०१

जङ्घे पादे तथा हस्ते प्रक्षाल्य तु पुनः पुनः ।
कन्थयित्वा ततः स्नायात् शिवतीर्थस्य मध्यतः ॥ १ ॥

चक्रवत्युपचारेण सुगन्धामलकादिभिः ।
ब्रह्माङ्गैः शिव गायत्र्या महास्त्रेण शिवेन च ॥ २ ॥

अभिषेकं प्रकुर्वीत सन्ध्योपासनमेव च ।
संहृत्यसर्वमन्त्राणि निनादेन विधानवित् ॥ ३ ॥

आकृष्योदितमार्गेण स्थापयीत हृदिस्वके ।
तत आयतनं गच्छेत् पुष्पहस्तो विचक्षणः ॥ ४ ॥

यदा तु रोगादिना वारुण स्नान शक्तस्तदा प्रक्षाल्य ।
पाणि पादौ तु भस्मस्नानं समाचरेत् ॥ ५ ॥

इति श्रीसर्वज्ञानोत्तरे वारुणस्नानप्रकरणम् ॥

भस्मस्नानं प्रवक्ष्यामि सङ्क्षेपान्न तु विस्तरात् ।
सर्वज्ञा * त्तोमं पुण्यं सर्वपापहरं परम् ॥ ६ ॥

ख संस्थं गोमयं गृह्य स्थाने वा पतितं शुभे ।
अधः परिसन्त्यज्य पञ्चगव्येन मर्दयेत् ॥ ७ ॥

विविक्ते निर्जने रम्ये सर्वोपद्रव वर्जिते ।
प्रक्षवल्मीक निर्मुक्ते प्रवाते परिशोषयेत् ॥ ८ ॥

शुष्कं संहरेत् प्राज्ञः अस्त्रबीजेन प्रोक्षयेत् ।
शिवाग्निं जनयित्वा तु निर्दहेत् तेन वह्निना ॥ ९ ॥

अथ सङ्क्षेपतः स्कन्द आरण्य गोमयं पुनः ।
पञ्चगव्येन संयुक्तं विधानेन तु निर्दहेत् ॥ १० ॥

प्। १३८)

तस्याप्य सम्भवेभस्म लेप गन्ध विवर्जितम् ।
शुचि स्थानाश्रितं शुद्धं तदप्येवं पुनर्दहेत् ॥ ११ ॥

संहृत्य हृदि मन्त्रेण नवे भाण्डे निधापयेत् ।
अस्त्रं तु जपतो मन्त्री सर्वविघ्नविनाशनम् ॥ १२ ॥

अस्त्राभिमन्त्रितं कृत्वा मलस्नानं समाचरेत् ।
विधिस्नानं ततः पश्चात् मूर्ध्न आरभ्य मन्त्रवित् ॥ ३ ॥

ब्रह्मभिस्त्वनुपूर्वेण बहिरङ्गैरनुक्रमात् ।
अभिषेकं शिवे नैव पश्चात् कूर्वित षण्मुख ॥ १४ ॥

उद्धूल्य विधिवत् प्राज्ञः कौपीना परिवर्तये * ।
प्रक्षाल्य तु मृदा पादौ करौ च पुनराचमेत् ॥ १५ ॥

त्रितत्व परिजप्तं तु त्रिः पिबेन् मन्त्रविज्जलम् ।
परिमृज्यान्मुखं शक्त्या त्रिवारं तु यथाक्रमम् ॥ १६ ॥

प्रणवेन ततो विद्वान् शिखानेत्रादिकं स्पृशेत् ।
आचम्य विधिना भूयः पितृदेवाश्च तर्पयेत् ॥ १७ ॥

सर्व मन्त्रैः सदा सन्ध्यां वन्दयित्वा विचक्षणः ।
ततो ध्यानं प्रकुर्वित जपञ्च त्रिविधं पुनः ॥ १८ ॥

जपेत् षट्क त्रयं पुण्यं नित्यं मनोवाक्काय कर्मभिः ।
काल्ये च मध्यमे चैव प्रासादादि क्रमेण तु ॥ १९ ॥

सर्वेषु वा शिवं ध्यात्वा नित्यं जपध्यानेषु वा स्मरेत् ।
प्राणवृत्ति निरोधेन नैव पापमवाप्नुयात् ॥ २० ॥

प्। १३९)

संहितां वा स्मरेन् नित्यं त्रिषु कालेषु मन्तवित् ।
शतमष्टोत्तरमक्षैस्सर्व पाप विशुद्धये ॥ २१ ॥

सर्व विघ्न विनाशार्थं पाशजालस्य चैव हि ।
अस्त्राणि घोरूपाणि सततं परिवर्तयेत् ॥ २२ ॥

एवं मन्त्रमयो भूत्वा सर्व मन्त्रांस्तु योजयेत् ।
संसाययेद्रुद्रान्मन्त्रान्योगि योगात्मकान् गुणान् ॥ २३ ॥

श्रीसर्वज्ञानोत्तरे भस्मस्नानप्रकरणम् ॥

अतः परं प्रवक्ष्यामि कमण्डलुधरस्सदा ॥ २५ ॥

असहायस्य योगीन्द्र सखा ये व कमण्डलुम् ।
प्रज्वल्यमग्निं घोरेणास्त्रेण च विधानवित् ॥ २६ ॥

प्रातरुत्थाय तं नित्यं देहे देव कमण्डलुम् ।
ताम्रम्येन संशोध्य तथास्त्रोदक भस्मना ॥ २७ ॥

रौप्य हेमौ तु संशोद्ध्य लेप गन्ध मलान्वितौ ।
ततस्त्वा पूरयेत् पश्चाद् वस्त्रपूतेन वारिणा ॥ २८ ॥

पाद्यमाचमनं शौचमाचरेत् सततं क्रमात् ।
न किञ्चित् संस्पृशेत् तावद् यावच्छुष्कौ करावुभौ ॥ २९ ॥

सुशुष्क पाणि पूतात्मा व्यतिकार्यं यथोदितम् ।
नान्येन सेवितं वस्त्रं न शय्या न कमण्डलुम् ॥ ३० ॥

न भस्मना कलावत्यं संसेवेत कदाचन ।
आत्म शय्यात्म वस्त्रं च जायापत्यं कमण्डलुम् ॥ ३१ ॥

प्। १४०)

आत्मनः शुचिरेतानि परेषामशुचिर्भवेत् ।

श्रीसर्वज्ञानोत्तरे कमण्डलुप्रकरणम् ॥

इति सर्वज्ञानोत्तरपादः समाप्तः ॥