अथातः सम्प्रवक्ष्यामि वारुणं स्नानमुत्तमम् ।
सावनं परमं स्कन्द लेप गन्ध विनाशनम् ॥ १ ॥
पाणिपादौ पुरःक्षाल्य मृत्तिकां गृह्य वारुणी ।
उपस्पृश्य शुचिर्भूत्वा शिवं ध्यायेत् स निर्मलम् ॥ २ ॥
अस्त्रेण प्रोक्षणं कुर्यात् मृत्तिका हरणं कुरु ।
मनयितास्त्र बीजेन हृदयेन तु संहरेत् ॥ ३ ॥
जलतीरे निधायै तत् क्षालयित्वा जलाश्रयम् ।
अस्त्रेण क्षालयेत् पूर्वं स्थापयेद्धृदयेन तु ॥ ४ ॥
ते नैवाभ्युक्षणं भूयस्ततो भागत्रयं पुनः ।
पूर्वदक्षिणे नैव तथा चैवोत्तरेण तु ॥ ५ ॥
अस्त्र जप्तं भवेत् पूर्वं ब्रह्म जप्तं तु दक्षिणम् ।
उत्तरं शिव जप्तं तु प्रकुर्वीत पृथक् पृथक् ॥ ६ ॥
अस्त्र जप्तं क्षिपेद् दिक्षु दशस्वपि यथाक्रमम् ।
नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत् ॥ ७ ॥
आग्नेयी धारणा ध्यात्वा पुनरमृतं विचिन्तयेत् ।
शिवजप्तेन भागेन ततोभ्यावर्तयेज्जले ॥ ८ ॥
शिवतीर्थं भवेदेवं विधिनानेन षण्मुख ।
अत्र ग्रन्थ पातः ॥
प्। १३७)