अतः परं प्रवक्ष्यामि लक्ष्मणं तु शिवालये ।
स्थापनं चैव लिङ्गस्य यस्मिन् सर्व प्रतिष्ठितः ॥ १ ॥
ब्रह्माद्या देवतास्सर्वे लिङ्गमाश्रित्य संस्थिताः ।
प्। १०९)
तस्माद् वै स्थापयेल्लिङ्गं शास्त्रदृष्टेन कर्मणा ॥ २ ॥
त्रिण्यां विद्याव्रतो योगी गुरुदेवाग्नि पूजकः ।
आचार्यस्तत्व विद्धीमान् विशिष्टकुलजः शुचिः ॥ ३ ॥
सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुह ।
स्थापकस्स परप्रोक्त शिवविच्छास्त्र सम्मतः ॥ ४ ॥
सर्वलक्षणसम्पन्न सम्म्यत् शास्त्रं न विन्दति ।
न योगी न व्रतस्नातो ना चावाचार्य उच्यते ॥ ५ ॥
न शठो नास्तिकः क्रूर पिशुनो न च मत्सरी ।
कुषीकु * सखीं व्यङ्गं क्षयरोगी जलोदरी ॥ ६ ॥
काणः केकरपिङ्गाक्षः कपालकुतशेखरः ।
सर्वदोषाश्रयं वत्स तार्किकं तु विवर्जयेत् ॥ ७ ॥
भोजका देवजग्धाश्च देवव्रतधरांश्च ये ।
विनाग्नि नैष्ठिकाश्चैव स्थापनेषु विवर्जयेत् ॥ ८ ॥
स्थान शुद्धात्मशुद्धी च द्रव्यशुद्धिं तथैव च ।
मन्त्रस्य लिङ्गशुद्धिं च विदित्वा गमकृत् ॥ ९ ॥
शिवा भवास्त्रतोयेन स्थानमभ्युक्षयेत् ततः ।
माहेन्द्र वारुणं वापि पुनः क्षेत्रं प्रकल्पयेत् ॥ १० ॥
दिशां बन्धं ततः कुर्यात् यथापूर्वमुदाहृतम् ।
स्थान शुद्धिर्भवेदेवं देहशुद्धिः प्रचोदिता ॥ ११ ॥
मन्त्रशुद्धिर्मनोन्थथे मन्त्री मन्त्र विचक्षणः ।
प्। २१०)
मलाध्यैश्वर्य ज्ञालानि मन्त्राणां कीर्तितानि तु ॥ १२ ॥
तेषां प्रबोधिनी शक्ति शिवाज्ञानं न मन्त्रता ।
मन्त्रशुद्धिर्भवेदेवं समासात् परिकीर्तितः ॥ १३ ॥
द्रव्यशुद्धिस्तु द्रव्याणां प्रोक्षितानां शिवाम्भसा ।
लिङ्गशुद्धिं पुनर्वक्ष्या विभातां चार्चनस्य च ॥ १४ ॥
लक्षणं चैव लिङ्गस्य येन सान्निध्यतां व्रजेत् ।
लिङ्गाद्धस्तशतं क्षेत्रमाचार्ये स्थापितस्य तु ॥ १५ ॥
स्वायम्भूते सहस्रं स्याद्रिष्ठिभिस्तु सदर्थकम् ।
भूमि संशोधनं कृत्वा क्षेत्रस्य जननं कुरु ॥ १६ ॥
जनिते तु शिवक्षेत्रे पश्चाद् वै भूपरिग्रहः ।
शिलान्यासं ततः पश्चात् सूत्रयित्वा विधानवित् ॥ १७ ॥
हेमरत्नादिभिर्बीजैर्भूषयित्वा निधापयेत् ।
पुण्याह जय शब्दैश्च शङ्खवाद्यकनिस्वनैः ॥ १८ ॥
बाहुर्मङ्गल निर्घोषैः पूज्य विष्णुविनायकान् ।
दिशाबलिं ततो दद्यात् पूजयित्वा दिगीश्वरान् ॥ १९ ॥
आचार्यः शिल्पिभिः सार्धं लिङ्गं कुर्यात् सलक्षणम् ।
स्थपतिश्च यथोद्दिष्टं प्रासादं शास्त्रसम्मतम् ॥ २० ॥
