१६

अतः परं प्रवक्ष्यामि स्नानं वित्रानुसारतः ।
पञ्चभिः कलशैर्वापि पूर्वोक्त विधिकल्पितैः ॥ १ ॥

अष्टो विद्येश्वरान् मन्त्री एकस्मिन् विनियोजयेत् ।
द्वितीये पञ्च ब्रह्माणि तृतीयङ्ग चतुष्टयम् ॥ २ ॥

अस्तु युक्तं चतुर्थं तु शिवकुम्भञ्च च पञ्चकम् ।
अभिमन्त्र्य यथा न्यासं पूर्ववत् स्नानमाचरेत् ॥ ३ ॥

चतुर्भिर्वायथाकुम्भैरभिषेकं समाचरेत् ।
विद्येश्वराद्यया पूर्वं ब्रह्माङ्गानि च मन्त्रवित् ॥ ४ ॥

एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकः ।

प्। १०५)

चतुर्थं शिवकुम्भं तु अभिषिञ्चेत पूर्ववत् ॥ ५ ॥

अथवा द्वौ पुनः कुम्भौ अभिषेकाय कल्पयेत् ।
एकस्मिन् सर्वमन्त्रांश्च शिवकुम्भं तृतीयकः ॥ ६ ॥

ब्रह्मपत्रपुटैर्वापि शङ्क शुक्त्याथवा पुनः ।
अभिषेकं प्रकुर्वीत ततोऽनुज्ञापयेत् पुनः ॥ ७ ॥

पुष्पैर्वा मनसा वापि वाचा वापि प्रशस्यथा ।
अननुज्ञातमन्त्रस्तु न कुर्यान्मात्रिकां विधिम् ॥ ८ ॥

स्तुवं स्रुचाक्षसूत्रञ्च सङ्ग्रहेत् तत् ततः क्रमात् ।
त्रिकालमर्चनं जपं होमं समाचरेत् ॥ ९ ॥

इति सर्वज्ञानोत्तरे क्रियापादे सङ्क्षिप्ताभिषेकप्रकरणम् ॥