पुनरेवं प्रवक्ष्यामि जपस्य विधिनिर्णयम् ।
यथा च विन्दते कालमाप्यायन विसर्जनम् ॥ १ ॥
जपाद् दशांशतो होमे जपान्ते दशलाक्षिकः ।
कोटिः कल्पेदिता वत्स उत्तमा सिद्धि साधने ॥ २ ॥
मध्यस्य तु पञ्चास्यत् कन्यसे पञ्चविंशतिः ।
सर्वाणि क्षुद्र कर्माणि तस्यार्थेन तु कारयेत् ॥ ३ ॥
दीर्घकण्टकिनो वृक्षा निम्बतिन्दु विभीतकाः ।
श्रशक्र श्लेष्मातकाश्चैव विज्ञेया क्रूरकर्मणि ॥ ४ ॥
प्। १२९)
द्विविधाग्रा स्फुटिता वक्रा वक्रच्छेदा समिद्धयः ।
विषा प्रकटिकैर्लाक्षाः प्रयोज्याः क्रूरकर्मणि ॥ ५ ॥
उक्ताभ्यस्त्वन्यथा स्कन्द क्षीरवृक्ष समुद्भवाः ।
शान्ति कर्मणि विज्ञेयास्त्यक्त्वा वा ब्रह्मवृक्षजा ॥ ६ ॥
लता पल्लवमध्यस्था ग्रन्थि हीनाः समत्वचः ।
नीरुजा निर्व्रणाश्शान्त क्रूरेष्वेता विलोमिकाः ॥ ७ ॥
विषमाश्रास्सदा कुण्ड विज्ञेयाः क्रूर कर्मसु ।
समाश्राः शान्तिके कर्षै पौष्टिके च षडानन ॥ ८ ॥
सा भाग्यमर्थ संसिद्धिं नित्य होमात् प्रवर्तते ।
जपेन पाप संशुद्धिं ज्ञानध्यानात् प्रमुच्यते ॥ ९ ॥
विशिष्टजन सम्पादो नरेन्द्रजन वन्दनम् ।
आत्मोत्कर्षबलं चैव यदि स्यात् सिध्यते ध्रुवम् ॥ १० ॥
दिव्यान्तरिक्ष भौमानि सिद्धि लिङ्गानि पश्यति ।
अथवाभ्यन्तरे वाचं श्रुत्वा भूष्याणि संहरेत् ॥ ११ ॥
पुष्पलोहादि लोहानि रसं चोपरसानि च ।
उपवीतां जनादीनि अरिताल मनःशिलाम् ॥ १२ ॥
अरिवर्गाहतं लोहं घृतमध्वानि वेधयेत् ।
प्रहिरसे पञ्चगव्येतीतः कुर्याद्वरायुधम् ॥ १३ ॥
रसं चोपरसं चैव पीत सूर्म्येण शोधयेत् ।
होमान्तरादि शुल्पानां शोधनं पूर्वचोदितम् ॥ १४ ॥
प्। १३०)
यद्यस्य शोधनं द्रव्य मूलतन्त्रैः प्रकीर्तितम् ।
रसतन्त्रे तथा भूयस्तत्तन्नैव विशोधयेत् ॥ १५ ॥
अक्ष सूत्र विधानेन द्रव्यालभन मालभेत् ।
कथितं तु पुरावत्स स्त्रिविध द्रव्य साधनम् ॥ १६ ॥
उत्तमं मध्यमं चैव कन्यसं च यथा क्रमम् ।
सात्विकं राजसं चैव तामसं चेति तत्स्मृतम् ॥ १७ ॥
ज्वलन्तं सात्विकं विद्यात् सधूमं राजसं स्मृतम् ।
सोष्णं वै तामसं विद्यात् * दद्रव्य विचक्षणः ॥ ८ ॥
उत्तिष्ठं ज्वलमानेन सधूमेन सुराङ्गना ।
सोष्माणो दृश्यतां याति इति तो त्रिविधा गतिः ॥ १९ ॥
बीजमन्त्रं तदा ध्यानमात्मानञ्च विधानवित् ।
बिन्दुमध्यगतं कुर्याच्छक्त्याधिष्ठित विग्रहम् ॥ २० ॥
रसो रसायनं रोगो गणिकां जन पादुके ।
एव मुक्तनिबिध्यन्ते हरिताल मनःशिले ॥ २१ ॥