प्रासादाद्वा भवेल्लिङ्गं लिङ्गात् प्रासाद एव वा ।
यदेव सूत्रितं पूर्वं तेन सूत्रेण चोदितम् ॥ २१ ॥
अस्त्रयागं पुनः कृत्वा अस्त्रैरस्त्रं नियोजयेत् ।
स्नापयित्वास्त्रतोयेन गन्ध पुष्पैर्नियोजयेत् ॥ २२ ॥
प्। १११)
धूपं दत्वा विधानेन रात्रिमेकां निधापयेत् ।
वस्त्रशय्यां समारूढं कुठारं टङ्कमुद्गरम् ॥ २३ ॥
घृतेन मधुनाभ्यज्य मुखा तेषां पुनः क्रमात् ।
अस्त्रं तु जपतो ध्याने प्रवेशे हृदयं जपेत् ॥ २४ ॥
सम्प्राप्योदित शैलं तु तत्र यागं पुनः क्रमात् ।
कृत्वा भूतबलिं दत्वा हृदयं परिवर्तयेत् ॥ २५ ॥
तस्य पादांश्शिलां गृह्य विवर्तां सौम्यदर्शनम् ।
विवर्णामनवद्यांस्तु विशुद्धां सुनिदर्शनाम् ॥ २६ ॥
अस्त्राभिमन्त्रितं कृत्वा सद्येना लभनं कुरु ।
ते नैवाभ्यर्चनं भूयस्तत्र कर्म समाचरेत् ॥ २७ ॥
अथो भागे कुर्वीत * * * * * तात्मकः ।
पूर्वमूत्तरमीशानं मस्तकं परिकल्पयेत् ॥ २८ ॥
वृक्षस्य पूर्वतं पूर्वं प्रासादे पूर्वते मुखे ।
यतो वापि भवेद्वारं तत्रवन्त्रं तु कल्पयेत् ॥ २९ ॥
स्वस्थानस्यन्तु पूर्वेण प्रासादं पश्चिमामुखम् ।
दक्षिणेन तथा कुर्यात् पश्चिमे पूर्वतो मुखम् ॥ ३० ॥
उत्तरेण तथा भूय पूर्वं पश्चिमे * व वा ।
द्वारं तु मध्यतः स्थाप्य भूमिभागवशाद् भवेत् ॥ ३१ ॥
नोत्तराभिमुखां देवां न कुर्याद् दक्षिण मुखात् ।
विदिशासु च वक्त्राणि न कुर्यात् तु कदाचन ॥ ३२ ॥
प्। ११२)
अन्यथा स्थाप्यमानानां दैवानां शिखि सम्भव ।
दुर्भिक्षं विग्रहो राजा वुपसर्गो भयानि च ॥ ३३ ॥
उच्छ्रायां देन कुर्वीत विस्तारं गुणबहिः ।
चतुरश्रयावर्तुलां वा प्रदङ्गो पुरान्वितम् ॥ ३४ ॥
प्राकाराभ्यन्तरेष्टौ तु पार्श्वे विन्यस्य मन्त्ररा * ।
प्रासादानि मुखान् कुर्यान् न गर्भतैस्तु वेधयेत् ॥ ३५ ।
इन्द्र पावक धर्मेश निऋ-ऋति वरुणा तिलात् ।
कुबेरं च तथैशानं स्थापयेत् तेषु देवता ॥ ३६ ॥
द्वारे देशे बहिः स्थाप्यौ दुर्गाविघ्नविनायकौ ।
स्थाप्यौनन्दिमहाकालौ शिवस्य पुरतस्तथा ॥ ३७ ॥
शिवलिङ्गं ततो मध्ये ज्येष्ठमध्यमकन्यसम् ।
सम्पूर्णोदर पार्श्वं तु पृष्ठमुन्नतमस्तकम् ॥ ३८ ॥
अवक्रापश्रयं हीना श्रमवक्र * * स्थितम् ।
पद्मार्थचन्द्र चक्राक श्रीवत्स स्वस्तिकाङ्कितम् ॥ ३९ ॥
एकहस्तद्विहस्तं वा त्रिहस्तं वापि कन्यसः ।
चतुर्हस्तं पञ्चहस्तं षड् हस्तं मध्यम * * ॥ ४० ॥
सप्ताष्ट नवहस्तं वा उत्तमं परिकीर्तितम् ।
