कृत्वाथ तद्बीजं तासुसंलेख्य मान्त्रिकः ॥

मध्यस्थ नवकुम्भेषु पृथङ्न्यस्त्वा यथाक्रमम् ।
प्रतिमानिष्कमानेन दुर्गाबीजसमन्वितः ॥

काल्यादिव्यूहमध्यस्थ घटान्तर्निक्षिपेद्बुधः ।
उपकोष्ठस्थ कुम्भेषु निष्कार्धप्रतिमां न्यसेत् ॥

औषधानि प्रवक्ष्यामि मध्यकुम्भादितः परम् ।
एलापत्रं लवङ्गं च उषिरं नागरं जठम् ॥

जातीपलं च मरुगं दवनान्तं नव क्रमम् ।
कुम्भेषु नवसु न्यस्त्वा पल्लवांश्च फलानि च ॥

सप्त षट्पञ्चहस्तैश्च युक्तं वस्त्रं दुकूलजम् ।
श्वेतादिवर्णभेदेन नूतनं गुणितं पृथक् ॥

नवकुम्भोपरि न्यस्त्वा यष्ट्वा मूलेन भक्तितः ।
कालिकावरणव्यूह मध्यकुम्भेष्वथ प्रिये ॥

पृथक् द्रव्याणि वक्ष्यामि क्षीरं दधि घृतं मधु ।
शर्करा पञ्चगव्यं च पञ्चवृक्षोदकं तथा ॥

तिलदर्भयवाश्चैव सर्षपं दाडिमं वचः ।
मातुलङ्गं निशाख्यं च लाजचूर्णं तथैव च ॥

द्रव्याणि षोडशैतानि मध्यगेषु च विन्यसेत् ।
काश्मीरं रोचनं कोष्ठं विलङ्गं च मरीचकम् ॥

चन्दनं जीरकं रास्ना द्रव्याण्यष्ट महेश्वरि ।
तं तेषां परितश्चाष्ट कुम्भजालेषु विन्यसेत् ॥

रमायावरण व्यूह मध्यकुम्भेष्वथोच्यते ।
सहदूर्वारमाभद्र विष्णुक्रान्ता शतावरी ॥

शक्रवल्ली तथा काशो वाराही भृङ्गपत्रकम् ।
शमीपत्रमपामार्गद्वयं कर्णिद्वयं तथा ॥

गोपुरं भस्मचणकमुद्गचूर्णं तथाढकी ।
मासपिष्टं च पनस श्रीफलं नालिकेरकम् ॥

चतुर्विंशति सङ्ख्यान्तं द्रव्याण्येतानि शङ्करि ।
प्रागुक्तमध्यकुम्भेषु पृथङ्मूलेन विन्यसेत् ॥

तुलसी बिल्वपत्रं च पारिजातं तमालकम् ।
हिबें भद्रमुस्ता च पद्मं नीलोत्पलं तथा ॥

रमाव्यूहाष्टकुम्भेषु सर्वेषु परितः क्रमात् ।
द्रव्याष्टकं पतिव्यूहे न्यसेद्भक्त्या विचक्षणः ॥

शारदावरणव्यूहमध्यकोष्ठगतेषु च ।
द्वात्रिंशदुदकं वक्ष्ये पुनः प्रागादितः क्रमात् ॥

तुलसीमरुगाख्यं च बिल्वपत्रं च तैर्युतम् ।
पत्रोदकमिति ख्यातं पद्मं नीलोत्पलं ततः ॥

रक्ताख्यमुत्पलं चेति स्मृतं पुष्पोदकं तव ।
नारङ्गविकचामोत्थफलैर्युक्तं फलोदकम् ॥

कपित्थसारसं युक्तं वल्कं बोधिपलाशयोः ।
पिप्पलाख्यमिदं तोयं शुचिर्भूतं तवात्मकम् ॥

पलाशाश्वत्थचूतानां पल्लवैः पल्लवोदकम् ।
प्रागादिपञ्चकव्यूहमध्यकुम्भेषु विन्यसेत् ॥

ह्रीबेरं भद्रमुस्ता च कुशाख्यमिति तैर्युतम् ।
मूलोदकमिति ख्यातं तव सन्निध्यदायकम् ॥

प्रियङ्गुशालिनीवारैर्युक्तं बीजोदकं स्मृतम् ।
विदार्युत्पलपद्मानां त्रिभिः कन्दैश्च संयुतम् ॥

कन्दोदकमिति ख्यातं श्रीगन्धं चागरुं तथा ।
निमाख्यं चेति तैर्युक्तं गन्धाम्भस्त्विति कीर्तितम् ॥

तिलैर्यवैश्च सिद्धार्थैस्सिद्धाम्बः कथितं मया ।
वह्न्यादिदक्षिणव्यूह पञ्चके मध्यकेषु च ॥

निक्षिपेन्मूलमन्त्रा च वदन् भक्त्या मनुत्तमः ।
माणिक्कमुक्तवैडूर्यैर्युक्तं रत्नोदकं स्मृतम् ॥

स्वर्णदुर्वर्णताम्रैश्च युतं लोहोदकं मतम् ।
रविकान्तमयस्कान्तं चन्द्रकान्तं चतैर्युतम् ॥

कान्ताम्भस्तूच्यते देवि मक्षिकत्रयसंयुतम् ।
माक्षिकाम्भस्तु मध्यस्थे त्वभ्रकत्रयसंयुतम् ॥

अभ्रकोदकमाख्यातं दैत्येशव्यूहपञ्चके ।
मध्यकोष्ठगतेष्वेशि तव मूलमनुं वदन् ॥

न्याससूक्तादिमन्त्रेण प्राणमन्त्रं वदन् तदा ।
कालयाञ्जनसौराष्ट्रैस्संयुतं ज्ञानवारि च ॥

सिन्धूरगैरिकाभ्यां च धातुना सहितं त्रिभिः ।
धातूदकमिति ख्यातं हरितालं मनश्शिला ॥

कुचन्दनं च तैर्युक्तं रक्तोदकमिति स्मृतम् ।
सरित्पतिः सरित्क्षेत्रमृद्भिर्युक्तं च मृज्जलम् ॥

त्रिफलासंयुतं वारि कशायाम्भः समीरितः ।
पृथक् पञ्चोदकानीत्थं पश्चिमव्यूहपञ्चके ॥

मध्यकुम्भेषु विन्यस्य दुर्गासूक्तं वदन् गुरुः ।
क्षीरं दधि घृतं चेति तैर्युक्तं च रसोदकम् ॥

त्रिभिः कुशैश्च संयुक्तं कुशोदकमिदं भवेत् ।
व्रीहिनीवारमाषैश्च युक्तं धान्योदकं त्विदम् ॥

कपिकुङ्कुमकर्पूरगन्धैः सम्मिश्रतैर्युतम् ।
कर्दमोदकमाख्यातं कान्तिमङ्गलदायकम् ॥

तमालगूं च दूर्वाग्रं कुशाग्रं चेति तैर्युतम् ।
अङ्गुरोदकमित्युक्तं मारुताशादिपञ्चके ॥

व्यूहमध्यस्थकुम्भेषु विन्यसेदर्पयेत्तदा ।
द्राक्षाखर्जूरकदली त्रिभिः पक्वैश्च संयुतम् ॥

पक्वोदकमिदं मुग्धे व्यूहमध्ये गते घटे ।
तण्डुलं मुद्गगोधूमपृथक्पूर्णैश्च संयुतम् ॥

चूर्णोदकमिति ख्यातं लोकचञ्चलनाशदम् ।
तिलैर्यवाक्षतैश्चैव तण्डुलेश्वतिकैर्युतम् ॥

अक्षतोदकमित्युक्तं व्यूहमध्यस्थकुम्भके ।
शक्रवल्लि सहालक्ष्मी स्त्रीभिर्वल्युदकं भवेत् ॥

चम्पकाशोकनाशानां कुद्मलेतैश्च संयुतम् ।
कुद्मलोदकमाख्यातं जनसम्पत्प्रदायकम् ॥

जलन्यैवं च सोमादि प्रतिव्यूहश्च पञ्चके ।
मध्यकुम्भेषु विन्यस्येत् आर्यासूक्तादिकं वदन् ॥

तिन्त्रिणीपक्वसम्पन्न गुलं चूतगुलं गुडम् ।
गुलेदेकं च तैर्युक्तं रजोदकमथोच्यते ॥

खुरागरुपटीराणां रजोभिश्चेति तैर्युतम् ।
रजोदकमिदं देवि प्राग्युग्मव्यूहमध्ययोः ॥

कुम्भयोर्विन्यसेत्तां च बाला बीजत्रयन्यसेत् ।
द्वात्रिंशद्व्यूहमध्यस्थ कुम्भानां द्रव्यमीरितम् ॥

प्रागादि परितस्तेषामष्टकुम्भेष्वथोच्यते ।
देवदारुं च पेनं च तालीसाङ्ख्यं च मांसिकम् ॥

रास्ना रूत्थाभिधानं च कुरुन्द्रं नागकेसरम् ।
कुम्भाष्टकेषु विन्यस्य द्रव्याष्टकमिदं प्रिये ॥

श्वेताकम्बकुलं चैव मल्लिकाकरवीरकम् ।
पद्मं जातिश्च कङ्कोष्ठ चतुरङ्गुलसञ्ज्ञकम् ॥

दक्षिणस्थाष्टकव्यूह पृथगष्टघटेषु च ।
क्रमाद्द्रव्याष्टकं न्यस्त्वा माधवी कुरवस्तथा ॥

बन्धूकं पाटलं चैव नन्द्यावर्तं च केतकी ।
जलं हेमाख्यपुष्पं च पश्चिमस्थाष्टव्यूहके ॥

द्रव्याष्टकसमाख्यातमष्टकुम्भेषु विन्यसेत् ।
सक्तुं ससक्तूं शिं पञ्च कुलत्थं माषचूर्णकम् ॥

पक्वं जम्बूद्वयाख्यं च लाक्षाचूर्णं तथैव च ।
उद्ग्व्यूहाष्टके चाष्टकुम्भेषु परितो न्यसेत् ॥

नवदुर्गावृतिव्यूहमध्यकुम्भेष्वथोच्यते ।
चम्पकं मल्लिकां पुष्पं पुन्नागं केतकी तथा ॥

पारिजातं कदम्बाख्यं पुष्पं गोविन्दसञ्ज्ञकम् ।
सेवन्तिका द्रोणपुष्पं पद्मं नीलोत्पलं तथा ॥

मणी च कुञ्चगोरण्टं मन्दारं करवीरकम् ।
जपापुष्पद्वयं देवि नन्द्यावर्तप्रसूनकम् ॥

अशोकं दमनं चैव पाटलिं बकुलं तथा ।
पलाशाख्यं कुसुम्भं च लोघ्राण्यं चिलिकासुमम् ॥

श्वेतार्कं चैव रक्तार्कं बृहती वनमल्लिका ।
ततो दुत्तूरकुसुमं नालिकेरप्रसूनकम् ॥

पूपपुष्पद्वयं चैव शङ्खपुष्पसुमं तथा ।
कर्णिद्वयं च कल्हारं पङ्कजं रक्तसञ्ज्ञकम् ॥

अर्जुनाख्यप्रसूनं च चत्वारिंशत्सुमं भवेत् ।
मध्यकुम्भेषु विन्यस्येत् व्यूहानां बलिरावृतेः ॥

चन्दनं घनसारं च कपिमांसीपचोरकम् ।
कुङ्कुमं चागरुं देवि रोचनान्तमथाष्टकम् ॥

तेषां च मध्यकुम्भानां परितः पृथगष्टसु ।
न्यसेत्सर्वेषु कुम्भेषु तव मूलमनुं वदन् ॥

सर्वव्यूहस्थ कुम्भेषु द्रव्यमेवं मयेरितम् ।
कूर्चानि पल्लवांश्चैव नालिकेरफलानि च ॥

पृथक् पूगफलानेशि युग्मवस्त्राणि तत्वम् ।
घटानने च परितो वेष्टयेद्वन्यसेद्गुरुः ॥

देवतास्सम्प्रवक्ष्यामि मध्यव्यूहादि शैलजे ।
शाम्भवी मूलदुर्गा च वेदमाता सुखप्रदा ॥

ओङ्काररूपिणी विश्वा जगन्माया जनप्रिया ।
मध्यादि नवकुम्भेषु जूषणीयान्तमर्चयेत् ॥

प्रागादि कालिकाव्यूह मध्यकुम्भेषु देवताः ।
काली कराली कल्याणी कान्तिदा च कलावती ॥

कीर्तिदा कामिनी कान्ता कमलोत्पलगन्धिनी ।
कुमद्वती कमलिनी कृशानुतपनद्युतिः ॥

कृशावती काञ्चनाक्षी कुलवृद्धिकरा क्रिया ।
देवताः षोडशैताश्च तेषु कुम्भेषु पूजयेत् ॥

माधवी मानिनी मन्या महामाया महेश्वरि ।
मातङ्गी मोहदा वाणी देवताष्टसमीरिताः ॥

प्राक् च व्यूहाष्टकुम्भेषु पृथक् सम्पूजयेद्गुरुः ।
विश्वमाता च विश्वेशि विशालाक्षा विनोदिनी ॥

ब्रह्मण्या विमलाद्ब्राह्मी वरदान्ताष्टदेवताः ।
दक्षिणव्यूहकुम्भेषु पृथगष्टसु पूजयेत् ॥

जाह्नवी च जन्माया जप्या जङ्घालवीचिका ।
जया जनार्दनप्रीता ह्लादिनी मोहिनी पुनः ॥

पश्चिमव्यूहकुम्भानां मध्यस्थानां कलाधरे ।
परितेऽष्टघटेष्वेषु यजेद्भक्त्या सुखान्वितः ॥

गङ्गा गन्धवती गौरी गुणातीता गुणावती ।
गोपरागहिनी दुर्गा उद्ग्व्यूहेषु चण्डिके ॥

मध्यगानां च परितः पृथगष्टसुखार्चयेत् ।
कालिकावरणव्यूहदेवताः परिकीर्तिताः ॥

कमलावरणव्यूह मध्यकोष्ठादिदेवताः ।
प्रागादि सम्प्रवक्ष्यामि रमा राजीवलोचना ॥

राज्यप्रदा रोगहर्त्री महाकोशप्रदायकी ।
मोक्षप्रदा महालक्ष्मीः भाग्यादा भोगववर्धिनी ॥

धन्यदा धनदा देवी दुरितघ्नी दुरापहा ।
धैर्यदा धनदा दक्षा धर्मदा विश्वनायिका ॥

विश्वातीता निरातङ्का निजानन्दस्वरूपिणी ।
निष्कलङ्काहगोत्पन्ना रमाव्यूह काम्बके ॥

यजेन्मध्यस्थ कुम्भेषु चतुर्थ्यन्तं नमोन्तिकम् ।
पृथक्स्वनामभिस्तेषामष्टकुम्भेषु देवताः ॥

लावण्या ललिता पद्मा लोकेशी सर्वसाक्षिगा ।
कामुकी काम्यदा तृष्णा तत्प्रागाद्यष्टसु क्रमात् ॥

कोष्ठगेषु समभ्यर्च्य शान्ता शोकहरा उमा ।
शुभदा शङ्खिनी रौद्री भव्या भद्रान्तमुच्यते ॥

दक्षिणव्यूहजालेषु मध्यगानां स्वनामभिः ।
पूजयेत्परितश्चाष्ट पृथक् कुम्भेषु सुव्रते ॥

जयप्रदा जाड्यहरा जगज्येष्ठा नितम्बिनी ।
भयङ्करहरो भोक्ता भूतिदा भूति भूषणा ॥

पश्चिमव्यूह मध्यानां कोष्ठगानां पुनर्गुरुः ।
सम्पूज्य परितश्चाष्टकोष्ठगेषु पृथक् प्रिये ॥

सुखन्द्यामरश्रेष्ठा शौर्यदा च सुवासिनी ।
शूलिनी शीतला बाला ब्रह्मिष्ठान्ताष्टदेवताः ॥

मध्यगानामुदग्व्यूह परितोष्टसु पूजयेत् ।
एवं रमावृतिस्थानां कुम्भानां देवताः पृथक् ॥

सम्प्रोक्ता सम्यगीराणि शारदावरणे यथा ।
प्रागादि मध्यगानां च वाक्पादा वाक्यनायकी ॥

वागीश्वरी वज्रहस्ता कुमारी विन्ध्यवासिनी ।
सरस्वती च सर्वेशी सामगानप्रिया परा ॥

कला काष्ठा तुष्टिदा च पुष्टिवृद्धिप्रदायिनी ।
वर्चस्करी बलकरी प्रबला बलवर्धिनी ॥

स्थैर्यदा सुभगा सौख्यस्त्रिषु सौभाग्यदायिनी ।
वर्णात्मिका वर्णमयी वर्णातीता मनोन्मनी ॥

मुनिस्तुता मोहहन्त्री दैत्यहृत्सौदरी मला ।
द्वात्रिंशद्देवताः प्रोक्ताः गुणाधारान्तमम्बिके ॥

शारदावृत्तिव्यूहस्थ मध्यकुम्भेषु पूजयेत् ।
चिन्मयी चितिरूपा च चञ्चला बोधिनी प्रभा ॥

चन्द्रिका धारिणी सूक्ष्मा देवताष्ट मयेरिताः ।
प्राक्वंस्थ व्यूहजालेषु परितोष्टघटेषु च ॥

पृथक् स्वनामभिर्यष्ट्वा नमोन्तन्न्देन्तिकं गुरुः ।
ज्ञानात्मिका क्रियाशक्तिरिच्छाशक्तिश्च निश्चला ॥

नित्या निरञ्जना नन्दा मङ्गलाष्टान्तदेवताः ।
तद्रक्षस्थव्यूहजालमध्यगानां क्रमात् पृथक् ॥

परितश्चाष्टकुम्भेषु स्वनामाद्यैर्यजेत्ततः ।
नन्दिनी नादिनी जाया गान्धारी च तरङ्गिणी ॥

मालिनी दाहिनी मान्या मध्यगानां च पश्चिमे ।
परितोऽष्टसु कुम्भेषु पृथक् तं नामभिर्यजेत् ॥

धन्वी धीरा मतिर्मेधा शुद्धा बुद्धिस्तपस्विनी ।
घोरान्ता देवताश्चाष्ट उदग्व्यूहकदम्बके ॥

मध्यगानां च परितो वेष्टितेषु प्रपूजयेत् ।
शारदावरणेऽप्येवं देवतास्सम्यगीरिताः ॥

नवदुर्गावृतौ वक्ष्ये प्रागादिव्यूहदेवताः ।
दुर्गा कपालिनी चार्या सिंहरूढा तथाम्बिका ॥

महिषस्था चण्डिका च वाणी वस्तुप्रदायिनी ।
चामुण्डी सरसा सर्वा वैष्णवी चण्डविक्रमा ॥

कल्याणकारिणी रम्या प्रतिष्ठा च जितेन्द्रिया ।
वह्न्यात्मिका चण्डघण्टा स्कन्दमाता मलापहा ॥

कुश्माण्डा शिवदूती च शङ्करी शङ्करप्रिया ।
निरामया निराभासा सर्वगा सर्वगोचरा ॥

कात्यायिनी च कामाक्षी विष्णुमाया विमानिनी ।
नारसिंही च वाराही वाममार्गप्रदायिनी ॥

पवित्रा पावमानी च परमैश्वर्यभाविनी ।
चत्वारिंशमिमा माये माया प्रोक्ता तवानघे ॥

बहिरावरणव्यूहमध्यगे च समर्चयेत् ।
सनातनि सदानन्दा सावित्री च गुणाग्रणीः ॥

गगनस्था च नाकस्था त्रिकूटस्थाखिलोत्तमा ।
बहिरावरणव्यूहमध्य नां घटाष्टसु ॥

पूर्वादिपरितस्तेषु यजेत्तन्नामभिर्गुरुः ।
दक्षिणे त्वथ वक्ष्यामि रुचिरा रोगहारिणी ॥

भेदिनी दण्डिनीद्रा विनिद्रा त्रिपुरान्तके ।
चण्डवेगाश्चाष्टदेविश्च परितः पूजयेत्क्रमात् ॥

महानादाट्टहासी च मधुरा मधुरप्रिया ।
पाशहस्ता पद्महस्ता ज्ञानपुस्तकधारिणी ॥

महोपायान्तदेविश्वप्रतीचीव्यूहसञ्चये ।
मध्यगानां च परितः पृथगष्टसु पूजयेत् ॥

ज्ञानप्रदा ज्ञानरूपा ज्ञानपञ्जरसंस्थिता ।
स्थावरा जङ्गमाख्या च कलातीता कलामया ॥

शब्दातीताष्टदे विश्वे उदग्व्यूहसमूहके ।
परितस्तन्मध्यगातामष्टकुम्भेषु पूजयेत् ॥

एवं पञ्चावृतिस्थेषु व्यूहकुम्भेषु कालिके ।
देवताश्च मयेत्युक्ताः प्रतिकुम्भे पृथक् क्रमात् ॥

गुरुः स्वसाम्प्रदायेन न्देन्त्रिकञ्च नमोन्तिकम् ।
स्वनामभि पृथक्पूज्य मध्यकुम्भे गणादिकाः(तः) ॥

आवाहनादि षण्मुद्रां योनिमुद्रां च कालिनीम् ।
धेनुमुद्रां च लिङ्गाख्यां प्रसन्नाख्यां प्रदर्श्य च ॥

यजेत्सप्तोपपाशांश्च प्रतिकुम्भेरिचक्षणः ।
आदिवा सुघटान् सर्वान् निशायामचतुर्थके ॥

अर्घ्यं गन्धं च पुष्पं च अक्षतं धूपमेव च ।
दीपश्चेति निवेद्यान्तम् उपचाराश्च सप्त च ॥

प्रातस्नानादिकं कृत्वा स्वनित्यानि समाप्य च ।
तवालये पण्टपे च नान्दीपुण्याहवाचनम् ॥

वरणं मधुपर्कं च नीत्वा कर्म द्विजैस्सह ।
वेदिकां परितस्थेषु कुण्डेषु नवसु क्रमात् ॥

होमकर्माणि कुर्वीत मूर्तिपैः पारगादिभिः ।
समिदाज्य चरुव्रीहि यवैदूर्वाग्रकैस्तिलैः ॥

तव मूलेन मन्त्रेण वारुणास्त्रेण देशिकः ।
हुनेत्सङ्गवकालान्तमष्टोत्तरशताहुतिः ॥

पुनः पूर्णाहुतिं कुर्यात् सम्पातं योजयेद्घटे ।
लिङ्गशुद्ध्यादिकं कृत्वा नित्यपूजां समर्पयेत् ॥

कुम्भस्थ देवताः पश्चात् प्रसन्नार्थं यजेत्परम् ।
पुनः षोडशनाड्यादौ भूसुरैः कर्मवित्तमः ॥

छत्रचामरभूषाद्यै भूमिपाद्यैर्जनैर्नरः ।
ब्रह्मघोषैर्वाद्यरवैर्वीणा वेणुरवैस्सह ॥

नवकुम्भान् समुद्धृत्य शिष्यस्कन्धोपरि न्यसेत् ।
गेहं प्रदक्षिणीकृत्य बहिरावरणे तव ॥

प्रविशेद्गर्भगेहान्तस्थण्डिलोपरि विन्यसेत् ।
नवकुम्भस्थकूर्चानि न्यस्त्वा त्वल्लिङ्गमस्तके ॥

वस्त्राणि वस्त्रमन्त्रेण त्वल्लिङ्गे भ्रामयेत्त्रिशः ।
फलमन्त्रैस्तत्फलानि वायुबीजेन पल्लवान् ॥

नवकुम्भोदकैः सिञ्चेत् सुवर्णप्रतिमादिभिः ।
एवं सम्यक् घटान् सर्वान् कालिकावरणादितः ॥

पूर्वादि मध्यकुम्भांश्च ततश्चाष्टौ समुद्धरेत् ।
स्नानमण्टपमारभ्य लिङ्गद्वारावसानकम् ॥

पार्श्वयोरुभयोर्विप्राः पन्तिरूपेण सम्मुखे ।
व्यवस्थिताः शुचिर्भूताः वदन्तस्तान् मनून् द्विजाः ॥

सर्वपङ्क्तिस्थकाः सर्वे घटान् सर्वान् यथाक्रमम् ।
समुद्धृत्यानयेयुस्ते दापयेयुर्गुरुं प्रति ॥

तैर्घटैस्सैचयेल्लिङ्गं सूक्तमन्त्रान् वदन् बुधः ।
पुनस्तूद्रिक्तकुम्भांश्च तद्वस्त्राणि फलान्यपि ॥

वामपङ्क्त्या नयेयुस्ते मण्टपे वेदिकोपरि ।
न्यस्ता समूहरूपेण कालीसूक्तादिकान् वदन् ॥

रमासूक्तं शारदाख्य अम्भस्यादि मनून् तदा ।
नवदुर्गासूक्तमन्त्रान् वदेयुर्वेदपारगाः ॥

सेचनान्ते महापूजां विधायोक्तं प्रकारतः ।
तवोत्सवं ततः कुर्यात् मूलबिम्बे नियोजयेत् ॥

क्रियाजालं समर्प्यान्ते दशदानानि तत्परम् ।
तदन्ते दक्षिणां दद्याद्भोजयेद्भूसुरोत्तमान् ॥

नवनिष्कं घटान् सर्वान् वस्त्राणि च फलान्यपि ।
रत्नानि प्रतिमांश्चैव मण्टपं सर्वभूषणम् ॥

तत्रोपकरणैस्सार्धं देशिकेन्द्राय वल्लभे ।
स्वसम्पत्यै सुखार्थाय प्रदद्यान्मनुजेश्वरः ॥

यजमानाय षण्णिष्कं ब्रह्मणे पञ्च उच्यते ।
निष्कत्रयं सदस्याय मूर्तिपे च पृथक् द्वयम् ॥

सार्धनिष्कं पारगेभ्यो जापिनां निष्कमुच्यते ।
चारकेभ्यः सार्धनिष्कं तदन्ते भूरिदक्षिणाम् ॥

पृथक् पृथक् प्रदातव्यं फलं वक्ष्यामि तच्छृणु ।
त्वलिङ्गे स्नानकर्मेति सशक्त्या मनुजाधिपः ॥

सर्वसम्पद्बलं कोशं वंशवृद्धिश्रियं यशः ।
पुत्र पौत्रप्रपौत्रांश्च परराष्ट्रजयादिकम् ॥

कृपयानन्तराज्यानि तदा प्राप्नोत्यसंशयः ।
विशेषमथ वक्ष्यामि सुगोप्यं सुरदुर्लभम् ॥

पुरतो * धिकारार्थं त्वत्कटाक्षाक्षमम्बिके ।
त्वल्लिङ्गे स्नपनचेति कृतं शक्रेण भक्तितः ॥

पुनर्देवगणेनेत्थं स्वपदर्थं कृतं प्रिये ।
दैत्यसोमौ भाग्यार्थं कृतं मातृगणेन च ॥

सर्वसौभाग्य सम्पत्त्यै महीवृद्ध्यै जयाय च ।
तस्माद्वीक्ष्येति कुर्वीत प्रत्यप्तं तव लिङ्गके ॥

इति श्रीपरमरहस्ये वातुलोत्तरे शिवपार्वतीसंवादे नैमित्तिककर्मकाण्डे दुर्गासहस्रकलशकर्मकथनं नाम त्रयोविंशति पटलः ॥

४९

स्नान कर्ममयेत्युक्तं नवदुर्गाविधिक्रियाम् ।
तवोत्पत्यादि वक्ष्यामि पृथग्भेदादिकां क्रियाम् ॥

आद्युत्पन्ना महानन्दा मूलदुर्गा सुखप्रदा ।
जयप्रदा शत्रुहरा प्रसन्ना लोकरक्षका ॥

शक्तिजालात्मकं देवि कोटिसूर्यसमप्रभा ।
काली लक्ष्मीति वाणीति तया मूर्तित्रयो भवत् ॥

तस्य पादादि गुह्यान्ता कालिकाख्या समुद्भवा ।
रमा नाभ्या गलान्ता च कण्ठाद्या मस्तकान्तका ॥

सरस्वतीति सञ्जाता तुष्टिपुष्टिप्रकीर्तिता ।
दुर्गेत्यार्या शूलिनीति कुमारी चाम्बिकाभिधा ॥

महिषासुरनाशी च चण्डिकेति सरस्वती ।
वागीत्यन्तः क्रमात्ताभ्यां पृथग्दानसमन्विताः ॥

नवदुर्गात्रिमूर्तिभ्यो सदा सम्पत्प्रदायकाः ।
दुर्गा च कालिका गुह्ये आर्या नाभौ समुद्भवा ॥

कालीमुखे भगवती रामा पादात्कुमारिका ।
रमा नाभौ चाम्बिकाख्या तन्मुखे महिषान्तकी ॥

वाणी कण्ठे चण्डिकाख्या जिह्वायां च सरस्वती ।
नासिकायां च वागीशी पृथगेताः समुद्भवाः ॥

ताभ्यः पृथक् नवोत्पन्नाः प्रसन्ना नामधारिकाः ॥
शैलजा चण्डघण्टीति सुन्दरी ब्रह्मचारिणी ॥

कूश्माण्डा स्कन्दमातेति कार्त्याख्या कालरात्रिका ।
गौरीति शिवदूत्याख्या माहेन्द्री चाग्निसञ्ज्ञका ॥

वाराही खड्गधारीति वारुणी मृगवाहिका ।
कौबेरी शूलहस्ता च ब्रह्माणी वैष्णवी परा ॥

चामुण्डेति शवारूढा जयेति विजयेति च ।
जिता परा जितेत्याख्या रोचनेति दिगम्बरा ॥

उद्योतनीत्युमासञ्ज्ञा मालाधारी यशस्विनी ।
चित्रनेत्रा शङ्खिनीति यमघण्टा मनस्विनी ॥

दण्डिनी विन्ध्यसंस्थेति गहिनीति त्रिलोत्तमा ।
शङ्खिनी शरभेत्याख्या सुव्रतेति सुगन्धिनी ॥

तोयेशी सोमपा देवी भ्रामरी हंसवाहिनी ।
कार्मुखा मङ्गला शोणा ह्रादिनी मोहिनी क्षमा ॥

रक्षणी रमणी रम्भा रोगहन्त्री सुरप्रिया ।
धनुर्धरी बला बाला प्रबला स्थूलनासिका ॥

वज्रिणी शक्तिहस्ता च दण्डहस्ता च मानिनी ।
कापालिनी कामनीति भीमादेवीति भैरवी ॥

ज्वालामुखी नादनीति हंसगा घोषिणी शुभा ।
माहेश्वरी महानन्दा जगदाह्लादकारिणी ॥

इत्येता नवदुर्गाख्याश्चैकाशीति समुद्भवाः ।
पृथक् क्रमाः समुत्पन्नाः ताभ्याश्चानन्तशक्तयः ॥

तवोत्पत्तिरितिख्याता चण्डीभेदो मयोच्यते ।
एकचण्डी त्रिचण्डीति पञ्च सप्त नवेति च ॥

त्रिंशच्चैकाशीतिसञ्ज्ञा शताख्येति सहस्रका ।

तथैव दशलक्षाणां कोट्यान्तानन्तचण्डिका ।
भेदाश्च विविधा ज्ञेया सम्पत्सान्निध्यकारकाः ॥

दशलक्षादि कोट्यान्ताः सुरलोके समीरिताः ।
भूतलेत्वयुतान्तेशि सम्यगुक्ता क्रिया सह ॥

एकत्रिपञ्च चण्ड्यान्ता नैत्तिकेचाथमासिकाः ।
त्रिंशान्ता सप्तचण्ड्यादि वरानैमित्तिके प्रिये ॥

एकाशीति शतेत्याख्या सहस्राख्या शुभप्रदाः ।
काम्यकर्मणि सम्प्रोक्ता वंशवृद्धिप्रदायकाः ॥

अयुताख्येति लक्षान्ता दशलक्षाभिधागजे ।
चण्डिका चैव कोट्यान्ता सम्प्रोक्ता जपकर्मणि ॥

एकत्रिपञ्च चण्ड्यान्ता नैत्तिके च मयेरिता ।
नैमित्तिके च सप्तादि नवत्रिंशान्तकाः परम् ॥

एकाशीति शताख्येशि सहस्राख्या शुभप्रदाः ।
काम्याकर्मणि सम्प्रोक्ताः दैत्यबाधानिवृत्तये ॥

पुत्रदारादि वृद्ध्यर्थं प्रभुत्वार्थं च यः पुमान् ।
एकचण्डी सदा भक्त्या जपे नैमित्तिकर्मणि ।

धनराज्याभि वृद्ध्यर्थं मण्डले कार्थमम्बिके ।
त्रिचण्डि विधिना नित्यं परराज भयाय च ॥

भूपार्थं सर्वभोगार्थं पञ्चचण्डीजपक्रियाम् ।
सप्ताख्यां चण्डिभूम्यार्थं शत्रुनाशाय सम्पदे ॥

अकण्टकमहीप्राप्त्यै शत्रुसेनाक्षयाय च ।
सार्वभौमाधिकारार्थं बलकोशाभिवृद्धये ॥

प्रत्यब्दे च शरत्काले तथा चान्यादिने प्रिये ।
नवचण्डीं जपे भक्त्या जपपारायणादिकैः ॥

वंशवृद्ध्ये च राज्यार्थं चतुरङ्गबलाय च ।
धनलाभाय सम्पत्त्यै त्रिंशच्चण्डिजपक्रिया ॥

कदाचिदद्भुतोत्पन्ने सङ्कटे विषमादिके ।
महापापविनाशार्थं वाञ्छितार्थाय कामिनी ॥

चण्डिञ्चेकाशीति सङ्ख्यामपमृत्यु हराय च ।
सम्पज्जालाय यशसे पुष्ट्यै रोगहराय च ॥

राज्यसम्पादनार्थाय सर्वशत्रुजयाय च ।
गतराज्येप्सितार्थाय नष्टद्रव्यस्य सिद्धये ।

सुभिक्षार्थाय वश्यार्थं महामृत्युहराय च ।
कान्त्यै सर्वजनेष्टाय शतचण्डित्रिया शुभा ॥

सहस्राख्यां वाञ्छितार्थं रिपुसेना क्षयाय च ।
परमैश्वर्यकाङ्क्षार्थं महामणिगणाय च ॥

