२०

गन्धे क्षीणे यथा लिङ्गे वर्तुमानं तु कारयेत् ।
चालयित्वा तु तत्स्थानात् पृष्ठदेशे निधापयेत् ॥ १ ॥

शैले निलयेश्छैलं दाखे दाखं तथा ।

प्। १२३)

मृण्मये मृण्मयं चैव रत्ने रत्नं नियोजयेत् ॥ २ ॥

सुवर्णेन तु सन्धाय घृतेन मधुना सह ।
पूर्वोक्तेन विधानेन प्रयत्नेन तु स्थापयेत् ॥ ३ ॥

एवं तु तेन धत्तेन विधिज्ञो विधि सत्तमः ।
रक्षो भूत पीशाचाश्च आश्रयं निविगर्हितम् ॥ ४ ॥

अत्युच्चं वा प्रमाणस्थं विषमस्थां समं कुरु ।
निमुस्तं बोध्न तं कुर्याद् वारार्थं न व्यतिक्रमेत् ॥ ५ ॥

न चैव वेधनं कुर्यारदेशस्य षण्मुख ।
याम्यां वा पश्चिमां वापि सूत्रमेकं परित्यजेत् ॥ ६ ॥

अथ बाह्यात् क्रमे सूत्रमीशानं सार्वद्वारिकम् ।
शास्त्रोक्तं विधिमुत्सृज्य भक्तियुक्तोपि मानवः ॥ ७ ॥

सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् ।
शास्त्रोपदिष्टमार्गेण घृ * नाहुतिभिः क्रमात् ॥ ८ ॥

शतेन स्थापयेल्लिङ्गं सहस्रेण तु चालयेत् ।
दुद्धरेद्वापि पूर्व * * * सूत्रेण मन्त्रवित् ॥ ८ ॥

अत्राम्बु पञ्चगव्येन धारणाभिर्विशोधयेत् ।
दधि क्षीर घृतैः स्नाप्य ततोलिङ्गं विरुक्षयेत् ॥ १० ॥

यवगोधुमजैश्चूर्णैः कषाग्नैर्गन्धयोजितैः ।
त्वक् भिश्च विविधैर्मद्धैः क्षीरवृक्षसमुद्भवैः ॥ ११ ॥

आभिः क्षीरकुशाग्रैश्च मद्ध्य क्षत तिलेस्सह ।
यवैः सिद्धार्थकैःर्युक्तं पश्चादर्घ्यं प्रदापयेत् ॥ १२ ॥

ततो गन्धैश्च पुष्पैश्च धूपवस्त्रविभूषणैः ।
भक्ष्य भोज्यान्न पानादि द्यैश्चिन्तयेद्बिन्दुमीश्वरम् ॥ १३ ॥

प्। १२४)

यद्यद् द्रव्यं निषेधं स्यात् तन्मयं तत्र चिन्तयेत् ।
शक्तियुक्तं परं देव मया भृतं षडानन ॥ १४ ॥

यो द्यो वासौ सदा देव सर्वदः सर्व कामिकः ।
सर्वज्ञः सर्वगश्शान्तो मूक्तो मूक्तो निरामयः ॥ १५ ॥

युक्तानि शक्तिमन्त्रेण सर्वद्रव्याणि षण्मुख ।
मेद्ध्यानि तु भन्तिहतस्मात् सर्वत्र योजयेत् ॥ १६ ॥

शिरस्थाने तु देवस्याचार्यो होममाचरेत् ।
शिवस्य शिवमन्त्रेण सहस्र परिसङ्ख्यया ॥ १७ ॥

ब्रह्मभिश्च शिवाङ्गैश्च यथास्थानेष्वनुक्रमात् ।
तस्यार्थेन बहिः पश्चात् मूर्ति होमं समाचरेत् ॥ १८ ॥

विद्येश्वर गणैर्मन्त्रैर्लोकपालैस्तथैव च ।
यथास्थानेषु पञ्चाङ्गैः मूर्ति होम परः स्मृतः ॥ १९ ॥

अथवा सर्वमन्त्राणां यथा पूर्वमुदाहृतम् ।
शिवस्य शिवयागे तु तथाग्नौ तर्पयेत् सदा ॥ २० ॥

पृथक् पृथक् पदा स्कन्द व्या * * * स्य देवताः ।
तथा पञ्चां संयुक्ताः स्वमन्त्रविधि कल्पिताः ॥ २१ ॥

अथाभ्यर्च महेशानं लिङ्गेग्नौ स्थण्डिलेपि वा ।
तदेक मन्त्रमन्त्रास्तु ध्येया सर्वाङ्ग युताः ॥ २२ ॥

एवमिष्ट्वा यथान्यायं ततो दद्याद् दिशा बलिम् ।
इष्ट्वा चण्डेश्वरं देवा गुरुं च सम्प्रपूजयेत् ॥ २३ ॥

प्। १२५)

गन्ध पुष्प पवित्राद्यैर्वस्त्रालङ्कार वाहनैः ।
ग्रामखेट पुरे वापि यथा विभवविस्तरैः ॥ २४ ॥

वित्तशाठ्यं न कुर्वीत महापुण्य जिगीर्षया ।
सर्वान् कामानवाप्नोति यथोक्तेन तु कर्मणा ॥ २५ ॥

सर्वयज्ञतपोदान सर्वतीर्थेषु यत्फलम् ।
तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेन्नरः ॥ २६ ॥

यो लिङ्गं स्थापयेदेवं विधि पूर्वं सदक्षिणः ।
सर्वागमोदितं पुण्यं कोटि कोटि गुणं लभेत् ॥ २७ ॥

पिस्तृजं मातृजं वापि यतवोद्गहते स्त्रिधाम् ।
कुलैकविंशमुत्तार्य ततो गछतु परां गतिम् ॥ २८ ॥

अज्ञात्वा विधिवच्छास्त्रं कुरुते यस्तु लोभतः ।
कर्तारञ्च तथात्मानम् इहामुत्र विनाशयेत् ॥ २९ ॥

तस्मात् सर्व प्रयत्नेन विधिवत् कारयेद् बुधः ।
कर्ताकारयिता चैव ततो याति परां गतिम् ॥ ३० ॥

इति श्रीसर्वज्ञानोत्तरे जीर्णोद्धारप्रकरणम् ॥