श्वेतरक्तं तथा पीतं कृष्ण विप्रादितः क्रमात् ॥ ४१ ॥
गुरु स्निग्धं सुगन्धं च सुस्वरं तेजसान्वितः ।
व्यामिश्रमपि त गृह्यं चतुर्णाममविशोभतः ॥ ४२ ॥
प्। ११३)
सर्वशल्य विनिर्मुक्तं सर्वतोष विवर्जितम् ।
सर्वलक्षणसंयुक्तं शिवलिङ्गनिधापयेत् ॥ ४३ ॥
अङ्गुल्य द्वङ्गुलं वापि कुर्यात् तु चतुरङ्गुलम् ।
अष्टाङ्गुल वितस्तिं वा मणिरत्न मयं शुभः ॥ ४४ ॥
सततां रत्न लिङ्गानां प्रासादो न विधीयते ।
प्रासादे वा गृहे रम्ये यथेष्ठं सम्प्रपूजयेत् ॥ ४५ ॥
यदात्मकं बलेर्लिङ्गं वेदीकार्या तदात्यका ।
लिङ्गवेद्यासमुज्ञेयं वेदिलिङ्ग समास्मृतः ॥ ४६ ॥
सौवर्णराजता वापि ताम्रावा विमला भवेत् ।
अभावे रत्नवेदीनां रत्नलिङ्गेषु कीर्तिता ॥ ४७ ॥
वेद्याः पूर्वापरं ज्ञात्वा तथावोत्तर लक्षणम् ।
मध्ये प्रवेशयेद्यल्लिङ्गं द्वौ भागौ बाह्यतः स्मृतौ ॥ ४८ ॥
भागद्वयं भवेद् दृश्यं तृतीयं सम्प्रवेशयेत् ।
विहितं रत्नलिङ्गानां सुषिरे होम भे * ते ॥ ४९ ॥
तेषा। हि लक्षण मध्ये उत्तरे प्रयत्नतः ।
भागत्रयं समं कृत्वा तत ऊर्द्ध्वं परित्यजेत् ॥ ५० ॥
तत्र सर्वत्र समं श्रेष्ठ सुप्तक्तोन्नत मस्तकम् ।
सर्वदोषविनिर्मुक्तं सर्वलक्षणसंयुतम् ॥ ५१ ॥
चतुरश्रमथो भागमष्टाश्रं मध्यत स्थितम् ।
वृत्तं चैव तमूर्ध्वं तु प्रकूर्वीत षडानन ॥ ५२ ॥
प्। ११४)
सुविशुद्धस्य लिङ्गस्य कुक्कुटाण्डमयस्य च ।
यव मध्यं ततः कुर्याच्चतुरश्रमतः पुनः ॥ ५३ ॥
परिपूर्णातरं मध्ये अत ऊर्ध्वकृतं भवेत् ।
अष्टाश्रं वा प्रकूर्वीत सुप्तताराकार मध्यकम् ॥ ५४ ॥
समाश्रं निव्रणं शुद्धं तेजस्कं चारुदर्शनः ।
मृदङ्ग कामतं जेयं मृदङ्गाकार * स्तिकः ॥ ५५ ॥
स्थापितं च वने वापि स्थितं वा विषमं यदि ।
मणिरत्नमयं लिङ्गं पुनः संस्थाप्य पूजयेत् ॥ ५६ ॥
ऊत्तरप्लवनां वेदिं दर्पणोदर सन्निभः ।
मेखलां द्वादशाङ्गेन प्रणालं चार्ध भागिकः ॥ ५७ ॥
प्रमाण लक्षणं चैव मणिरत्नमयेषु च ।
स्थापनं चार्चनं प्रोक्तमितरेण विधिं शृणु ॥ ५८ ॥
अथ गर्भग्रं पुरस्कन्द लिङ्गस्य त्रिगुणं कुरु ।
मध्यमांसे शस्य सद्वेदीं भक्तिर्वेदी समास्मृताः ॥ ५९ ॥
तत् प्रमाणं भवेद्वारं विस्तरेण विधानवित् ।
उच्छ्राय द्विगुणं कुर्या सुसमीकन्यसस्य तु ॥ ६० ॥
षष्ठं भागमथस्त्यज्य द्वारमध्यमकं न्यसेत् ।
कल्पयीत यथोद्दिष्टं मध्यमस्थाधुना शृणु ॥ ६१ ॥
द्व त्रि भागे तु सन्त्यज्याधो भागस्य षण्मुख ।