बलवृद्ध्यादि दारार्थं मगण्यद्रव्यसिद्धये ।
राज्यदुर्गादि वृद्ध्यर्थं दुर्भिक्षे रिपुनाशने ॥

अयुताख्यां महामारी भयादौ रिपुसङ्कटे ।
द्वीपान्तरगतद्रव्यलाभार्थं सुरवन्दिते ॥

पशुजालसमुद्ध्यर्थं गजवाजीरथाय च ।
सुरत्नजालसिद्ध्यर्थं कामितार्थाय शङ्करि ॥

चण्डी चैवाथ लक्षाख्यं सर्पबाधासु मारणे ।
भूगतद्रव्यसिध्यर्थं यदि द्वीपस्थमेव वा ॥

सिन्धुस्थं पर्वतस्थं च नदीमध्यगतं तु वा ।
सर्वसम्पत्समृद्ध्यर्थं बीजकर्माणि साधयेत् ॥

चण्डीजपविधिं कर्तुं द्रव्यलाभे च मानिनी ।
एकचण्ड्यादि पञ्चान्तं नवाब्दान्तं जपेत् प्रिये ॥

सप्ताब्दान्तं च सप्तादि त्रिंशान्तं मेनकात्मजे ।
एकाधिकमशीत्यादि सहस्रान्तं जपेत् क्रियाम् ॥

नीत्वा भक्त्या वक्ष्यमाणा विधिना मनुवित्तमः ।
युग्माष्टान्तं चायुताख्यं जपं कुर्वीत भक्तितः ॥

लक्षचण्डीजपं कर्म वत्सराणां मयोच्यते ।
तदर्धन्तं त्रिमासान्तं यावत्तावदयावधि ॥

चण्डीभेदादिकाश्चेति मयाख्याता नगोद्भवे ।
तवालयपुरोभागे प्राकारे चैशकोणके ॥

चतुष्पथे तथोद्याने जपवीथिस्थमण्टपे ।
ग्रामसीम्नि नदीतीरे राजधान्यां च पर्वते ॥

सिन्धुतीरे ग्रामहारे जपस्थानमिदं शुभम् ।
एकचण्डिक्रियाः प्रातः त्रिचण्डीसङ्गवे जपेत् ॥

मध्याह्ने पञ्चसप्ताख्य जपार्चन हुतक्रियाम् ।
तवयामे नवत्रिंशमेकाशीतिक्रियां गुरुः ॥

शतसङ्ख्याविधिं रात्रौ गानरात्रौ सहस्रकाम् ।
अयुताख्यं मध्यरात्रौ जपहोमतवार्चनम् ॥

लक्षसङ्ख्याक्रियां देवि वामे कुर्वीत बुद्धिमान् ।
सर्वासां चैव चण्डीनां कर्म कर्तुं वरानने ॥

तव यामः शुभः श्रेष्ठः क्षिप्रमिष्टार्थदायकः ।
तस्माज्ज्ञात्वेति देवेशि सर्वचण्डि क्रियां गुरुः ॥

त्वल्लिङ्गे तव यामे च प्रकुर्याच्छुद्धचेतसा ।
जपार्चनं होमकर्म तर्पणं भोजनं पृथक् ॥

प्रवक्ष्यामि शृणु स्निग्धे तव सान्निध्यहेतवे ।

इति श्रीवातुलोत्तरे नैमित्तिककर्मकाण्डे शिवपार्वती संवादे दुर्गोत्पत्त्यादि चण्डी भेदकर्म निरूपणं नाम पञ्चविंशतिः पटलः ॥

५०

अथ वक्ष्याम्यहं देवि नित्य चण्डि जपक्रियाम् ।
त्वल्लिङ्गाग्रे शाङ्करे च मण्टपं चतुरश्रकम् ॥

पञ्चहस्तमिति कुर्याच्चतुद्वारसमन्वितम् ।
[अस्मिन् पत्रे एतावदेव वर्तते ।
इतः परम् अलेखः] चण्डी भेदाः क्रियाश्चास्तस्सम्यगुक्ता मयागजे ॥

सम्पद्राज्यजयार्थाय नवदुर्गाविधिं शृणु ।
कर्मारम्भदिनात्पूर्वपक्षे चैव प्रभूत्तमः ॥

तवाङ्गे शाङ्करे भागे नवहस्तैश्च मण्टपम् ।
चतुरश्रसमायुक्तं दिक्षु द्वारोपशोभितम् ॥

पञ्चत्रिभूमभित्त्यादि वातायनयुतं प्रिये ।
दर्पणोदरसङ्काशं तदग्रे कलशान्वितम् ॥

तत्रिभागैक भागेन वेदिकां चतुरश्रकाम् ।
तन्मध्यमे प्रकुर्वीत परितः कुण्डकर्म च ॥

चतुरश्राणि वृत्तानि दिग्विदिक्षु विचक्षणः ।
शिवेन्द्रयोः प्रधानाख्यं वृत्तकुण्डं सुरेश्वरि ॥

विधिना नवकुण्डानि योनिनाभियुतानि च ।
कुण्डसद्मानि सद्मान्तर्मेखलात्रितयानि च ॥

कुण्डमानानि खातानि भूषणानि पुरोक्तवत् ।
क्रिजार्थं द्रव्य जालानि सर्वद्रव्याणि सुव्रते ॥

सम्पाद्य बहुधा भक्त्या संशोध्य क्षालितानि च ।
शुभस्थले न्यसेत्तानि तन्मूलमनुना गुरुः ॥

देव्यालयमलङ्कृत्य ततः कर्म समारभेत् ।
आश्वयुज्यां सिते पक्षे नवम्यान्तं मनूत्तमः ॥

प्रतिपत्प्रातरुत्थाय स्नात्वा नद्यां द्विजैस्सह ।
शुद्धात्मानश्चारकाद्यास्तदादौ गोमयोदकैः ॥

लेपनं प्रोक्षणं कुर्युः तव गेहं नगात्मजे ।
सम्यक् संशोध्य मूलेन वारुणास्त्रेण हंसहे ॥

रङ्गवाल्यै रञ्जयित्वा तवाग्रे मण्टपादिके ।
रजोभिः पञ्चभिस्तत्र पूरयेत् कमलानि च ॥

स्वनित्यादिसमाल्यान्ते गुर्वाद्यास्ते द्विजोत्तमः ।
वपयेयुश्च मूलेन क्षुरमन्त्रेण सुन्दरि ॥

सुनद्यां चैव लोष्टाद्यैः सचेलं स्नानमाचरेत् ।
तन्त्रेवाचम्य सञ्जप्य स्वर्णरौप्यादिकं घटम् ॥

नदीजलेन सम्पूर्य गङ्गामन्त्रेण तं(सं) जयेत् ।
रथयानादिके न्यस्त्वा वेदघोषैद्विजैस्सह ॥

सर्ववाद्यरवैर्नाट्यैस्तव गेहं प्रविश्य च ।
नदीतोयं च वर्धिन्यां योजयेन्मनुवित्तमः ॥

पूजयेत्प्रार्थयेद्देवीं वक्ष्यमाणविधानतः ।
शक्तिजालात्मकं देवि नमस्ते भोगदायकी ॥

नवदुर्गाक्रियां कर्तुम् अनुज्ञां देहि चण्डिके ।
इति सम्प्रार्थ्य सद्भक्त्या तवाग्रे योगमण्टपे ॥

मण्डलानि लिखेत्पूर्वं सम्पूज्य गणनायकम् ।
गुरुर्नान्द्यादिकं गव्यं पुण्याहं वचयेत्परम् ॥

देशिकं वरयेदादौ धनदं ब्रह्मसञ्ज्ञकम् ।
होमार्थमष्टमूर्तीशान् वेदार्थं षोडश द्विजान् ॥

विंशद्द्विजान् जपार्थाय नव सूक्तप्रजापकान् ।
तर्पणार्थं चैकविप्रं रुद्रसङ्ख्यांश्च सेचकान् ॥

त्रीन् विप्रान् चारकार्थं च तन्मूलमनुना क्रमात् ।
मधुपर्कं च कृच्छ्रं च दत्वा मूलेन कौतुकम् ॥

बध्नीयान्मूलबेरादि रक्षामन्त्रेण शाङ्करी ।
विधिना मृदमानीय न्यस्त्वा तद्बीजमण्टपे ॥

केतुं मन्त्रेण यष्ट्वाथ फलाद्यैश्च निवेदयेत् ।
यागभूमिं समासाद्य ब्रह्मणा धनदादिकैः ॥

पुण्याहं वाच्य तन्मन्त्रैः कुर्यान्मण्टपसंस्कृतम् ।
स्थानशुद्धिं च बिम्बाख्यं हुत्वा तन्मण्टपे गुरुः ॥

वेदिकापूर्वभागादि द्वारकुम्भादिका न्यसेत् ।
कोणाख्यं गण्डका देवि विद्येश्याख्य घटाष्टकम् ॥

कुम्भत्रयं कालिकादि यागाख्यं मूलसञ्ज्ञकम् ।
द्वारदेशेषु कोणेषु द्वारकुम्भसमीपगे ॥

वेदिकायां चाष्टदिक्षु मध्यदेशे च मध्यमे ।
कमलानि लिखेत्तेषु चक्रमष्टदलानि च ॥

शङ्खमावर्तपद्मानि त्रिकोणं वर्तुलं तथा ।
यथाक्रमेण संलेख्य पूरयेच्छालितण्डुलैः ॥

पृथक्प्रस्थमितं धान्यं तदर्धं तण्डुलं तिलम् ।
तस्यार्धं चैव सम्पूर्य यजेत्तन्मूलमन्त्रतः ॥

तन्तुना वेष्टितघटान् विन्यसेत्तण्डुलोपरि ।
गन्धोदकैश्चन्दनाद्यैः पयोभिश्च हिमोदकैः ॥

कषायैर्मधुना पूर्य मूलकुम्भं तु सर्पिषा ।
पूरयित्वा क्रमाद्देवीं मातृकाभिर्विलोत्तमः ॥

मणीचकं च मूलेन क्रमुकानि न्यसेत्पुनः ।
कूर्चादि नवरत्नानि पल्लवांश्च फलानि च ॥

निक्षिप्य मूलमन्त्रेण सुवर्णं प्रतिमास्ततः ।
निष्कं निष्कार्धमानेन कर्तव्याः प्रतिमाः शुभाः ॥

दुकूलं तन्तुजं वापि श्वेतपीतादि भेदतः ।
नववस्त्रे सप्तभिर्वा कुम्भवस्त्रमितं प्रिये ॥

तेनैवाच्छाद्य कलशान् प्रोच्यन्ते देवता पृथक् ।
प्रागादिगङ्गायमुनां यजेद्गोदावरीं गुरुः ॥

सरस्वतीं निर्मदां च सिन्दुं कावेरिकां ततः ।
ताम्रपर्णीं क्रमाद्वारा कुम्भेष्वावाह्य पूजयेत् ॥

कान्तिदां करुणां बालां कल्याणीं कोगेशू च ।
गान्धारीं गाणि दुर्गां च गायत्रीं गानहायकीम् ॥

गड्डुकाख्य घटेष्वेताः पृथक्तं नामभिस्सह ।
विश्वेशीं वीतरागाख्यां वज्रहस्तां वशङ्करीम् ॥

वागीशीं वसुदां(धां) वेगां वाराहीं च ततः पुनः ।
वेदिकाष्वष्टघटेष्वष्ट विद्येशीरर्चयेत्पुनः ॥

घटत्रये च मूलेन कालीं लक्ष्मीं सरस्वतीम् ।
यागकुम्भे च यागेशीं मूलदुर्गां च तट्घटे ॥

आवाहनादिसंस्कारैरुपचारैश्च पञ्चभिः ।
कुम्भत्रयपुरोभागे स्वर्णरौप्यादि पित्तलैः ॥

पलत्रयमिते नालौ यन्त्रं कुर्वीत भक्तितः ।
लिखेदष्टदलं तत्र पूरयेच्छालितण्डुलैः ॥

नवाक्षरं लिखेद्यन्त्रे स्वरयुक्तः प्रकारतः ।
प्राणाख्य मनुना यष्ट्वा न्यसेत्तन्मण्डलोपरि ॥

यजेत्प्रागुक्तमार्गेण वेदिकापरितस्त्वधः ।
नवार्ण साम्प्रदायज्ञाश्चोपविश्य पृथक् जनः ॥

अर्गलादि रहस्यान्तां नवाक्षर्या समन्विताम् ।
जपेयुस्ते सप्तशतिं त्रिवारं सम्पुटान्वितान् ॥

ब्रह्मास्त्रं शङ्करे कोणे वह्नौ वह्न्यस्त्रमुच्यते ।
दैत्यकोणे च चक्रास्त्रं मारुतास्त्रं तथानिले ॥

प्रधानकुण्डसामीप्ये यागमन्त्रजपेद्विजः ।
देवीसूक्तं च तद्रक्षे नववारं जपेत् परम् ॥

तर्पयेत् सौम्यदिग्भागे दशांशं च पयोम्बुभिः ।
चतुद्वारे चतुर्वेदान् वदेयुश्चाष्टभूसुराः ।

तवगेहे चतुर्दिक्षु तथैवाष्टप्रघोषकाः ।
परितः प्राङ्कणे देवि नवदुर्गाप्रजापकाः ॥

विनायकमनुं दक्षे कालीसूक्तं रमात्मकम् ।
गोसूक्तं शारदाख्यं च दुर्गसूक्तं जपेत्परम् ॥

सूक्तं प्रत्यङ्गिराख्यं च शान्तिदुर्गाख्यमुच्यते ।
पृथक् सहस्रं प्रजपेद्यावद्धोमावसानकम् ॥

सेचकान् सेचनं कुर्युः तवलिङ्गं सुधारसैः ।
पयोम्बुभिश्च तन्मन्त्रैः होमकर्म समारभेत् ॥

शोधयेन्नवकुण्डानि वीक्षणादि प्रभेदतः ।
प्रागामि परितस्थेषु कुण्डेषु नवसु क्रमात् ॥

मूर्तिपादिगुरुन् यष्ट्वा ब्रह्माणं च वसुप्रदम् ।
कुण्डादि देवताः सर्वा वक्ष्यामाणविधानतः ॥

गन्धपुष्पादिभिर्यष्ट्वा पृथक् तासां च नामभिः ।
वामदेवी वज्रिणीति वंशदा बलवृद्धिदा ॥

जयप्रदा जगन्माता निष्कला च नितम्बिनी ।
महामायेति सम्प्रोक्ताः कुण्डानां देवता इमाः ॥

पृथगावाह्य सम्पूज्य प्रतिकुण्डे धनप्रदः ।
क्षितिमूर्तिं पूर्वकुण्डे अग्न्याख्यामग्निगोचरे ॥

दक्षिणे यज्ञमूर्तिं च सूर्याख्यां दैत्यकुण्डके ।
वारुण्यां जलमूर्तिं च मारुताख्यामथानिले ॥

सोमाख्यां सौम्यदेशस्थे व्योमसञ्ज्ञां च शङ्करे ।
कुण्डेष्वष्टसु सम्पूज्य प्रधाने मूलसञ्ज्ञकाम् ॥

उषादिमूर्तिपान् देवि द्विजेष्वष्टसु पूजयेत् ।
विजया जनयेदग्निं ज्वालाकाष्ठादि भेदतः ॥

प्रधानकुण्डयोनौ च न्यस्त्वा संस्कारमाचरेत् ।
कुण्डमध्ये न्यसेदग्निं गर्भाधानादि षोडश ॥

क्रियाः कुर्याद्यथान्यायं मूर्तिकुण्डाष्टसु क्रमात् ।
तदग्निं सर्वकुण्डेषु विहरेच्च मुखक्रियाः ॥

गुरुरादौ स्वकुण्डे च समिदाज्य चरुं प्रिये ।
सर्षपं चैव गोधूमं तिलं च तुटिकं ततः ।

जातीफलं च दुर्वाग्रं पायसान्नं दश क्रमात् ।
कालिकादिस्त्रिभिर्मन्त्रैः समिदाज्यचरून् हुनेत् ॥

मूलेन च नवान्नेन षड्द्रव्यं सर्षपादिकम् ।
खलि(गि)न्यादि दशश्लोकैः पायसान्नं ततः परम् ॥

सर्वद्रव्याणि दुर्गाणि यामिन्यामनुवित्तमः ।
होमयेयुर्मूर्तिपास्ते पृथक् कुण्डाष्टके पुनः ॥

शताहुतिः कालिकाया रमाया द्विशताहुतिः ।
त्रिशताश्च सरस्वत्या मूलमन्त्राहुतिस्ततः ॥

सहस्रार्धाश्च सम्प्रोक्ता नवाक्षर्या सहस्रकाः ।
दुर्गामन्त्रेण सर्वेषु कुण्डेषु नवज पृथक् ॥

सहस्राहुति सङ्ख्याताः प्रतिकुण्डे नगोद्भवे ।
पूर्णाहुतिश्च होमान्ते हुत्वा कुण्डबलिं हरेत् ॥

मेखलायाः पृथक् कुण्डपूर्वे च हविषा परम् ।
नवपिण्डान् प्रकुर्वीत गुरुकुण्डाद्यथा क्रमम् ॥

न्यस्त्वा पिण्डे परिस्निग्धे काष्ठदीपान् प्रबोध्य च ।
होमकर्म समाख्याता वेदिकुम्भान् यजेद्गुरुः ॥

ततो नवाक्षरीयन्त्रं यष्ट्वा सचातमर्चयेत् ।
वेदिकाधश्च परितः कमलानि लिखेद्भुवि ॥

पृथक् प्रस्थमितं धान्यं तदर्धं तण्डुलं तिलम् ।
सम्पूर्याष्टघटान् पश्चाद्दिग्विदिक्षु न्यसेत्ततः ॥

प्रधानकुण्डसामीप्ये घटं वागीशिसञ्ज्ञकम् ।
पूरयेद्गन्धतोयेन पल्लवांश्च फलानि च ॥

रत्नमन्तः सुवर्णेन प्रतिमापणमानतः ।
पृथक् पृथक् परिन्यस्त्वा वस्त्रमाच्छाद्य पूजयेत् ॥

दुर्गाकुम्भं समादाया वेदमङ्गलनिस्वनैः ।
मूर्तिपादि द्विजैस्सार्धं प्राकारे च तवालयम् ॥

प्रदक्षिणवशान्मन्त्री घटमन्तः प्रवेशयेत् ।
लिङ्गं सम्पूज्य मूलेन दुर्गाकुम्भोदकेन च ॥

तस्याः सूक्तेन संसिञ्चेत् यथाविधि पुरस्सरम् ।
महापूजा प्रकर्तव्या मातृकान्यास पूर्वकम् ॥

गोलका पिण्डिकान्यासमध्वन्यासमनन्तरम् ।
षोढा न्यासादि सर्वाणि पूजाकाले समाचरेत् ॥

त्रिभिर्मन्त्रैः कालिकाद्यैः कालीं लक्ष्मीं सरस्वतीम् ।
दिनदुर्गां समावाह्य षण्मुद्रां दर्शयेद्गुरुः ॥

तासां च नामभिः पश्चात् सहस्रैश्च पृथक् परम् ।
पूजां प्रागुक्तमार्गेण विधाय विधिवद्गुरुः ॥

नैवेद्यं धूपदीपाभ्यां मूलेन च निवेदयेत् ।
समिदाज्यचरून् हुत्वा मूलेनाष्टोत्तराहुतिः ॥

तवाग्रस्थं च नैवेद्यं विसर्ज्य विधिवत्ततः ।
दद्यान्मूलेन ताम्बूलं दीपौघान् भ्रामयेत्पुनः ॥

वाहनं च ध्वजं यष्ट्वा परिवारान् समर्चयेत् ।
भूतानाहूय घण्टाद्यैः बलिं दद्यादथो गुरुः ॥

तदन्ते चोत्सवं कुर्याद्यथा विभवविस्तरम् ।
पद्मदीपैः परिभ्राम्य देवीमन्तः प्रवेशयेत् ॥

प्रसन्नार्घ्यं च दत्वा युश्चन्द्रदीपं प्रदर्शयेत् ।
कर्मं शालं चार्पयित्वा भूसुरान् भोजयेत्प्रभुः ॥

शुद्धात्मानश्च तत्सायं देशिकाद्या द्विजोत्तमाः ।
देवीं पञ्चोपचाराद्यैः भक्त्या सम्पूज्य लालसे ॥

लिङ्गस्येशानदिग्भागे प्राङ्कणे द्विजमण्टपे ।
संशोध्य विधिवत्तत्र तस्मिन्नवपदं लिखेत् ॥

शालिं च तण्डुलं पूर्य प्रस्थं प्रस्थार्धमेव च ।
तव बीजेनार्चयित्वा त्रिपदे च त्रिपालिकाः ॥

मध्य पञ्चमुखी न्यस्येत् शरावाश्च पदत्रये ।
सम्पूज्य गन्धपुष्पाद्यैर्नवबीजानि चण्डिके ॥

शालिं च सर्षपं शिम्बं माषं मुद्गं यवं तिलम् ।
निष्पावं च कुलत्थान्तं सलिलाप्लावितानि च ॥

सुधाबीजेन पयसा सेचयित्वाथ निर्वसेत् पे ।
नवदेवि समावाह्य सोमं सम्पूजयेत्परम् ॥

पञ्चवाद्यखैः सार्धं धूपदीपौ प्रदर्शयेत् ।
क्षीरान्नं भक्षसंयुक्तं घृतपायससंयुतम् ॥

निवेदयेत्सुधामन्त्रैः पृथङ्मूलेन मानिनी ।
सोमकुम्भं च पयसा सम्पूर्याथ विधानवित् ॥

बीजकर्म समाप्यान्ते गर्भगेहं प्रवेशयेत् ।
सिञ्चेत्पञ्चामृतैर्लिङ्गं श्रीसूक्तेन पयोदकैः ॥

देवीसूक्तेन दुर्गायाः सूक्तेन च शुभोदकैः ।
त्वरिताख्येन सूक्तेन निशासूक्तेन मात्रिकः ॥

सेचनान्ते महापूजां गुरुरासनपूर्वकम् ।
न्यासजालादिकान् देवि विधाय विधिवत् प्रिये ॥

कालीं रमां शारदां च पृथक् मूलेन सञ्जयेत् ।
मूलदुर्गां दिनेशीं च डामरे च यथेरितम् ॥

तत्कल्पोक्तप्रकारेण पूजाकर्म समाचरेत् ।
नामभिः पूजयेत् पश्चात् साहस्रैः कालिकादिकाः ॥

दुर्गा नामसहस्रैतां दिनदेवीं यजेत्परम् ।
शाल्यान्नं सघृतं भक्षं पायसं च पयोदधि ॥

मधुशर्करया युक्तं सूपशाकसमन्वितम् ।
चित्रान्तं कुसुमान्नं च मूलेनाग्रे न्यसेत् क्रमात् ॥

फलानि पञ्चजालानि नवमन्त्रेण नायकी ।
निवेदयेदथाम्बाय धूपदीपादिदेशिकः ॥

रङ्गपूजा प्रकर्तव्या तव तृप्तिप्रदायकी ।
ध्वजान्तं गोपुरान्तं वा यथाविधि विधानवित् ॥

तथो नैवेद्यमुद्वास्य ताम्बूलान्यर्पयेत्ततः ।
दीपौघान् भ्रामयेत् पश्चात् हिमान्तं गिरिसम्भवे ॥

मन्त्राशिषा मुमं दद्यादक्षतांश्च निशामयान् ।
तवाग्रे वाथ परितः प्राङ्कणान्तर्मनूत्तमः ॥

सुवासिनी दम्पतीश्च कन्यकाश्शतसङ्ख्यकाः ।
अभ्यङ्गोद्वर्तनाद्यैश्च तोषये स्त्रीजनादिकान् ॥

पूजयेद्धूपदीपान्तं ततो वस्त्राणि दापयेत् ।
नववस्त्रे सप्तभिर्वा दानवस्त्रमिदं प्रिये ॥

श्वेतपीतादि वस्त्राणि कम्बुकानि तथैव च ।
दुकूलादीनि वस्त्राणि नवतन्तूद्भवानि च ॥

संशोध्य प्रोक्षयेत्तानि प्राजापत्यादिमन्त्रकैः ।
गन्धपुष्पादिकैरर्च्य तवमूलं समुच्चरन् ॥

दानकर्म ततः कुर्यादिन्द्रादीशावधि क्रमात् ।
दिक्स्थानां च श्वेतवस्त्रं कञ्चुकानि तथैव च ॥

कालीमन्त्रं वदन् भक्त्या कोणपार्श्वगयोस्ततः ।
कञ्चुकं पीतवस्त्रं च रमामन्त्रं समुच्चरन् ॥

रक्तवस्त्रं प्रदातव्यम् अन्तराले पृथक् तयोः ।
चित्रवस्त्रं कञ्चुकादि शारदामूलमुच्चरन् ॥

तृप्त्यर्थं मूलदुर्गाया मिथुनार्चा ततः परम् ।
यथावित्तानुसारेण दत्वा पूजां विधाय च ॥

दुर्गादिदिनदेवीश्च नवम्यान्तं क्रमात् पृथक् ।
एकैकोत्तरवृद्ध्या ता यष्ट्वा वस्त्रं तथा गुरुः ॥

कञ्चुकं कण्ठसूत्राणि प्रदद्यान्नूपुरादिकम् ।
देवतावर्णवस्त्राणि कञ्चुकानि तथैव च ॥

दम्पतीः कन्यकाश्चैव भोजयेस्त्रीकुदम्बकान् ।
बीजं केतुं वाहनं च परिवारान्यजेदथ ॥

जयघण्टादिकैर्नादैः पञ्चवाद्यरवैस्सह ।
बलिदेवीस्समाहूय तत्तद्द्रव्यसमन्वितः ॥

द्वारादि बलिपीठान्तं दिक्पालानां च मातृकम्(णाम्) ।
शास्तादि बलिदेवीनां ध्वजान्तं दापयेद्बलिम् ॥

पालिकान्तं पृथक् दत्वा स्वनामाद्यैर्गुरूत्तमः ।
तदन्ते चोत्सवं कुर्यात् बहुधा विभवादिकैः ॥

सभापूजां विधायाथ बलिबेरं च भक्तितः ।
प्रविश्य प्राङ्कणं पश्चात् प्रदक्षिणवशात् प्रिये ॥

गर्भगेहं नयेद्बिम्बं न्यस्त्वा लिङ्गस्तु दक्षिणे ।
लिङ्गे संयोज्य चैतन्यं हिमदीपं प्रदर्शयेत् ॥

नमस्ते जगदाधारे नमस्ते लोकपावने ।
प्रतिपत्कर्मजालानि गृहाण परमेश्वरि ॥

प्रार्थयित्वेति सद्भक्त्या कृतं कर्मसमर्पयेत् ।
देशिकादि जनास्सर्वे वीणावेणुखादिकैः ॥

वेदघोषादिकैः शङ्खैः विविधैर्वाद्यनिस्स्वनैः ।
पुराणश्रवणैर्भक्त्या वन्दिमागधपाठकैः ॥

कुर्यर्विनिद्रां भक्त्याद्या नर्तकैर्हासकैस्सह ।
द्वारकुम्भादिकान् सर्वान् गुरुकुण्डस्थपावकम् ॥

वेदिमध्यगतं यन्त्रं बीजवापं तरङ्गिणीम् ।
नवम्यान्तं च संरक्ष्य जपपारायणादिकम् ॥

होमक्रियां वेदिकस्थ घटार्चां यन्त्रपूजनम् ।
सूक्तादि सेचनं कर्म पृथक् कल्पोक्तपूजनम् ॥

वस्त्रदानं चोत्सवं च सभापूजां च भोजनम् ।
नवम्यन्तं क्रमादेवं सर्वं कर्म कुदम्बकम् ॥

प्रकुर्वीत जगन्माये विशेषमधुनोच्यते ।
द्वितीयायां तिथौ प्रातः स्नात्वा कर्म द्विजैस्सह ॥

तवालयं प्रविश्याथ पुण्याहं वाच्य भक्तितः ।
लिङ्गं यन्त्रं च संसेच्य प्रोक्ष्यदुर्गादिसूक्तकैः ॥

पूजां पञ्चोपचाराद्यैः विधाय विधिवत्तमः ।
पूर्वघस्रार्चितां दुर्गां तन्मूलमनुनात्ततः ॥

स्वदेहे च समारोप्य कालीं लक्ष्मीं सरस्वतीम् ।
आर्यामूलेन तां देवीं लिङ्गे यन्त्रे च तत्परम् ॥

यष्ट्वा बीजं निशातोयैरूक्ष्णं कारयेत्ततः ।
सेचनादि क्रियाजालं जपपारायणादिकम् ॥

होमं प्रागुक्तवन्मन्त्री आर्यामूलेन तत्परम् ।
कुम्भान्यन्तं यजेत्पश्चात् सम्पाताज्यं समर्प्य च ॥

होमकर्म समर्प्यार्यः आर्याकुम्भं समुद्धरेत् ।
गेहं प्रदक्षिणीकृत्य घटमन्तः प्रवेश्य च ॥

आर्यासूक्तेन संसेच्य शेषं पूर्वोक्तमार्गतः ।
तद्रात्रौ ते वशूद्धात्मा कालिकाद्यश्च देवताः ।

कल्पोक्तवद्यजेत्ताश्च तथाचार्यां समर्चयेत् ।
शेषं पूर्वोक्तवत्कुर्यात् कर्मजालार्पणं ततः ॥

नमस्तुभ्यं सदानन्दे जगदाह्लादकारिणी ।
द्वितीया कर्मजालानि गृहाण सुरवन्दिते ॥

त्रिवारमिति सम्प्रार्थ्य कृतं कर्म समर्पयेत् ।
तृतीया प्रातरुत्थाय स्नात्वा विप्रोत्तमैस्सह ॥

पुण्याहं वाच्य गर्भान्तं लिङ्गं सेच्य विधानतः ।
यन्त्रं च वेदिकामध्यस्थं प्रोक्ष्य पञ्चोपचारकैः ॥

सम्पूज्य मूलमन्त्रेण प्रागार्या स्वयमात्मनि ।
संयोज्य शूलिनीं तत्र समावाह्य यजेद्गुरुः ॥

सेवनादिक्रियाजालं होमकर्मावसानकम् ।
हुतशेषं समर्प्याथ शूलिनीघटमुद्धरन् ॥

लिङ्गं प्रागुक्तमार्गेण सेचयित्वा समर्चयेत् ।
कृतकर्माणि तद्रात्रौ प्रार्थनादि महेश्वरि ॥

नमस्तुभ्यं कलाधारे मङ्गले मङ्गलप्रदे ।
तृतीयायां कृतं कर्म गृहाणेदं सुरेश्वरि ॥

बहुधा प्रार्थयित्वेति क्रियाजालं समर्पयेत् ।
भेरीपटहशङ्खाद्यैर्विनिद्रामाचयेत्ततः ॥

चतुर्थेऽह्निगुरु प्रातः स्नात्वा नित्यं निवर्त्य च ।
एतदेवेति मन्त्रेण पुण्याहं यागसद्मनि ॥

लिङ्गगेहे च संवाच्य यन्त्रलिङ्गं समर्च्य च ।
शूलिनीं योजयेदेहे कुमारीमर्चयेत्तदा ॥

बीजानि गन्धतोयेन सेचयित्वा विधानतः ।
विधाय होमकर्मान्तं कुमारीकुम्भमुद्धरेत् ॥

प्रवेश्य गर्भगेहान्तः कुमारीसूक्तमुच्चरन् ।
सिञ्चेल्लिङ्गं शनैर्भक्त्या शेषं प्रागुक्तवत् प्रिये ॥

देवीं सम्प्रार्थ्य मूलेन वक्ष्यमाणेन मानिनी ।
भद्रकाली नमस्तेऽस्तु महाभयविनाशिनी ॥

गृहाणेदं काम्यकर्म चतुर्थ्यां च मया कृतम् ।
विनिद्राकर्म कर्तव्यं पञ्चम्यां प्रातरुत्थितः ॥

स्नात्वा लिङ्गं यजेद्यन्त्रम् उपचारैश्च पञ्चभिः ।
कुमारीं हृदि संयुज्य मूलेनावाह्य चाम्बिकाम् ॥

सर्वं कर्माथ होमान्तमम्बिकाघटसेचनम् ।
बीजं पयोदकैः सेच्यं रात्रौ कर्म समर्पणम् ॥

सुगन्धीनि नमस्तुभ्यं सम्पज्जालप्रदायिकी ।
पञ्चम्यामाम्बके कर्म गृहाणेदं तिलोत्तमे ॥

इति प्रार्थ्य महादेवीं पश्चाज्जागरणं नयेत् ।
षष्ट्यां प्रातः समुत्थाय सुस्नात्वा भूसुरैस्सह ॥

पवमानादि मन्त्रेण प्रोक्षयेत्परितस्ततः ।
सम्प्रोक्ष्य यन्त्रलिङ्गं च सिञ्चेत्पञ्चोपचारकैः ॥

यष्ट्वाम्बिकां च मूलेन हृदि संयोजयेद्गुरुः ।
महिषघ्निं समावाह्य लिङ्गे यन्त्रे च तां यजेत् ॥

जलोदकेन बीजानि सेचयित्वा क्रियाः परम् ।
होमकर्म समाप्यार्यः प्रागुक्तविधिनागजे ॥

महिषग्नी घटेनाथ तत्सूक्तेनैव सेचयेत् ।
कर्मौघं मध्यरात्रान्तं कृत्वा सद्भक्तिपूर्वकम् ॥

तुष्ट्यर्थं प्रार्थयेद्देवीं वंशवृद्धिप्रदायकीम् ।
महिषघ्नी नमस्तुभ्यं कामितार्थप्रदायिनी ॥

मया षष्ट्यां कृतं कर्म गृहाण सुरपूजिते ।
इत्यर्चयेत्क्रियाजालामर्चयेन्मूलमन्त्रतः ॥

ततो निद्रां निवार्यैशि सप्तमी प्रातरुत्थितः ।
स्नानादीनि स्वनित्यानि समाप्य विधिना ततः ॥

पुण्याहसलिलैरादौगुरुर्लिङ्गालयादिके ।
यागभूमौ च सर्वत्र प्रोक्ष्य मूलाजना वरम् ।

यन्त्रं लिङ्गांश्च कुम्भांश्च सप्तभिश्चोपचारकैः ।
यष्ट्वा ता महिषघ्नीं च हृदि संयोज्य मूलतः ॥

