अतः परं प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् ।
शिवव्रतमितिख्यातं सर्वदा सुरपूजितम् ॥ १ ॥
विशुद्धं पाण्डरं जन्म शुक्लवासोनुलेपनम् ।
शुक्लयज्ञोपवीती च जटामकुट मण्डितः ॥ १२ ॥
सर्वाभरणसम्पन्न शुक्लमाला विभूषितैः ।
चरुभूत् ब्रह्मचर्यस्य शिवाग्नि गुरुपूजितः ॥ १३ ॥
मन्त्रमूर्ति शिवस्यैव यथापूर्व प्रकीर्तितम् ।
तथा वै साधकैन्द्राणा व्रतज्ञेयं तथात्मकम् ॥ १४ ॥
शुक्लकौपीन वासं वा उष्णीषाक्षक मण्डलुम् ।
शिवालये वसन्नित्यं भिक्षाभक्षो जितेन्द्रियः ॥ १५ ॥
शिवध्यानरतो मौनी शिवाग्नि गुरुपूजकः ।
संवत्सरे व्यतिक्रान्ते शिवतुल्यो भवेदिति ॥ १६ ॥
इति सर्वज्ञानोत्तरे क्रियापादे शिवव्रतप्रकरणम् ॥