ऊर्ध्वभागे प्रकुर्वीत द्वारं वै मध्य सम्मितु ॥ ६२ ॥
प्। ११५)
भागमेकं परित्यज्य द्वयोर्भागः प्रकल्पयेत् ।
तद्भागं पूरयेद्भूमौ शेषं लिङ्ग क्रमेण तु ॥ ६३ ॥
अधो वेदिं स्थिरां कृत्वा निर्वाणां सुसमन्विता ।
सुश्लिष्टामिष्टकैश्च्छाद्यं यावत् क्षेत्र समा * *॥ ६४ ॥
ततसूत्तर वेद्यां च पीठस्य रचनां कुरु ।
विधिना शास्त्रदृष्टेन सर्वकर्माणि चैवभि ॥ ६५ ॥
लिङ्गाद्वे तथा गर्भो भक्तिश्चैव षडानन ।
प्रासादं च तथा तत्तलिङ्गमानेन कारयेत् ॥ ६६ ॥
तल्लिङ्गं मञ्जरीय्यास्त्रि * * * * * * * * ।
शुकनासा महासेन शिखरं चैव लैङ्गितम् ॥ ६७ ॥
तल्लैङ्गिकं पुनः सूत्रं गर्भादुभयतो न्यसेत् ।
दिगश्रमुश्रयार्धेन शुकनासस्य मण्डपम् ॥ ६८ ॥
गर्भस्यो भयतो लिङ्गमेकैकं सम्प्रवेशयेत् ।
द्वौलिङ्गादग्रतः कुर्याच्छुकनासस्य षण्मुख ॥ ६९ ॥
वलभिच्छान्दकं वापि गजसिंहाकृतिं तथा ।
हंसकृत्यातिं वापि शुकनासं समं कुरु ॥ ७० ॥
द्वौ लिङ्गावर्धलिङ्गञ्च गर्भं वै मध्यमस्य तु ।
द्वौ लिङ्गावुत्तमस्योक्तौ त्रीणिलिङ्गानिकं न्यसेत् ॥ ७१ ॥
अथवा सर्वलिङ्गानां यो भागो द्वारकर्मणि ।
गृहीत्वा तेन भागेन प्रासादं परिवर्तयेत् ॥ ७२ ॥
प्। ११६)
सूत्रेण सुमितं कृत्वा लिङ्गं भागत्रयं कुरु ।
चतुरश्रमधोभागमष्ठ भूमध्यम स्थितः ॥ ७३ ॥
वृद्धतृतीयकं भागं किञ्चिदुन्नतमस्तकम् ।
अत ऊर्ध्वं मध्यमञ्च समभागं प्रशस्यते ॥ ७४ ॥
पीठलिङ्गसमाप्रोक्तं पूजाभागद्वयेन वा ।
अन्यथा रुचिता लिङ्गात् गर्भान्तं नवधा कुरु ॥ ७५ ॥
मध्यपीठं पदान्यष्टौ स्वांशमात्रादि * * * ।
सर्वेषामेव भागानां परिणाहस्तु कीर्तितः ॥ ७६ ॥
ब्रह्माद्यस्तु त्रयोभागं वृत्तं षोडशसंयुतम् ।
एवं कुण्डितं क्षेत्रं परिणाहस्तु कीर्तितः ॥ ७७ ॥
मस्तकं यस्य लिङ्गस्य येनांशेन तु वृत्तयेत् ।
तत्र भागं पुनस्तस्या यामे परिकल्पयेत् ॥ ७८ ॥
ब्रह्मवेद्यां न्यसेद् भाग द्वितीये पीठिका स्थिताः ।
अर्चा भागं तृतीयान्तु कर्तव्यं लक्षणान्वितम् ॥ ७९ ॥
ऊर्ध्वं तृतीयके भागं त्यज्य लक्षण मुद्धरेत् ।
सूत्रयित्वा सुवर्णेन तल्लिङ्गाकृति मुत् जिरेत् ॥ ८० ॥
अष्टाश्राम्मध्यतश्चोर्ध्वं बाहुभिः समलङ्कृतम् ।
उत्कीर्य मधुनाज्येन पश्चातमुपलेपयेत् ॥ ८१ ॥
द्विस्त्रे कान्तरिते सूत्रे तस्य मध्ये पुनर्नयेत् ।
मध्यमाङ्गुलिमानेन तश्शुभं लक्षणं स्मृतः ॥ ८२ ॥
अथ लक्षण यथालिङ्गं हीण लक्षणमेव वा ।