मूलेन लिङ्गे यन्त्रे च पुनरावाह्य चण्डिकाम् ।
होमावधि क्रियाजालं चण्डिकाघटसेचनम् ॥

निशि पूजामर्चयित्वा तुष्ट्यर्थं प्रार्थयेत्तदा ।
नमस्ते गिरिसम्भूते सर्वशत्रुभयङ्करी ॥

सप्तम्यां कृतकर्मौघं गृहाणाशु धनप्रदे ।
इति क्रियास्समर्प्यान्ते बोधयेयुर्महाजनाः ॥

तथाष्टमी प्रभाते च गुरुरुत्थाय भक्तितः ।
चारकाकाद्यैर्दिजस्सार्धं स्नात्वा नित्यक्रियां नयेत् ॥

पुण्याहं मनुना वाच्य लिङ्गं यन्त्रं च सेचयेत् ।
सम्प्रोक्ष्यतं नवास्तेन यजेत्सप्तोपचारकैः ॥

चण्डिकां हृदि संयोज्य मूलमन्त्रेण मानिनी ।
सरस्वतीं समावाह्य मनुना लिङ्गयन्त्रयोः ॥

बीजानि सेचयेदन्ते होमकर्मोक्तवत्पुनः ।
मण्टपस्थघटान् यन्त्रं शारदाकुम्भमेव च ॥

यष्ट्वा तत्कुम्भमादाय सर्वघोषैर्द्विजैस्सह ।
पुनः प्रवेश्य गर्भान्तः तत्सूक्तेन मनुत्तमः ॥

सिञ्चेत् प्रागुक्तवत्पूजां विधाय मनुनाप्रिये ।
भूतरात्रावसानान्त मुक्तकर्म कदम्बकः ॥

प्रार्थनाद्यर्पणं पश्चात् शारदामनुना ततः ।
कलावति नमस्तुभ्यमकाराद्यक्षरात्मिके ॥

दिनाष्टके कृतं कर्म गृहाणसुरनायकि ।
इति त्वां प्रार्थ्य सद्भक्त्या क्रियास्सर्वास्समर्पयेत् ॥

निद्रां निनतिहासाद्यैः नवम्यां प्रातरुत्थितः ।
स्नानं विधाय विप्राद्यैस्स्व नित्यानि निवर्तयेत् ॥

पुनर्नान्दीं च गव्यं च गेहे बिम्बे च मण्टपे ।
पृथक् पुण्याह तोयेन प्रोक्ष्य तन्मुना गुरुः ॥

लिङ्गं यन्त्रं समभ्यर्च्य प्रोक्षणं सेचनादिकम् ।
शारदां हृदि योज्याथ वागीशीमर्चयेत्पुनः ॥

बीजाङ्कुराणि सम्पूज्य सुधाबीजेन तत्परम् ।
होमं पूर्वोक्तवत्कुर्युः प्रतिकुण्डे च भूसुराः ।

प्रतिश्लोकैः प्रधानाख्ये पायसं च घृतं तिलम् ।
यथोक्तं डामरे तन्त्रे सर्वतन्त्रोत्तमोत्तमम् ॥

अर्गलाद्यैस्त्रिभिः श्लोकैः सप्तशत्या पुनर्गुरुः ।
जुहुयादाहुतिः सर्वा सुवस्त्रं कञ्चुकं पुनः ॥

ततः पूर्णाहुतिम् पश्चान्नवकुण्डेषु सुव्रते ।
समाप्य होमकर्माणि सम्पाताज्य सुरेश्वरि ।

कुम्भे यन्त्रे च लिङ्गे च समर्च्याथ पृथग्यजेत् ।
यात्रार्थं पूर्णयागार्थं पूरयेत्कलशद्वयम् ॥

प्राग्घटोदकमादाय वेदिमध्ये घटान्विता ।
पृथक् तन्मूलमन्त्रेण पूर्ववित्वेककुम्भके ॥

तत्कुम्भं चैशभागे च न्यस्त्वा यष्ट्वा जना परम् ।
द्वारगड्डुककोणस्थान् विद्येश्यन्तू घटान् गुरुः ॥

सुधाबीजेन मूलेन पूरयेत्कुङ्कुमोदकैः ।
ब्रह्मघोषादिकैर्घोषैः वागीशाख्यघटं द्विजः ॥

देशिकादि समादाय प्रविशेद्गर्भमन्दिरम् ।
वागीशीसूक्तमन्त्रेण लिङ्गं संसिच्य भक्तितः ॥

पूजां बलिं चोत्सवं च भोजनं पूर्ववच्चरेत् ।
तत्क्षपायाञ्च सुस्नात्वा लिङ्गशुद्धिं विधाय च ॥

सेचये विविधैः सूक्तैः नामपूजादिभिः परम् ।
महाकाल्यादिदेवीश्च यथाकल्पं यजेद्गुरुः ॥

नैवेद्यमुक्तवद्देव्याः कुसुमानि निशाक्षतान् ।
समर्च्य मूलमन्त्रेण वस्त्रदानमतः परम् ॥

भोजयेद्विप्रमुख्यांश्च कन्यकाश्च सुवासिनीम् ।
दम्पती भोजयित्वान्ते बलिदानाद्यथोत्सवम् ॥

सभापूजाविधाचान्ते पूर्णयागं समारभेत् ।
तवाग्रे कटकं न्यस्त्वा यष्ट्वा मूलेन शङ्करि ॥

रोचनं कुङ्कुमं गन्धं निशाचूर्णं घनं गुरुः ।
तवाग्रस्थे च कटके लोलयेच्च शुभोदकैः ॥

पूजयेत्प्रार्थयेद्भक्त्या चूर्णं मूलेन मन्त्रवित् ।
नवरात्रव्रतस्थानां सम्पूर्णफलदायिकी ॥

नवदुर्गात्मके देवि नमस्तुभ्यं शुभप्रदे ।
चूर्णोत्सवं करिष्यामि गृहाण सुरवन्दिते ॥

इति सम्प्रार्थ्य सञ्जप्य चूर्णतोयं मनूत्तमः ।
मूललिङ्गं च बिम्बौघं पालके वाहनं ध्वजम् ॥

दिगीशान्मातरश्चैव बलिदेविश्चतत्परम् ।
क्षेत्रेशीमङ्कुरं देवि परिवारामरान् पृथक् ॥

द्वारकुम्भादिकान् सर्वान् तद्यन्त्रं कुण्डदेवताः ।
पृथक् सम्प्रोक्ष्य ताः सर्वाः सभाबिम्बं पुनर्गुरुः ॥

तद्बिम्बमनुना प्रोक्ष्य स्वकं देहं ततः परम् ।
धनदाय सदस्याय ब्रह्मणे च क्रमात् प्रिये ॥

मूर्तिपेभ्यः पारगेभ्यो जापकेभ्यस्ततः परम् ।
प्रदद्याच्चूर्णसलिलं भूसुरेभ्यः पृथक् पुनः ॥

नृपादिभ्यश्च सर्वेभ्यः तत्तोयं चैव सम्पदे ।
भूतबल्युत्सवं कुर्याद्ग्रामसीमान्तमेव वा ॥

ग्रामान्तं रथवीथ्यान्तं मुष्टिना विकिरेद्बलिम् ।
महाबलिं समाप्यार्यः प्राकारं च प्रवेशयेत् ॥

आसुजालात्मिकामन्ते तन्मूलमनुना प्रभुः ।
पूज्य सन्तर्प्य सन्ताड्य नालिकेरफलादिकैः ॥

बिम्बे च गर्भगेहान्तं न्यस्त्वा लिङ्गस्य दक्षिणे ।
तच्चैतन्यं मूललिङ्गे भोजयित्वा सुभक्तितः ॥

भ्राम्यतां हिमदीपेन प्रसन्नार्घ्यं प्रदापयेत् ।
ततो मन्त्री सर्वघोष।
इः यागगेहं प्रवेश्य च ॥

स्वकुण्डाग्निं च सम्प्रोक्ष्य वह्निमन्त्रेण देशिकः ।
जातादि पूर्णहोमान्तं मयादत्ताहुति प्रभो ॥

स्वीकृत्य वाञ्छितार्थं मे दत्वा गच्छ हुताशन ।
इत्युक्त्वाग्निं विसृज्याथ यन्त्रं सम्प्रार्थ्य भक्तितः ॥

रमादेवि नमस्तुभ्यं राज्यमङ्गलदायकी ।
पूजां गृहाण कृपया राज्यैश्वर्यं प्रयच्छमे ॥

इति यन्त्रं प्रार्थयित्वा यागेशाख्यघटं परम् ।
यागेश्वरि नमस्तुभ्यं सर्वयागफलप्रदे ॥

गृहाण तव कुम्भार्चां देहि मे धनसम्पदम् ।
मूलेन प्रार्थयित्वेति पूजयेच्छारदाघटम् ॥

सरस्वति नमस्तुभ्यं विद्यसम्पत्प्रदायिकी ।
घटार्चनं गृहाणेदं सर्वविद्याः प्रयच्छ मे ॥

महालक्ष्मि नमस्तुभ्यं धनराज्यप्रदायिनी ।
कोशं वीयं जयं देहि गृहाणेदं कृतार्चनम् ॥

महाकालि नमस्तेऽस्तु तव कल्पोक्तपूजनम् ।
गृहीत्वा पुत्रदारादि वंशवृद्धिं च देहि मे ॥

नमस्तुभ्यं मूलमाये निजानन्दस्वरूपिणी ।
विविधान् विभवान् देहि गृहण तव पूजनम् ॥

नमो विद्येशी नामाख्यः सदा कुम्भेषु संस्थितः ।
कुम्भाष्टकार्चनं यूयं गृह्णन्तु सुरन्दिताः ॥

कुम्भेश्वरि नमस्तुभ्यं सर्वकुम्भाधिवासिनी ।
सर्वकुम्भार्चनं देवि गृहाण कुलवृद्धिदे ॥

द्वारकुम्भादिकान् सर्वान् इति प्रार्थ्य विसर्जयेत् ।
कर्म द्विजैश्चारकाद्यैः वेदमङ्गलनिस्वनैः ॥

वाद्यजालरवैस्सार्धं हासकैर्गीतनर्तकैः ।
छत्रचामरसंयुक्तैः घण्टानादैर्जनैस्सह ॥

चारकुम्भादिकान् सर्वान् तद्यन्त्रं च तदङ्कुरम् ।
समुद्धृत्य क्रमाद्भक्त्या मलमन्त्रं वदन् तदा ॥

प्रदक्षिणवशाद्गेहं नीत्वा गर्भं प्रवेश्य च ।
यन्त्रं पीठे च विन्यस्य तन्मन्त्रं पूजयेच्छतम् ॥

प्राग्घटस्थोदकैरादौ सिञ्चेत्पाटाजनापदम् ।
द्वारकुम्भजलैः पीठं पीठमन्त्रेण भक्तितः ॥

तत्कोणं कोणकुम्भस्थैः कोणमन्त्रेण चण्डिके ।
ग्रन्थिमन्त्रेरन्तरालं गड्डुकस्थोदकैः परम् ॥

लिङ्गं प्रागुक्तसूक्तेन विद्येश्यादिघटोदकैः ।
कालिकाद्यैस्त्रिभिः सूक्तैः तत्त्रिकुम्भोदकैः परम् ॥

देवीसूक्तं वदन् पश्चान्मूलदुर्गाघटोदकैः ।
कौतुकादि परित्यज्य मूलबिम्बादि मानिनि ॥

न्यस्त्वा लिङ्गोत्तरे भक्त्या कौतुकं मूलमुच्चरन् ।
यागकुम्भस्थोदकेन चूर्णयात्रा घटोदकैः ॥

बलिबिम्बं च तद्यन्त्रं यागमन्त्रेण सेचयेत् ।
रमासूक्तेन तत्सेच्य दशसङ्ख्योपचारकैः ॥

यष्ट्वा बीजाङ्कुरैः पश्चात्सुधाबीजेन चार्ययेत् ।
भ्रामयेद्बहुदीपौघान् मन्त्रैः पुष्पाक्षणान् पुनः ॥

समर्च्य मूलमन्त्रेण नवम्यन्तं गुरूत्तमः ।
प्रसन्नार्थं पुनः पूजां विधाय प्रार्थ्य शाम्भवीम् ॥

नमो देव्यै महामाये सर्वदानन्दरूपिणी ।
नवरात्रोक्तकर्मौघं नवम्यन्तं मया कृतम् ॥

सम्यक् स्वीकृत्य तत्सर्वं क्रियापूर्णं फलं श्रियम् ।
देहि मे पुत्रदारादि वंशवृद्धिं नगोद्भवे ॥

इत्युक्त्वा मूलमनुना क्रियास्सर्वास्समर्पयेत् ।
दक्षिणां दापयेत्तत्र गुर्वादिभ्यः क्रमात् प्रिये ॥

नवनिष्कं देशिकाय प्रदद्याद्धनदाय च ।
पञ्च त्रिब्रह्मणे देवि सार्धनिष्कं च निष्ककम् ॥

होतृभ्यः चारकेभ्यश्च जापकेभ्यश्च तत्परम् ।
निष्कार्धं सूक्तजापिभ्यः सेचकेभ्यस्तथैव च ॥

तथा तत्पूजकेभ्यश्च तत्तर्पण कृते तथा ।
निष्कार्धार्धं प्रभू भक्त्या चारकेभ्यस्तथैव च ॥

दक्षिणां च पृथक् दत्वा तासां ते भूरिदक्षिणम् ।
शक्त्या वित्तानुसारेण कर्मोपकरणादिकम् ॥

दद्यात्तन्मण्टपं सर्वं मन्त्रिणे मङ्गलाय च ।
गोभूम्यादीनि दानानि भूसुरेभ्यः शुभाय च ॥

दानान्ते भूमिपादीनां पुत्रदारादिकाङ्क्षिणाम् ।
पादोदकं चाङ्कुराणि कौतुकानि प्रदापयेत् ॥

सहदेवीं समभ्यर्च्य सवस्त्रं कञ्चुकादिकम् ।
सुवासिन्यै च दत्वान्ते गुरुकुण्डस्थ पावकम् ॥

गृहीत्वा धनदः पश्चाद्देशिकादि द्विजैस्सह ।
वेदघोषैर्वाद्यरवैश्शङ्खघण्टारवादिकैः ॥

प्रभूत्तमादिकैस्सार्धं प्रवेश्यार्यालयं पुनः ।
देशिकाग्नौ तु संयुज्य पूजयेदुपचारकैः ॥

नवम्यान्तं कृतं कर्म मयेत्युक्तं तवानघे ।
सर्वपापहरं दिव्यं सर्वदा मङ्गलप्रदम् ॥

राज्यदुर्गप्रदं राज्ञो धनकोशबलप्रदम् ।
पुत्रपौत्रप्रपौत्रादि वंशवृद्धिप्रदं प्रिये ॥

आयुरारोग्यदं पुंसां धैर्यं वीर्यं मनोजयम् ।
यशः प्रदं शोकहरं सर्वदारिद्र्यनाशनम् ॥

नवरात्रोक्तकर्मेदं चतुर्वर्णोद्भवे नरे ।
प्रत्यब्दं चैव यः कुर्यात्सद्भक्त्या शुद्धचेतसा ॥

विप्रश्चेदैहिके ज्ञानं श्रियं भोगान् बहूनपि ।
मोक्षमाप्नोति देहान्ते राज्यैश्वर्यं जयं यशः ॥

धनानि रत्नजालानि सर्वसम्पद्बलानि च ।
द्रव्यज्ञानानि धर्माणि सारूप्यं क्षत्रियोत्तमः ॥

वैश्यश्चेद्धनधान्यानि सामीप्यं लभते ध्रुवम् ।
शूद्रसुखं सदारोग्यं वृद्धिं सालोक्यमाप्नुयात् ॥

इत्थं ज्ञात्वेति कर्मौघं नवम्यन्तं पयः पुमान् ।
सम्यक् कुर्वीत सम्पत्त्यै वंशवृद्ध्यै शुभाय च ॥

नवदुर्गाक्रमो ह्येवं तूलाकर्म वदाम्यहम् ।

इति श्रीवातुलोत्तरे दुर्गाभेदेशिवपार्वतीसंवादे काम्यकाण्डे नवरात्रियजनविवरणं नाम एकोनत्रिंशत्पटलः ॥

५१

देवी -

श्रुतं देव मया सर्वं त्वत्प्रसादान्महेश्वर ।
इदानीं मिच्छामि तुलाभारं कद वदा ॥

किं निमित्तं तदारोहः किञ्च द्रव्यं च किं फलम् ।
तद्विधानं कथं सम्यक् विस्तरेण वद प्रभो ॥

ईश्वरः -

साधु पृष्टं महादेवि त्वया यत्परिभाषितम् ।
तत्सर्वं च प्रवक्ष्यामि शृणु श्वेकाग्रमानसा ॥

पुरा गङ्गानदीतीरे ऋषिदेवगणाश्रिते ।
पुण्यं पापं च पप्रच्छ लोके को ह्यधिको भवेत् ॥

अहं पुण्यस्याधिक स्यात् लोकेऽहं पापपूरुषः ।
परस्परविरोधेन विष्णुं शरणमागतौ ॥

किमर्थमागतौ ब्रूतमिति प्राह जनार्दनः ।
इति तद्वचननं श्रुत्वा मा विरोधः परस्परम् ॥

ततः सर्वगतो विष्णुः शूलारोहणमब्रवीत् ।
तत्र पुण्यं वाधिकं स्यादथवा पापपूरुषः ॥

तं दृष्ट्वा तौ विनिश्चित्य मनश्शान्तिं समागतौ ।
कुपितौ सान्त्वयन् तौ हि तुलामुद्धारयेद्धरिः ॥

उभौ स्थितौ तुलापात्रे मध्ये धृत्वा जनार्दनः ।
अथोलयद्यथा न्याय्यं तुलिते तेन विष्णुना ॥

पुण्यं समाधिकत्वच्च भूभागं च समाविशत् ।
पापं च लाघवाद्गौरि तच्छत्वादुच्छ्रितः खिला ।

तुलायामधिकं दृष्ट्वा लज्जितः पापपूरुषः ।
अवरुह्य तुलापात्रान् स्वयं भूमिं समागमत् ॥

तदारभ्य तुलं दृष्ट्वा दूरादेव पलायते ।
तस्मात्तुलामारुहन्ति देवश्चे मनुजास्तथा ॥

धर्माधर्मकृतं भारं तुलया विजिगीषया ।
एतस्मात् करणाल्लोके तुलाभारं विशिष्यते ॥

तस्या स्मरणमात्रेण सर्वपापविनाशनम् ।
कदाचिच्च तुलारोहे सर्वमृत्युभयं नृणाम् ॥

अपस्मारादि सम्प्राप्तं तत्क्षणादेव नश्यति ।
ब्रह्महत्यादिपापानां प्रायश्चित्तमिदं स्मृतम् ॥

इति दत्वा वरं विष्णुः तुलायै लोकरक्षकः ।
शिवालयादिषु स्थित्वा तुले त्वं पापहारिणी ॥

नुद पापं नृणां नित्यं भक्तानां च हितप्रदे ।
इत्याज्ञया मया विष्णुः तुलाभारमिदं प्रिये ॥

तद्द्रव्यं च पृथग्भेदं तद्विधं तत्फलं शृणु ।
क्रमेण सम्प्रवक्ष्यामि निमित्तानि पृथक् पृथक् ॥

स्वर्णेन वित्तशक्तश्चेत्तुलामारोहयेत्तदा ।
चक्रवर्ती नृपश्श्रेष्ठः स भवेत्सप्तजन्मनि ॥

तदन्ते शिवसायुज्यमिहापि सुखमश्नुते ।
राजते व्याधिनाशः स्यात् पुत्रपौत्रादिसंयुतः ॥

चिरं भुक्त्वा बहून् भोगान् विष्णुलोके महीयते ।
ताम्रेण शत्रुनाशं स्यात् इहलोके सुखं भवेत् ॥

तदन्ते ब्रह्मलोकं स्यात् फलं गुह्यं वरानने ।
कांस्येन ज्वरनाशं स्यात् सर्वशान्तिकरं नृणाम् ॥

त्रपुणा रोगनाशाय कीर्तये धनवृद्धये ।
सीसेन पापनाशाय अपस्मारविनाशनम् ॥

दारुणा सर्वनाशः स्यात् शिलया स्वकुलक्षयम् ।
मृण्मयं पुत्रनाशाय तद्द्रव्यं वर्जयेत्प्रिये ॥

क्षीरेण सर्वसौभाग्यं हृद्रोगादि विनाशनम् ।
दघ्ना च धनवृद्धिः स्यात् सर्वशत्रुजयो भवेत् ॥

आयुर्वृद्धिकरं चाज्ये सुबुद्धिश्च मनोहरे ।
माक्षिकेण तुलारोहे भूतग्रस्तादि शान्ति युक् ॥

गुडशर्करया वापि स्थिरलक्ष्मीमवाप्नुयात् ।
पञ्चगव्यतुलारोहे ब्रह्महत्यादिनाशनम् ॥

तिलतैलसमारोहे अपमृत्युविनाशनम् ।
नालिकेरफलारोहे शीघ्रं पुत्रादिसम्पदः ॥

कदलीपनसाम्राद्यैः पुत्रमित्रसमृद्धिदम् ।
द्राक्षाखर्जूरकैस्तुष्टः इहलोके परत्र च ॥

चन्दनागरुकर्पूरतुलारोहे महेश्वरि ।
शीघ्रं श्रियमवाप्नोति सर्वतापनिवारणम् ॥

क्रमुकं नागवल्लीभिः तुलारोहे शुभप्रदम् ।
श्वेतवस्त्रतुलारोहे तुष्टिपुष्टिप्रदं शिवे ॥

एतद्द्रव्याणि सम्पाद्य यथा शक्त्यानुसारतः ।
साम्बलिङ्गादिकै क्षेत्रे हरीशे शुम्भविद्विषे ॥

षण्मुखे च गणाध्यक्षे तत्समारुह्य भक्तितः ।
ब्रह्मक्षत्रियवैश्यैर्वा शूद्रैश्च मनुजोत्तमैः ॥

ऋषिदेवगणैर्देवि मामुद्दिश्य यथोक्तवत् ।
सुदिनं चैव निश्चित्य चन्द्रतारानुकूलकम् ॥

देवालयपुरोभागे शा"करे वा विशेषतः ।
मण्टपं कारयेद्भक्त्या कुण्डे वा स्थण्डिलेऽपि वा ॥

पुष्पमण्टपिकां वापि द्वारतोरण भूषितम् ।
स्तम्भं तत्र दृढीभूतं सारदारुमयं तु वा ॥

पञ्चलोहेन तुलया रज्वा पत्रै प्रयुज्य च ।
तुलां संयोज्य कूटस्थं विश्वकर्मोक्त शास्त्रतः ॥

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।
ब्राह्मणैः सह शुद्धात्मा मङ्गलस्नानमाचरेत् ॥

वस्त्राहरणमाल्यैश्च अलङ्कृत्य वरानने ।
देवालयं समागत्या मण्टपं प्रविशेत्प्रिये ॥

गणेश्वरं समाराध्य नान्दीपुण्याहमाचरेत् ।
मधुपर्कं ततः कुर्याद्वरयेद्भूसुरोत्तमान् ॥

आचार्यं यजमानं च ऋत्विजं वेदपारगम् ।
ब्राह्मणं च सदस्यं च जपपारायण द्विजान् ॥

सुवर्णं च फलं वस्त्रं दत्वा च वरयेत् प्रिये ।
ततो निशीथे सम्प्राप्ते संस्कृते मण्टपे गुरुः ॥

द्वारतोरणकुम्भांश्च पूजयेच्च मनोहरे ।
वास्तुराक्षोघ्नहोमं च बलिं वास्तोस्समाचरेत् ॥

जपपारायणं कुर्याच्चतुरस्त्रं तथैव च ।
गणेशक्षेत्रपालं च मृत्युञ्जय नवग्रहम् ॥

आचार्य यजमानाद्यैरुपवासं च जागरम् ।
पञ्चगव्यं च पीत्वा तु जितेन्द्रियदृढव्रतः ॥

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।
ततो मण्टपमासाद्य गणेशं पूजयेद्गुरुः ॥

होमयेन्मूलमन्त्रेण अष्टोत्तरसहस्रकम् ।
मृत्युञ्जयं दिशाहोमं गृहहोमं समाचरेत् ॥

चतुर्दिक्षु क्रमेणैव समिदाज्यचरून् क्रमात् ।
तिलं च सर्षपं मन्त्री होमयेदृत्विजैस्सह ॥

ईशान्ये पूर्वभागे च कलशान् स्थापयेत् गुरुः ।
यावद्वर्षमितं मुग्धे शिवकुम्भं च वर्धिनीम् ॥

तावत्सङ्ख्यान् सुसम्पूज्य होमान्ते सेचयेच्चमाम् ।
अष्टगन्धैस्समालिप्य वस्त्राभरणपुष्पकैः ॥

नैवेद्यं दीपजालैश्च तोषयेच्च सुरेश्वरि ।
प्रार्थयेद्यजमानस्तु स्वर्णपुष्पकरस्थितः ॥

देवदेव जगन्नाथ संसाराब्धि भयापह ।
तुलामारोढुमिच्छामि त्वत्प्रीत्यर्थं त्वदाज्ञया ॥

इति पुष्पाञ्जलिं दत्वा तुलामण्टपमाविशेत् ।
सम्पूज्य च तुलां मन्त्री ब्रह्माविष्णुशिवादिकान् ॥

विष्णुमायां जगद्धात्रीं प्रतिमां स्वर्णनिर्मिताम् ।
तुलाकूटे च मध्ये च स्थापयेत्पूजयेच्च माम् ॥

दक्षिणे विष्णुमभ्यर्च्य वामे ब्रह्माणमर्चयेत् ।
दिक्पालकांश्च सम्पूज्य परितश्च यथाक्रमम् ॥

तुलापात्रे च रज्वोश्च अश्विन्यौ चन्द्रभास्करौ ।
शूलपाणिं परशुपाणिं चतुर्वेदान् यथाक्रमम् ॥

मृत्युञ्जयं तुलाद्रव्ये पूजयेत्स्वस्वनामभिः ।
गन्धपुष्पैः समभ्यर्च्य नैवेद्यान्तं सुरेश्वरि ॥

प्रार्थयेद्यजमानस्तु कृताञ्जलिपुट स्थितः ।
नमस्ते जगदाधारे नमस्ते सर्वसाक्षिणे ।

मामुद्धर तुलादेवि रक्ष रक्ष नमोऽस्तुते ।
इति सम्प्रार्थयेद्भक्त्या फलस्वर्णकर स्वयम् ॥

प्रदक्षिणत्रयं कृत्वा वेदमङ्गलनिस्वनैः ।
तुलाद्रव्यं च पूर्वोक्तं स्वस्य दक्षिणतो न्यसेत् ॥

वामे तुलां समारोप्य उपविश्य गुरूत्तमः ।
किञ्चिद्द्रव्यं विशेषेण स्वस्माद्भारं सुरेश्वरि ॥

करतालैर्वेदघोषैः गोविन्देति समुच्चरेत् ।
क्षणमात्रं तत स्थित्वा मनसा चिन्तयेच्च माम् ॥

त्रिरावृत्या च सन्तोल्य तुलापात्रमधो नयेत् ।
अवरुह्यं फलं स्वर्णं गुरवे च समर्पयेत् ॥

अलङ्कारं च वस्त्रं च गोभूम्यादि विशेषतः ।
पूजयेच्च यथा भक्त्या दानानि विविधानि च ॥

ब्राह्मणेभ्यश्च दत्वा तु सवत्सां गां सुरेश्वरि ।
दक्षिणां दापयेद्भक्त्या कर्मकृद्भ्यश्च देशिकः ॥

तुलाद्रव्यं च विभजेद्देवतार्थं विभागकम् ।
भूमिदानार्थमेकं च दापयेच्च पृथक् पृथक् ॥

ब्राह्मणान् भोजयेत्पश्चात् यथाशक्त्या वरानने ।
विप्राशीर्वचनं गृह्य तदन्ते च समर्पणम् ॥

तुलाभारं मयेत्युक्तं देवतार्थं सुरेश्वरि ।
तव स्नेहेन वक्तव्यं किमन्यत् श्रोतुमिच्छसि ॥

इति श्रीवातुलोत्तरे दुर्गाभेदे शिवपार्वतिसंवादे काम्यकाण्डे तुलाभारक्रियाविवरणं नाम द्वात्रिंशत्पटलः ।

५२


स्वस्ति ॥

वन्दे विघ्नेश्वरं देवं सर्वविघ्नादिदैवतम् ।
तन्नमामि गणाध्यक्ष वन्दे वाञ्छितसिद्धये ॥

देव्युवाच -

भस्मोद्धूलितसर्वाङ्ग जटाजूट दिगम्बर ।
पषप्रदोषकालेषु विष्णुब्रह्मादिकैश्शिव ॥

सर्वदेवगणैश्शम्भो सिद्धविद्याधरैस्सह ।
किन्नरैर्यक्षगन्धर्वैर्मुनिसङ्घैस्समावृत ॥

परिवारगणैस्सार्धं सर्वलोकहिताय च ।
गुह्याद्गुह्यतमं सम्यक् रहस्यं सुरदुर्लभम् ॥

परिपृच्छामि देवेश प्रसन्नात्मन् जगत्पते ।
अष्टाविंशतिमन्त्राणि वातुलान्तानि शङ्कर ॥

त्वयेरितानि गोप्यानि तानि भेदानि सम्यक् ।
येष तन्त्रेषु मल्लिङ्गलक्षणादि कथं वद ॥

लक्षणं पञ्च सूत्राणां सकृन्मल्लिङ्गपीठयोः ।
लिङ्गाङ्गकल्पनं सम्यग्गेहबन्धनलक्षणम् ॥ ६ ॥

लिङ्गगेहादिमानानि मटपं प्राङ्कणादिकम् ।
प्राकारद्वारहर्म्यादि मूलप्रासादलक्षणम् ॥

द्वारादिबलिदेवानां वाहनस्य ध्वजस्य च ।
तेषां पृथक् पदं देव वापी कूपतटाकयोः ॥

परितः परिवाराख्यविम्बानां लक्षणं कथम् ।
तेषां च निलयानां चेदायतं चोन्नतं वद ॥

द्रव्याम्बर नागारगेहे बन्धन लक्षणम् ।
स्नान याग सभास्थान कुण्डानां चैव लक्षणम् ॥

आयुधानमथास्त्राणां लक्षणं तत्पदं वद ।
प्रासादगोपुराग्रादि कुम्भन्यासक्रमः कथम् ॥

देशिकादि द्विजातीनां पदं तद्गेहबन्धनम् ।
नृपादीनां च सर्वेषामालयानां च लक्षणम् ॥

गोशालादि गजाश्वानां कथमापणिकादिनाम् ।
चाराणां सेवकादीनां वाद्यकानां गृहादिकम् ॥

कथं रतिस्थलं देव वैश्यानां निलयं वद ।
स्वर्णकारादिजातीनां कांस्यताम्रकृतां पदम् ॥

रजकाद्यम्बरकृता चक्रिणां ध्वजिनां गृहान् ।
शिल्पिनामम्बराणां च पदं सन्धिकृतां वद ॥

पुष्पोद्यानस्थलं कुत्र सूत्रसोपानलक्षणम् ।
पुष्पन्यासस्थलं देव तुलस्या वाल लक्षणम् ॥

शिबिकादिरथाङ्गानां निलयं लक्षणादिकम् ।
आतिथेयान्न संस्थानं दीपस्तम्भस्य लक्षणम् ॥

दीपजालादिमालानां रथवीथ्यादि लक्षणम् ।
सोपानस्योपवीथीनां लक्षणं च कथं वद ॥

पूजकास्पर्शकाश्चैव लिङ्गस्या स्पर्शकां पद ।
आचार्यलक्षणं किं वा नित्यकर्मक्रमः कथम् ॥

नैमित्तिकार्चनं कर्म पवित्रारोपणं कथम् ।
नित्यनैमित्तिके काम्ये स्नानकर्मक्रमः कथम् ॥

तवोत्पत्तिः कथं भेदं नवदुर्गाविधिः कथम् ।
तुलाभारक्रियां देव कृतिकादीपलक्षणम् ॥

वत्सरोद्युत्सवं कालं रथारोहक्रमं वद ।
दमनारोपणं देव वसन्तोत्सवलक्षणम् ॥

बन्धोत्सवक्रियाजालं बन्धनत्पेषणं वदा ।
तद्द्रव्यं साम्प्रदायं च बन्धे जीर्णे कथं वद ॥

जयघण्टा महाघण्टा क्षुद्रघण्टादिनां हर ।
करकापात्रजालादि करणानां च लक्षणम् ॥

भेरीपटहशङ्खादि वाद्यानां मौरिणां तथा ।
वीणामृदङ्गतालादि तित्तिवीणादिनादकम् ॥

नित्यादि कर्मलोपानां प्रायश्चित्तविधिः कथम् ।
लिङ्गे बिम्बे तदङ्गेचेद्भिन्ने नष्टे हृते कथम् ॥

मूलप्रासादशिखरे मण्टपे गोपुरादिके ।
तदग्रकलशे देव प्राकारे प्राङ्कणादिके ॥

दीपस्तम्भे ध्वजे द्वारे परिवारे च वाहने ।
बलिपीठ गणे यत्र पात्रजालादिकेऽथवा ॥

देशिकादिजनस्तोमे चारके सेवकादिके ।
वाद्यजाले वादके चेत्पतिते च मृते कथम् ॥

हलिते खण्डिते भिन्ने पलिते दहने यथा ।
कदाचिदद्भुतोत्पाते परराजभये कथम् ॥

यस्मिन् तन्त्रे च यद्गुह्यं मन्त्रमुद्रादिलक्षणम् ।
देवताविवृतिं सर्व कर्मणां नैत्रिकादिनाम् ॥

एतत्तन्त्रे च तत्सर्वं विस्तरा प्राणवल्लभा ।
प्रीत्या मुदा महादेव मम सान्निध्य हेतवे ॥

ससाम्प्रदाय युक्तात्मन् ब्रूहि मे भोगदायक ।

इति श्रीपरमरहस्ये वातुलोत्तरे शिवं प्रति पार्वतीसंवादे प्रश्ने निरूपण पटलः प्रथमः ॥

