चालय मानेषु लिङ्गेषु विधिरेषु प्रकीर्तिता ।
अचलेषु समाख्याहि तत्वतः प्रतिमासु च ॥ १ ॥
अतत्वज्ञे चल लिङ्गं स्थापितं तु * दा भवेत् ।
स्थपत्या वा यवान्येन तस्य कालो(?) विधिः स्मृतः ॥ २ ॥
सौवर्णं राजतं ताम्रं कर्तुं वा शैल मृण्मयम् ।
प्। १२६)
स पीठं निर्मितं लिङ्गं धधन्यदचलं भवेत् ॥ ३ ॥
अस्त्राम्बु पञ्चगव्येन धारणादिभिर्विशोधयेत् ।
स्थापयेत् सर्व बीजैस्तु प्लुतैर्बिन्दु विभूषणैः ॥ ४ ॥
ध्यानेन देवता पीठं यातु बीजं सरत्नकम् ।
पूर्वोक्तेन विधानेन प्रणवेन तु सा स्मरेत् ॥ ५ ॥
इन्द्रश्च पावकश्चैव यम नि-ऋ-ऋति एव च ।
जलवायु कुबेरेश ब्रह्मानन्दाश्च देवताः ॥ ६ ॥
पृथिव्यादीनि गन्धान्तं ब्रह्मवेद्यां प्रकल्पयेत् ।
धारिका मूर्ध्नि वेद्या तु धर्मादि चरणान्न्यसेत् ॥ ७ ॥
तानि चैव निबन्धानि गुणैरन्योन्य वर्तिभिः ।
चतस्त्रो गात्रकां कृत्वा रागाद्य वरणादिषु ॥ ८ ॥
अथोर्ध्व चन्दने भूयो माया विद्ये प्रकल्पयेत् ।
वा त्वा लिङ्गं तु तन्मध्ये शिवान्तं वाथ चिन्तयेत् ॥ ९ ॥
विशुद्धि रश्मि निर्भासं सूर्यकोटि समप्रभम् ।
आधारं सर्वदेवानां भक्तिमुक्ति फलप्रदम् ॥ १० ॥
तस्य मूर्ध्नि सितं पद्मं तल्लिनं चारु कार्णिकम् ॥ ११ ॥
चारुकेसरपर्यन्तम् अष्टपत्रं मनोरमम् ।
लिङ्गमेवं सदा कल्प्य ततः संस्थापयेच्छिवम् ॥ १२ ॥
पूर्वोक्तेन विधानेन पूजयेच्च यथा क्रमम् ।
स्वाहा स्वधा वषट्कारैः वषट् कारेण चैव हि ॥ १३ ॥
प्। १२७)
अभ्यर्च्य सम्प्रयुञ्जीत नेत्र वक्त्राणि चैव हि ।
अभ्यर्च्य सम्प्रयुञ्जीत धूपं भक्ष्यादिभिः क्रमात् ॥ १४ ॥
अग्निस्थस्यावि देवस्य गन्धपुष्पपवित्रकैः ।
वस्त्रेषु चार्घ्य पात्रेषु नमस्कारोपि धीयते ॥ १५ ॥
सर्वलिङ्गे स्वयं स्कन्द विधिरुक्तः समासतः ।
प्रयत्नेन तु कर्तव्यः प्रतिमासु निबोधमे ॥ १६ ॥
प्रतिमां लक्षणोपेतां विचित्र लेप्यां तथेतराम् ।
यादृशं देवतारूपं तादृग्रूपं तु कारयेत् ॥ १७ ॥
अस्त्राम्बु पञ्चगव्याद्यैः स्नानं पूर्ववदाचरेत् ।
तथा च भूत संशुद्धिं धारणाभिः समाचरेत् ॥ १८ ॥
सौम्येन देवता स्थाप्य प्रथमेन षडानन ।
ततोङ्गानि नियुञ्जीत नेत्र वक्त्राणि चैव हि ॥ १९ ॥
सञ्चिन्त्य देवता रूपं शुद्धाव * व लक्षणम् ।
प्रसन्न वदनं सौम्यं सर्वालङ्कार भूषितम् ॥ २० ॥
हृदा तु गन्धपुष्पाणि वस्त्राण्याभरणानि च ।
धूपोपहार द्रव्याणि दीपानि स्वकीयेन नियोजयेत् ॥ २१ ॥
होमे रत्नेषु रप्येषु ताम्रशैलमयेषु च ।
दाखेषु च सर्वेषु सदा स्नानं विधीयते ॥ २२ ॥
चित्र लेप्येषु वैद्यानां तस्यानन्तेषु कारयेत् ।
पाद्यमाचमनं चार्घ्यं सर्वज्ञानेन संस्मरेत् ॥ २३ ॥
प्। २२८)
केवलं मन्त्र विन्यास मुत्न पुष्पैर्निरम्बुभिः ।
कृत्वा धूपं प्रयुञ्जीत नैवेद्यं चोप कल्पयेत् ॥ २४ ॥
गन्धपुष्पैस्तथा धूपैस्तद्गृहं परिवासयेत् ।
वस्त्र शोभां पुना कृत्वा चित्रवर्णैर्वराम्बरैः ॥ २५ ॥
तोरणैश्च ध्वजैश्छत्रैः पताकैश्चारु दक्षणैः ।
रचनाभिरनेकाभि रचित्वा देवता न्यसेत् ॥ २६ ॥
ततो होमं प्रकूर्वित पुरस्तात् संयतेन्द्रियः ।
स्थापिता देवता या तु तस्या मन्त्रैस्तु पूर्ववत् ॥ २७ ॥
स्थापने सर्वदेवानां पुरस्ताद्धोममाचरेत् ।
सततम् अग्नि कार्येषु अगारं पृथग् भवेत् ॥ २८ ॥
प्रतिदेवं प्रतिष्ठायां * * * * * * * * ।
इति सर्वज्ञानोत्तरे प्रतिमादिप्रकरणम् ॥