अति दीर्घ कृशं ह्रस्वं नाथश्रयं त्यत्र देवताः ॥ ८३ ॥
प्। ११७)
तस्मात् सर्व प्रयत्नेन प्रोचरे लक्षणं शुभम् ।
श्लक्ष्णं मेव सञ्चिन्नं सुप्रमाणं सुदर्शनः ॥ ८४ ॥
सर्वदोषविनिर्मुक्ताः वेदिं कुर्यात् स लक्षणः ।
यथालिङ्गं तथा चैषा स्थापनीया प्रयत्नतः ॥ ८५ ॥
दीर्घमायुः क्षयात् कुर्याद् वेद्यां ह्रस्वं तथा धनः ।
तस्माद्ध्रस्व तरं लिङ्गं नाति दीर्घञ्च कारयेत् ॥ ८६ ॥
मद्धया हारेण * * संयतेन जितात्मना ।
आचार्येण च शान्तेन सततं मन्त्रजापिना ॥ ८७ ॥
लिङ्गं वेदी वृषश्चैव निष्पन्नादी यदा हवेत् ।
गो युक्तारथमारूढमानयीत तदा शुचिः ॥ ८८ ॥
गन्धपुष्पैरलङ्कृत्य धूपं दत्वा विधानवित् ।
पुरःप्रदक्षिणी कृत्य नानाघोषैः प्रवेशयेत् ॥ ८९ ॥
नीत्वा चायतनं दिव्यम् ईशानीं दिशमाश्रितः ।
मृदुशय्यासनं रूढमेकरात्रं निधापयेत् ॥ ९० ॥
तत्रादि व्यासनं कुर्यादाचार्यः सुसमाहितः ।
होमं कृत्वा विधानोक्तं जपेद् ब्रह्मादि संहिताः ॥ ९१ ॥
ततो मूर्ति धारानष्टौ सकलीकृत विग्रहान् ।
जपध्यानरतां छान्तान् अर्धरात्रे प्रवेशयेत् ॥ ९२ ॥
उत्तिष्ठन्त्तेति विपेन्द्र कलशान्वारि पूरितान् ।
मन्त्र द्रव्य समायुक्तान् सम्पादयथ मे परान् ॥ ९३ ॥
प्। ११८)
ततो लिङ्गं समुत्थाप्यास्त्र जप्तेन वारिणा ।
स्नापयेद् वस्त्र पूतेन शीतेनाष्टोत्तरेण वा ॥ ९४ ॥
धारणाभिश्च संशोध्य लिङ्गं वेदिं तथा वृषम् ।
संस्नाप्य वारुणैर्मन्त्रैर्भूषयित्वा प्रवेशयेत् ॥ ९५ ॥
चतुरश्रराशिलां कृत्वा त्रयङ्गुलाधार मेखलाः ।
चतुरश्रेण लिङ्गस्य समसूत्रेण सूत्रिताम् ॥ ९६ ॥
सुदृढां निस्तृणां शुद्धां द्वादशाङ्कुलमुच्छ्रिताम् ।
सहोमा निहितां श्लिष्टां सुस्थिरां समसूत्रिताम् ॥ ९७ ॥
सम्प्रोक्ष्या यतनं मन्त्री मन्त्र पूतेन वारिणा ।
ब्रह्ममध्ये शिलां न्यस्य विधानोक्तं ततः कुरु ॥ ९८ ॥
सौवर्णां तादृशीं कृत्वा कुर्मं पृष्ठे निधापयेत् ।
या तव सर्व बीजानि रत्नानि च पुनः क्रमात् ॥ ९९ ॥
ततः शिलां प्रतिष्ठाप्य तस्या मध्ये यथा विधि ।
तत्र शक्तिं न्यसेद् विद्वान् अङ्कुराङ्कुरसन्निभाम् ॥ १०० ॥
हरितालं तु पूर्वेणाग्नेय्यां तु मनःशिलाम् ।
यान्याधामं जनं दद्यान्नैर्-ऋत्यं हेममाक्षिकम् ॥ १०१ ॥
विमलकं तु वारुण्यां वायव्यां परतं न्यसेत् ।
कासीसमुत्तरे दद्यादीशान्यां रोचनां न्यसेत् ॥ १०२ ॥
गैरिकावा विधातव्या ब्रह्मस्थाने विचक्षणैः ।