५३

अथातः सम्प्रवक्ष्यामि तव लिङ्गादिलक्षणम् ।
कलाभेदं चोद्भवं च सकृत्त्वल्लिङ्गपीठयोः ॥

लक्षणं पञ्चसूत्रं च गेहबन्धनलक्षणम् ।
तदङ्गे कल्पनं देवि क्रमेण शृणु पार्वति ॥

लयं गच्छन्ति भूतानि संहारे त्वखिलं यतः ।
सृष्टिकाले यथा सृष्टिस्तस्माल्लिङ्गमुदाहृतम् ॥

द्विविधं लिङ्गमाख्यातं निष्कलं सकलं प्रिये ।
निष्कलं मम रूपं च सकलं तव रूपकम् ॥

उभयोस्सम्पुटं यत्र लिङ्गाकारसमुद्भवम् ।
परात्परतरं ह्यस्मात् शिवशक्तेस्समुद्भवम् ॥

निष्कलं हि कलाहीनं सकलं तु कलान्वितम् ।
सकलं निष्कलोपेतं लिङ्गाकारं महेश्वरि ॥

मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् ।
योगिनां रक्षणार्थाय शास्त्राणामुद्भवाय च ॥

प्राणिनामुपकाराय देवतानां हिताय च ।
राक्षसानां वधार्थाय तस्माल्लिङ्गसमुद्भवम् ॥

स्वयम्भुवं साम्बलिङ्गं दुर्लभं च वरानने ।
स्वर्णरेखा च मद्भेदं तव भेदं च चिह्नितम् ॥

तव भागे चाधिके च सर्वलिङ्गोत्तमोत्तमम् ।
सर्वाभीष्टप्रदं लिङ्गं तव लोके प्रशस्यते ॥

राजतं यत्र दृश्यन्ते चिह्नं विष्णोश्च शक्तयः ।
प्रवालं यत्र दृश्यन्ते ब्रह्मशक्त्या सरस्वती ॥

ऊर्ध्वरेखा भवेच्छक्तिः तिर्यग्रेखा शिव स्मृतः ।
इति चिह्नानि वर्तन्ते दुर्लभं शृणु पार्वति ॥

त्र्यङ्गुलोर्ध्वे यदा लिङ्गं दृश्यते च महेश्वरि ।
पञ्चाङ्गुलं नवान्तं च भुक्तिमुक्तिप्रदं नृणाम् ॥

फक्वजम्बूफलाकारं नालिकेराकृतिं शिवे ।
वर्तुलं पङ्कजाकारं त्वल्लिङ्गं पुत्रपौत्रदम् ॥

नदीतीरे सङ्गमे च उद्याने पर्वते तटे ।
एषु स्थाने समुद्भूते नवलिङ्गे महेश्वरि ॥

सर्वाभीष्टप्रदं लोके राज्ञो राज्याभिवृद्धिदम् ।
लिङ्गलक्षणमाख्यातं पीठलक्षणमुच्यते ॥

लिङ्गस्य विस्तरं पीठम् उन्नतं वा महेश्वरि ।
तत्समं चतुरश्रं स्यात्तन्नालं च तदर्धकम् ॥

उन्नतं च तदर्धं स्यात् एकदित्रि च पट्टिकाम् ।
वाणीं लक्ष्मीं महाकालीं ब्रह्माविष्णुं च रुद्रकान् ॥

तव पीठं च शक्तिश्च आश्रितं च उभौ स्थितः ।
लिङ्गमूलेन संस्थाप्य सर्वलक्षण लक्षितम् ॥

ऊर्ध्वभागं च त्यक्त्वादौ लिङ्गं संयोज्य पीठके ।
पूर्वास्यं च स्थितं लिङ्गं प्रणालं चोत्तरे न्यसेत् ॥

प्रत्यङ्मुखस्य लिङ्गस्य प्रणालं दक्षिणे न्यसेत् ।
उदङ्मुखस्य लिङ्गस्य पश्चिमाभिमुखे न्यसेत् ॥

दक्षिणाभिमुखे लिङ्गे पूर्वस्याभिमुखे न्यसेत् ।
पीठाधिके भवेन्मृत्युः हीने लिङ्गे महेश्वरि ॥

पञ्चसूत्रविहीनश्चेत् कुलक्षयकरं नृणाम् ।
पीठस्य लक्षणं प्रोक्तं गेहबद्धं ततः शृणु ॥

प्रीतस्य त्रिगुणं गर्भं तदर्धं चान्तरं प्रिये ।
द्वारद्वयसमायुक्तं लक्ष्मीमण्टपबाह्यतः ॥

गर्भस्य द्विगुणं कुर्यात् तद्द्वारं च प्रकल्पयेत् ।
मण्टपस्य त्रिगुणितं प्राकारं परित प्रिये ॥

वाहनं मण्टपं कुर्यात् तदर्धां च पार्वति ।
प्राकारं च त्रिगुणितं बहिः प्राकारकल्पनम् ॥

मण्टपस्याधिकं द्वारं बहिद्वारं तु पार्वति ।
प्रथमे लिङ्गभित्तिस्याद्द्वितीये द्वारभित्तिका ॥

तृतीये गोपुरे देवि चतुर्थे पीठभित्तिका ।
बहि प्राकारभित्ति स्यात् पञ्चमावरणं प्रिये ॥

गर्भगृहे चतुस्तम्भं तद्बाह्ये चाष्टभिः प्रिये ।
मण्टपे द्वादशस्तम्भं प्राकारादिषु सर्वतः ॥

अष्टोत्तरशतस्तम्भं द्विशतं त्रिशतं प्रिये ।
मूतियुक् पट्टिकादीनि अन्तरं च तदन्तरम् ॥

गेहार्धं शिखरं कुर्यात् तदर्धं कलशे न्यसेत् ।
स्वर्णरौप्यादिताम्राद्यैः कुम्भं कृत्वा च शिल्पिना ॥

एक त्रिपञ्च कुम्भं स्यात् सप्तकुम्भं न्यसेत् प्रिये ।
प्रासादादिषु सर्वत्र तत्कुम्भं स्थापयेद्गुरुः ॥

शिल्पिशास्त्रोक्तमार्गेण गेहं कृत्वा विधानतः ।
यदि हीने कृतं गेहे लक्षणं पूर्वमुक्तवत् ॥

पूजा नार्हति तल्लिङ्गं पिशाच ब्रह्मराक्षसैः ।
स भवेच्च महामारी तद्ग्रामे पीड्यते सदा ॥

तस्मात् सर्वप्रयत्नेन लक्षणं वीक्ष्य मुक्तवत् ।
उपदेशद्गुरोश्शिल्पी कुर्वीत तव चालयम् ॥

शिलाया निर्मितं गेहं कुलकोटि समुद्धरेत् ।
अन्ते मम पुरं प्राप्य इहैव सुखमश्नुते ॥

चेष्टके दारुजं वापि पुत्रपौत्रादि सम्पदः ।
सर्वभोगांश्च लभते सर्वत्र विजयो भवेत् ॥

देहान्ते मम लोकं तु आप्नोत्येव न संशयः ।
लक्षणं चालयस्योक्तं तदाङ्गानि निगद्यते ॥

कुम्भं पीठं च वास्तुं च वाहनध्वजसंयुतम् ।
एतत्पञ्चाङ्गमित्युक्तं तत्र दोषो मयोच्यते ॥

कुम्भनाशे कीर्तिनाशं पीठनाशे धनक्षयम् ।
वास्तुवाहननाशे तु ध्वजनाशे भवेद्यदि ॥

नित्यादि सर्वकर्माणि पूजा नार्हन्ति च तदालये ।
धर्मार्थं काममोक्षाणां न प्रशस्तं च पार्वति ॥

देवतां सन्निधानार्थमसुराणां च नाशनम् ।
तस्मात् पञ्चाङ्गयुक्तं च आलयं परिकल्पयेत् ॥

आलयं चाङ्गमित्युक्तं द्वारपालादिकान् शृणु ।

इति श्रीवातुलोत्तरे नित्यकाण्डे लिङ्गलक्षणादि गेहबन्धनलक्षणविधिर्नाम द्वितीयः पटलः ।

५४

अतः परं प्रवक्ष्यामि द्वारपालादि लक्षणम् ।
वाहनं ध्वजपीठं स्यात् परिवारालयं शृणु ॥

शिलादिताम्रकं वापि कांस्यं वा पित्तलं प्रिये ।
राजतं स्वर्णजं श्रेष्ठं तव लिङ्गे विशेषतः ॥

लिङ्गस्य पञ्चगुणितम् उच्छ्रितं च महेश्वरि ।
त्रिपञ्चहस्तमानं वा तव बिम्बाकृतिं गुरुः ॥

हस्ते दण्डं च धृत्वाथ शङ्खचक्रादिधारिणः ।
अन्तर्द्वारे गोपुरे च द्वारस्योभयपार्श्वतः ॥

चण्डिकामम्बिकान्नाम द्वारपाले महेश्वरि ।
श्लादिनी मोहिनी नाम गोपुरोभय पार्श्वतः ॥

कात्यायिनी जयन्ती च लक्षणेन समन्विते ।
सुदृढं स्थापयेद्देवि यथा विध्युक्त मार्गतः ॥

तव लिङ्गे द्वारपाले लक्षणं कथितं प्रिये ।
वाहनं च प्रवक्ष्यामि शिलादि द्रव्य भेदतः ॥

लि"गस्योर्ध्वं च कुर्वीत विस्तारं सार्धहस्तकम् ।
लिङ्गस्य त्रिगुणं वाथ पञ्चस्यो लक्षणोक्तवत् ॥

स्थापयेद्विधिना मन्त्री पीठमण्टपयोर्ध्वजे ।
इति भेदस्थले देवि वाहनस्य तु लक्षणम् ॥

ध्वजस्य लक्षणं वक्ष्ये तव लिङ्गे महेश्वरि ।
शिलादण्डं चन्दनं च देवदारुं च गन्धजम् ॥

पद्मसारं गर्भसारं दृष्ट्वा दण्डं परिग्रहेत् ।
शिखरस्थ घटाग्रस्य मिदं दण्डायतं प्रिये ॥

पञ्चहस्ताधिकं कृत्वा खात्वा स्तम्भं च भूतले ।
चतुरश्रं दण्डमूले एकद्वित्रिं च पट्टिकाम् ॥

तदूर्ध्वे चाष्टधाराश्च तस्योर्ध्वे वर्तुलाकृतिः ।
मस्तके वाहनं न्यस्य ध्वजवेदिं प्रकल्पयेत् ॥

शिलाचेष्टकया बद्ध्वा सार्धहस्तप्रमाणतः ।
पञ्चत्रयान्तरं कुर्यात् स्थापयेद्विधिना गुरुः ॥

शिलादण्डं स्थापनं च वंशवृद्धिकर प्रिये ।
दारुजं सर्वसम्पत्तिः ताम्राद्यैः कवचे कृते ॥

सर्वशत्रुजयं नॄणां स्वर्णं राज्यप्रदं शिवे ।
ध्वजलक्षणमित्युक्तं बलिपीठं ततः शृणु ॥

शिलादि निर्मितं पीठं त्रिपञ्चाङ्गुलविस्तृतम् ।
तस्योर्ध्वं च प्रकुर्वीत चतुरश्रं च वृत्तकम् ॥

तत्तन्मूर्त्यङ्कितं पीठं पद्मं वाथ महेश्वरि ।
चण्डिकाद्या देवताश्च कल्पये स्थापयेद्गुरुः ॥

देवतांश्च ततो वक्ष्ये शृणु देवि यथाक्रमम् ।
चण्डिकामम्बिकां सिंहं द्वारस्योभय चाग्रतः ॥

दक्षिणे गणनाथं च शङ्करं च महेश्वरि ।
स्वस्वदिक्षु च दिक्पालान् ब्रह्माणं शाङ्करे दिशि ॥

अनन्तं नैर्-ऋते स्थाने प्रथमावरणे शिवे ।
द्वितीये सप्तमातृश्च पीठलक्षणमुच्यते ॥

हस्तमात्रं च विस्तारम् ऊर्ध्वं सप्ताङ्गुलं प्रिये ।
वीरभद्रं गणेशं च तत्पीठे द्वारदेशतः ॥

पङ्क्तिरूपं च तत्पीठे कमलाकृतिसप्तकम् ।
तद्बहिश्च चतुर्दिक्षु ऊर्ध्वाधश्च स्थले शिवे ॥

मातृभ्यो लोकमातृभ्यः सर्वमातृगणेष्वपि ।
सर्वमातृगणाध्यक्षो लक्ष्मी भूचरि खेचरी ॥

यमदेशे च सम्प्राप्य शास्तारं च समीपतः ।
वायोश्च पुरतो दुर्गा दुर्गासामीप्यतो गुहम् ॥

धनदं सोमसामीप्ये स्थापयेच्च महेश्वरि ।
सोमेशानन्तरे मध्ये मुण्डिनीं स्थापयेद्गुरुः ॥

लिङ्गपीठाकृतिं कुर्यात् सप्ताङ्गुलसुविस्तरम् ।
सप्ताङ्गुलं तदूर्ध्वे तु पञ्चसूत्रं सलक्षणम् ॥

गोपुरद्वारपार्श्वे तु बहिरन्तश्च स्थापयेत् ।
गोपुराग्रे महाकालीं करालीं वह्निगोचरे ॥

यमदेशे च विरजां दैत्यदेशे च मन्दराम् ।
विन्ध्याख्यां चैव वारुण्यां सुप्रभां वायुगोचरे ॥

सौम्यस्थाने सिंहवक्त्रां शाङ्करे दैत्यमर्दिनीम् ।
प्रागादि स्थापयेत्पीठं क्षेत्रपालं च शाङ्करे ॥

विस्तारं हस्तमात्रं च चतुरश्रं सुपङ्कजम् ।
त्रिपीठं च समायुक्तं तदूर्ध्वं हस्तमात्रकम् ॥

क्षेत्रपालं च संस्थाप्य महापीठं ततः शृणु ।
सार्धहस्तमितं कुर्यात् चतुरश्रं सविस्तरम् ॥

तदूर्ध्वं च समं लिङ्गम् अष्टपत्रं च मूर्धनि ।
त्रिपीठं च समायुक्तं पट्टिकां कारयेत् प्रिये ॥

अधः पीठे चाष्टदिक्षु कमलाकृतिमुक्तवत् ।
लिङ्गग्रे ध्वजसामीप्ये गोपुरद्वार बाह्यतः ॥

स्थापयेच्च महापीठं देवताः परिकल्पयेत् ।
ब्रह्मघोषीं सुघोषीं च यथेष्टं सुखरागिणीम् ॥

सुमुखीं सुभुजां चैव प्रमोदिह्यात्मनीं पुनः ।
प्रागादि परितः पीठे कल्पयेच्च महेश्वरि ॥

पिङ्गलाख्यां त्वधः पूज्य सुकेशीमूर्ध्वतः प्रिये ।
एवं संस्थाप्य तत्पीठे तव गेहे गुरुः शिवे ॥

पीठस्य लक्षणं प्रोक्तं परिवारालयं शृणु ।
बहिः प्राकारपरितः ईशानादि यथाक्रमम् ॥

गर्भगृहं मण्टपं च पञ्च सप्तकरं प्रिये ।
चतुरश्रायतं कुर्याद्धस्तमात्रं तदुच्छ्रयम् ॥

भित्यन्तरद्वयं कुर्यात्तत्र द्वारं प्रकल्पयेत् ।
चतुस्तम्भं चान्तराले तद्बहिश्चाष्टभिः प्रिये ॥

कूटाकारं च कुर्वीत शिल्पिशास्त्रोक्तमार्गतः ।
तदग्रे कलशं न्यस्य कुम्भमेकं च स्वर्णजम् ॥

स्थापयेत्परिवारांश्च वीरेशादि यथाक्रमम् ।
षण्मुखं च गणेशं च गोपालं मारुतात्मजम् ॥

तत्तन्मूर्तिं प्रकुर्वीत शिलादिद्रव्यभेदतः ।
एकहस्तं त्रिहस्तं वा पञ्चहस्त नव प्रिये ॥

लक्षणेन समायुक्तं तत्तदायुधभूषणम् ।
तत्तद्वाहनसंयुक्तं शिल्पिशास्त्रे यथोक्तवत् ॥

स्थापयेद्विधिना मन्त्री यथापूर्वोक्तमार्गतः ।
परिवारालयं श्रेष्ठमन्यैश्च बहुभिः शिवे ॥

कारयेद्बहुधा भक्त्या तत्तन्मूर्तिं तदालयम् ।
स्थापयेद्विधिना मन्त्री बहिः प्राकारदेशके ॥

परिवारालयं प्रोक्तं कूपस्थानं शृणु प्रिये ।
तवालये चैशभागे प्राकारे च महेश्वरि ॥

भूमिं खात्वा जलान्तं वा चतुरश्रं च वृत्तकम् ।
विस्तारं च त्रिपञ्चा वा बध्वा चेष्टशिलादिभिः ॥

पुरुषान्तं जलं चान्तः द्वित्रिपूर्षमितं प्रिये ।
मत्स्यः कूर्मं पङ्कजं च स्वर्णं वा राजतं प्रिये ॥

निक्षिपेज्जलमध्ये तु छादयेत्फलकं प्रिये ।
दर्शनं च न कुर्वीत शोधयेद्वर्षवर्षके ॥

कूपलक्षणमित्युक्तं तटाकालक्षणं शृणु ।
तवालयाग्रतः कुर्यात् पश्चिमे वाथ चोत्तरे ॥

अशीतिहस्तं खात्वाथ चतुरश्र समन्ततः ।
सोपानं च चतुर्दिक्षु शिलाभिश्चेष्टकैः प्रिये ॥

बध्वा च पट्टिकां शिल्पी त्रिपञ्चनवकं पृथक् ।
जलान्तं च दृढं वध्वा जलं च पुरुषावधि ॥

पञ्चत्रीणिमितं खात्वा जलस्थानं प्रकल्पयेत् ।
मत्स्यं कूर्मं पङ्कजं च कारयेल्लक्षणान्वितम् ॥

विन्यसेच्च ततो मन्त्री मध्ये मण्टपलक्षणम् ।
कारयेत्तव लिङ्गाग्रे तटाकं च मनोहरम् ॥

यः कुर्याद्देवदेवेशि नृपो वा भूसुरोत्तमः ।
वैश्यः शूद्रोऽथवा देवि सर्वान् कामानवाप्नुयात् ॥

अन्ये च मम सामीप्यं सत्य सत्यं वरानने ।

इति श्रीवातुलोत्तरे नित्यकाण्डे द्वारपालादि तटाकलक्षणविधिर्नाम तृतीयः पटलः ।

५५

अथातः सम्प्रवक्ष्यामि द्रव्यागारादिलक्षणम् ।
धनागाराम्बरगृहं स्नानयागगृहं पृथक् ॥

नमस्ते देवदेवेश सर्वदेवनमस्कृत ।
लिङ्गसम्पूजकाक्के च रथाद्युत्सवकर्मणि ॥

आचार्यत्वे च क श्रेष्ठः के जनास्पर्शका वद ।
तथैवा स्पर्शका देव गर्भागारादि भेदतः ॥

तत्र दोषं फलं शान्तिं श्रोतुमिच्छाम्यहं गुरो ।

शिवः -

शृणु वक्ष्याम्यहं देवि सर्वं लोकहिताय च ॥

राज्यकोशाभिवृद्ध्यर्थं रहस्य सुरदुर्लभम् ।
चतुरङ्गबलार्थाय सुभिक्षार्थं मनोहरे ॥

दीक्षावान् सकुलीनश्च वेदशास्त्रागमान्वितः ।
वंशवान् तत्त्ववेदी च स द्विजो लिङ्गपूजकः ॥

कुटुम्बी सत्यवादी च लिङ्गार्चनरतः शुचिः ।
लिङ्गसान्निध्यवेत्ता च मितभाषी जितेन्द्रियः ॥

याज्ञिकश्चास्तिको धर्मी कृतसंस्कारपूर्वकः ।
वर्णाश्रमाचारपरः तव लिङ्गार्चनार्हकः ॥

मदमात्सर्यरहितः कृतदीक्षोधिदीक्षितः ।
दयावान् दानशूरश्च सदा सन्तुष्टवान् क्षमी ॥

जनानुसारमतिमान् साम्बलिङ्गार्चने वरः ।
स्थिरलिङ्गादिलिङ्गानां पूजका स्पर्शका इमे ॥

आचार्यलक्षणं वक्ष्ये शृणु देवि वरानने ।
आर्यावर्तोद्भव श्रीमान् सर्वलक्षणलक्षितः ॥

यत्र विप्रास्सदाचाराः यतयश्च तपोधनाः ।
सन्ति वेदास्तथा यज्ञाः आर्यावर्त इति स्मृतः ॥

वयष्षोडशकादूर्ध्वमधस्सप्ततिरुच्यते ।
क्रियादिज्ञानपर्यन्तमेकतन्त्रे सुनिश्चितम् ॥

अध्यापनं च कर्तव्यमष्टाविंशति संहिताः ।
उक्तानि प्रतिसिद्धानि पुनः सम्भावितानि च ॥

सापेक्ष निरपेक्षाणि मम वाक्याह्यनेकधा ।
प्रतिष्ठाद्युत्सवन्नृत्त कर्म कुर्याद्विचक्षणः ॥

देवाग्निपूजको नित्यं गुरुभक्तिपरायणः ।
साम्प्रदाय विशुद्धात्मा दीक्षां दद्याच्च शिष्यके ॥

देवताव्याप्तितत्वज्ञः षड्विधाध्व विशारदः ।
आस्तिकः कर्म कुर्वीत आचार्यः श्रेष्ठ उच्यते ॥

अन्यथा तु कृतं यत्तु आभिचारस्तथैव च ।
तत्फलं देवदेवेशि कर्तुर्वंशस्य नाशनम् ॥

देवी -

आचार्य वंश देवेश भवेद्बहुजने यदि ।
तत्कर्मकेन कर्तव्यं वदशम्भो मयि प्रिय ॥

शिवः -

शृणु देवि वरारोहे तव स्नेहान्मयाधुना ।
प्रवक्ष्यामि समासेन शिवदं वृद्धिदं प्रिये ॥

वयोवृद्धेन तद्वंशे तान्त्रिकं तु समाचरेत् ।
तदन्येन कृतं चेत्तु शत्रभिर्भयमादिशेत् ॥

रोगबाधा भवेत्सद्यो तद्राष्ट्रे तु विशेषतः ।
तस्माद्यत्नेन गिरिजे वयोहीनो न कारयेत् ॥

तद्वृद्धेनैव कुर्वीत कीर्ति श्रीराज्यसिद्धये ।
राजवंशे तथा देवि प्रभुवंशे तथैव च ॥

गृहिणा यज्विना वंशे तत्तदार्येण कारयेत् ।
अन्यथा दोषमाप्नोति तस्माद्यत्नेन वर्जयेत् ॥

इति सम्यक् समाख्यातं प्रश्नोत्तरमहं प्रिये ।

देवि -

यद्यकस्माद्वय श्रेष्ठो पूजाञ्चोत्सवकर्मणि ॥

न कृते चेत्तदादेक कथं कर्मकृतं वद ।
देशिकेन्द्रेण न कृते यद्यकस्मान्महेश्वर ॥

उत्सवादीनि कर्माणि कर्तव्यं केन च प्रभो ।

शिवः -

उत्सवादीनि कर्माणि न कृते च गुरुः प्रिये ॥

देशिकेन्द्रस्य सहजः कनिष्ठो वा महेश्वरि ।
तत्पुत्रो वाथ पौत्रो वा बान्धवो वा तदाज्ञया ॥

सदीक्षितास्तदादेशाः आगमार्थ विशारदाः ।
सगोत्रजांश्च कुर्वीत नोक्तदोषः कथञ्चन ॥

आर्यकेनार्चिते मूढैः गायत्र्याक्षर समन्वितम् ।
यावद्वर्षसहस्राणि तवन्निरयमश्नुते ॥

तत्कर्म निष्फलं देवि न सान्निध्यं न संशयः ।

देवी -

इदानीं श्रोतुमिच्छामि आचार्यस्य जटाधर ॥

ब्रह्महत्यादि पापे च यदि प्राप्ते कथं वद ।

शिवः -

शृणु देवि प्रवक्ष्यामि आचार्यस्य द्विजस्य च ॥

ब्रह्महत्यादि पापं वा उपपातकमेव वा ।
ज्ञानादज्ञानतो वापि यदि प्राप्ते वरानने ॥

तत्र कर्म न कुर्वीत आचार्यः सर्वकर्मसु ।
प्रायश्चित्तं कदा नास्ति ब्रह्महत्यादि सम्भवे ॥

यद्यकस्मात्परोक्षेत पातके चोपपातके ।
प्रायश्चित्तेन शुद्धिः स्यात् यथा दोषबलाबलात् ॥

तत्पापं च निवृत्याथ नृपस्यानुज्ञया शिवे ।
ततः कर्मार्हको देवि तत्र कर्म समाचरेत् ॥

प्रायश्चित्ताद्विना तन्त्र कर्म कुर्यान्न बुद्धिमान् ।
न स्पृशेल्लिङ्गबिम्बे वा नार्चयेच्च महेश्वरि ॥

यदि बिम्बं स्पृशेल्लिङ्गं पूजां चोत्सवमाचरेत् ।
न सान्निध्यं भवेल्लिङ्गे लक्ष्मीर्ग्रामाद्बहिर्गता ॥

चतुरङ्गबलं हन्ति तद्राजा मृत्युमाप्नुयात् ।
शत्रुभिः पीड्यते देवि ज्वरापस्मारकादिभिः ॥

तस्माद् ज्ञात्वा गुरुः सम्यक् प्रायश्चित्तं समाचरेत् ।
आचार्यलक्षणं प्रोक्तम् अस्पृश्यान् शृणु पार्वति ॥

लिङ्गस्या स्पर्शकान् देवि कृतदोषजनानपि ।
अदीक्षितोर्चिते लिङ्गे त्वसान्निध्यं भवेद्ध्रुवम् ॥

अदीक्षितश्चतुर्वेदी न स्पृशेच्चापि मार्चयेत् ।
बुभुक्षुर्वा मुमुक्षुर्वा समयी साधकोऽपि वा ॥

आचार्यो दीक्षितो देवं पूजयेत्स्वर्थसिद्धये ।
यथा मृगपतिं दृष्ट्वा भीतो याति वने गजः ॥

अदीक्षितेऽर्चिते लिङ्गे तथा भीतो महेश्वरि ।
श्रद्धाहीनोऽति कृपणो बहुभाषितदीक्षितः ॥

कृतघ्नो वेदहीनश्च दुराचारी च दुर्जनः ।
लिङ्गमस्पर्शकाश्चैते सत्यहीनादयो द्विजाः ॥

तव लिङ्गादिकं लिङ्गं स्थिराख्यं सम्पदात्मकम् ।
तस्माद् ज्ञात्वा द्विजा ह्येते न स्पृशेयुः कदाचन ॥

प्रमादा स्पर्शयेयुस्ते त्वसान्निध्यं भवेद्ध्रुवम् ।
तस्मादित्थं मुहुर्ज्ञात्वा शान्तिकर्म समाचरेत् ॥

गेहप्रवेशकान् वक्ष्ये मुखनास्यादि भेदतः ।
श्रोत्रियास्सुखनास्यन्तं गन्तुं योग्यं वरानने ॥

रमामण्टपमध्यन्तं द्विजास्सर्वेऽपि वन्दिताः ।
प्रमादादग्रगतिषु मूलं प्राणमनुं जपेत् ॥

पृथक् सहस्रसञ्जप्य शतकुम्भैश्च सेचयेत् ।
द्विजेतरा खा(पा)लिकान्तं क्षत्रिया वाहनान्तकाः ॥

वैश्याः शूद्राः प्राङ्कणान्तं तदग्रगमनादिषु ।
महाशान्तिं प्रकर्तव्यं नान्दी गव्यादि मान्त्रिकः ॥

पुण्याहं वाच्य वरयेद्देशिकं च हिरण्यदम् ।
चत्वारो होतृकान्वेदपारगांश्च तथा गुरुः ॥

जापकं दशविप्रांश्च सेचकान् रुद्रसङ्ख्यकान् ।
वरयेन्मूलमन्त्रेण लिङ्गपञ्चामृतादिकैः ॥

रुद्रमन्त्रैश्च सूक्ताद्यैस्सलिलैर्गन्धसंयुतैः ।
होमयेत्तव मूलेन तवास्त्रेण कलाधरे ॥

मनुना शान्तिदुर्गाया घोरदुर्गादिमन्त्रकैः ।
समिदाज्यं चरुं क्षौद्रं तुटिकं सर्षपं तिलम् ॥

गोक्षीरं चैव दूर्वाग्रमयुतार्धाहुति क्रमात् ।
जपपारायणैस्सार्धं होमयेन्ननुवित्तमः ॥

तवमूलं तवास्त्रं च पञ्चदुर्गामनून् क्रमात् ।
गणेशं योगिनीमन्त्रान् चण्डीन् सप्तशतीन् गुरुः ॥

अयुतार्धं सहस्रं च पृथक् मन्त्रं जपेत्तदा ।
पुनः पूर्णाहुतिं कुर्यात्सम्पातं च समर्पयेत् ॥

सहस्रार्धघटैस्सिञ्चेत् तस्यार्धैश्च तदर्धकैः ।
बहुधा पूजयेद्देवीं शाल्याद्यन्नं निवेदयेत् ॥

दीपजालं परिभ्राम्य दानं दशविधं पुनः ।
दत्वा विप्रगणान् भोज्य क्रियाजालं समर्पयेत् ॥

दक्षिणां दापयेदन्ते प्रवेशाघहराय च ।
शान्तिं विनाशदुर्भिक्षं सन्निधानं विनश्यति ॥

तस्माच्छान्तिं प्रकर्तव्या गुरुः प्रागुक्तमार्गतः ।
रजको नापितश्चैव कर्मकारी ध्वजी प्रिया ॥

चित्रतारः कुलालश्च पुनरम्बरसन्धिकृत् ।
कैवर्तकः स्वर्णकारी ध्वजान्तं प्रविशेत्सदा ॥

दोषभागग्रगमने राष्ट्रनाशो बलक्षयः ।
राजा च निधनं यायारनावृष्टिर्भविष्यति ॥

मूलेन घोरदुर्गाया मन्त्रेण च गुरूत्तमः ।
शान्तिं प्रागुक्तवत्कुर्यात् सहस्रार्धघटैः शिवाम् ॥

विप्रमुख्यांश्च सम्भोज्यां महाभूतबलिं हरेत् ।
मृतजातादिकोत्पन्नसूतकाविष्टमानुषे ॥

बलिद्वारादिलिङ्गाङ्गं प्रविष्टे चेत्कथं वद ।
प्राकारे प्राङ्कणे देवि वाहनाख्ये रमा स्थले ॥

नास्यङ्गभीसभास्थाने परिवारालयादिके ।
द्रव्यम्बर धनागारमातिथेयान्नसद्मनि ॥

नैवद्यभक्षशालायां प्रासादशिखरादिके ।
ध्वजालये महापीठे गोपुरे धर्ममण्टपे ॥

तवालये च सर्वत्र रथवीथ्यां च मानिनी ।
वृद्धिक्षय मघारिष्टजने चैव प्रवेशिते ॥

पृथक् दोषं प्रवक्ष्यामि विस्तरेण नगोद्भवे ।
दुर्भिक्षं रोगबाधा स्याच्छत्रुबाधा भवेत्सदा ॥

परराजभयं राज्ञो राजसैन्यं विनश्यति ।
तद्राजा मृतिमाप्नोति बलनाशो धनक्षयः ॥

निधनं कोशनाशश्च राजदानि विनश्यति ।
धान्यनाशं च सस्यादि राज्यनाशं न संशयः ॥

कीर्तिनाशो भूतबाधा महामारी भयं नृणाम् ।
सम्पज्जालादिकं सर्वं नाशमाप्नोत्यसंशयः ॥

इत्यद्यांश्च महुर्ज्ञात्वा धनरज्याभिवृद्धये ।
सूतकाविष्टमनुजः कदाचिन्न प्रवेशयेत् ॥

सकृप * * क्ष्यामि शान्तिं विघ्नेशार्चनपूर्वकम् ।
नान्दीगव्यादि पुण्याहं वाचयेत्तदनन्तरम् ॥

गुरुं च धनदं चैव होतृकान् घोषकान् पृथक् ।
चतुरो वरयेद्देवि जापकान् नवसङ्ख्यकान् ॥

सूतकांश्च तथा विप्रान् सेचकारुद्रसङ्ख्यकान् ।
लिङ्गशुध्यन् गव्यमन्त्रैरादौ गव्येन सेचयेत् ॥

पुनः पुण्याहतोयेन लिङ्गं पञ्चामृतैः परम् ।
रुद्रमन्त्रैश्शुद्धजलैः सूक्तैश्च नवभिः शिवाम् ॥

सूक्तनामानि वक्ष्यामि श्रीसूक्तं तव सञ्ज्ञकम् ।
पञ्चदुर्गादिसूक्तांश्च सूक्तं प्रत्यङ्गिराख्यकम् ॥

रमासूक्तादिभिः स्निग्धे सूक्तनाम मयेरितम् ।
गव्यमन्त्रेण तद्गव्यं प्राणाख्येन पयो गुरुः ॥

चरुभिः समिदाज्याद्यैः गव्येन पयसा हुनेत् ।
तथा सहस्रसङ्ख्यान्तश्चाहुतिर्मनुवित्तमः ॥

सहस्रार्धाहुतिभिर्वा शतमष्टोत्तराहुतिः ।
पुनः पूर्णाहुतिं कुर्यात् सम्पाताज्यं समर्पयेत् ॥

सूतकाविष्टमत्ये चेत् यत्र यत्र गमिष्यति ।
तत्तन्मूलेन होतव्यं पृथगेवं विचक्षणः ॥

शतकुम्भे तदा सिञ्चेत् सर्षपं लवणं तिलम् ।
कूश्माण्डं माषधान्यं च भूसुरेभ्यः प्रदापयेत् ॥

बहुविप्रांश्च सम्भोज्य पूजयेन्मूल देवता ।
साधारणक्रमो ह्येवमधिपं प्रोच्यतेऽधुना ॥

