२३

अतः परं प्रवक्ष्यामि भिक्षा चर्या विधिक्रमम् ।
भोजनं शयनं शौचमायामञ्च जपाश्रयम् ॥ १ ॥

हृदिना ग्रहणं कुर्यात् पात्रस्य सततं बुधः ।

प्। १३३)

क्षालयित्वास्त्र बीजेन कवचेन तु वेष्टयेत् ॥ २ ॥

ईशानं चिन्तयन् मध्ये गायत्रास्त्रं च मन्त्रवित् ।
अस्त्रं तु जपतो नित्यं भिक्षामावयेच्छुचिः ॥ ३ ॥

अस्त्र दण्डे तु विन्यस्य छत्रे गायत्रिमेव तु ।
ततो भिक्षामटेन्नित्यं पतिता शस्तवर्जिताम् ॥ ४ ॥

आगत्य तत्पुनः पात्रं शुद्धि स्थाने निधापयेत् ।
सङ्गृह्य मूर्तिकां भूयो जङ्घा शौचं तु कारयेत् ॥ ५ ॥

आचम्योद्धुल्य पूतात्मा पुनरभ्युक्षयेच्चरुम् ।
शोधयित्वा विधानेन देवाग्न्यात्मनि कल्पयेत् ॥ ६ ॥

अथ प्राणाहुतिं दत्वा शिवहोमं पुनः क्रमात् ।
स्निग्धमल्पं च भुञ्जीत भविष्य शीतलं निशि ॥ ५ ॥

आचम्य बहिः निष्क्रान्तो भक्षयेदं तथा वनः ।
उद्धूल्य पुनराचम्य * यीत विधिना ततः ॥ ८ ॥

त्रिहस्तोत्खात भूशय्ये शुचि शुद्धे महीतले ।
सर्वलक्षणसम्पूर्णो पुनरा कृत्वा जपालयम् ॥ ९ ॥

वितानध्वज संयुक्तं पताकै रूप शोभितम् ।
रुद्रावतार क्रिडाद्यैश्चित्र कर्म विभूषितम् ॥ १० ॥

नवैकादश हस्तं वा सप्तहस्तमथापि वा ।
प्रागुत कल्पकनं कुर्याच्छयनं च सदा बुधः ॥ ११ ॥

पञ्चरङ्गित सूत्रेण वर्मालब्धो * मन्त्रवित् ।
द्वार देशादारभ्य वेष्टयेत् त्रिगुणेन तु ॥ १२ ॥

प्। १३४)

रत्निमात्रां स्थितः कीला नष्टौ दिग्देवतान्वितान् ।
अङ्गान् स्वस्थान् विन्यस्थान् पूजयित्वा यथा क्रमात् ॥ १३ ॥

चतुरः कलशान् पूर्णान् विदिशासु निवेशयेत् ।
शिवस्थाने यजेद् रुद्रं प * ध्यानेन वा गुह ॥ १४ ॥

दीप्ततेजोनिल प्रख्यं दंष्ट्रोत्कटभयानकम् ।
शस्त्रोद्यतकरं घोरं सर्वविघ्न विनाशनम् ॥ १५ ॥

ततः शक्तिं न्यसेद् भूमौ विद्यां तत्रोपरिन्यसेत् ।
स्वरचक्रं ततो दद्याद् वर्णानि च यथाक्रमम् ॥ १६ ॥

पूर्ववन्मन्त्र देहस्तु प्राकारास्त्रैः सुगोपितम् ।
शयीतमनसा योगी शिवं पश्येत् समं ततः ॥ १७ ॥

तमेव जपतो नित्यं ध्यानमाश्रित्य मन्त्रवित् ।
अर्धरात्रे तु सवने तथैव समुपासयेत् ॥ १८ ॥

शयनं च तथा भूय प्रबुधस्य तथा जपः ।
गतिं देवस्य विज्ञाय जपध्यानादिकं क्रमात् ॥ १९ ॥

प्रहरार्धे ततोत्थाय ध्यात्वा देवं पिनाकिनम् ।
मनसा वर्तयेत् तं तु प्रणवं बिन्दु वर्जितम् ॥ २० ॥

निर्गत्य शयनं स्थानात् आवश्यकरणं कुरु ।
बहिरङ्गो पवीती च दृष्टिदूत पदक्रमी ॥ १२ ॥

दिवैवोद मुखस्तिष्थे छात्रो वै दक्षिणमुखः ।
अर्धरात्रे तु नैर्-ऋत्ये द्वे सन्ध्ये तु यथा दिवा ॥ २२ ॥

प्। १३५)

काष्ठितृणोपलं लोष्ठं वान्त ध्यानं षडानन ।
ततो मलं प्रकुर्वीत वस्त्रतश्चावकुण्ठितः ॥ २३ ॥

न नदीषु कुर्यान्न भस्मनि न गोमये ।
न गुल्मे शाद्वले प्रश्मेशानोप वनेषु च ॥ २४ ॥

काष्ठेन दावा रामृश्य पायुं लोष्ठेन वा गुह ।
ग्रहीतशिग्नो भूत्वा तु मृत्तिका हरणं कुरु ॥ २५ ॥

बालुकोषर संवर्ज्य वृक्ष मूल जलाये * ।
वल्मीक मृत्तिकां चैव तथा वै ग्रामयानिकाम् ॥ २६ ॥

विशुद्धं मृत्तिकां गृह्य जयतीरे निधापयेत् ।
ततः शौचं प्रकुर्वीत मृत्तिकां गृह्य वारिणाम् ॥ २७ ॥

लिङ्गे त्रीणि गुदे सप्त दशैक करे स्मृतः ।
उभयोः सप्ततातप्य मृत्तिका शुद्धिमिच्छता ॥ २८ ॥

एकैकमन्तरे त्रीणि एव शौचं कृतं भवेत् ।
दन्त काष्ठं ततो मन्त्री भक्षयेदभिमन्त्रितम् ॥ २९ ॥

आचम्य विधिनोत्थाय पुनरुद्धुलयेत् क्रमात् ।
पश्चाद्योजं ध्यानं यावदभ्युदितो रधिः ॥ ३० ॥

ततः स्नानं प्रकुर्वीत सकृत् विततवारिणि ।
अथोर्ध्वं भस्मना स्नानं सर्वकाम समृद्धये ॥ ३१ ॥

लेप गन्ध विनाशाय वारुणं परिकीर्तितम् ।

इति श्रीसर्वज्ञानोत्तरे भिक्षाचर्यादिप्रकरणम् ॥

प्। १३६)