पवित्रा सर्वमङ्गल्या ज्ञेयाः पुष्ठिकराः स्मृताः ॥ १०३ ॥
प्। ११९)
व्रीहींश्च गर्भ षष्ठिंश्चैन्द्रा दिशि नियोजयेत् ।
माषांश्चैव कुलुत्थांश्चाग्नेय्यां दिशि योजयेत् ॥ १०४ ॥
मुद्गांश्च चणकांश्चैव याम्यायां तु नियोजयेत् ।
तिलान् कृष्णातलांश्चैव नैर्-ऋत्यां दिशि योजयेत् ॥ १०५ ॥
गोधूमांश्च यवांश्चैव वारुण्यां दिशि योजयेत् ।
प्रियङ्गवश्च श्यामाकान् सौम्यायां दिशि योजयेत् ॥ १०६ ॥
ऐशान्यां सर्वधान्यानि दद्यात् पुष्टिकराणि तु ।
धातवः सर्वबीजानि ब्रह्मस्थाने नियोजयेत् ॥ १०७ ॥
भूयोपि पूर्वतो व्रीहि निष्पावं दक्षिनेन तु ।
पश्चिमेन यवान् दद्यात् उत्तरेण प्रियङ्गवः ॥ १०८ ॥
बीजगाढं न कुर्वीत मङ्गलार्थं नियोजयेत् ।
विपरीतानि बीजानि यदालिङ्गस्य पादयेत् ॥ १०९ ॥
ततो दोषा निवर्तन्ते व्याधयश्च भयानि च ।
ऐन्द्रां तु पादयेद् वज्रं सूर्यकान्तं तु व * तः ॥ ११० ॥
इन्द्रनीलं तु याम्यायां वैडूर्यान्नैर्-ऋते दिशि ।
शङ्खश्चैव तु वारुण्यां वायव्यां पुष्परागकम् ॥ १११ ॥
मरतकं तु कौवेर्याम्मैन्यो मौक्तिकं न्यसेत् ।
ब्रह्मस्थाने ब्रह्ममणी वासुकेरमृतं मणिम् ॥ ११२ ॥
लोताक्षोयत साध्यानां विश्वेभ्यः पुलको मणिः ।
सौम्ये शानयोर्मध्ये चन्द्रकन्तु प्रदापयेत् ॥ ११३ ॥
प्। १२०)
अलाभात् सर्व धातूनां हरितालं तु दापयेत् ।
अलाभात् सर्वबीजानां धवबीजं प्रदापयेत् ॥ ११४ ॥
अलाभात्सर्व रत्नानां वज्रमेकं तु दापयेत् ।
अलाभात् सर्व लोहानां स्वर्णमेकं तु दापयेत् ॥ ११५ ॥
यथास्थानेषु तैर्वतैर्विधि प्राप्नोति दुष्कलम् ।
किञ्चिच्च पुष्पधूपाणि यवभूते नियोजयेत् ॥ ११६ ॥
धूपं दत्वा पुनश्चैव पश्चाल्लिङ्गन्तु स्थापयेत् ।
मध्यावलम्बनं कृत्वा तेन सूत्रेण तत्ववित् ॥ ११७ ॥
निश्शब्द नियतं शान्तं स्थितलिङ्गं स चालयेत् ।
नमः सर्वात्मकायेति लिखाधः वायसेन तु ॥ ११८ ॥
पीतवर्णामतो भागे चतुरश्रे पितामहम् ।
अतसी पुष्प सङ्काशं मध्ये तु पुरुषोत्तमम् ॥ ११९ ॥
वृत्तभागे न्यसेद्रुद्रं शुद्धकुन्देन्दु समप्रभम् ।
तत्रैव देवतास्सर्वा अर्चा भाग समाश्रिताः ॥ १२० ॥
यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् ।
पिण्ड भूतं च तत्वानां ततोज्ञो लिङ्गमुच्यते ॥ १२१ ॥
इमां भूतं विजानीयात् शुद्ध काञ्चन समप्रभम् ।
गणमाताम्बिकां पुण्या धात्री योगीश्वरी पुरा ॥ १२२ ॥
धर्मादि चरणं न्यस्य ततः पीठं नियोजयेत् ।