गर्भे नास्यां रमास्थाने प्रतिष्ठे सूतकान्विते ।
द्विजे चैव महाशान्तिक्रिया प्रागुक्तमार्गतः ॥

प्राणमन्त्रेण मूलेन तवाङ्गमनुभिस्ततः ।
अयुतार्धश्च तस्यार्धतदर्धश्चाहुतीर्हुनेत् ॥

स्नपये घटसाहस्रैस्सहस्रार्धेस्तदर्दकैः ।
गोभूम्यादीनि दानानि दद्यात्तद्दोष शान्तये ॥

विप्रांश्चैव बहून् भोज्या शेषं कर्म पुरोक्तवत् ।
ब्रह्महा मद्यपा स्वर्णस्तेयी च गुरुतल्पगः ॥

तत्संयोगादयो विप्राः लिङ्गगेहं नगात्मजे ।
न विशेयुर्न सन्देहो प्रमादाद्देवतालयम् ॥

यदि प्रवेशयेयुस्ते प्राकारादिप्रभेदके ।
पृथक् दोषं च तच्छान्तिं शृणु देवि यथाक्रमम् ॥

ब्रह्महत्यापिते मन्त्ये प्राकारान्त प्रवेशिते ।
राज्ञो राष्ट्रस्य भङ्गत्वं दुर्भिक्ष स्यान्न संशयः ॥

तज्जनं च परित्यज्य विधिवच्छान्तिमाचरेत् ।
तत्र शान्ति प्रकुर्वीत अकृते बहुदोष भाक् ॥

मण्टपे सुख नास्ये चेत् प्रविष्टे ब्रह्मघातके ।
परराजभयं राज्ञो विराज्यत्वं न संशयः ॥

धनदारादि नाशस्यात् राजभोगस्तथैव च ।
तस्माज्ज्ञात्वेति दोषौघान् तत्क्षणात्तं परित्यजेत् ॥

शान्तिं च विधिवत् कृत्वा महाभूतबलिं हरेत् ।
ब्रह्महा गर्भगेहान्तः प्रविष्टे चेन्महेश्वरि ॥

प्रमादाल्लिङ्गसंस्पर्शे सन्निधानं विनश्यति ।
राज्ञो मृतिर्भवेत्सद्यो राजदानी तथैव च ॥

शत्रुबाधा विराज्यत्वं राजवंशक्षयो भवेत् ।
तस्यामात्यास्सैन्यपाद्याः विनश्यन्ति न संशयः ॥

महामारीभयं नॄणां प्रजानाशो भविष्यति ।
परित्यज्य तदै शू ब्रह्महादि जनान् गुरुः ॥

पुनः शान्तिं प्रकर्तव्या वक्ष्यमाणेन मार्गतः ।
तच्छान्तिं सम्प्रवक्ष्यामि सङ्क्षेपेण कलाधरे ॥

विनायकं समभ्यर्च्य नान्दीकर्म ततः परम् ॥

पुण्याहं वाचयेत्तत्र पवमानादिमन्त्रकैः ।
प्राकारवेशनी देवमष्टोत्तरशतैर्घटैः ॥

सेचयेत्तद्विधानेन न प्राङ्कणे च प्रवेशिते ।
स्नपये द्विशतैः कुम्भैः अष्टायुग्माधिकैः शिवान् ॥

मण्टपे भूसुराभ्ये च सुखशालां प्रवेशिते ।
सहस्रार्धघटैः सिञ्चैः देव देवीं च शाम्भवीम् ॥

लिङ्गगेहं प्रविष्टश्चेल्लिङ्गसंस्पर्शने यदि ।
विधिवद्घटसाहस्रैः साम्बलिङ्गं तवात्मकम् ॥

ततो होमं प्रकुर्वीत मम गायत्रिमन्त्रतः ।
मूलमन्त्रेण घोरेण प्राणमन्त्रेण देशिकः ॥

अयुतार्धार्धाहुतिभिः अयुतार्धाहुतिर्हुनेत् ।
अयुतं मण्टपेनास्यां लिङ्गगेहप्रवेशने ॥

समिदाज्यादिभिर्द्रव्यैः हुनेत् सार्धायुताहुतिः ।
गायत्रीं मूलमन्त्रं च घोरमन्त्रीं नवाक्षरीम् ॥

ब्रह्ममन्त्रं च दिक्पालान् परिवारमनूनपि ।
जपेद्धोमावसानान्तं दशदानं ततः परम् ॥

अन्नदानादिकं दद्यात्तद्दोषशमनाय च ।
भोजयेद्बहुविप्रांश्च प्राकारादि स्थले शुचा ॥

इति श्रीवातुलोत्तरे दुर्गाभेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे लिङ्गपूजकादि निरूपणं नाम अष्टादश पटलः ।

५६

महादेव नमस्तुभ्यं महीपति हिता (सुखा)य च ।
नमस्ते जगदाधार नमस्ते फाललोचन ॥

मल्लिङ्गे नैत्तिकं कर्म घटिभेदेन शङ्कर ।
तत्कर्मनिवृतिर्नाम घटिभेदेन विस्तरात् ॥

उषत्कालादि रात्रान्तं गुरुः कालादि मानिनी ।
शृणु वक्ष्ये विशेषेण सम्पद्राज्याभिवृद्धये ॥

उषःकाले कमुत्थाय स्वगुरुं चिन्तयेद्बुधः ।
नमस्ते देवदेवेश सर्वदेवनमस्कृत ॥

लिङ्गसम्पूजकाः के च रथाद्युत्सवकर्मणि ।
आचार्यत्वे च कः श्रेष्ठः के जना स्पर्शका वद ॥

तथैवास्पर्शका देव गर्भागारादि भेदतः ।
तत्र दोषं फलं शान्तिं श्रोतुमिच्छाम्यहं गुरो ॥

श्रीशङ्करः -

शृणु वक्ष्याम्यहं देवि सर्वलोकहिताय च ॥

राज्यकोशाभिवृद्ध्यर्थं रहस्य सुरदुर्लभम् ।
चतुरङ्गबलार्थाय सुभिक्षार्थं मनोहरे ॥

दीक्षावान् सत्कुलीनश्च वेदशास्त्रागमान्वितः ।
वंशवान् तत्त्ववेदी च स द्विजो लिङ्गपूजकः ॥

कुटुम्बी सत्यवादी च लिङ्गर्चनरतः शुचिः ।
लिङ्गसान्निध्यवेत्ता च मितभाषी जितेन्द्रियः ॥

कन्नडलिपि महादेव नमस्तुभ्यं महीपतिसुखाय च ॥

महाजनमुदार्थाय राज्यकोशाभिवृद्धये ।
नमस्ते जदाधारे नमस्ते फाललोचन ॥

मल्लिङ्गे नैत्तिकं कर्म घटिभेदेन शङ्कर ।
तत्कर्मविवृतिर्नाम कथं कर्ममितं शिव ॥

विप्रसङ्ख्यान्दैशिकादि पृथक् तेषां च दक्षिणाम् ।
तत्तन्मन्त्रं तत्पलं च श्रोतुमिच्छाम्यहं वद ॥

शङ्कर उवाच -

त्वल्लिङ्गे नैत्तिकं कर्म घटिभेदेन विस्तरात् ।
उषःकालादि रात्रान्तं गुरुः कालादि मानिनी ॥

शृणु वक्ष्ये विशेषेण सम्पद्राज्याभिवृद्धये ।
उषःकाले समुत्थाय स्वगुरुं चिन्तयेद्बुधः ॥

चारकादि द्विजैस्सार्धं नदीं गत्वारुणोदये ।
शौचाचारविधिं नीत्वा स्नात्वा विप्रगणैस्सह ॥

नाड्याञ्च नव पञ्चाशत् स्वनित्यानि समापयेत् ।
तवालयं समागत्य विप्रबृन्दादिकैस्सह ॥

पालिके प्रार्थयित्वार्यः कवोटोद्घाटनं क्रियात् ।
जयघण्टादि नादेन शङ्खभेर्यादि निस्स्वनैः ॥

सर्ववाद्यरवैस्सार्धं स्तोत्रं गीतं च नर्तनम् ।
वीणीवेणुरवैर्देवि वादयेत्तव बोधने ॥

सम्यक् प्रबोध्य दीपांश्च दीपमन्त्रं वदन् बुधः ।
देशिकानुज्ञया विप्राः लिङ्गं पीठं च तद्गृहम् ॥

संशोध्य क्षालयेयुस्ते सिद्धिसाधनमसूयकैः ।
सम्मार्ज्य वायुबीजेन प्रोक्षणं सौधबीजतः ॥

क्षालनं वारुणास्त्रेण तव मूलेन शैलजे ।
सुखनासिं मण्टपं च वाहनाख्यं च गोपुरम् ॥

सभामण्टपहर्म्यादि परिवारालयादिकम् ।
षष्टिनाड्यां द्विजाद्याश्च वर्णभेदेन चारकाः ॥

तत्र तत्र पृथक् कुर्युः बहिर्द्वारावधि प्रिये ।
तवाग्रे द्वारदेशे च धर्मश्रवण मण्टपे ॥

घटिस्थाने सभाख्ये च परिवार निकेतने ।
रञ्जयेद्रङ्गवाल्याद्यैः रजोभिः पञ्चभिः परम् ॥

नडिका प्रथमादौ तु घटिकापात्रमर्चयेत् ।
तन्यस्त्वा सौरमन्त्रेण वेदघोषादिभि स्वनैः ॥

नदीतोयं समानीय वर्धन्यां योज्य मूलतः ।
स्वशाखोक्त द्विजैस्सार्धं तववन्दनपूर्वकम् ॥

गुरुरन्तः प्रविश्याथ लिङ्गदक्षिण भागके ।
मण्डलानि लिखेदादौ समाराध्य विनायकम् ॥

नान्दी कर्मादि पुण्याहं मूललिङ्गगृहादितः ।
सूपधान्यादि सर्वत्र वापयेद्वरयेद्द्विजान् ॥

गुरुं पितामहं द्रव्यदायकं बिम्बवाहनम् ।
सदस्यं चतुरो वेदघोषकान् पञ्चसूक्तकान् ॥

श्रीरुद्रसेवकन् पञ्च पूजकान् जापकान् तथा ।
प्रदक्षिण कृतस्त्रींश्च नृत्यर्थं त्रीन् जनान् तदा ॥

चारार्थं दशविप्रांश्च पृथक् तन्मूलमन्त्रतः ।
पवमान घटं न्यस्य कुम्भं यष्ट्वा विधानतः ॥

काली घणं(टं) रुद्रकुम्भं यजेत्पञ्च सुधारसान् ।
गव्यकुम्भस्थ गव्येन गव्यमन्त्रमुदीरयेत् ॥

पावमानेन सूक्तेन तद्घटस्थोदकेन च ।
सिञ्चेल्लिङ्गञ्च गङ्गायाः सहस्रैर्नामभिः परम् ॥

यष्ट्वा पञ्चोपचाराद्यैः तव बीजसमन्वितैः ।
सार्धद्विनाड्या दध्यन्नं समर्प्य मनुना तव ॥

ताम्बूलं दापयेद्देव्याः सवत्सागां निरीक्षयेत् ।
पञ्चाङ्गश्रवणं पश्चात् नीराज्यं भ्रामयेत्ततः ॥

मन्त्रैः पुष्पं समभ्यर्च्य पुनः पञ्चामृतैः शिवाम् ।
तैर्मन्त्रैस्सेचयेल्लिङ्गं रुद्रमन्त्रेण तत्परम् ॥

रुद्रसङ्ख्यावृतं रुद्रं त्वदन्तः सेच्य भक्तितः ।
कालीसूक्तेन दुर्गायाः सूक्तेनार्याभिधेन च ॥

शूलिनीसूक्तमन्त्रेण सेचयित्वा पृथक् गुरुः ।
रुद्रकुम्भोदकेनान्ते कालीघटजलेन तु ॥

तवालय चतुर्दिक्षु वेदपारायणादिकम् ।
कालीमनुं च सौरं च नतिकं तर्पणं तदा ॥

दुर्गामनुं च वह्न्यस्त्रं शूलिनिमनुमुत्तमम् ।
जपेत्तवोपहारान्तं पृथक् पल्लवसंयुतम् ॥

प्रदक्षिणं नतिं चैव बलिदानावधि प्रिये ।
कालीमालामनुं पश्चाद्दुर्गामालाभिधं गुरुः ॥

आर्या भगवती मालां तव मालामनुं क्रमात् ।
जपन् सहस्रमर्धं वा शतमष्टोत्तरं तु वा ॥

त्वल्लिङ्गदक्षिणे भागे पश्चिमे वाथ चोत्तरे ।
कोणे कोणान्तराले वा मूलगेहे त्वथापि वा ॥

मण्टपे वाहनाख्ये च पृथङ्मन्त्रान् जपेत् तदा ।
कर्वीत मनुना प्रार्थ्य कालीकल्पोक्तवद्गुरुः ॥

यष्ट्वा तन्नामभिर्लिङ्गं सहस्रैः बीजसंयुतैः ।
दुर्गार्यशूलिनीनां च सहस्रैर्नामभिर्यजेत् ॥

पञ्च पुष्पाञ्जलिर्दत्वा साम्प्रदायोक्तवद्यथा ।
उपचारैष्षोडशभिः तव मूलं जपेच्छतम् ॥

मुद्गान्नं घृतसंयुक्तं सूपशाकरसान्वितम् ।
मधुशर्करया युक्तं बालचूतफलैर्युतम् ॥

पायसं भक्षपानीय लेह्यचोष्यादि संयुतम् ।
पञ्चनाड्यञ्च मूलेन धूपदीपादिकं गुरुः ॥

निवेदयेत्ततो भक्त्या द्वारमाच्छाद्य वस्त्रतः ।
होमगेहं प्रविश्याथ मूलेनाष्टोत्तरं शतम् ॥

हुत्वा सम्पातमादाय तव मूलन् वदन् बुधः ।
प्रक्षाल्य पादावाचम्य घण्टाताडनपूर्वकम् ॥

त्यजेदाच्छादनं पश्चान्निवेद्यानि विसर्जयेत् ।
प्रसन्नार्घ्यां च दत्वान्ते ताम्बूलार्पणमादितः ॥

भ्रामयेद्दीपजालांश्च नीराज्यान्तं च बुद्धिमान् ।
नीरदीपं दर्शयित्वा मन्त्रपुष्पार्चनं ततः ॥

परिवारान् समभ्यर्च्य जयघण्टारवादिकैः ।
भूतानाहूय मूलेन मालामन्त्रेण देशिकः ॥

बलिदानं च षण्णाड्यामुत्सवं च प्रचारयेत् ।
पद्मदीपं समर्च्येशि पादप्रक्षालनादितः ॥

तव बिम्बं प्रविश्यान्तः चन्द्रदीपं प्रदर्शयेत् ।
कर्मजालं समर्प्यान्ते सद्भक्त्या मन्त्रवित्तमः ॥

कर्म सम्पूर्णतावाच्यै कृच्छ्रं दद्यात्परं गुरुः ।
पञ्चोत्तरं षष्टिकर्म प्रातःकाले मयेरितम् ॥

सर्वभोगप्रदं दिव्यं सर्वाघौघविनाशनम् ।
सुभिक्षदं शोकहरं सर्वशत्रुजयप्रदम् ॥

वंशवृद्धिकरं सद्यः कामितार्थप्रदं प्रिये ।

इति श्रीवातुलोत्तरे दुर्गा भेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदेन दुर्गाः प्रातःकाल नित्यकर्म विवृतिविधाननिरूपणं नाम एकोनविंशति पटलः ।

५७

मध्याह्न नैमित्तिक कर्म प्रवक्ष्याम्यथ सुन्दरि ।
सङ्गवी सप्तनाड्यादि द्वादशान्तं मनूत्तमः ॥

शुद्धात्मा भूसुरैस्सार्धं स्वनित्यानि समाप्य च ।
देशकालौ च सङ्कीर्त्य तव पुत्रं यजेत्परम् ॥

पुण्याहं वाच्य वरयेदुक्तवद्भूसुरोत्तमान् ।
गुरुं च धनदं चैव सदस्यं सर्वतोऽधिकम् ॥

सेचकान् रुद्रसङ्ख्यांश्च वाहकं वेदवादिकम् ।
सूक्तकान् पूजकान् देवि पृथक् पञ्च द्विजोत्तमान् ॥

मन्त्रपल्लवसंयुक्तान् जापकान् पञ्चविंशतिः ।
प्रदक्षिण जनान् पञ्च नत्यर्थं पञ्च भूसुरान् ॥

धर्मशास्त्र प्रवक्तारं ज्योतिषज्ञं जनप्रिये ।
वरयेत्तव मूलेन कृच्छ्रं दद्यात्स्वशक्तितः ॥

रुद्रसङ्ख्यद्विजैस्सार्धं यष्ट्वा रुद्रघटं पुनः ।
सुधारसैरमाकुम्भं न्यस्त्वा तद्विधिनार्च्य च ॥

लिङ्गं सुधारसैस्सिञ्चेत् ते सर्वे न्यासपूर्वकाः ।
रुद्रमन्त्राम्बदन्तस्थे पृथगैकादशाहुतिः ॥

सेचयित्वा जनैर्लिङ्गं मन्त्रजालान् जपेत् क्रमात् ।
चतुर्वेदान् गेहदिक्षु विदिक्ष्वस्त्रमनून् पुनः ॥

ब्रह्मास्त्रं वारुणास्त्रं च तवास्त्रं चक्रसञ्ज्ञकम् ।
रमामन्त्रं कुमार्याख्यमम्बिका मनुसंयुतम् ॥

नवदुर्गामनुं देवि वाहनाख्यं गणेश्वरम् ।
स्कन्दं च वीरभद्रं च वायुपुत्रमनुं गुरुः ॥

पालिके परिवाराख्यं तव मूलमनुं तदा ।
चण्डीं सप्तशतीं तत्र विवार्णज्ञा द्विजोत्तमाः ॥

तव सङ्ख्याश्च ते प्रोक्ताः साम्प्रदायविदस्तदा ।
रमाकुम्भस्य पूर्वादि परितः परिवेष्टिताः ॥

जपेयुस्तं स्पृशेयुस्ते सेचनान्तं विचक्षणाः ।
नति प्रदक्षिणं चैव दीपान्तं परिवर्तयेत् ॥

धर्मशास्त्र पुराणानि वाचयित्वा तदग्रके ।
रुद्रकुम्भोदकेनान्ते लिङ्गं सेच्य मनूत्तमः ॥

नैवेद्यं विविधं स्थाप्य दीपजालांश्च दर्शयेत् ।
त्रयोदशे च नाड्यादौ सिञ्चेत्पञ्चामृतैः पुनः ॥

पञ्चपुष्पैस्समभ्यर्च्य रमासूक्तेन तत्परम् ।
कुमार्याश्चैव सूक्तेन देवीसूक्तेन मन्त्रवित् ॥

अम्बिकासूक्तमनुना घनसारोदकादिकैः ।
वनाख्यायाश्च सूक्तेन रमाकुम्भोदकेन च ॥

रमानामसहस्राद्यैः कुमारीनामभिस्तदा ।
सहस्रैरम्बिकायाश्च महिषान्तक्याश्चनामभिः ॥

गायत्रीनामभिः पश्चात् सहस्रैः कुसुमाक्षतैः ।
यष्ट्वा सम्प्रार्थ्य बहुधा लिङ्गमुद्रां प्रदर्शयेत् ॥

नैवेद्यं धूपदीपाद्यमर्पयित्वा विधानतः ।
घटिकातिथिसङ्ख्यान्तं भक्त्या पूजां विधाय च ॥

महापूजा प्रकर्तव्या रमाकल्पोक्तवद्गुरुः ।
पूजयेत्सोपचाराद्यैस्तव मूला जना तदा ॥

शाल्यान्नं सूपशाकाद्यं घृतभक्षसमन्वितम् ।
पायसं लेह्य चोष्यादि षड्रसैः संयुतं प्रिये ॥

देवस्यत्वेति मन्त्रेण पुष्पाक्षतजलान्वितः ।
निवेदयेत्ततो देव्यै द्वाराच्छादनपूर्वकम् ॥

पालिके वाहनं यष्ट्वाहविर्दद्यात्स्वनामभिः ।
ब्रह्मणा धनदेनार्यः सदस्येन सदेहवत् ॥

यागभूमिं ततो गत्वा कुण्डे वा स्थण्डिलादिके ।
समिदाज्यैश्च पयसा सर्पिषा चरुणा सह ॥

तव मूलेन जुहुयात् अष्टोत्तरशताहुतिः ।
पूर्णाहुतिं हुनेदन्ते होमकर्म समाप्य च ॥

तच्छेषं च समादाय मूलमन्त्रं वदन् गुरुः ।
लिङ्गग्नेय्यां च निक्षिप्य सम्पाताज्यसमन्वितः ॥

सङ्क्षाल्य हस्तौ पादौ च आचम्य सह भक्तितः ।
घण्टाताडन पूर्वादि द्वारस्याच्छादनं त्यजेत् ॥

नैवेद्यं विसृजेदन्ते तत्र सङ्क्षाल्य तत्परम् ।
प्रसन्नार्घ्यं च ताम्बूलं तत्वार्च्य गुरुराचमेत् ॥

कपिलाङ्गां समानीय प्रदक्षिणवशात्ततः ।
सवत्सां मण्डनैयुक्तां मूलेनाग्रे यजेत्तदा ॥

निरीक्ष्यार्च्य हविर्दत्वा प्रार्थयित्वा विधानतः ।
वेदमङ्गलघोषाद्यैः पञ्चवाद्यरवैस्सह ॥

सद्भक्तैर्गायकाद्यैश्च वन्दिमागधपाटकैः ।
प्रभूत्तमैर्जनैस्सार्धं दीपौघान् भ्रामयेद्गुरुः ॥

धूपं दद्यात्पटाकारं दीपं वृत्तेन भ्रामयेत् ।
त्रिवारं चैकदीपं च पञ्चवारं शराख्यकान् ॥

सप्त शेषाख्यकान् देवि चक्रदीपांस्तथैव च ।
नववारं भौमदीपान् दश नीराजनं ततः ॥

त्रिवारं चैव चन्द्राख्यं तत्तन्मन्त्रान् वदन् बुधः ।
पृथक् सम्भ्रामयेदन्ते मन्त्रपुष्पार्चनान्वितः ॥

परिवारान् समभ्यर्च्य धूपदीपादिकैः परम् ।
भूतानाहूय घण्टाद्यैः नाड्यानष्टादश क्रमात् ॥

द्वारादि बलिपीठान्तं बलिं दद्यात् स्वनामभिः ।
क्षेत्रपाय ततो दत्वा तत्तन्मन्त्रेण देशिकः ॥

तदन्ते चोत्सवं कुर्यादुत्सवान्ते तदग्रके ।
तव बिम्बं परिभ्राम्य पद्मदीपेन सुव्रते ॥

तत्पाङ्कणं प्रविश्याथ निशामन्त्रेण मन्त्रवित् ।
निशातोयं समादाय तव बेरं त्रिशःपुनः ॥

तव मन्त्रं वदन् भ्राम्य विसृजेद्वामगोचरे ।
तव बिम्बं प्रवेश्यान्तः पादप्रक्षालनादितः ॥

लिङ्गस्य दक्षिणे न्यस्त्वा तच्चैतन्यं नियोजयेत् ।
अर्घ्यं दत्वा प्रसन्नार्थं चन्द्रदीपं प्रदर्श्य च ॥

कर्मजालं समर्प्यान्ते तव मूलं जपेच्छतम् ।
पादोदकं तु निर्माल्यं विप्राणां कर्मचारिणाम् ॥

भक्तानां चैव सर्वेषां दद्याद्वाहन दक्षिणे ।
वलभ्यां बन्धयेद्वारं नाड्यं विंशति देशिकः ॥

चतुर्विंशति नाड्यान्त आतिथेयादि भूसुरान् ।
दम्पतिं कन्यकाश्चैव विप्रमुख्यान् नगात्मजे ॥

कृशानन्धांश्च बधिरान् दरिद्रांश्च कुटुम्बिनः ।
अनन्यगतिकांश्चैव भोजयेत्तोष्य भक्तितः ॥

कर्मसप्तति विख्यातं मध्याह्नान्तं नैत्तिकम् ।
सर्वपापहरं दिव्यं राज्यकोशाभिवृद्धिदम् ॥

सर्वरोगहरं सौख्यं तापत्रयविनाशकम् ।
त्रैलोक्यवश्यदं देवि भूपतेर्विभवप्रदम् ॥

देहान्ते तव रूपत्वप्रदं सायुज्यदं प्रिये ।

इति श्रीवातुलोत्तरे दुर्गा भेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदे नवदुर्गमध्याह्न नित्यकर्मविवृति विधाननिरूपणं नाम विंशतिः पटलः ।

५८

पगे णो। १८२ इस् मिस्सिन्ग्

सायादि भूरूरात्रान्तं कर्मजालं च नैत्तिकम् ।
प्रवक्ष्यामि नगोद्भूते विस्तराच्छृणु साम्प्रतम् ॥

विप्रोत्तमैश्चारकाद्यैः सार्धं स्नात्वा गुरूत्तमः ।
तव गेहं प्रविश्याथ भेरीशङ्खरवादिभिः ॥

सप्तविंशति नाड्याश्च द्वारबन्धं त्यजेत्पुनः ।
सम्मार्ज्य प्रोक्ष्य गर्भादि सर्वत्र क्षालयेत्तदा ॥

प्राजापत्यादि मन्त्रेण पुण्याहं वाच्य भूसुरान् ।
वरयेद्देशिकादींश्च तव मूलेन सुव्रते ॥

देशिकं धनदं चैव ब्रह्माणं सर्वबोधकम् ।
त्वरिताख्यं रुद्रसङ्ख्यान् बल्यर्थं बिम्बधारकम् ॥

सूक्तार्थ नामपूजार्थं पञ्च पञ्च पृथक् द्विजान् ।
प्रदक्षिणार्थं नत्यर्थं षड्घनान् वरयेत् परम् ॥

धर्मशास्त्रपुराणाय न्यायशास्त्राय चण्डिके ।
द्वौ विप्रौ वरयेत्पश्चाच्चारार्थं दश भूसुरान् ॥

त्वरिताख्यघटं यष्ट्वा शारदाख्यं सुधारसान् ।
समर्च्योक्तविधानेन रुद्रसङ्ख्याद्विजास्तदा ॥

नमो रुद्रेभ्य इत्यादि वदन्ति न्यासपूर्वकम् ।
सिञ्चेत्सुधारसैर्लिङ्गं पुनः शुद्धोदकैर्द्विजाः ॥

तद्घटस्थोदकेनान्ते गुरुस्तद्विधिनार्चयेत् ।
अर्धाम्बिकेशमन्त्रेण सहस्रैर्नामभिः परम् ॥

बहून्यन्तानि नैवेद्यं विविधं भक्षसंयुतम् ।
पायसं सूपशाकाद्यं क्षीरमध्वाज्यसंयुतम् ॥

नाड्यां चैकोनविंशत्यां समर्प्य तव मूलतः ।
दर्शयेद्दीपजालांश्च मन्त्रैः पुष्पार्चनं परम् ॥

ततो गोधूलिकाकाले त्रिंशन्नाड्यावसानके ।
घटियन्त्रं समुद्धार्य तन्मूलमनुना गुरुः ॥

गोसूक्तं प्रवदन् सेच्य समर्चोक्तविधानतः ।
भूषिताङ्गान् समानीय लक्षणैर्वत्ससंयुताम् ॥

गेहं प्रदक्षिणीकृत्य समर्च्योक्त हविर्ददेत् ।
नैवेद्यमर्च्य मूलेन दीपजालां प्रदर्शयेत् ॥

पञ्चपुष्पार्पणान्ता च बलिदीपनतिं तदा ।
पुनः सुधारसैः सिञ्चेद्रात्रिसूक्तेन मन्त्रवित् ॥

चण्डिकायाश्च सूक्तेन वाणीसूक्तेन तत्परम् ।
सूक्तेन भुवनेश्वर्याः लिङ्गं संसेचयेत्पृथक् ॥

वाणीघटोदकेनान्ते सेचयित्वार्चयेत् ततः ।
वाणीकल्पोक्तवन्मन्त्री पूजाकर्म समाचरेत् ॥

पारायणं दिक्षु कुर्यात्पुराण पठनादिकम् ।
विदिङ्मन्त्रन् चण्डिकादि वाणी वागीशसञ्ज्ञकान् ॥

प्रत्यङ्गिरः पञ्चदुर्गां मृत्योस्तुल्यं च सुन्दरीम् ।
रक्षाघ्नं वास्तुमन्त्रं च धारणाख्यां च बालकाम् ॥

इन्द्राक्षीं शिवकवचं तु साध्यनामा सहैव तु ।
नतिं प्रदक्षिणं चैव भूताह्वानान्तमुच्यते ॥

चण्डिकानामभिश्चादौ शारदायाश्च नामभिः ।
सहस्रैर्वाक्यनायक्या ललितानामभिः परम् ॥

सहस्रैश्च पृथक् पूज्य जपेन्मूलमनुं गतम् ।
ततो नाड्या त्रयस्त्रिंशे नैवेद्यं विविधं गुरुः ॥

समर्प्य तव मूलेन दीपौघान् भ्रामयेत्तदा ।
पञ्चपुष्पाणि मूलेन दत्वा नत्वा विधानतः ॥

तदन्ते च महापूजां न्यासजालादि मान्त्रिकः ।
मातृकां गोलकान्यासमध्यन्यासं च पीठकाम् ॥

षोडान्यासादि सर्वाणि विधाय तव मूलतः ।
यष्ट्वा लिङ्गं च बहुभिः पत्रैः पुष्पैस्तिलाक्षतैः ॥

उपचारत्वसङ्ख्यायां धूपदीपसमन्वितम् ।
निवेदयेत्ततो देव्या होमगेहं प्रविश्य च ॥

मूलेन समिदाज्यादि हवि व्रीहीन् पयस्तिलान् ।
दूर्वाग्रं च हुनेदग्नौ शतमष्टोत्तराहुतिः ॥

व्याहृत्या मूलमनुना पुनः पूर्णाहुतिं हुनेत् ।
होमशेषं गवे दत्वा सम्पाताज्यसमन्वितः ॥

प्रक्षालिताङ्घ्री हस्तौ च मन्त्रेणाचमनीयकम् ।
नीत्वा द्वारं च यष्ट्वार्यः तद्वस्त्रं च विसर्जयेत् ॥

हविरुद्वास्य तच्छेषं मुण्डिन्यै च प्रदापयेत् ।
प्रसन्नार्घ्यं च दत्वान्ते ताम्बूलान्यर्प्य भक्तितः ॥

रङ्गपूजा प्रकर्तव्या ध्वजान्तं च विशेषतः ।
पुरान्तं गोपुरान्तं वा गेहद्वारावसानकम् ॥

पार्श्वयोः परितश्चैव बहुदीपान् प्रबोधयेत् ।
बोधयेच्चन्द्रदीपान्तं दीपजालान् विचक्षणः ॥

मन्त्रैः पुष्पं समर्च्य(र्प्या)न्ते परिवारान् यजेत्तदा ।
जयघण्टादिकैर्वाद्यैर्भूतानाहूय मूलतः ॥

अष्टत्रिंशद्गुरुं नाड्यां बलिदानं स्वनामभिः ।
दत्वा समाप्य बल्यन्ते वीणाकाहलनिस्वनैः ॥

पञ्चवाद्यरवैस्सार्धं दुत्सवं बहिरावृतौ ।
नीत्वा बिम्बं चोत्सवान्ते निजभक्तजनैस्सह ॥

चत्वारिंशद्विनाड्यादौ प्रविश्यास्थानमण्टपम् ।
तदन्तरादिभेदेन प्रवक्ष्यामि मनोहरे ॥

देवान्तरं च दीपाख्यं तदन्ते देशिकान्तरम् ।
विप्रान्तरं च दण्डाख्यं पञ्चान्तरमृदाहृतम् ॥

देवान्तरं च देवेशि न्यस्त्वा सम्पूजयेत्पुनः ।
दीपस्तम्भौ च दीपाख्ये तव दक्षिणवामयोः ॥

विन्यसेत्तां देवसघ्यौ दीपपात्रत्रयान्वितौ ।
स गुरोरन्तरे देवि तथैव गुरुवाहकौ ॥

प्रतिष्ठेतां गुरोर्वामे धनदश्च पितामहः ।
ज्योतिषज्ञ सम(द)स्यादि विप्रमुख्या व्यवस्थिताः ॥

तव पृष्ठे गुरोश्शिष्याश्चारा वाहकदक्षिणे ।
पुनर्विप्रान्तरे देवि दक्षिणे वेदपारगाः ॥

बिम्बपृष्ठे जापकाद्याः तद्वामे स्तोत्रवाचकाः ।
तवाग्रे पार्श्वयोश्चैव धर्मशास्त्रप्रबोधकौ ॥

दण्डान्तरे स्वर्णदण्डबिभ्रकौ स्तोत्रवाचकौ ।
व्यवस्थितौ च तद्दक्षे पृष्ठे वामप्रदेशके ॥

व्यवस्थिताः शुचिर्भूताः बलिदीपधरा जनाः ।
दण्डान्तरादधस्थाने तवाग्रे च समस्थले ॥

पञ्चहस्तान्तरं तिर्यग्घित्वा भूमिं सुरेश्वरि ।
तत्पार्श्वयोर्द्वयोर्देवि पङ्क्तिरूपेण वाग्यताः ॥

अर्धहस्तान्तरं मध्ये पङ्क्तिस्थानान्यथाक्रमात् ।
(मम्) ।
नीत्वा पृथक् पृथक् तत्र सेवकादि प्रभेदतः ॥

छत्रकौ वायुपटकौ मङ्गलायुधसंयुतौ ।
दण्डवीजनमर्त्यौ च गायकौ वायुबीजकौ ॥

रूपयौवन सम्पन्न चामरस्त्रीकदम्बकौ ।
ताम्बूलबिभ्रके देवि ताम्बूलोच्छिष्टपात्रके ॥

बिभ्रके जलपात्रे च पुनरादर्शदर्शके ।
बलिदीपधरौ मर्त्यौ पुष्पवृष्टिकरौ नरौ ॥

विप्रोत्तमा दक्षपङ्क्तौ वामपङ्क्तौ नृपादिकाः ।
वाद्यका नाट्यका स्निग्धे गणिका नृत्तवेदिकाः ॥