बिन्दु नाद मयो यो योत्रगीयदा भवति षण्मुख ।
तदाशु सर्व कार्याणि संसाययति नान्यथा ॥ २२ ॥
सितशान्तितरोज्ञेयः पीतः पौष्टिक कर्मणि ।
शिख्यवन्मारणे प्रोक्ता व्यायव्योच्चाटने स्मृतः ॥ २३ ॥
ऐन्द्रकोपक सङ्काशो वशीकरण कर्मणि ।
विद्वेषणे प्रयुञ्जीत धूमवर्णो निलात्मकः ॥ २४ ॥
प्। १३१)
इन्द्रायुध समाकारं तथैवा कर्षणे मनम् ।
सर्वा वर्णात्मको बिन्दुः सर्व कर्म करः स्मृतः ॥ २५ ॥
भ्रुवोर्मध्यगतं चैव षट्च्छदनेन यो ।
शुद्धस्फटिक सङ्काशं पश्यते करणेन तु ॥ २६ ॥
निश्वासो श्वास योगेन देहिनां देह संस्थितः ।
उदितो भास्करो भूत्वा सोमश्चै * कलात्मकः ॥ २७ ॥
स एव कालो नाद्यन्तो यस्मिन् सर्वं प्रतिष्ठितम् ।
विशते च पुनस्तस्मिन् तस्माच्चैव प्रवर्तते ॥ २८ ॥
दक्षिणे प्राणवृत्तिस्तु * त्युमाख्याति देहिनाम् ।
उत्तरेण तथैवेह * य च पुनरीश्वरम् ॥ २९ ॥
त्रैरब्दिक महो * * * भ्यां ज्ञेया द्विराब्दिकम् ।
अभिरे * तथा * * हे * नाहाय पाडिकम् ॥ ३० ॥
अ * र्ध्व * * * * मौ यदा चरति भास्करः ।
तदा होरात्रिकं मृत्युं पुनराख्याहि देहिनाम् ॥ ३१ ॥
मृत्युमेवं विधं दृष्ट्वा यदि जीवितु मिच्छति ।
तदाऽसौ सौम्य नाथस्थं तमेव परिचिन्तयेत् ॥ ३२ ॥
शुद्धकुन्देन्दु वर्णाभां शङ्खगोक्षीर सप्रभम् ।
अमृतीरूपमात्मानं तन्मध्ये तन्मयं गुह ॥ ३३ ॥
अथ चावर्ण पूर्वं वाऽमृता परिकीर्तिताः ।
तामेव धारयेन्नित्यं न मृत्यु वशगो भवेत् ॥ ३४ ॥
प्। १३२)
दूर्वां त्रिमधुरक्तां वा अमृताद्व्यङ्गुला तथा ।
जुहुधा त्रिमधुरक्तां वा प्लुतेन विद्यते ॥ ३५ ॥
अथ निर्वेद मायानि जीविते वस्थिरे चले ।
कालात्मकं तदा देवं मृत्युरूपं विचिन्तयेत् ॥ ३६ ॥
वह्निना मूर्ति सम्भिन्नं सुषुम्ना मध्य संस्थितम् ।
ज्वलज्ज्वलन सङ्काशं दीप्ततेज शिखार्चितम् ॥ ३७ ॥
उत्कृष्य मूर्ध्नि शब्देन प्राणास्तत्समतां नयेत् ।
काला जु * समाधाय मनसा निश्चलेन्द्रियः ॥ ३८ ॥
निष्पद्य स्पन्दनौ सम्यक् सर्वद्वाराणि चैव हि ।
सन्ताड्या वायुवेगेन क्षुरिकास्त्रेण मूर्धनि ॥ ३९ ॥
अ * श भावनायुक्तो बिन्दुनाद मयं स्मरेत् ।
एवं विमुच्यते प्राणैः तस्मिन्नेव प्रकी * ते ॥ ४० ॥
बिन्दुनादोद्भवं सर्वं स्थूल सूक्ष्म * * * * ।
तस्माद्बिन्दुमुपासीत शक्तिस्नरस * * * ॥ ४१ ॥
यथा तु चित्त सम्पन्नश्चरुभस्थ तं भवेत् ।
वित्तहीनं चरेद् भिक्षां कणपत्वां न कीमथ ॥ ४२ ॥
इति सर्वज्ञानोत्तरे सिद्धिसाधकादिप्रकरणम् ॥