प्रणवेन विधानज्ञो अर्चान्यत् पूर्व चोदितम् ॥ १२३ ॥
प्। १२१)
प्रणवं सर्वदेवत्यं विज्ञेयं परमात्यतः ।
सञ्चिन्त्य देवता रूपं यद्विकल्पत्ति तद्भवेत् ॥ १२४ ॥
ऐन्द्र वारुण कौबेर्येरास्वन्यस्यां दिशि षण्मुख ।
स्थापितच्च पते लिङ्गं तच्छान्तिं तत्र कारयेत् ॥ १२५ ॥
सा एव देवता याज्ञ्य पञ्चाङ्गकृत लक्षणाः ।
होमं कुर्यात् तु तत्रैव दद्याद् गो मिथुनं ततः ॥ १२६ ॥
ततस्तु देवदेवेशं शिवं परमकारणम् ।
पूर्वोक्तेन विधानेन लिङ्गेग्नौ सम्प्रपूजयेत् ॥ १२७ ॥
पूजां गृह्णानि लिङ्गस्थो वह्निस्थो वा परा हुतिम् ।
आचार्य मूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति ॥ १२८ ॥
आचार्यस्यापि मन्त्रस्य शिवज्ञान शिवस्य च ।
नानात्वं नैव कुर्वीति विद्याविद्येश्वरादयः ॥ १२९ ॥
शिवज्ञान समायुक्त आचार्यो मन्त्र विग्रही ।
सर्वमूर्ति धरो नित्यं शिवमन्त्रं प्रपूजयेत् ॥ १३० ॥
अस्त्रं चैव तु पीठस्यात् लोकेशासन्मूलमाश्रितान् ।
गणेशान् लिङ्गमध्यस्यात् पूजयीत यथा क्रमम् ॥ १३१ ॥
विद्येश्वरान्तदूर्ध्वन्तु चक्रवत्परिसंस्थितान् ।
ऊर्ध्वाधश्शक्ति संलीनात् पूजयित्वा विधानवित् ॥ १३२ ॥
शक्तिस्थं ब्रह्मभिर्युक्तं शिवाङ्गैः परिपारितम् ।
शिवं विश्वेश्वरं देवं लिङ्गमूर्ध्वं निपूजयेत् ॥ १३३ ॥
लिङ्गं प्रक्षाल्य शास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् ।
प्। १२२)
रुद्ररुपध विघ्ना तेन प्रोत्सारितास्तुते ॥ १३४ ॥
पीठं प्रक्षाल्य पश्चात् तु वर्धन्यादुदकेन तु ।
पाशुपतेन चास्त्रेण उषारूपधराहताः ॥ १३५ ॥
एवं प्रोत्सारणं कृत्वा विघ्नानां विविधं बुधः ।
ततोर्ध्वानं प्रकुर्वीत शिवस्य परमात्मनः ॥ १३६ ॥
अर्चयित्वा विधानेन यथा पूजां विसर्जयेत् ।
अभ्यर्च्य पञ्चभिर्ब्रह्मैश्चण्डेशाय निवेदयेत् ॥ १३७ ॥
धुनि चण्डेश्वरायेति हुं फट् स्वाहेत्यनुक्रमात् ।
करेण दक्षिणे नैव निर्माल्यं सततं बुधः ॥ १३८ ॥
वां महास्तेन मन्त्रज्ञ स्रुजं गृह्य विचक्षणः ।
नश्रन्य मस्तकं लिङ्गं कृत्वा तिष्ठेत् साधकः ॥ १३९ ॥
न चास्य भ्रूम यद्धस्तादुपरिष्ठान् कदाचन ।
तर्जन्या तर्जयेद् विघ्नान् सान्निध्यं लिङ्गमुद्रया ॥ १४० ॥
निरोधे निष्ठुरा कुर्यात् स्नानकाले विचक्षणः ।
सम्प्रक्षाल्य करौ मन्त्री स्पृष्ट्वा लिङ्गं पुनः पुनः ॥ १४१ ॥
सक्तोथ क्षालयेद्गात्रं स्नानमूर्ध्वं समाचरेत् ।
इति श्रीसर्वज्ञानोत्तरे प्रतिष्ठाप्रकरणम् ॥