व्यवस्थिताः पयौः पङ्क्तौ गजाश्वाद्या ध्वजान्विताः ।
भक्ता भटा दर्शकाद्या तयोरग्रे व्यवस्थिता ॥

ततो देवीं समाराध्या चणकैश्च फलादिकैः ।
पक्वैश्च विविधैस्सार्धं धूपदीपायुतं गुरुः ॥

नैवेद्यं चार्पयेत्तस्मात्ताम्बूलं दापयेत्परम् ।
भौमाख्यान् चक्रदीपांश्च पद्मनीराजसञ्ज्ञकम् ॥

हिमान्तं भ्रामयेद्देवीं मनुपुष्पार्चनं ततः ।
सेवाजालं च वेदादि श्रावयेत्प्रार्थनादिकम् ॥

नमस्तुभ्यं महाकालि सिद्धगन्धर्वसेविते ।
राज्ञो राज्याभिवृद्ध्यर्थम् ऋग्गृचं शृणु पार्वति ॥

महालक्ष्मि नमस्तुभ्यं ब्रह्मादि सुरसेविते ।
धनकोशाभिवृद्ध्यर्थं यजुर्वेदमनुं शृणु ॥

सरस्वति नमस्तुभ्यं सर्वदेवगणान्विते ।
कीर्तिकान्ति सुभिक्षार्थं सामगानं शृणु प्रिये ॥

मूर्तित्रयात्मकं देवि नमस्तुभ्यं महेश्वरि ।
अथर्वण ऋचं श्रुत्वा वाञ्छितार्थं प्रयच्छमे ॥

क्रमाद्वेदमनून् श्राव्य पुष्पं दद्यात् पृथक् पृथक् ।
वेदान्ते गायकौ गाने शङ्खनादं तदन्तरे ॥

मौखीचक्रवाद्यानि पञ्चवाद्यानि तत्परम् ।
वादयेद्गतिवाद्यानि नर्तनं भरतोक्ततः ॥

नर्तको मर्दकश्चैव गायको वंशकस्तथा ।
ततो मौरलिकाश्चैते पञ्चाचार्याः प्रकीर्तिताः ॥

रूपयौवनसम्पन्नास्त्री नाट्ये कुशलान्विताः ।
नर्तको मर्दकश्चैव तव दक्षे व्यवस्थितौ ॥

गायको वंशकाख्यश्च वामभागे व्यवस्थितौ ।
अग्रे मौरलिका सौम्ये वादयेन्मुखं तथा ॥

गणिका नर्तनं कुर्युः सर्वलक्षणसंयुताः ।
नर्तनन्ते पद्मदीपान् वक्ष्यमाण विधानतः ॥

स्वर्णदौर्पण ताम्रात्थ दीपपात्राणि कारयेत् ।
तालमानानि वृत्तानि दलाष्टकयुतानि च ॥

कर्णिकाभिः संयुतानि तेषां मध्ये विचक्षणः ।
नवपात्राणि वा सप्त पञ्च त्रीण्येकमेव वा ॥

तेषु दीर्घान् प्रबोध्यान्ते त्रिवारं भ्रामयेत्प्रिये ।
दिवा रात्रौ सहार्चायां गणिका नृत्तलालसाः ॥

गानशास्त्रोक्तमार्गेण भ्रामयेयुः स्त्रिशः परम् ।
दीपान्ते सर्ववाद्यानि वादयेयुश्च वादकाः ॥

चणकादिफलं पक्वं नवधा विभजेत्पुनः ।
तव निर्माल्यदानान्ते देशिकादि प्रभेदतः ॥

एकभागं देशिकाय भागार्धं वाहकाय च ।
द्वौ भागौ विप्रमुख्येभ्यः नृपादिभ्यस्तथैव च ॥

त्रीन् भागान् सेवकादिभ्यः प्रदद्याद्दण्डधारकः ।
अर्धभागं स्वयं गृह्य सेवाजालं समाप्य च ॥

सेवाजालं समन्तेत * * * * * * * * ।

प्रदक्षिणवशात्तत्र मूलमन्त्रं वदन् प्रिये ।
ततो गानेन निश्शब्दैश्शनैर्गेहं तवात्मकम् ॥

चत्वारिंशत्पञ्चनाड्यां बिम्बमन्तः प्रवेश्य च ।
तव बिम्बातु चैततन्य मूललिङ्गे निवेशयेत् ॥

पुनः पञ्चोपचाराद्यैरर्चयित्वा महेश्वरीम् ।
क्षीरान्नं च कशायोत्थं जलताम्बूलसंयुतम् ॥

समर्च्य तव मूलेन नीराज्यं हिमसञ्ज्ञकम् ।
दीपं प्रदर्शयित्वार्यः प्रसन्नार्थं यजेत्वरम् ॥

क्रियान्यूनातिरिक्तार्थं सुविप्राय स्वशक्तितः ।
कृच्छ्रं दत्वा प्रतोष्याथ कर्मजालं समर्पयेत् ॥

भक्तानां परिवाराणां सेवकादि नृणां प्रिये ।
क्पाथोदकं तु निर्माल्यं दद्यात् त्वल्लिङ्गवामके ॥

चत्वारिंशत् सप्तनाड्यां कवाटं बन्धयेद्गुरुः ।
परितो गेहरक्षार्थं शतसङ्ख्यजनाः परम् ॥

वसेयुश्च विनिद्रास्ते गृहं गच्छेन्मनुत्तमः ।
विंशोत्तरं शतं कर्म निशार्धे सम्यगीरितम् ॥

सम्पज्जालप्रदं सौख्यं राज्ञो राज्ञां च वंशदम् ।
नित्यं कालत्रयेप्येवमुक्तं कर्म नगोद्भवे ॥

नियमेनैव यः कुर्यात् कस्यं पुण्यं वदाम्यहम् ।
ऐहिके च बहून् भोगान् सुभिक्षं च जयं यशः ॥

प्राप्नुयात्सार्वभौमत्वं सप्तजन्मस्य संशयः ।
देहान्ते तव रूपत्वं ममत्वं च मनोहरे ॥

रहस्यं तत्र वक्ष्यामि त्रिकाले नाडि भेदतः ।
काले काले प्रकर्तव्यमुक्तं कर्मविचक्षणः ॥

कालातीते निष्फलं स्याद्दुर्भिक्षं राज्यनाशनम् ।
तस्माद् ज्ञात्वा मयोक्तेन नाडी भेदेन पार्वति ॥

काले सम्यग्गुरुः कुर्यात् क्रियाजालमतन्द्रितः ।
सप्तदेवेष्विदं कर्म कर्तव्यं मनुवित्तमः ॥

पृथक् तन्मन्त्रभेदेन क्रियाभेदेन शाम्भवि ।
कर्मपूर्णफलावाप्त्यै राज्ञः श्रेयोऽभिवृद्धये ॥

त्वल्लिङ्गे नित्यकर्मार्थं प्रत्यब्दे दक्षिणां क्रमात् ।
धनदादि प्रवक्ष्यामि सेवकान्तं महेश्वरि ॥

विंशोत्तरशतं निष्कं धनदाय प्रदापयेत् ।
शतनिष्कं देशिकाय कर्मोपद्रविणैस्सह ॥

निष्कसप्ततिकं देवि ब्रह्मणे दापयेत्परम् ।
शतार्धं च सदस्याय सर्वबोधककर्मिणे ॥

चत्वारिंशद्वाहकाय ज्योतिषज्ञाय तत्परम् ।
घटिकास्थापनार्थाय त्रिंशनिष्कं कलाधरे ॥

धर्मशास्त्रपुराणानि वक्तृभ्यां पञ्चविंशति ।
विंशन्निष्कं चतुर्वेदघोषकेभ्यः पृथक् पृथक् ॥

श्रीरुद्रजापकेभ्यश्च निष्कं चैकोनविंशकम् ।
दद्यात्तेषां सेवनार्थं पृथक् दद्यात् प्रभूत्तमः ॥

निष्कं चाष्टादश प्रोक्तं सूक्तकेभ्यः सुरेश्वरि ।
त्वन्नामपूजकेभ्यश्च निष्कमष्टादशं पृथक् ॥

सप्तशत्यादि विप्रेभ्यः निष्कसप्तदश क्रमात् ।
जापकेभ्यः कलासङ्ख्यनिष्कन्दद्याच्च तत्परम् ॥

प्रदक्षिण नमस्कार कृद्भ्यश्च तिथिसङ्ख्यकम् ।
पृथक् कुम्भार्चकेभ्यश्च तद्द्रव्यै सह बुद्धिमान् ॥

निष्कं चतुर्दशं प्रोक्तं चारकेभ्यश्च तत्परम् ।
पृथक् दण्डधराभ्यां च निष्कं द्वादश उच्यते ॥

दशनिष्कं छत्रकेभ्यः पटकेभ्यस्तथैव च ।
दण्डवीजनमर्त्यानां नव निष्कं च दापयेत् ॥

विंशन्निष्कं गायकाभ्यां वीजकाभ्यां नवं पृथक् ।
वारस्त्रीणां चामरादि पृथक् षण्णिष्कमुच्यते ॥

बलिदीपजनेभ्यश्च पञ्चनिष्कं पुनः परम् ।
धूपधूमकराभ्यां च चतुर्निष्कं प्रभूत्तमः ॥

निष्कत्रयं पुष्पवृष्टिकृद्भ्यां दत्वाथ सुन्दरि ।
वन्दिभ्यो मागधेभ्यश्च पाटकेभ्यः पृथक् पृथक् ॥

दशनिष्कं प्रदातव्यं निष्कं सार्धशतं पुनः ।
वाद्यकेभ्यो नृत्तविद्भ्यः पृथक् दद्याच्च वेतनाम् ॥

वैजन्ती बिभृकेभ्यन्त्री निष्कं चैव वल्लभे ।
रक्षकेभ्यो गजाश्वादीन् पृथक् द्वादशसङ्ख्यकान् ॥

द्वारादि पालकेभ्यश्च दद्याच्च मनुसङ्ख्यकम् ।
द्रव्याम्बर धनागार पालकेभ्यस्त्रयोदश ॥

नव निष्कं चातिथेयाद्यन्नकृद्भ्यः प्रदापयेत् ।
परितः परिवाराणामर्चकेभ्यश्चतुर्दश ॥

निष्कं पृथक् प्रदत्वान्ते तोषयेद्बहुधा जनान् ।
त्वद्गेहरक्षकादिभ्यः सप्तनिष्कं नगेश्वरि ॥

सर्वमुक्तं मयादेवि दक्षिणा कर्मचारिणाम् ।
चारादि सेवकादीनां सर्वेषां वेतनं क्रमात् ॥

प्रत्यब्दं नियमानेत्थं दत्वा तोष्य महाजनान् ।
भक्त्या नत्वा नत्यकर्म कर्तव्यमिति वाचयेत् ॥

कर्म न्यूनं न कर्तव्यं काले काले च देशिकः ।
यदि न्यूने तु सम्प्राप्ते राजसम्पत्क्षयो भवेत् ॥

तस्मान्मन्त्री मुहुर्ज्ञात्वा सर्वलोकहिताय च ।
धनधान्यादि वृद्ध्यर्थं सुभिक्षार्थं वरानने ॥

सम्पद्राज्यसमृद्ध्यर्थं सर्वभोगार्थमेव वा ।
न्यूनं विना प्रकर्तव्यं क्रियाजालं नगात्मजे ॥

इति श्रीवातुलोत्तरे दुर्गाभेदे नित्यकर्मकाण्डे शिवपार्वतीसंवादे घटिभेदे नवदुर्गनिशि कर्मविवृतिनिरूपणं नाम एकविंशति पटलः

५९

देवदेव जगन्नाथ लोकानुग्रहकारक ।
मल्लिङ्गे प्रातरारभ्य नित्यार्चनविधिः श्रुतः ॥

सम्यगुक्तस्त्वया देव सर्वलोकहिताय च ।
इदानीं श्रोतुमिच्छामि काम्यार्थं साधकाय च ॥

नैमित्तिकार्चनविधिः वक्तव्यः परमेश्वर ।

शिवः -

तत्सर्वं तव वक्ष्यामि यत्त्वया परिपृच्छितम् ॥

त्वल्लिङ्गे च विशेषेण काम्यार्थं तव पूजनम् ।
विधानं विस्तराद्देवि शृणुष्वैकाग्रमानसः ॥

सर्ववृद्धिकरं लोके श्रीकरं पुत्रपौत्रदम् ।
अकालमृत्युशमनं शत्रुणां विजयो भवेत् ॥

सर्वव्याधिप्रशमनम् आयुर्वृद्धिकरं नृणाम् ।
साधकानां त्वया देवि कलौ सिध्यति नान्यतः ॥

स्मरणाद्दर्शनाच्चैव त्रयोलोकश्चकम्पिरे ।
भक्त्या सम्पूजिते लिङ्गं त्रैलोक्यं च वशी भवेत् ॥

चिन्तितार्थ प्रदं नॄणां भोगमोक्षप्रदं शिवे ।
तस्मात् सर्वप्रयत्नेन काम्यार्थं तव पूजनम् ॥

कस्यां तिथौ च पूजायां वक्ष्यामि शृणु पार्वति ।
माघे वा फाल्गुने मासे चैत्रे वैशाखमासके ॥

ज्येष्ठमासे चाश्वयुजे कार्तिकेष्टशुभे दिने ।
द्वितीया पञ्चमी चैव अष्टमी नवमी शुभा ॥

दशमी च त्रयोदश्यां चतुर्दश्यां च पौर्णमी ।
सोमो बृहस्पतिः शुक्रः भौमवारे शुभं भवेत् ॥

चन्द्रतारानुकूले च पूजाद्रव्यः समाहरेत् ।
प्रातरुत्थाय विधिवत् नित्यपूजां विधाय च ॥

ब्राह्मणैः सहसंयुक्तः देशिकादि जनैः प्रिये ।
नदीस्नानं प्रकर्तव्यं षट्कोणं बीजपूर्वकम् ॥

लिखत्वा तीर्थमध्ये तु स्नानार्थं तर्पणं चरेत् ।
तव प्रीत्यै च सङ्कल्प्य निमज्जेच्च त्रिवारकम् ॥

धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः ।
मूलमन्त्रं जपेत्तत्र अष्टाविंशतिसङ्ख्यकैः ॥

स्वर्णपात्रादि सम्पूर्य तव मूलेन चण्डिके ।
तत्तीर्थं च समादाय अघमर्षणमन्त्रतः ॥

वेदमङ्गलपाठैश्च नृत्तगीतादि वाद्यकैः ।
देवालयमलङ्कृत्य फलपल्लवतोरणैः ॥

सिञ्चेयुर्गन्धवारिभ्यः स्थलशुद्धिं विधाय च ।
भूषयित्वा गृहं गत्वा वन्दयेत्परमां शिवाम् ॥

नमस्ते देवि कल्याणि वाञ्छितार्थप्रदं शिवे ।
नैमित्तिकस्य पूजार्थम् अनुज्ञां भक्तवत्सले ॥

इति सम्प्रार्थ्य सद्भक्त्या तदग्रे स्थापयेत्फलम् ।
निर्विघ्नार्थं च सम्पूज्य गणेशं च समारभेत् ॥

नान्दीं संवाच्य पुण्याहं द्रव्यशुद्धिं तु कारयेत् ।
कर्मार्थं वरयेत्प्राज्ञः देशिकादि द्विजोत्तमान् ॥

कर्मजालं प्रकर्तव्यं श्रीरुद्रं पावमानकम् ।
लक्ष्मीसूक्तं प्रकर्तव्यं तत्तत्कल्पोक्तमार्गतः ॥

सेचयेत्तव लिङ्गं च पञ्चामृतविधानतः ।
प्रस्थादि द्रोणमानान्तं द्रव्यसङ्ख्यमितीरितम् ॥

विधिना सेचयेन्मन्त्री लिङ्गशुद्धिरिदं भवेत् ।
देवाग्रे चेराभागे च रचये पद्ममुत्तमम् ॥

अष्टोत्तरशतं देवि तदर्धं पञ्चविंशतिः ।
नव द्वादश पञ्चैव स्थापयेत्कुम्भमुत्तमम् ॥

विधिना पूरयेत्पश्चात् रत्नाणीं गन्धवारिभिः ।
क्षीरं च पञ्चगव्यं च कषायं च सुतैलकम् ॥

फलोदकैश्च विविधैः सवस्त्रप्रतिमान्वितैः ।
चतुर्थ्यन्ते च मन्त्रेण देवमावाह्य पूजयेत् ॥

कलामन्त्रैर्मूलमन्त्रै स्पृष्ट्वा जप्य गुरूत्तमः ।
गणेशं क्षेत्रपालं च मृत्युञ्जयनवग्रहम् ॥

अधोरास्त्रं सप्तशतिं नवदुर्गामनुं शिवे ।
तव मूलेन मन्त्रेण सहस्रं सञ्जपेद्गुरुः ॥

प्रदक्षिणनमस्कारं शतमष्टोत्तरं प्रिये ।
कुण्डं वा स्थण्डिलं कुर्याच्चैशभागे विशेषतः ॥

जननाग्निं च संस्थाप्य मूलमन्त्रेण होमयेत् ।
शान्तिदुर्गामनुं पश्चात्तदर्धं जुहुयाद्गुरुः ॥

शतमष्टोत्तरं देवि सहस्रं चोत्तमं भवेत् ।
समिदाज्यं पायसं वा सप्तद्रव्येण होमयेत् ॥

अर्पणं मूलमन्त्रेण सुगन्धपयसाम्बुभिः ।
पूर्णहुतिं ततः कुर्यात् अभिषेकं समाचरेत् ॥

स्नापयेद्घटतोयेन तव लिङ्गं मनूत्तमः ।
स्नानं विचित्रतैलेन सुगन्धेन मनोहरैः ॥

उद्वर्त्य पिष्टचूर्णैश्च निशापूर्णैर्महेश्वरि ।
उष्णोदकेन संस्थाप्य कस्तूरीकुङ्कुमोदकैः ॥

अष्टगन्धं समालिप्य अक्षतांश्च मनोहरान् ।
तिलकं च स कस्तूरी हरिद्राचूर्णमञ्जनैः ॥

पट्टवस्त्रैः स्वर्णयुतैः नवतन्तुसमुद्भवैः ।
वस्त्रद्वयं ततो दद्यात् कञ्चुकं च समर्चयेत् ॥

मुक्तावैडूर्यखचितताटङ्कं भूषणादिभिः ।
सुगन्धपुष्पमालाभिः पूगपुष्पं सर्पयेत् ॥

आवाहनादि सम्पूज्य षोडशैरुपचारकैः ।
सहस्रैर्नामभिः पूज्य प्रणवादि समन्वितैः ॥

बिल्वपत्रैश्च कमलैः द्रोणपुष्पैस्तिलाक्षतैः ।
मल्लिकाद्यैश्च पुष्पैश्च पूजयेन्मन्त्रवित्तमः ॥

तदन्ते स्वर्णजं देवि यथा शक्त्या समर्पयेत् ।
धूपदीपं च नैवेद्यं षड्रसान्नं सभक्षकम् ॥

फलं नानाविधं देवि सूपशाकसमन्वितम् ।
पानीयं च सकर्पूरं ताम्बूलं च समर्पयेत् ॥

नीलाञ्जनं मन्त्रपुष्पं स्तोत्रपाठं गुरूत्तमः ।
बलिदानं ततो दद्यान्नैमित्ये च विशेषतः ॥

ब्राह्मणान् भोजयेद्देवि होमसङ्ख्यान् महेश्वरि ।
दम्पतीन् पूजयेत्पूर्वं नवसङ्ख्यसुवासिनीः ॥

सहस्रं चोत्तमं देवि शतमष्टोत्तरं पृथक् ।
गुरुपत्नीं समायुक्त पतिव्रतधरास्त्रियः ॥

तैलाभ्यङ्गं विधायाथ शुचिर्भूत्वा पृथक् पृथक् ।
तवालयस्य परितः पङ्क्तिरूपं सुपीठके ॥

उपविश्य यथान्यायं गुरुपूजां समाचरेत् ।
मम रूपं च सम्पूज्य तव रूपं समन्वितम् ॥

शिवं शक्तिं समावाह्य पाद्यमाचमनादिकम् ।
वस्त्रालङ्कारकं दद्यादुभयोश्च पृथक् पृथक् ॥

यथाविभवसारेण पूजयित्वा यथाक्रमम् ।
उपायनं ततो दद्यात्परमान्नं सशर्करम् ॥

अपूपं च फलं देवि चण्डिका प्रियतामिति ।
ततः सुवासिनीपूजां कुर्याद्भक्तियुतः प्रिये ॥

आवाहनार्घ्यपाद्यादि पृथक् सहस्रनामभिः ।
शतमष्टोत्तरं वापि नवसङ्ख्यानि पार्वति ॥

तवमष्टोत्तरशतं नवदुर्गांश्च पूजयेत् ।
नामभिश्च चतुर्थ्यन्तैः पृथक् सम्पूज्य दापयेत् ॥

नालिकेरफलं देवि नागवल्लिदलैर्युतम् ।
पूगपुष्पं निशामूलं तण्डुलं कञ्चुकादिभिः ॥

सुवस्त्रं च ददेद्भक्त्या मूलमन्त्रं वदन् गुरुः ।
तव प्रीत्या च दत्वाथ आशिषं प्रतिगृह्य च ॥

भोजयेद्भक्ष भोज्याद्यैः ताम्बूलं च ददत् पृथक् ।
रात्रौ सम्पूजयेत् पश्चात् रङ्गपूजां समाचरेत् ॥

गेहली तोरणाद्येषु दीपमुग्धोदये प्रिये ।
बलिदानं ततो दद्यात् नैमित्ये चाहुतिर्ददेत् ॥

रथे वा शिबिकायां वा वाहने वा विभूषिते ।
उत्सवं च ततः कुर्यात् ग्रामसीमान्तमेव वा ॥

प्रविश्य देवीं सम्पूज्य क्रियाजालं समर्पयेत् ।
ततः प्रात समुत्थाय स्नानसन्ध्यादितर्पणम् ॥

विधाय देवतागारं तव लिङ्गे महेश्वरि ।
सम्पूज्य स्नपयेन्मन्त्री कर्मलोपार्थमम्बिके ॥

तवमष्टोत्तरशतं जपेन्मूलमनुं गुरुः ।
सवत्सां गां ततो दद्यात् दक्षिणां दापयेद्गुरुः ॥

भूरिदानं ततो दद्यात् कृच्छ्रदानं ततः परम् ।
इत्येवं कारयेद्भक्त्या ब्राह्मणश्च नृपोत्तमाः ॥

कामितार्थ प्रदं शीघ्रं सत्यं सत्यं मयोदितम् ।
मनसा चिन्तितं कार्यं पूजयाश्च प्रभावतः ॥

सर्वान् कामानवाप्नोति विधिना पूजिते प्रिये ।
महापूजाविधिः सम्यक् तवस्नेहेन चोदितम् ॥

इति श्रीवातुलोत्तरे दुर्गाभेदे शिवपार्वतीसंवादे नित्यकर्मकाण्डे नैमित्तिकपूजाविधिर्नाम द्वाविंशतिः पटलः ॥

६०


स्वस्ति ॥

देवी -

देवदेव महादेव सर्वज्ञ करुणानिधे ।
अचिन्यगुण रूपाढ्य शिव सर्वजगत्प्रभो ॥

सप्तकोटिषु मन्त्रेषु प्रतिष्ठाद्युत्सवेषु च ।
वह्निहोमविधिः प्रोक्तः त्वया गुह्यः सदाशिव ॥

पृथक् विधानं वह्नेश्च हवनं च कथं वद ।
किन्निमित्तं कथं होमः किं च द्रव्यं च तत्फलम् ॥

त्वन्मुखाच्छ्रोतुमिच्छामि विस्तरेण वद प्रभो ।

शिवः -

साधु पृष्टं त्वया देवि गुह्याद्गुह्यतमं महत् ॥

अग्निकार्यं सुरश्रेष्ठं सर्वकामफलप्रदम् ।
मम तेजोमयो वह्निः तवरूपं न संशयः ॥

जिंह्वारूपेण नौ देवि तत्तद्द्रव्यं हि भुज्यते ।
अन्यत्र भुज्यते दृष्ट्वा तृप्ति भवेत्प्रिये ॥

एतस्मात्कारणाच्छ्रेष्ठं वह्निहोमं च कारयेत् ।
रहस्यं परमं देवि मुक्तिदं च द्विजन्मना ॥

हव्यदत्तं तु भुञ्जीत यदि श्रेष्ठं द्विजोत्तमः ।
शूद्रत्वं कर्महीनत्वं पतितत्वं न संशयः ॥

सायं प्रतर्नित्यहोमं प्रकुर्वीत द्विजोत्तमः ।
इहापि सुखमाप्नोति अन्ते सामीप्यमीश्वरि ॥

लक्षहोमादि कोट्यन्तं काम्यकर्मणि कारयेत् ।
होमाद्दशांशं तन्मन्त्रजपसङ्ख्या महेश्वरि ॥

शतांशं तर्पणं कुर्यात्सहस्रं कुम्भपूजनम् ।
अयुतं भोजयेद्विप्रान् प्रदक्षिणनमस्कृतिम् ॥

दानानि विविधं दद्यात् गोभुम्यादि विशेषतः ।
इत्थं कुर्याद्विधानज्ञः सर्वमृत्युनिवारणम् ॥

सर्वशान्तिकरं चैव शत्रूणां नाशकारणम् ।
आयुरारोग्यदं देहे देजोबलविवर्धनम् ॥

लक्ष्मीप्रदं विशेषेण सन्तानादि विवर्धनम् ।
तुष्टिदं पुष्टिदं राज्ञां राज्यकोशविवर्धनम् ॥

गजाश्व सैन्यदुर्गादि वृद्धिदं कीर्तिदं तथा ।
दिव्यन्तरिक्षाद्युत्पातदुस्स्वप्नादि विनाशनम् ॥

ग्रहभूतपिशाचादि विनाशनकरं परम् ।
भुक्तिदं मुक्तिदं चैव सर्ववाञ्छाफलप्रदम् ॥

अमुना होमविधिना बहुप्रीति भवेन्मम ।
ब्रह्माद्या मयि सन्तुष्टे तुष्टा देवा न संशयः ॥

इत्थं श्रेष्ठं होमकर्म कलौ सिद्धिप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन कारयेद्धोममर्थवान् ॥

तद्विधानं प्रवक्ष्यामि लक्षहोमविधैः पृथक् ।
तत्कालं तत्स्थलं कुण्डमण्टपादि सलक्षणम् ॥

दिनसङ्ख्यां च तत्कर्मण्याचार्यादींश्च ऋत्विजः ।
होमद्रव्यं तत्फलं च विस्तरेण शृणु प्रिये ॥

कार्तिके मासि कुर्वीत पौर्णम्यादिन्दुवासरे ।
माघमासे कृष्णपक्षे चतुर्दश्यां महेश्वरि ॥

फाल्गुने मासि कुर्वीत अष्टमी दशमी दिने ।
चैत्रे मासि त्रयोदश्यामेकादश्यामथापि वा ॥

वैशाखे च तृतीयायां ज्येष्ठमासि शुभे दिने ।
अन्यत्पुण्यतिथौ मन्त्री ग्रहणे रविसोमयोः ॥

अमौढ्ये नाधिमासे च चन्द्रतारानुकूलके ।
शुभलग्नग्रहयुते दुष्टग्रहविवर्जिते ॥

कर्तुश्चैवानुकूलर्क्षे शुभग्रहनिरीक्षिते ।
एवगुणयुते काले लक्षहोमं च कारयेत् ॥

साम्बलिङ्गशिवक्षेत्रे आरामे पर्वते तटे ।
उद्याने श्रोत्रियागारे सङ्गमे च नदीतटे ॥

अन्यत्पुण्यस्थले देवि होमं कुर्या नृपोत्तमः ।
तत्स्थलं च समावीक्ष्य पूर्वे वह्ने तथैशके ॥

खननादि प्रकुर्वीत शोधयेद्दुष्टवर्जिते ।
चतुरश्रं समं कृत्वा षट्त्रिंशद्धस्तमात्रक ॥

एकविंशति हस्तं वा सप्तोत्तरदश प्रिये ।
तावन्मण्टपविस्तारं यावत्कुण्डमितिर्भवेत् ॥

रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ।
तत्त्रिभागैकभागेन मण्टपस्य महेश्वरि ॥

कुण्डानि रचयेन्मन्त्री नव पञ्चैकमेव वा ।
पूर्वे च चतुरश्रं स्यादाग्नेयां तु भगाकृतिः ॥

अर्धचन्द्रं तु याम्यायां नैर्-ऋत्यां तु त्रिकोणकम् ।
वारुणे वर्तुलाकुण्डं वायव्यां च षडश्रकम् ॥

उत्तरे पद्मकुण्डं तु ईशान्यामष्टकोणकम् ।
ऐन्द्र शाङ्करयोर्मध्ये वृत्तकुण्डं तु कारयेत् ॥

चतुर्दिक्षु च चत्वारि चतुरश्रं तु कारयेत् ।
वृत्तकुण्डं तथैशान्यां पञ्चकुण्डेऽथवा शिवे ॥

कुण्डमेकं च कुर्वीत वृत्तं वा चतुरश्रकम् ।
ईशाने पूर्वभगे वा कल्पयेच्च महेश्वरि ॥

चतुर्हस्तं चैककुण्डं त्रिहस्तं पञ्चकुण्डकम् ।
द्विहस्तं नवकुण्डं च तावं खातप्रमाणतः ॥

विस्तारं तावदूर्ध्वं स्यादूर्ध्वमेखलया सह ।
कुण्डस्य यादृशं रूपं तादृशी मेखला भवेत् ॥

त्रिमेखलं च युक्तं स्यादष्टषट्चतुरङ्गुलैः ।
षड्भिश्चतुर्भिश्च तथा द्विकर त्रिकरस्य तु ॥

मेखलोपरि मध्ये तु योनिः पिप्पलपत्रवत् ।
षडङ्गुलस्य विस्तारा विस्तारार्धं तदूर्ध्वतः ॥

मुष्टेरेवं तथान्येषामङ्गुलाङ्गुलवर्धनात् ।
एकाङ्गुलं समुत्सेधमष्टाङ्गुलसविस्तृतम् ॥

प्रणीता स्थानमेतद्धि ब्रह्मस्थानं तथा भवेत् ।
चतुरश्रं प्रणीतायां ब्रह्मणे पद्ममेव च ॥

इत्थं कुण्डं प्रकल्प्याथ लक्षणेन महेश्वरि ।
स्थण्डिले च न कर्तव्यं देवताशापदं भवेत् ॥

अलक्षणकृतं कुण्डं कुलक्षयकरं भवेत् ।
पूर्वोक्तन विधानेन कुण्डं कुर्याद्विचक्षणः ॥

तन्मध्ये वेदिकां कुर्याद्धस्तमात्रं तदूर्ध्वतः ।
चतुस्तम्भं च तन्मध्ये परितो द्वादश क्रमात् ॥

तद्बहिर्विंशतिस्तम्भाः उन्नतं चाष्ट षट्करैः ।
तद्बहि पञ्चहस्तं स्यात् स्थापये पोतिकादिभिः ॥

एकभौमं त्रिभौमं वा कारयेन्मण्टपं शिवे ।
चतुद्वारसमायुक्तं चतुस्तोरणभूषितम् ॥

प्राग्द्वारे पीतवर्णं च दक्षिणे कृष्णवर्णकम् ।
पश्चिमे रक्तवर्णं च उत्तरे श्वेतवर्णकम् ॥

चक्रत्रिशूलडमरुपद्मनन्दिविचिह्नितम् ।
एवं द्वारं प्रकुर्वीत पूर्वादिक्रमतः प्रिये ॥

चतुर्दिक्षु ध्वजं कुर्यात्पताकास्युर्दिशि स्थिताः ।
दशस्तोध्वजे दण्डः चतुरश्रश्च वृत्तकः ॥

सप्तहस्ताः पताकाःस्युः दीर्घदण्डप्रमाणतः ।
सप्तहस्तध्वजपटः वसना नूतनेन च ॥

तत्तद्वाहनचिह्नानि लेखयेच्छिल्पिना गुरुः ।
विंशत्यङ्गुलविस्ताराः पताका स्युर्महेश्वरि ॥

लोकपालानुवर्णेन वाहनायुधलाञ्छनैः ।
दिग्विदिक्षु प्रकुर्वीत स्थापयेद्विधिना गुरुः ॥

वस्त्रैराच्छादयेस्तुङ्गान् वितान फलशोभितान् ।
द्वारे द्वारे च कुम्भौ द्वौ कुम्भौ तारणमूलकौ ॥

चूतपल्लवशोभाढ्यौ प्रत्येकं कण्ठवाससौ ।
कदलीस्तम्भविन्यासै स्रग्दामा चूतपल्लवैः ॥

शोभयित्वा बहिः पश्चाद्दर्भदाम्ना च वेष्टयेत् ।
एवं मण्टपकुण्डानि कुर्वीत विधिना प्रिये ॥

नवाहं सप्तरात्रं वा पञ्च त्र्येकाहमेव वा ।
लक्षहोमं प्रकुर्वीत उत्तमं मध्यमं भवेत् ॥

अधमं च न कुर्वीत दिनसङ्ख्यविधौ शिवे ।
वपनं स्नानमौनं च शुक्लाम्बरधरः शुचिः ॥

क्षीरान्नभोजनं नित्यं दुस्सङ्गादि विवर्जितः ।
ब्रह्मचर्यव्रतं कुर्यादृत्विग्भिः सह देशिकः ॥

इत्थं दीक्षा प्रकर्तव्या नवरात्रे महेश्वरि ।
त्रिरात्रे चैकरात्रे च दीक्षाकर्म न कारयेत् ॥

यागद्रव्याणि सम्पाद्य होतृभिः जापकान् द्विजान् ।
दीक्षावान् कर्मतत्वज्ञः सत्यवादी जितेन्द्रियः ॥

सपत्नीकान् द्विजश्रेष्ठान् आहूय यजमानकः ।
तैलाभ्यङ्गादिकं कृत्वा आचार्यर्त्विक्समन्वितः ॥

सुतिथौ च सुनिश्चित्य पूर्वोक्तेन महेश्वरि ।
प्रातरुत्थाय विधिवद्दन्तधावनपूर्वकम् ॥

