१७

स्रुवस्यावक्षसूत्रस्य विधानं शृणु तत्वतः ।
जपस्य सिद्धि द्रव्याणि प्रवक्ष्याम्यनुपूर्वशः ॥ १ ॥

स्रुवं हस्त प्रमाणं तु आधारोङ्गुष्ठ पर्वतः ।
बाहु मात्रं स्रुचं ज्ञेया पुष्करं सन्नि सन्निभः ॥ २ ॥

पालाशाश्वत्थ बिल्वं तु वैकङ्कतं तु वा पुनः ।
क्षालयित्वास्त्रबीजेन धारणाभिर्विशोधयेत् ॥ ३ ॥

ततश्च पञ्चगव्येन पुनर्गन्धोदकेन तु ।
त्रितत्वं शक्तिबीजं तु योजयेदुभयोरपि ॥ ४ ॥

गन्धपुष्पैरलङ्कृत्य धूपं दद्याद् विधानवित् ।
सप्तरात्रं स्थितिं कृत्वा पश्चाद्धोमो नियोजयेत् ॥ ५ ॥

प्। १०६)

पुत्रदीप फलं वृक्षो मधो गत्वा विशोधयेत् ।
खसस्यं गोमयं ग्राह्यं पुनस्तत्रो विलेपयेत् ॥ ६ ॥

सिक्त्वातु पूर्ववन्मन्त्री अस्त्रगन्ध शिवाम्बुना ।
शिवी कृत्वा तु तं वृक्षं शिववत् प्रति पूजयेत् ॥ ७ ॥

पुरस्तादग्निकार्यं तु शास्त्र दृष्टेन कर्मणा ।
कृत्वा भूत बलिं दत्वा पश्चादक्षाणि संहरेत् ॥ ८ ॥

मध्ये शाखा समुद्भुतैर्मन्त्रमावर्तयेच्छिवः ।
पूर्वशाखोद्भवस्कन्द जपे तत्पुरुषं बिलम् ॥ ९ ॥

अघोरवामदेवौ वा सद्योजाताङ्गमेव वा ।
ये यथावस्थिता मन्त्रास्तैस्तुतान् परिकल्पयेत् ॥ १० ॥

वायव्यानल माहेन्दु वरुणावाथ मिश्रकाः ।
तेभिस्वस्त्रोतजैरक्षै सर्वे सिध्यन्त्य संशयः ॥ ११ ॥

कन्न्याकर्तितु सूत्रेण त्रिगुणं त्रिगुणे न तु ।
अक्षमाला प्रकुर्वीत शुद्धे नास्त्रोदकेन तु ॥ १२ ॥

शतमष्टोत्तरं वापि चतुःपञ्चाशदेव वा ।
सप्तविंशति वा मन्त्री अक्षमाला शुभास्मृता ॥ १३ ॥

शक्तिन्यासं पुराकृत्वा तस्मिन् सूत्रे निधापयेत् ।
वेधयेदस्त्रबीजेन प्रोतयेद्धृदयेन तु ॥ १४ ॥

अन्योन्य संस्थितं कृत्वा मुखं तेषां सुसंहृतान् ।
निरुजान्ति प्रणान् शुद्धान् न भिन्नामल वर्जितान् ॥ १५ ॥

प्। १०७)

ततः शिवाम्भसा क्षाल्यं पुनर्गन्धैर्विभूषयेत् ।
स्वस्त्रोते विन्यसेच्छक्तिं वीरपत्रस्तथोपरि ॥ १६ ॥

मूयूरचन्द्रकैश्छाद्य पश्चादक्षाणि योजयेत् ।
वीरपत्रस्य तथा चैव पश्चादालभनं कुरु ॥ १७ ॥

स्वमन्त्रं पूजयेत् तत्र गन्धपुष्पैरनुक्रमात् ।
शिवीभूतं तु तत्सूत्रं सम्पुटित्वा दिने दिने ॥ १८ ॥

ततस्समुद्गके मन्त्री मान्त्रालब्धे निधापयेत् ।
सौवर्णे राजते चैव ताम्रसिद्धोर्थकेपि वा ॥ १९ ॥

ग्रहणं मोक्षणं चैव स्थापनं च विधानवित् ।
हृदये तु कर्तव्यमर्चनं च विलेपनम् ॥ २० ॥

अतः सङ्क्षेपतो वक्ष्ये भूयोक्षस्य विधिं परम् ।
आहृत्य निपुणानक्षान् अस्त्रजप्तेन भस्मना ॥ २१ ॥

संशोध्यवारि युक्तेन धारणा निपुणः क्रमात् ।
ततस्तु पञ्चगव्येन पुनर्गन्धोदकेन तु ॥ २२ ॥

ततः शिवाम्भसा क्षाल्य पुनर्गन्धैर्विभूषयेत् ।
यागं कृत्वा यथोद्दिष्टं पूर्वोक्त मेखलं यथा ॥ २३ ॥

ततस्तु प्राणसङ्घातमाकृष्य हृदि मण्डले ।
त्रितत्वे मध्यगो भूत्वा जपं कुर्यात् समाहितः ॥ २४ ॥

त्रितत्व मध्यगो भूत्वा जपं कुर्यात् समाहितः ।
त्रिभिस्तु चुलकैर्नित्यं यावत् सङ्ख्या प्रपूर्यते ॥ २५ ॥

प्। १०८)

तावतत् गन्धतोयेन शिवस्य जपमर्पयेत् ।
जपं कृत्वोदिसङ्कृत्वा पुनरीशं प्रसाधयेत् ॥ २६ ॥

तमाकृष्य तथैवैह व्रतमन्त्रैः समाचरेत् ॥ २७ ॥

इति श्रीसर्वज्ञानोत्तरे क्रियापादे जपादिप्रकरणम् ॥