प्रातः स्नानं प्रकुर्वीत आचार्याय द्विजोत्तमैः ।
सन्ध्याकर्म प्रकुर्वीत नित्यकर्म समाप्य च ॥

मृत्तिकास्नानपूर्वं च कुशगोमयवारिणा ।
सर्वघोषसमायुक्तस्तत्तन्मन्त्रेण लेपयेत् ॥

नानामङ्गलवाद्यैश्च वेदघोषैश्च सुक्तकैः ।
स्नानं कृत्वा ततो मन्त्री होमार्थं च द्विजोत्तमैः ॥

धौतवस्त्राम्बरच्छन्नः विभूत्याद्यैरलङ्कृतः ।
देवर्षितर्पणं कृत्वा नमस्कृत्वा दिवाकरम् ॥

ततो देवालयं कृत्वा फलपुष्पसुवर्णकैः ।
ममाग्रे विन्यसेद्देवि यजमानः सुभक्तितः ॥

पञ्चोपचारैरभ्यर्च्य प्रार्थयेच्च कृताञ्जलिः ।
शिवादि सर्वदेवानां सद्यः तुष्टिकरं भवेत् ॥

लक्षहोमं करोमीति स्वामिविज्ञापनं चरेत् ।
इति विज्ञाप्य देवेशं प्रविशेद्यागमण्टपम् ॥

प्रक्षाल्य पाणिपादौ च पूर्वे वा चैशकोणके ।
पद्मपीठं च संस्थाप्य नववस्त्रोपरिन्यसेत् ॥

तस्योपरि न्यसौ * भान् आसनेषूपविश्य च ।
गुरुवन्दनपूर्वादि प्राणायामं समाचरेत् ॥

दिनमुद्दिश्य सङ्कल्प्य यथाविभवविस्तरम् ।
विघ्नेशमर्च्य नान्द्यादि पुण्याहं पञ्चगव्यकम् ॥

मधुपर्कं विधायाथ वरयेद्देशिकादिकान् ।
आचार्यन्धनं देवि ब्रह्माणं च सदस्यकम् ॥

भवादि मूर्तिपानष्टौ होतृभिश्च यथोक्तवत् ।
दिनसङ्ख्यमितान् ज्ञात्वा वरयेच्च पृथक् पृथक् ॥

जपार्थं तु शतार्धं स्याद्वेदपारायणं शिवे ।
षोडश ब्राह्मणः कुर्यात् तर्पणार्थं दश द्विजान् ॥

कुम्भार्चने चैकमेवं नमस्कारप्रदक्षिणे ।
दश विप्रांश्च वरये"रर्चार्थ द्वादश द्विजान् ॥

आचार्यादीन् स्वशाखादि प्रवरप्रोच्य गोत्रकम् ।
शर्माथ वृणुयात्कर्ता श्लोकैरेभिश्च तान् क्रमात् ॥

सर्वकर्मधुरीणस्त्वं शिवतुष्ट्यै द्विजोत्तमः ।
त्वामाहं गुरुमाचार्यमस्मिन् होमविधौ वृणे ॥

कर्तुः प्रतिनिधित्वे तु द्विजमन्यं तदाज्ञया ।
आचार्यो वृणुयादत्र श्लोकेनैव ततोऽमुना ॥

कर्तुः प्रतिनिधित्वेन कर्मकारयितुं द्विज ।
त्वामहं यजमानार्थं तस्मिन् होमविधौ वृणे ॥

यथा चतुर्मुखो ब्रह्मा स्वर्गेलोके पितामह ।
ब्रह्माणं चामहं साक्षात्तस्मिन् होमविधौ वृणे ॥

मन्त्रतन्त्रादिलोपांश्च द्रष्टुं नस्युर्यथा तथा ।
अस्मिन् होमविधौ विप्र सदस्यं त्वामहं वृणे ॥

होमार्थं मूलमन्त्रांश्च तत्तन्मन्त्रं शिवस्य तु ।
ऋत्विजोऽस्मिन् होमविधौ द्विजा युष्मानहं वृणे ॥

तर्पणार्थं च पूजार्थं कलशस्य महेश्वरि ।
मूलमन्त्रजपार्थाय वेदपारायणार्थकम् ॥

प्रदक्षिण प्रणामार्थं द्विजा युष्मानहं वृणे ।
इत्येवं वरणं कृत्वा तेभ्यः पाद्यादिकं ददेत् ॥

पाद्यमर्घ्यं तथाचामं मधुपर्कं तथैव च ।
कुण्डले चाङ्गुलीयादि भूषाश्च विविधा अपि ॥

रुद्राक्षमकुटाद्यैश्च स्वर्णयज्ञोपवीतकैः ।
दुकूलपादुकं देवि छत्रवीजनजामरैः ॥

आचमं जलपात्राणि यागोपकरणानि च ।
फलं स्वर्णं च ताम्बूलं दापयेन्मनुना शिवे ॥

मूलेन मम गायत्र्या पञ्चब्रह्माणुभिस्तथा ।
आचार्याय प्रदत्वौवं गन्धाद्यैस्तं समर्पयेत् ॥

एवं ब्रह्म सदस्यादीन् तथैवान्यान् द्विजान् क्रमात् ।
यथा यथोचितं वस्त्रभूषणाद्यैश्च तोषयेत् ॥

अङ्कुरार्पणपूर्वं च मृत्तिकामाहरेत्ततः ।
सद्योङ्कुरं वा कुर्वीत दिनसङ्ख्यमितं शिवे ॥

ध्वजस्थापनपूर्वोक्तं पताकान् स्थापयेत्प्रिये ।
वृषयागं ततः कुर्यात्पताकध्वजदेवताः ॥

सम्पूज्य विधिवन्मन्त्री तत्तन्मन्त्रेण पार्वति ।
पञ्चगव्यं हुनेदन्ते गणेशं च नवग्रहान् ॥

तत्तन्मूलेन होतव्यं तत्तद्द्रव्यं पृथक् पृथक् ।
एतत्कर्म दिवाकाले गुरुः कुर्यान्महेश्वरि ॥

सायं सन्ध्यामुपास्याथ शुचिर्भूत्वा गुरूत्तमः ।
प्रक्षाल्य पाणिपादौ च मूर्तिपाद्यैर्द्विजोत्तमैः ॥

प्रविश्य पश्चिमे द्वारं यागगेहं महेश्वरि ।
अस्त्रदृष्ट्या विलोक्याथ दिक्पतीन् रक्षोणद्यत्तत् ॥

नै-ऋत्यां दिशमासाद्या उपविश्यासने गुरुः ।
गुरुवन्दनपूर्वादि दिशदिग्बन्धनं शिवे ॥

भूतशुद्धिं न्यासजालान् सङ्कल्पं च विधाय च ।
गणेश स्थण्डिले पूज्य सुगन्धकुसुमादिभिः ॥

स्थापयेत्कलशं देवि योजयेत्पञ्चगव्यकैः ।
एकांशकं तु गोमूत्रं गोमयं च तदर्धकम् ॥

सप्तांशकं तु गोक्षीरं त्र्यंशकं तु दधि स्मृतम् ।
आज्यमेकांशमित्येवं सद्योजातादि पञ्चकैः ॥

अस्त्रमन्त्रेण संस्पृष्ट्वा शतमष्टोत्तरं जपेत् ।
पुण्याहं वाचयेत्पश्चादृत्विग्भिः सहितो गुरुः ॥

मण्टपं मार्जयेद्देवि वायुमन्त्रेण देशिकः ।
पालाशपल्लवैर्दर्भैः वह्न्यादीशावसानकम् ॥

मम गायत्रिमन्त्रेण लेपयेद्गोमयाम्भसा ।
अस्त्रमन्त्रं शतावृत्या ततो राजीश्च देशिकः ॥

विकीर्य मार्जयेन्मुष्ट्या मण्टपे मनुवित्तमः ।
प्रक्षाल्यं हस्तौ देवेशि पुष्पाणि दश दिक्षु च ॥

निक्षिप्य मम गायत्र्या चक्रमुद्रां प्रदर्शयेत् ।
ससूत्रदर्भमालां च युक्तं बोधिदुपल्लवैः ॥

अस्त्रमन्त्रशतं जप्त्वा वेष्टयं मण्टपं शिवे ।
अभ्युक्ष्य पञ्चगव्येन मूलमन्त्रेण देशिकः ॥

विकीर्य मार्जनं मन्त्री पुनः पूर्वोक्तमन्त्रतः ।
गन्धतोयेन सम्प्रोक्ष्य गुरुरापः पुनन्त्विति ॥

द्वारपूजन्ततः पश्चादक्षतैः कुसुमादिभिः ।
कैः ।
अस्त्रतोयेन सम्प्रोक्ष्य पूर्वाद्रिक्रमतः प्रिये ॥

शान्ति भूति बलारोग्या सञ्ज्ञाभिस्तोरणे न्यसेत् ।
युग्मात्विदान्यजेदूर्ध्वे शूलेष्वर्कपुरोदितान् ॥

प्रशान्तशिशिरादींश्च प्रत्यूषादि वसूनपि ।
भूर्भुवादिकलोकांश्च सोमभौमादिकान् ग्रहान् ॥

शान्तिर्निद्रानिवृत्तिश्च प्रतिष्ठाद्वारमूर्धनि ।
गणेशं भारतीं लक्ष्मीं सर्वद्वारोपरि न्यसेत् ॥

पूर्वद्वारं समारभ्य शाययोर्दक्षवामयोः ।
नन्द्यादिद्वारपालांश्च गङ्गादिसरितस्तथा ॥

सम्पूज्य तान् चतुर्थ्यन्तान् शिवज्ञां श्रावयेदथा ।
यज्ञस्य रक्षणार्थेन स्थातव्यं महदादरैः ॥

वज्रादीनि पताका स्युः कुमुदादि ध्वजेषु च ।
पूर्वोक्तान् विन्यसेद्देवि सर्वविघ्न भयङ्करान् ॥

द्वारतोरणसम्पूज्य प्रार्थयेनमुना गुरुः ।
मण्टपस्तम्भपूजां च प्रारभे तु ततः प्रिये ॥

अन्तस्तम्भेषु सर्वेषु आधारादि यथाक्रमम् ।
प्रणवादि नमोन्तैश्च धर्मादिषु समर्चयेत् ॥

विद्येशादि घटश्चेषु द्वारतोरणकुम्भकान् ।
यागेश्वरं च दिक्पालान् स्थापयेत्पूजयेत्प्रिये ॥

निष्कं निष्कार्धहेम्ना वा प्रतिमान् विन्यसेद्गुरुः ।
सुवस्त्रं सुफलं न्यस्त्वा प्रार्थयेद्देशिकोत्तमः ॥

भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ॥

सर्वेषां लोकपालानाम् अनेकक्रमयोगतः ।
इति विज्ञाप्य दिक्पालान् यागेशं प्रार्थयेत्ततः ॥

शङ्कराय नमस्तुभ्यं विश्वरूपधराय च ।
मया प्रवर्तितश्चायं लक्षहोमः कृते तव ॥

लक्षणीयः त्वयैतर्हि समाप्तिर्यावदस्य हि ।
इति सम्प्रार्थ्य यागेशमक्षतैरवकीर्य च ॥

अतः सम्पूज्य वास्तुं च राक्षोघ्नं वास्तुहोमकम् ।
बलिं च विकिरेद्देवि स्वस्वमन्त्रैर्गुरूत्तमः ॥

ततः प्रतिसरं बध्वा यागार्थं च यथोक्तवत् ।
आचार्यं यजमानं च ब्रह्माणं च सदस्यकम् ॥

मूर्तिपान् तर्पणं देवि यागेशप्रतिमादिषु ।
बध्नीयुरूर्णासूत्रैश्च तन्मन्त्रं च पुरोक्तवत् ॥

वह्निसाधनकं पश्चात् होतृभिः सह देशिकः ।
सूर्यकान्तोद्भवं श्रेष्ठकाष्ठज्ञो मध्यो भवेत् ॥

श्रोत्रियागारजो वह्निरधमः परिकीर्तितः ।
सूर्यकान्तशिलायां वा बोधिवृक्षादिवा शिवे ॥

आदाय मन्तः साराणि कृत्वा मरणिकद्वयम् ।
संयोगः क्रमतः कुर्यात् शिल्पिशास्त्रोक्तमार्गतः ॥

त्रिहस्तरज्जुना वेष्ट्या सुदृढं त्रिगुणीकृतम् ।
गोमयालेपितं भूमिं शतपत्रं सुकर्णिकम् ॥

लिखेत् सम्पूरयेच्चूर्णं पञ्चवर्णं विभेदतः ।
शालिसम्पूरयेत्पीठं द्रोणमात्रं महेश्वरि ॥

अरणिं विन्यसेत्पीठे दर्भदाम्ना च वेष्टयेत् ।
गन्धपुष्पैः समभ्यर्च्य आचार्यो ऋत्विजैः सह ॥

आवयोश्च समावाह्य नैवेद्यान्तं महेश्वरि ।
मूलमन्त्रजपं कुर्यात्पञ्चब्रह्मादि सूक्तकैः ॥

मथित्वा प्रणवेनाग्निः तुषकार्पासकादिभिः ।
करीशं च समायोज्य अग्निजातकणादिकैः ॥

ज्वलयेच्च ततो मन्त्री ताम्रपात्रे शरावके ।
अग्निबीजेन चैतन्यं हृदा संहारमुद्रया ॥

आदाय योजयेद्बिन्दौ पूरकेण ततो हृदि ।
स्थापयेन्मनुना देवि अग्निश्च चितिमन्त्रतः ॥

तेजोरूपमहं वह्निं साक्षाद्ब्रह्मस्वरूपकम् ।
एवं ध्यात्वा ततो मन्त्री सम्पूज्य च हुताशनम् ॥

दापयेद्गुरुणा पश्चात् यजमानाय भक्तितः ।
देवस्यत्वा ततोद्धृत्वा ऋत्विजांश्च ततो ददेत् ॥

रक्षणीयं द्विजः श्रेष्ठाः होमार्थं च महेश्वरि ।
इत्युक्त्वा यजमानाय कृताञ्जलिपुट स्थितः ॥

आचर्यं पूजयेद्दत्वा शय्यावाहनभूषणैः ।
धेनुश्च ऋत्विजां दद्यात् अथवा वाससीं ददेत् ॥

इत्थं दत्वा तु देवेशि वह्निः सुप्रीतदो भवेत् ।
ततो जागरणं पश्चात् वेदपाठं द्विजोत्तमैः ॥

इत्थं कृत्वा तु देवेशि पुनः सूर्योदयान्तिके ।

इति श्रीवातुलोत्तरे काम्यकाण्डे उमामहेश्वरसंवादे लक्षहोममण्टपादि विधिर्नाम पञ्चचत्वारिंशत्पटलः ।

६१

अथातः सम्प्रवक्ष्यामि करणानां च लक्षणम् ।
कुण्डशोधनपूर्वं च वह्नेर्जननकर्म च ॥

पात्राणां साधनविधिं क्रमेण शृणु पार्वति ।
आचार्यस्तु शुचिर्भूत्वा कृत्वा चैवाह्निकक्रियाम् ॥

ऋत्विग्भिः सह देवेशि यागगेहं प्रविश्य च ।
सम्पूज्यादौ गणेशानं फलाद्यैस्तोषयेत्ततः ॥

पुण्याहवाचनं कुर्यात् मूर्तिपैश्च द्विजोत्तमैः ।
गत्वा कुण्डान्तिकं मन्त्री विष्टरे पूर्वदिङ्मुखः ॥

उपविश्य समानीय साधनान्युञ्चितानि वै ।
गुरुवन्दनपूर्वादि आत्मशुद्धिं समाचरेत् ॥

ततो जुह्वाङ्गमनुना न्यासजालं विधाय च ।
ततः सम्पूजयेन्मूर्ध्नि स्वगुरून् देशिकोत्तमः ॥

हृत्पद्मे पूजयेद्देवं गणेशानमथोर्चयेत् ।
कुण्डशुद्धिं प्रकुर्वीत वक्ष्यमाणेन वर्त्मना ॥

मूलमन्त्रन् जपन् मन्त्री तत्कुण्डं च समीक्षयेत् ।
अस्त्रमन्त्रेण सन्ताड्य दशदिग्बन्धनं ततः ॥

सम्प्राक्ष्य वर्मणा मन्त्री तारेणखननं शिवे ।
मृत्तिके हन मन्त्रेण उद्धरे मृत्तिकां ततः ॥

पूजयेच्च हृदा मन्त्री समीकृतिदृशाणुना ।
सेचयेदमुना कुर्यात् कुट्टयेदस्त्रमन्त्रतः ॥

मार्जयेत्कवचेनाथ लेपनं हेतिनाणुना ।
कलात्मकं कलाभिस्तु त्रिसूत्रीकरणं शिवे ॥

कवचेनार्चयेन्मन्त्री हृन्मन्त्रेण च पार्वति ।
अस्त्रेण वज्रीकरणं हृन्मन्त्रेण कुशैस्ततः ॥

चतुष्पथं तनुत्रेण तनुयादक्षपाटनम् ।
इत्येते कुण्डसंस्काराः अष्टादश महेश्वरि ॥

चतुरश्रं पुरा कृत्वा कुण्डमध्ये च वालुकैः ।
देवस्यत्वेति मन्त्रेण ह्रादकेन शलाकया ॥

आदाय च लिखेद्रेखां पूर्वाग्रे चोत्तराग्रके ।
तिस्रः पूर्वमुखा रेखास्तद्वत्सौम्यमुखास्तथा ॥

ब्रह्मा वैवस्वतः सोमो मध्ये दक्षिणवामयोः ।
रुद्रो विष्णुश्च शक्रश्च मध्ये पश्चिमपूर्वयोः ॥

ब्रह्मजज्ञानमन्त्रेण नाके मनु यथाक्रमम् ।
षड्रेखां च लिखेन्मन्त्री भूशुद्ध्यर्थमिहेश्वरि ॥

गन्धपुष्पादिभिश्चैव ततो नाम्नैव पूजयेत् ।
ततो यन्त्रं समुद्धृत्य पूर्वाग्रे चोत्तराग्रके ॥

भवत्येकोन पञ्चाशत्पदाद्यन्त्र तदास्फुटम् ।
बहिरीशानकोष्ठादि तन्मध्य च महेश्वरि ॥

मातृकां वर्णसंलेख्य प्रदक्षिण्येन देशिकः ।
तन्मध्येऽष्टदलं पद्मं कर्णिकाकेसरैर्युतम् ॥

विष्टरार्थं सुकूर्चं तु विंशद्दर्भकृतं ततः ।
पीठपूजां च तत्रैव आवाह्य पुरुषं परम् ॥

ततः पार्श्वे महादेव्या चिन्तयेच्च गुरु प्रिये ।
द्विनेत्रां द्विभुजां रम्यां पीनीन्नतपयोधराम् ॥

मुक्ताभरणसंयुक्तां पद्महस्तां सुलोचनाम् ।
शुद्धस्फटिकसङ्काशां रक्तावाहोग्रिभूषिताम् ॥

ऋतुस्नातां सुकूर्चस्थां वागीशस्य च वामके ।
कारणं जगतां देवं सर्वज्ञं सर्वसाक्षिणम् ॥

अनादिनिधनं शुद्धं साक्षाद्ब्रह्मस्वरूपिणम् ।
एवं ध्यात्वा ततो मन्त्री समर्च्य च महेश्वरि ॥

देवदेवौ च सम्पूज्य मूलमन्त्रेण पार्वति ।
पाद्यमर्घ्यादिकं दद्यात् कुङ्कुमं रक्तचन्दनम् ॥

रक्तपद्मानि सम्पूज्य धूपदीपादिकं प्रिये ।
शिवबीजेन तारादि नमोन्तेन ततः परम् ॥

तदेकतां समापन्नां भूवयेत्नं विचिन्तयेत् ।
दर्शयोद्योनि मुद्रां च लिङ्गमुद्रां तथा हृदा ॥

इत्येवं मनसा भाव्या क्रीडार्थं च प्रदर्शयेत् ।
तदा रतिस्त्रयोर्यावत् तावदग्निमथाङ्गुरुः ॥

पाणिना साम्भसा योनिं स मृज्यादस्त्रमन्त्रतः ।
पश्चाद्देवस्य देव्याश्च दद्यादाचमनीयकम् ॥

वध्नीयां गर्भरक्षार्थं दर्भं कङ्कणवत्करे ।
एकीकृत्य त्रदर्भेण बध्नीयान्मूलमन्त्रतः ॥

साधितं च ततो वह्निं भस्मधूमादिवर्जितम् ।
गुरुपत्न्या च ऋत्विग्भ्यम् आदाय च महेश्वरि ॥

कुण्डयोनौ प्रविन्यस्य देवस्यत्वेति मन्त्रतः ।
वह्निबीजजपन् मन्त्री क्रव्यादाशं परित्यजेत् ॥

अस्त्रमन्त्रेण सम्प्रोक्ष्य दक्षद्रुष्पादि वीक्षणैः ।
शोषदाहप्रवनानि ततन्मन्त्रेण पार्वति ॥

अकुञ्चनं ततो दीप्तं बहिः पिङ्गलया गुरुः ।
व्यवर्गस्य द्वितीया तु बिन्दुना भूषितं च यत् ॥

वह्निबीजमिदं प्रोक्तं त्रिवारं च समुच्चरन् ।
बिभाव्य निर्गतं तत्र योजयेदान्तरा * नम् ॥

स्पृष्ट्वा दर्भद्वयेनैव जप्त्वा तारेण चाष्टशः ।
धेनुमुद्रां प्रदृश्याथ रक्षयेदस्त्रमन्त्रतः ॥

अवकुण्ठ्य तनुत्रेण मूलमन्त्रेण पार्वति ।
पञ्चोपचारैरभ्यर्च्य जानुयुग्मं * * * ॥

कुण्डोर्ध्वं त्रिः परिभ्राम्य मूलमन्त्रमनुस्मरन् ।
तन्मध्ये विन्यसेदग्निम् आत्मनोऽभिमुखं गुरुः ॥

सम्प्रोक्ष्य काष्ठशिरसा निक्षिपेच्च महेश्वरि ।
चित्पि"गलं च मनुना ज्वलयेदनलं शनैः ॥

व्यजनं धमनीं वाथ प्रणयेन्मन्त्रवित्तमः ।
अग्निं प्रज्वलितं वन्दे मनुनानेन प्राञ्जलिः ॥

प्रार्थयित्वाप्युपस्थाय गुरुस्तन्मुपसीदतु ।
गुरुवन्दन पूर्वं च दश दिग्बन्धनं ततः ॥

ततो न्यासं विधायाथ कृशानो मनुभिर्न्यसेत् ।
जिंहाङ्गमूर्तिमनुभिः हिरण्यादि यथाक्रमम् ॥

लिङ्गेपाने तथा मूर्ध्नि वदने च गुरूत्तमः ।
नासिकानयनद्वन्द्वे सर्वाङ्गेषु च विन्यसेत् ॥

ऋष्यादिमङ्गविन्यासं हृदयादि न्यसेद्गुरुः ।
जातवेदाः सप्तजिह्वो हव्यवाहनसञ्ज्ञकः ॥

ध्रुवाग्नये पदाद्याश्चन्द्रेणमोन्ताः क्रमादमून् ।
मूर्धांस पार्श्वकट्यादि प्रदक्षिणवशाद्बुधः ॥

इत्थं न्यासं विधायाथ प्राणायामं समाचरेत् ।
पञ्चसङ्ख्य समद्भिश्च साधयेच्च महेश्वरि ॥

ततः सङ्कल्पमुच्चार्य जुहुयाच्च पृथक् पृथक् ।
सद्योजातादिभिर्मन्त्रैः समिद्भिश्च यथाक्रमम् ॥

इध्मबन्धनरज्जूंश्च बध्वा चैकीकृतं प्रिये ।
दक्षिणे च प्रविन्यस्य दर्भमुष्टिं तथोत्तरे ॥

पालाशोदुम्बराश्वत्थ प्लक्षन्यग्रोधजोद्भवः ।
अष्टादश पुनस्तिस्रो कुण्डमानसमुच्छ्रिताः ॥

अष्टोत्तरसहस्रं वा परिस्तरणदर्भकैः ।
षडङ्गुलसुविस्तारं मुष्टिदर्भं शतं गुरुः ॥

रज्जुद्वे तत्वसञ्चैश्च प्रोक्षणी सप्तदर्भकैः ।
प्रणीतार्णवदर्भैश्च द्वादशैर्ब्रह्मकूर्चकम् ॥

स्रुक्स्रुवौ मानुनं सप्त आज्यसंस्कार षट्कुशैः ।
द्वेदर्भे चरुशुद्धिः स्यात् पात्राणां साधनार्थके ॥

शतार्धं च तदर्धं वा कुशकुप्तिविधीयते ।
स्वर्णं वा राजतं वापि ताम्रं वाथ शरावकम् ॥

पूरितप्रस्थमेकं वा तन्यूनं च न कारयेत् ।
स्रुक् स्रुवौ हस्तमात्रौ च शुक्तिमात्रप्रपूरितम् ॥

एतत्पात्राणि सम्पाद्य कालभिन्नानि वर्जयेत् ।
ततः परिसमूह्याग्निं जुष्टेदाहुतिमन्त्रतः ॥

परिषिच्य जलेनाथ अस्त्रमन्त्रेण देशिकैः ।
दिक्परिस्तरणं कुर्यात् देवस्यत्वेति मन्त्रतः ॥

दक्षिणानुत्तरान् देवि नुत्तरानधरान् गुरुः ।
मेखलापरि मध्ये तु विन्यसेच्च यथाक्रमम् ॥

पात्राणां साधयेत् पश्चात् कुण्डस्योत्तर पार्श्वगे ।
भूतले कुशमास्तीर्य प्रणीतां प्रोक्षणां तथा ॥

आज्यपात्रं चरुस्थालीं स्रुक्स्रुवौ कुशमुष्टिकम् ।
इध्मप्रवश्चनं देवि साधयेद्देशिकोत्तमः ॥

द्वन्द्वरूपेण हस्ताभ्यां मन्त्रेणास्मिन्नधोमुखम् ।
अर्घ्योदकेन सम्प्रोक्ष्य दर्शयेदस्त्रमुद्रिकाम् ॥

प्रोक्षणीमन्मुखं कृत्या सुकूर्चं विन्यसेत्ततः ।
जलेरापः पुनन्त्वेति पूरयेद्धेनुमुद्रया ॥

कराभ्यां तत्त्रिरुत्पूय तज्जलैः प्रोक्ष्य चास्त्रतः ।
विध्मं विस्रस्य ग्रन्थिं च वर्मणा च महेश्वरि ॥

पात्राण्येतानि तासुक्ष्य उन्मुखीकृत्य प्रोक्षयेत् ।
दक्षिणे पद्मपीठं च दर्भकूर्चं न्यसेत्ततः ॥

आवाह्य च द्विजश्रेष्ठं भूपतेत्वथ मन्त्रतः ।
अर्वावसोः समावाह्य गन्धपुष्पैः समर्चयेत् ॥

तत्पुरस्तात्प्रणीतानां निधायाद्भिः प्रपूरयेत् ।
ब्रह्मबीजौ मन्त्रेण सिद्धमन्त्रेण पार्वति ॥

आवाह्य वरुणं पश्चाद्ब्रह्माणं च समर्चयेत् ।
दोर्भ्यां नासान्तमुद्धृत्य ब्रह्मणश्चाप्यनुज्ञया ॥

धनेशेश्वरयोर्मध्ये पूर्वपीठं कुशोपरि ।
निधाय दर्भमाच्छाद्य * * * अष्टवारं गुरुः ॥

घृतस्थालीं समादाय प्रोक्षयेदस्त्रमन्त्रतः ।
तत्र गोघृतमापूर्य नेत्रमन्त्रेण वीक्षयेत् ॥

वायव्यां दिशि मास्थाप्य मेखलस्य समीपतः ।
तनुत्रेण च नीराज्यं तदग्नौ निक्षिपेद्गुरुः ॥

पुनर्दर्भद्वये मन्त्री अस्त्रमन्त्रेण पार्वति ।
त्रिवारं दर्शयित्वा तु मनुनाग्नौ विनिक्षिपन् ॥

आदाय योनौ विन्यस्य अङ्गारान् सह योजयेत् ।
दर्भौ प्रादेशमात्रेण मध्ये ग्रन्थियुतेन च ॥

शुक्रमसीति मन्त्रेण वह्निमध्ये च निक्षिपेत् ।
चरुं च श्रपयेत्पश्चात् निर्वपामीति मन्त्रतः ॥

अग्नये वो जुष्टं प्रोक्ष्यामि अग्नये वो जुष्टं निर्वपामिति देवता च प्रधानकम् ।

त्रिवारमिति मुच्चार्य दर्भौ सन्दर्श गामयेत् ।
अभिघार्योत्तरे न्यस्य जननाग्निर्न कर्म च ॥

स्रुक्स्रुवौ शोधयेत्पश्चात् दक्षवामकरद्वये ।
अग्रमध्यममूलेषु कुशयुगस्य शोधयेत् ॥

अग्नौ निष्टप्य सम्मृज्य मूलमन्त्रेण वै त्रिशः ।
एवमेव स्रुचं शोध्य न्यसेत्तत्रैव तान् पुनः ॥

परिधींश्च गृहीत्वाथ वर्मनेत्रासुमन्त्रकैः ।
पश्चिमे दक्षिणे न्यस्य उत्तरे च महेश्वरि ॥

तदूर्ध्वसमिद्धन्यस्य कवचेन द्वयं गुरुः ।
अनुयाजसमित्तत्र प्रणीतोर्ध्वे न्यसेद्गुरुः ॥

पावकं गन्धपुष्पाद्यैः जिंह्वादि परिपूजयेत् ।
लोकपालादिकान् पूज्य कुण्डमेखलदेवताः ॥

ब्राह्मी वज्री तथा चैन्द्री धन्विराक्षी महेश्वरी ।
शबला च तथा वेगा क्रमात्कुण्डानि देवताः ॥

परिधिं परिस्तरणं देवि ब्रह्माणं च यथाक्रमम् ।
वाणीं लक्ष्मीं पार्वतीं च क्रमादावाह्य पूजयेत् ॥

समिधं च ततो हुत्वा परिषेचनमारभेत् ।
अदितेत्यादि मन्त्रेण परितश्च यथाक्रमम् ॥

अग्नये जातवेदाश्च अर्चयेदुक्तमार्गतः ।
ग्राह्यं पञ्चदशेध्मं तु गन्धपुष्पैः समर्चयेत् ॥

प्रश्नीतायामिमां रज्जुं न्यसेद्वलयवत्ततः ।
समित्समूहमाज्येन सम्यगाप्लाव्य देशिकः ॥

द्विशीर्षं चैकहृदयं चतुश्रोत्र द्विनासिकम् ।
आस्यद्वयं च षण्णेत्रं पिङ्गलं सप्तहस्तकम् ॥

त्रिमेखलं त्रिपादं च सप्तजिंह्वाभिरावृतम् ।
चतुशृङ्गं वृषारूढं बलादित्यसमप्रभम् ॥

उपवीतसमायुक्तं जटामकुटमण्डितम् ।
सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके ॥

स्रुक्स्रुवौ चाक्षमालां च शक्तिं दक्षिणहस्तके ।
तोमरं व्यजनं चैव घृतपात्रं तु वामके ॥

एवं ध्यात्वा ततो मन्त्री ब्रह्मणोऽनुज्ञया पुरा ।
इध्महोमं ततः पश्चात् स्रुवेणाज्यं हृदाणुना ॥

नाडीसन्धौ तु विज्ञेया वक्त्रोद्घाटनमादरात् ।
दक्षनेत्रेग्नये स्वाहेत्युदरन् जुहुयात् गुरुः ॥

वामतस्त्वाज्यमादाय वह्ने वामविलोपने ।
हृदा जुहोतु सोमाय स्वाहेति च गुरुः प्रिये ॥

मध्यनेत्र ततो वह्ने गृहीत्वा मध्यतो घृतम् ।
अग्नीषोमाभ्यां स्वाहेति सृवन्मन्त्रेण नेत्रतः ॥

घृतमादाय देवेशि दक्षभागाद्धृदाणुना ।
वह्निवक्त्रेऽग्नये स्विष्टकृते स्वाहेति होमयेत् ॥

वह्निमन्त्रं ततो हुत्वा तारव्याहृतिभिस्त्रिशः ।
जिंह्वाङ्गमूर्तिमनुभिः जुहुयाच्च यथाक्रमम् ॥

ऋषि त्रिष्टुभ मन्त्रैर्णैस्सञ्जप्य च गुरु प्रिये ।
आदौ मूलेन सम्पूज्य उपचारैश्च देशिकः ॥

जुहुयात् समिधं पश्चात्तन्मूलमनुवित्तमः ।
अष्टाष्टाज्याहुतिर्हुत्वा क्रमेण च पृथक् पृथक् ॥

गर्भाधानादिकाः कुर्यात् विवाहान्ताः क्रियाः क्रमात् ।
गर्भाधानं पुंसवनं सीमन्तं बलिजातके ॥

स्यान्नामकरणं पश्चादुपनिष्क्रमणं ततः ।
अन्नप्राशनकं चौलमुपनीतं ततो गुरुः ॥

चत्वारि वेदप्रथिता व्रतानि स्नानकर्म च ।
विवाहान्तमिति प्रोक्ताः गर्भाधानादि कर्मणाम् ॥

पश्चात् कर्म करोमीति प्रत्येकं समिधं हुनेत् ।
आज्येन होमयेदन्ते वह्नो पूर्णाहुतिं हुनेत् ॥

ततः सूतकशुद्ध्यर्थं जातकर्मविधौ कृते ।
तत्परिस्तरणादीनि साधनानि परित्यजेत् ॥

सम्प्रोक्ष्य गोमयजलैः तत्कुण्डं च महेश्वरि ।
पूर्ववत्साधनं कुर्याद्यथावदनु देशिकः ॥

जिंह्वामन्त्रैर्मूर्तिमन्त्रैः दशभेदविभेदितैः ।
महागणपतेर्मन्त्रैः पूर्वपूर्वापितैर्हुनेत् ॥

पीठपूज्याथ तद्वह्नौ देवं ध्यात्वा ततो गुरुः ।
उद्दिश्य देवतारूपं यजेत्सावरणादिकैः ॥

सम्मुखीकरणार्थं च पञ्चविंशाहुतिर्हुनेत् ।
देवताह्यतनामैक्यं भावयेन्मूलमन्त्रतः ॥

एकादशाहुतिर्नाडी सन्धानाय हुनेत्ततः ।
एकैकमावृतीनां च देवताभ्यो घृताहुतिः ॥

इत्येवं च गुरुः कुर्यात् वह्नेर्जननकर्मणि ।
न कुर्याच्च हुनेद्धोमं तद्धोमो निष्फलं भवेत् ॥

इति श्रीवातुलोत्तरे उमामहेश्वरसंवादे काम्यकाण्डे अग्निजननविधानं नाम पञ्चचत्वारिः पटलः ।

६२

अतः परं प्रवक्ष्यामि मूर्तिपैः सहितो गुरुः ।
द्रव्यहोमादि पूर्णान्तं तर्पणं कुम्भपूजनम् ॥

तत्तज्जपं तत्फलं च क्रमेण शृणु पार्वति ।
मण्टपान्तस्थकुम्भेषु मूर्तिपाश्चोपविश्य च ॥

आसनादि विशुद्धिं च न्यासं कुर्यान्महेश्वरि ।
कुण्डशुद्धिं प्रकुर्वीत सद्योजातादि पञ्चकैः ॥

शोधनं क्षालनं चैव शोषणं पालनं तथा ।
अभ्युक्षणं च पञ्चैते स्त्वन्यकुण्डेषु संस्मरैः ॥

आचार्यकुण्डादनलं पूर्वादि विहरेत्ततः ।
अग्निमीलेति मन्त्रेण पूर्वोपस्थाय चानलम् ॥

इषे त्वोर्जेति मन्त्रेणाग्नेयाञ्च न्यसेत्ततः ।
दक्षिणे च त्वमग्नेति उपत्वाग्ने च नैर्-ऋते ॥

वारुणे जातवेदादि वायव्ये व्याहृतिं प्रिये ।
अग्निं दूतं चोत्तरे च अग्निमग्नीति चैशके ॥

विहरेदनलं पश्चात् प्राणायामं समाचरेत् ।
जिंह्वाङ्गमूर्तिन्यासादि ततः सङ्कल्पपूर्वकम् ॥

हुत्वा द्रव्याणि सङ्ख्याभिः देवतानाममोच्चरन् ।
अबाधानादि देवेशि गुरुमूर्तिधरा पृथक् ॥

स्वस्वकुण्डे च तैस्सर्वैरुक्तवत्कारयेत् क्रमात् ।
चरुं विना न कर्तव्यं ब्रूहिता ब्रह्मपक्वकम् ॥

परिधिं च महेशानि मूर्तिपैश्च न कारयेत् ।
भवाद्यं मूर्तिमावाह्य पूजयेत्पीठमन्त्रकैः ॥

एकैकशश्च जुहुयुः जिंह्वादि मनुभिस्तथा ।
ऋत्विजो देशिकाद्याश्च ऋषिच्छन्दांसि मूलतः ॥

पक्वाहुतिं च जुहुयुः पञ्चभिश्चाघृताहुतिम् ।
द्रव्याणामाहुतिं पश्चाज्जुहुयुर्देशिकादिकाः ॥

हृदये वंशशून्यं च उदरे वृष्टिनाशनम् ।
कटौ तु स्थाननाशं च जानुमुच्चाटनं भवेत् ॥

मरणं बाहुमूले तु जिंह्वायां सर्वकामदम् ।
तस्मादग्नेर्विशेषेण जिंह्वायां होममाचरेत् ॥

हुत्वा मुद्रां च देवेशि मृगी हंसी च सूकरी ।
मयूरी कुक्कुटी चैव होमद्रव्यगृहे प्रिये ॥

मुद्राहीनस्तु यो होमः स सर्वो निष्फले भवेत् ।
आज्यं समिद्धविश्चैव गोधूमं सर्षपं शिवे ॥

तिलं च त्रुटिकं लाजान् सक्तुं क्षीरं दश क्रमात् ।
द्विसहस्रं गोघृतं च कुडुपं च महेश्वरि ॥

पालाशी खादिरी वाथ षडङ्गुलसुविस्तृता ।
अनाद्रा वक्रहीना च शोभिता च समिद्भवेत् ॥

शाल्युद्भवैस्तण्डुलैश्च प्रस्थं पञ्चशतं भवेत् ।
हरिद्रासंयुतं पक्वं क्लिष्टदोषादिवर्जितम् ॥

गोधूमादि द्रव्यमन्यत् तदर्धं परिकीर्तितम् ।
क्षालितं शोधितं पात्रे पूरयेन्मूलमन्त्रतः ॥

उद्दिश्यदेवतामन्त्रं प्रणवादि यथाक्रमम् ।
मूलमन्त्रं च जुहुयात् गुरुमूर्ति धराः पृथक् ॥

सहस्रोर्ध्वं पञ्चशतं चाष्टाहुति गुरुं प्रिये ।
प्रधानकुण्डे जुहुयादुद्देश्यत्यागपूर्वकम् ॥

होमयेयुर्मूर्तिपास्ते पृथक् कुण्डाष्टके पुनः ।
सहस्रं त्रिशतं देवि दशसप्त चतुस्तथा ॥

मूर्तिपानां पृथक् होमोदितं प्रतिदिदिनं प्रति ।
पृथक् द्रव्यं लक्षमितं पूर्वाज्यं चापराज्यकम् ॥

उत्तमं च हुनेद्धोमो उद्दिश्य दिवसान्तकम् ।
दश द्रव्याणि वा देवि हुनेर्लक्षं गुरूत्तमः ॥

द्रव्यान्ते होमयेदाज्यं मध्यमं च महेश्वरि ।
सर्वद्रव्यं हुनेर्लक्षम् अधमं परिकीर्तितम् ॥

ततो वै वेदिकामध्ये पञ्चविंशोत्तरं शतम् ।
पदं पूर्वोक्तवत् कुर्यात् पद्ममालिख्य देशिकः ॥

पञ्चवर्णकचूर्णैश्च पूरयेच्च पृथक् पृथक् ।
शालितण्डुलमापूर्य द्रोणार्धं च तदर्धकम् ॥

प्रस्थं प्रस्थं च सर्वेषां प्रधानादि यथाक्रमम् ।
स्वर्णादिकुम्भं सङ्गृह्य पञ्चविंशोत्तरं शतम् ॥

द्रोणवारि धृतं कुम्भं तदर्धं च तदर्धकम् ।
अन्येषां पूरितं प्रस्थं छिन्नभिन्नादि वर्जितम् ॥

क्षालितान् कलशान् देवि अस्त्रमन्त्रेण देशिकः ।
वर्मणा तन्तुनावेष्ट्या धूपैः सन्धूप्य मूलतः ॥

स्थापयेत्कलशं पश्चात् कवचेन महेश्वरि ।
अधोमुखं च कुम्भं च पूजयेच्च कलात्मकम् ॥

अस्त्रमन्त्रेण सम्प्रोक्ष्य कुम्भमुद्धृत्य चोन्मुखम् ।
षट्त्रिंशदर्भकूर्चं च पञ्चविंशतिकुर्चकम् ॥

सप्तविंशति कूर्चं च पञ्च पञ्च यथाक्रमम् ।
दर्भकूर्चं च विन्यस्य पयसा पूरयेद्घटम् ॥

वारिणाभ्यष्टगन्धं च पञ्चगव्यं कुशोदकम् ।
पञ्चामृतं कषायं च पूरयेन्नर्मलोदकम् ॥

नवरत्नं पञ्चरत्नं विन्यसे मातृकादिकान् ।
दशनिष्कं सुवर्णं च प्रधानकलशे न्यसेत् ॥

अष्टविद्येशकुम्भेषु प्रतिमां पञ्चनिष्ककाम् ।
निष्केण प्रतिमां हेम्नां बहिरावरणे न्यसेत् ॥

पणेन हेम्ना प्रतिमामन्येषु कलशेषु च ।
विन्यसेत् प्राणमन्त्रेण औषधानि विनिक्षिपेत् ॥

चूतपल्लवमेतेषु विन्यसे नेत्रमन्त्रतः ।
नालिकेरफल न्यस्त्वा कवचेन महेश्वरि ॥

दुकूलवाससाच्छाद्य अस्त्रमन्त्रेण पार्वति ।
विचित्रैर्नववासोभिः श्वेतवस्त्रैर्यथाक्रमम् ॥

सर्वकुम्भान् समाच्छाद्य कूर्चं शिरसि मन्त्रतः ।
प्राणायामादि विन्यासं पीठपूजां समाचरेत् ॥

कुम्भेष्वावाह्य देवेशान् विद्येशादि यथाक्रमम् ।
सर्वान् देवान् समावाह्य प्र * मावरणादिकान् ॥

पञ्चविंशोत्तरशतम् आवाह्याभ्यर्च्य मान्त्रिकः ।
कलान् सम्पूज्य देवेशि षट्त्रिंशत्तत्वमन्त्रतः ॥

पञ्चब्रह्ममनून् पश्चादुपचारैस्समर्चयेत् ।
दश विप्रांश्च परितो जपेयुर्मूलमन्त्रतः ॥

सहस्रं पञ्चविंशत्या ऋष्यादिन्यासपूर्वकम् ।
चतुरस्त्रं चतुर्दिक्षु गणेशं क्षेत्रपालकम् ॥

दुर्गामनुं च वाणीं च प्रासादं च त्रियम्बकम् ।
भुवनेशीं च वास्तुं च राक्षोघ्नं च नवग्रहान् ॥

श्रीरुद्रं पावमानं च श्रीसूक्तं विष्णुसूक्तकम् ।
भूसूक्तं ब्रह्मसूक्तं च धृतसूक्तमनुं ततः ॥

जपेत् सप्तशतिं देवि परितश्च यथाक्रमम् ।
चतुर्द्वारे चतुर्वेदान् वदेयुर्भूसुरोत्तमान् ॥

तर्पयेत् सौम्यदिग्भागे दशांशं च पयोम्बुभिः ।
दशविप्रांश्चोपविश्य पद्ममालिख्य मण्डले ॥

शालितण्डुलमापूर्य तत्र पात्राणि विन्यसेत् ।
पयसा वारिणापूर्य गन्धपुष्पं च निक्षिपेत् ॥

आवाह्य पूजयेद्देवं तर्पयेत्तिलतण्डुलैः ।
सहस्रं द्विशतं सार्धं मन्त्री मूलाणुना युतः ॥

यावद्धोमावसानान्तं नवं कुर्यान्महेश्वरि ।
होमान्ते स्विष्टकृद्धोमो यदस्येत्यणुना गुरुः ॥

कृत्वानुयाजसमिधं रज्जुं हुत्वा ततः परम् ।
जयादिंश्च ततो हुत्वा प्रायश्चित्ताहुतिं ततः ॥

ततो महाव्याहृतिभिरेकैकां सर्पिषाहुतिः ।
ततः पूर्णाहुतिं देवि ब्रह्माणं च विसृज्य च ॥

हामं समापयेदन्ते बलिदानं समाचरेत् ।
नवपिण्डान् प्रकुर्वीत आज्येन हविषा ततः ॥

गुरुकुण्डादिका न्यस्त्वा काष्ठदीपान् प्रपद्य च ।
वेदिकुम्भान् यजेत् पश्चादाचार्यो यजमानकः ॥

शिष्यमाहूय तत्कुम्भं प्रधानं च महेश्वरि ।
शिरसा धारयेन्मन्त्री वेदमङ्गलविस्वनैः ॥

सर्वान् कुम्भान् समादाय मूर्तिपादि द्विजोत्तमैः ।
प्रदक्षिणवशान्मन्त्री घटमन्तः प्रवेशयेत् ॥

लिङ्गं सम्पूज्य मूलेन प्रधानादि यथाक्रमम् ।
तस्याः सूक्तेन संसिञ्चेत् मूलमन्त्रेण पार्वति ॥

महापूजा प्रकर्तव्या प्रागुक्तेन महेश्वरि ।
सर्वेभ्यश्च बलिं दत्वा तत्सर्वं च समर्पयेत् ॥

सहस्रद्विशतं सार्धं भूसुरान् भोजयेत् प्रिये ।
शाल्यान्नं सघृतं क्षीरसूपशाकस्वादुसमन्वितम् ॥

भक्षं पायससुक्षीरशर्करा मधुसंयुतम् ।
भूक्तेषु तेषु देवेशि ताम्बूलं च प्रदापयेत् ॥

मन्त्राशीर्वचनं ग्राह्यं यजमानेन भक्तितः ।
एवमेव समुद्दिष्टदिनान्तं च दिने दिने ॥

पूर्णाहुतिस्तदन्ते तु कृत्वा चावभृतक्रियाम् ।
विसुज्य कङ्कणं पश्चात् शुद्धस्नानं समाचरेत् ॥

यागगेहं प्रविश्याथ गुरुकुण्डसमीपतः ।
भूसुरेभ्यश्चोपविश्य यजमाने गुरुः प्रिये ॥

गोभूम्यादीनि दानानि छागं च महिषं तथा ।
खड्गं च तिलतैलं चानड्वाहं च दापयेत् ॥

पुष्पं फलं च ताम्बूलं पानीयं शयनादिकम् ।
दध्योदनं यज्ञसूत्रं कन्यादानं महेश्वरि ॥

विजनं पादुकं छत्रं चामरं स्वर्णकुम्भकम् ।
तदन्ते गुप्तदानं च कृच्छ्रं दद्यान्महेश्वरि ॥

भूसुराणां देशिकादि दक्षिणां विधिवद्बुधः ।
पञ्चविंशतिनिष्कं च विजनं वाहनं तथा ॥

छत्रं च चामरं चैव तन्त्रोपकरणैः सह ।
गुप्तदानं च दासं च देशिकाय प्रदापयेत् ॥

तदुक्तं मान्त्रिकायाथ दद्याद्विभवविस्तरम् ।
सप्तं च दशनिष्कं च पर्यङ्कं शय्ययावृतम् ॥

स्वयं गृह्य महेशानि आचार्याय प्रदापयेत् ।
दशनिष्कं सुवस्त्रं च ब्रह्मणे दापयेत् प्रिये ॥

सप्तनिष्कं पादुकं च सदस्याय प्रदापयेत् ।
मूर्तिगानां पञ्चनिष्कं पृथक् दद्याच्च कुण्डलम् ॥

सार्धनिष्कं द्विजातिभ्यः तर्पकेभ्यः पृथक् पृथक् ।
सार्धनिष्कद्वयं वेदघोषकाणां प्रदापयेत् ॥

जापकानां सार्धनिष्कं मूलमन्त्रस्य पार्वति ।
अन्येषां जापकादीनां चाराणां निष्कमुच्यते ॥

प्रदक्षिणकृतां चैव पूजकानां तथैव च ।
दीनान्धबधिरादीनां यथाशक्त्याथ दक्षिणाम् ॥

इति दत्वा क्रमेणैव सम्पूर्णफलमश्नुते ।
उक्तार्धे च फलार्धं स्यादुक्तांशे च फलांशकम् ॥

ज्ञात्वा धर्ममिति प्राज्ञो स्ववंशस्याभिवृद्धये ।
लक्षहोममिमं देवि यः कुर्याच्च नृपोत्तमः ॥

ब्रह्महत्यादि पापघ्नं सर्वमृत्युनिवारणम् ।
सर्वदुःखोपशमनं सर्वदा मङ्गलप्रदम् ॥

सर्वशान्तिकरं ज्ञेयं पुत्रपौत्राभिवृद्धिदम् ।
तुष्टिपुष्टिप्रदं देवि कीर्तिदं कान्ति वृद्धिदम् ॥

आयुर्वृद्धिकरं सौख्यं सर्वत्र विजयं भवेत् ।
भूमिदानेन यत्पुण्यं तत्फलं बहुभिर्मखैः ॥

देहान्ते मम सायुज्यं त्रिस्सप्तकुलसंयुतः ।
कामितार्थफलं शीघ्रं सत्यं सत्यं मयोदितम् ॥

इति श्रीवातुलागमे उमामहेश्वरसंवादे काम्यकाण्डे लक्षहोमविधि कर्मविधिविवर विधानं नाम सप्तचत्वारिंशत् पटलः ॥

६३


स्वस्ति ॥

यस्मिन् देवे भवेद्देवि नित्यकार्यबलिद्वयम् ।
तदा नैमित्तिके मन्त्री त्रिकालं बलिमाहरेत् ॥

नित्ये वा वर्तमाने तु त्रिकालं बलिकर्मणि ।
तदा नैमित्तिकं कुर्यान्नित्यबल्या सहैव तु ॥

अथवान्यप्रकारेण भवे नैमित्तिके बलिः ।
प्रातरेव विनिर्वत्य बलिं नित्यं महेश्वरि ॥

मध्याह्ने चैव सायाह्ने बलिं नैमित्तिकं हरेत् ।
नित्यमादौ विनिर्वर्त्य बलिं नाडीद्वयात्परम् ॥

नैमित्तिकबलिमन्त्री प्रकुर्यादेवमेव वा ।
काम्ये बलिविधौ देवि विशेषः क्वचिदिष्यते ॥

मध्याह्ने वाथ सायाह्ने कुर्यात्तद्द्वितयेऽपि वा ।
नित्यबल्या सहैवात्र पृथग्वा पूर्व तद्बलिम् ॥

एवं नित्यादिके देवि बलिक्रम इतीरितः ।
परिवारामराणां च सन्तृप्तिर्नित्यकर्मणाम् ॥

परिपूर्णफलावाप्तिर्देवस्य च भवेद्यतः ।
सुखं च सर्वजन्तूनां तस्मान्नित्यं चरेद्बलिम् ॥

ब्रह्मलोकादिलोकेषु संस्थिता ये सुरादिकाः ।
तेषां प्रीतिर्भवेद्येन भूपतेः सर्वसम्पत् ॥

शिवस्यातिप्रियः कुर्यात्तस्मान्नैमित्तिकं बलिम् ।
कर्तुः काम्यफलावाप्तिः सर्वशत्रुनिवारणम् ॥

सर्वशान्तिर्भवेद्येन तस्मात्काम्यबलिं चरेत् ।
पूर्वाह्वे ब्रह्मणः प्रीतिः विष्णोर्मध्यन्दिने भवेत् ॥

सायाह्ने शङ्करस्यैव बलिदानं हि पार्वति ।
सृष्ट्यादि भेदतः कल्प्य बलिःकालत्रये त्रिधा ॥

अत्राधिदेवा विज्ञेया ब्रह्मविष्णुशिवस्तथा ।
द्विवरं च त्रिवारं च चतुर्वारं पृथक् क्रमात् ॥

नित्ये नैमित्तिके काम्ये देवताभ्यो बलिं हरेत् ।


स्वस्ति ॥

अतः परं प्रवक्ष्यामि कालभेदेन साम्प्रतम् ॥

शिवादीनां च देवानां क्रमेण शृणु पार्वति ।
नित्यादि कर्मभेदेषु बलिदानविनिर्णयम् ॥

बलिभुग्देवताश्चापि बलिद्रव्यं तथैव च ।
बलिमन्त्रांश्च बल्युक्तवाद्यानि त्रिविधानि च ॥

इन्द्रादितालगानानां नामान्यत्र वदाम्यहम् ।
तृप्त्यर्थं सर्वदेवानां सुखार्थं सर्वदेहिनाम् ॥

राज्ञां विजय राज्य श्रीपुत्रायुष्यादि वृद्धये ।
सर्वारिष्टनिवृत्त्यै च सर्वलोकहिताय च ॥

बलिदानं प्रकर्तव्यं तस्माद्देवि प्रयत्नतः ।
प्रातःकाले च मध्याह्ने सायाह्ने च क्रमेण वै ॥

बलिदानं प्रकुर्वीत नित्ये नैमित्तिके तथा ।
काम्ये चापि विधौ मन्त्री यथाविधि महेश्वरि ॥

मध्यन्दिने च सायाह्ने नित्यकर्मणि चाथवा ।
बलिं दद्यान्महोत्पाते महास्नपनकर्मणि ॥

प्रायश्चित्ते गुरौ चैव प्रतिष्ठायां विशेषतः ।
महोत्सवादि कालेषु त्रिकालं बलिमाहरेत् ॥

शैवे शास्तरि चैवं स्यात् बलिदानविधिक्रमः ।
दुर्गायां गणनाथे तु बलिन्नित्यादि कर्मसु ॥

मध्याह्ने चैव सायाह्ने कुर्याद्वाचोत्सवादिषु ।
कालत्रये च विष्णौ तु षण्मुखे शङ्कराच्युते ॥

द्विकालं वा त्रिकालं वा नित्यादिषु बलिं हरेत् ।
एवं शिवादि देवानां नित्यनैमित्तिकादिषु ॥

बलिकालविभेदोक्ता बलिदेवान् शृणु प्रिये ।
नन्दी चैव महाकालो गणेशो दक्षिणेश्वरः ॥

शूलपाणिं परशुपाणिं दिक्पालाः ससुराधिपाः ।
ततः परं महानन्दी वीरभद्रो विनायकः ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डास्सप्तमातरः ॥

मातरश्च तथा लोका मातरस्सर्वमातरः ।
सर्वमातृगणा लक्ष्मीर्भूचरी खेचरी तथा ॥

शास्ता दुर्गा गुहः श्रीदश्चण्डनाथस्तथैव च ।
तीक्ष्ण दौंष्ट्र मृगास्यौ च गोपुरद्वारपालकौ ॥

भृङ्गी चैव महाकालो भूतनाथो महीधरः ।
पर्वतेशो गुहेशश्च कालपाशकपालिनौ ॥

तदन्त्ये क्षेलपालश्च महापीठे तु तत्परम् ।
भूतिदो दुर्निरीक्षश्च भीमरूपं सुलोचनः ॥

सुमुखश्च सुबाहुश्च कालपाशकपालिनौ ।
अधःपिङ्गलकेशाश्च हरसेनस्तदूर्ध्वतः ॥

एते बलिभुजो नित्ये देवाः शैवे समीरिताः ।
चण्डः प्रचण्डो गरुडोऽनन्तो विघ्नेश्वरः शिवः ॥

दिक्पालवीरभद्रैकदन्तौ ब्राह्म्यादिकस्तथा ।
शास्ता दुर्गा च धनदो विष्।
वक्सेनोऽथ गोपुरे ॥

चक्रपाणिः शङ्खपाणिः श्रीभूमिः परितो बहिः ।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥

शङ्कुकर्णः सर्पनेत्रः सुमुखःसम्प्रतिष्ठितः ।
क्षेत्रेशोन्त्ये चाथ बलिपीठे किष्कन्धपूर्वकाः ॥

किष्किन्धः शङ्करो भौमो भीमश्च सुकुमारकः ।
ततो बाहुलकश्चैव विजयोऽनन्तविक्रमः ॥

पुनः पिङ्गलकेशाक्षो हरसेनस्तु मध्यतः ।
द्वारादि बलिपीठान्तं बलिदेवा इमे हरौ ॥

चण्डिका चाम्बिको सिंहो दक्षिणे गणपेश्वरौ ।
दिक्पा वीरेश विघ्नेशमातृकाद्याः पुरोदिताः ॥

शास्ता दुर्गा च धनदो मुण्डिनी गोपुरे ततः ।
ह्लादिनी मोहिनी द्वारि विजयन्ती ततः परम् ॥

कात्यायनी बहिरथो काल्याद्या बलि देवताः ।
काली कराली विरजा मन्दरा विन्ध्यवासिनी ॥

सुप्रभा सिंहवक्त्रा च दैत्यमर्दिन्यतः परम् ।
क्षेत्रेशो बलिपीठे तु ब्रह्मघोष्यादि देवताः ॥

ब्रह्मघोषी सुघोषी मा यथेष्टी सुखरागिणी ।
सम्मुखी सुभगा दिक्षु प्रमोदिन्यथ चात्मनि ॥

ब्राह्मी मध्ये चैवमुक्ता दुर्गाया बलि देवताः ।
वज्रपाणिः शक्तिपाणिः सुकुमाराह्वयस्ततः ॥

भद्रसेनः शिखी भास्य दक्षिणामूर्तिलोकपाः ।
मातृशास्त्रम्बिकाःस्कन्दो धनदो धूर्तसेनकाः ॥

अग्निकेतुः सूर्यकेतुः गोपुरद्वारि तद्बहिः ।
देवसेनापतिश्चाग्निनेत्रो दग्धोसिधार्यथ ॥

पाशहस्तां हयः केतुहस्तसञ्ज्ञो गदाधरः ।
ततः शूलविलासिन्यादीशान्यन्तस्तथोपरि ॥

विप्रप्रियोऽथ क्षेत्रेशो बलिपीठे ततः परम् ।
भूतिदाद्यास्तु शैवोक्ता देव अत्रैव चोदिताः ॥

बलि देवा इति प्रोक्ताः स्कन्दस्य परमात्मनः ।
क्षुरिका खड्गपाण्यन्तद्वारपालौ बहिस्तथा ॥

वीरबाहुर्महावीरो नीलाश्मेभास्यशङ्करौ ।
दिक्पालमातरः शास्ता धनदो घोषवांस्तथा ॥

तीक्ष्णश्च तीक्ष्णदन्तश्च गोपुरे परितो बहिः ।
गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शाम्भवः ॥

त्रिदिक् शूली दक्षभीमरूपा क्षेत्रप एव च ।
वीरबाहुर्महावीरो विद्युद्वासविलासिनौ ॥

तीक्षश्च तीक्ष्णदन्तश्च ताराक्षश्च भवोद्भवः ।
अधः पिङ्गलकेशाक्षः शास्त्रसेनस्तथोपरि ॥

बलिपीठे त्विमे शास्त्र बलिदेवा इतीरिताः ।
वज्रदन्तगजास्यौ च महापाशो विनायकः ॥

शिवदिक्पा मातृशास्तृदुर्गास्कन्दां हयास्ततः ।
कुम्भोदरो गोपुरे तु चण्डविक्रमसञ्ज्ञकः ॥

ततो विघ्नकरो दिक्षु वज्रदन्तो गजास्यकः ।
भीमश्च महिषास्यश्च मेघनादस्तथैव च ॥

विरूपाक्षश्च वरदः सर्वभक्षक एव च ।
तदान्त्यक्षेत्रपालश्च गजवक्त्रादिकस्ततः ॥

गजवक्त्रगणेशाख्यौ ततश्चैव विनायकः ।
चण्डविक्रमको विघ्नकरशूर्पायुमेखलाः ॥

शूर्पकर्णस्ततो नागदन्ती स्याद्रुद्रवक्त्रजः ।
बलिपीठस्य दिक्षु स्युरध उर्ध्वे त्विमे स्मृताः ॥

एवं द्वारादि सम्प्रोक्ता विघ्नेशबलिदेवताः ।
नन्दी चण्ड जयत्सेन विष्वक्सेन वृषास्तथा ॥

गरुडोऽनन्त विघ्नेशौ शिव दिक्पालमातरः ।
शास्ता दुर्गा गुहश्चैव चण्डसेनोऽथ गोपुरे ॥

शूलारिणौ बहिर्दिक्षु नन्दी चैव समन्ततः ।
महाकालां हयः पश्चाद्भूतनाथो महीधरः ॥

कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।
क्षेत्रपालस्तथैशान्यां बलिपीठे ततः परम् ॥

आयान्तु पाशदाः सर्वे शाङ्करा वैष्णवाश्च ये ।
बलिपीठेऽत्र सन्तुष्टा निवसन्तु यथासुखम् ॥

ओन्नमो युक्पार्षदेभ्य इत्याराध्य बलिं हरेत् ।
इतः परं च शर्वादि बलिद्रव्यं शृणु प्रिये ॥

घृतान्नं बिल्वपत्रं च जातीकुसुममेव च ।
श्रीगन्धं चाक्षतं वारि धूपदीपौ तथैव च ॥

बलिद्रव्यमिदं शैवे दध्यन्नं तुलसी तथा ।
कल्हारकुसुमं रक्तचन्दनाद्यं समीरितम् ॥

अगरुं जम्बुपत्रं च मल्लिकाकुसुमं तथा ।
क्षीरोदनं च दुर्गायामन्यत्सर्वं च पूर्ववत् ॥

स्कन्दे गोरोचनोपेतं गन्धं चैव गुडोदनम् ।
शतपुष्पं च निर्गुण्डी पत्रञ्चापगणाधिपे ॥

कुचन्दनं च मध्वन्नं पुनिपुष्पं तथैव च ।
न्यग्रोधच्छन्दनं वाथ मुद्गान्नं शङ्करच्यते ॥

कर्पूरागरुयुग्गन्धं द्रोणपुष्पं तथैव च ।
अपामार्गदलं प्रोक्तं शास्तर्च्यथ निगद्यते ॥

कृसरान्नं च कर्पूरमिश्रचन्दनमेव च ।
नन्द्यावर्तसुमं बिल्वपत्रं चान्यत् पुरोक्तवत् ॥

देवेषु निखिलेषूक्तद्रव्यालाभेऽथवैषु च ।
शुद्धोदनं वा द्रव्येषु यथालब्धानि केवलम् ॥

गन्धपुष्पाणि पत्राणि भवेयुर्बलिकर्मणि ।
बलिद्रव्यमिति प्रोक्तं बलिमन्त्रान् शृणु प्रिये ॥

ध्यात्वादौ देवमभ्यर्च्य मन्त्री गन्धादि मुद्रिकाः ।
प्रदृश्य तत्तदुक्तैश्च बलिमन्त्रैर्बलिं हरेत् ॥

गन्धं कनिष्ठया पुष्प अङ्गुष्ठाग्रेण देशिकः ।
धूपं दद्याच्च तर्जन्या दीपं मध्यमया तथा ॥

अनामयान्नमित्युक्ता मुद्रागन्धादिकाः क्रमात् ।
ओन्नमोन्तं सवेदादि देवनाम जलं ततः ॥

अर्चयामुच्चरेद्देवं पत्रं पुष्पं तथैव च ।
एवमन्नं वदेन्मन्त्री वह्निजायावसानकम् ॥

पृथक् पृथक् द्वारपादि देवानां च यथाक्रमम् ।
बलिमन्त्रा इमे नित्यविधौ सर्वामरेषु च ॥

सन्ति नैमित्तिकाद्ये तु बलिकर्मणि केनचित् ।
उपस्थानान्नवश्चैव मालामन्त्राः सदां तथा ॥

मनवः पार्षदां चैव मातॄणां तत्र तत्र वै ।
बलिदेवगणाधीशाः केचित्पार्षदादिकाः ॥

नोच्यं तत्र मयोक्तत्वादुत्सवेषु सविस्तरम् ।
बलिमन्त्रा इति प्रोक्ता वाद्यानि शृणु साम्प्रतम् ॥

श्रेष्ठं द्वादशवाद्यं स्या सप्तवाद्यं च मध्यमम् ।
अधमं पञ्चवाद्यं स्या वाद्यानि त्रिविधेति च ॥

भेरीशङ्खमृदङ्गाश्च पणवो मद्दलस्तथा ।
वीणावेणुश्च तालं च कहलं नागवाद्यकम् ॥

यल्लरी कम्बुवाद्यं स्यादेवं द्वादशवाद्यकम् ।
शङ्खो मृदङ्गः पणवो वीणा तालं तथैव च ॥

कहलं दुन्दुभिश्चेति सप्तवाद्यं प्रकीर्तितम् ।
मद्दलश्चैव तालं च तथैव जयघण्टिका ॥

शङ्खश्च कलहञ्चेति पञ्चवाद्यं प्रकीर्तितम् ।
इन्द्रादि तालनामानि प्रोच्यन्तेऽथ यथाक्रमम् ॥

समतालं सुरेशस्य वह्नेर्बन्धापणांह्वयम् ।
याम्यं स्या भृङ्गितालं तु मल्लतालं तु नैर्-ऋतम् ॥

वारुणं नव तालं स्यान्नागतालं तु मारुतम् ।
कौशिकाख्यं तु सौम्यं स्याद्दक्करीशानतालकम् ॥

वृषतालं महोक्षस्य मातॄणां शशितालकम् ।
स्कन्दस्योत्कलतालं स्याद्दौर्गं तटप्रहारकम् ॥

चण्डनाथस्य विषममथगानं समीर्यते ।
प्राच्यां तु गानं गान्धारं कोल्लि चाग्नेयगोचरे ॥

दक्षिणे कौशिकी चैव नटभाषा च नैर्-ऋते ।
वारुणं कामरं गानं कर्कशी वायुगोचरे ॥

तत्तद्रागं चोत्तरे तु शालापाणी च गोचरे ।
एवं तालानि गानानि नित्ये बल्युत्सवे विधौ ॥

नित्यमूर्तिं भ्रामयेत्तु यदा नैमित्तिकादिके ।
नैमित्तिक्या सहैवैनां बलिमूर्त्या गुरुस्स्तदा ॥

असुराजेन संयुक्तामन्तलिङ्गेन चाथवा ।

इति परमेश्वरतन्त्रे अष्टत्रिंशत्पटलः ॥

६४

ओङ्कारं भुवनेश्वरीं क्षितिपारं गोरोचनाढ्यम् वन्दे द्वाकारं तु विरूढसम्पुरं पदम् ।

नित्योत्सवाय बेराणि कल्पितानि वधूनि चेत् ।
तदर्धं कल्पयेत्तेषु यथेष्टं बेरमुन्नतम् ॥

एककालं द्विकालं वा त्रिचतुःपञ्चकालम् ।
षट् सप्तवसुकालं वा सर्वदा चार्चयेच्छिवाम् ॥

नित्येत्वेवं समादिष्टसर्वाभीष्टफलप्रदा ।
प्रातःकाले तु मध्याह्ने सायाह्ने यदि पार्वति ॥

बलिकर्मणि हीने तु प्रायश्चित्तं समाचरेत् ।
पुण्याहं वाचयित्वा तु नान्दीकर्म विधाय च ॥

अघोरास्त्रेण वङ्कुर्यादष्टोत्तरशतं तथा ।
पञ्चब्रह्मषडङ्गैश्च होमं कुर्याद्यथा विधि ॥

स्नापयेत्कलशैर्देवं पञ्चभिर्नवभिस्तु वा ।
देवं सावरणं पूज्या निवेद्यं मधुरं ददेत् ॥

देवताभ्यो बलिं दद्याद्ब्राह्मणान् भोजयेत्ततः ।
एवं प्रातर्विधि प्रोक्तो मध्याह्ने द्विगुणं भवेत् ॥

सायाह्ने तत्समं देवि प्रायश्चितविधिक्रमात् ।

इति चन्द्रज्ञाने ।