अभिषेक विधानं तु सम्प्रवक्ष्याम्यतः परम् ।
हिताय देशिकं द्राणाः यथा शम्भु मुखाच्च्युतः ॥ १ ॥
पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपि ते ।
सर्वशोभाभिरम्ये तु सर्व गन्ध विभूषिते ॥ २ ॥
सुतिथौ वार नक्षत्रे मुहूर्ते करणान्विते ।
शुभग्रहोदये लग्ने शकुने मङ्गलैर्युते ॥ ३ ॥
सत्यव्रत चरं दान्तं त्यागयुक्तं दयान्वितम् ।
प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम् ॥ ४ ॥
शौचाचारसुसम्पन्नं योगयुक्तं जितेन्द्रियम् ।
शिवभक्तं सदाशान्तं शिष्यं तन्त्रस्य पारगः ॥ ५ ॥
यागम्मुत्वा यथोद्दिष्टं दीक्षा निवृत्य मन्त्रवित् ।
ततोभिषेचयेत् तं तु युक्तायुक्त विचारकः ॥ ६ ॥
वीणावेणु मृदं गाद्यैः काहलैः पटहादिभिः ।
शङ्खतूर्यनिनादैश्च नृत्तगेय समन्वितैः ॥ ७ ॥
सर्वमङ्गलसंयुक्तमभिषेकं समारभेत् ।
प्। १०१)
यागदक्षिणपूर्वेण पश्चिमे वोत्तरेण च ॥ ८ ॥
यतोद्वारं नाभि पश्चात् तण्डुलं परिकल्पयेत् ।
द्वात्रिंशदाङ्गुल विस्तारमुच्छ्रायं तावदेवभिः ॥ ९ ॥
चतरश्रं समं शुद्धं मध्ये कमल भूषितम् ।
पूर्ववत् पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत् ॥ १० ॥
शुद्धपद्मासितं स्नातं मन्त्रालङ्कृत विग्रहम् ।
ततः कुम्भान्यथा पूर्वं पूर्वादारभ्य कल्पयेत् ॥ ११ ॥
शिवकुम्भविधानेन मन्त्रदेवत संयुतम् ।
अष्टौ विद्येश्वरान् मन्त्री अष्टभिः सन्नियोजयेत् ॥ १२ ॥
चतुष्वङ्गान्यथास्थानं पञ्च ब्रह्माणि पञ्चसु ।
अस्त्रजप्तं कुरुस्वैकं शिवजप्तं तथा परः ॥ १३ ॥
गायत्र्या चमनार्थं तु वन्यां परि कल्पयेत् ।
शतमष्टोत्तरं जप्त्वा शिवाख्यमभिमन्त्रयेत् ॥ १४ ॥
प्रथमं चास्त्र बीजेन स्नापयित्वा विधानवित् ।
विद्येश्वरैस्ततः पश्चादनन्ताद्यैर्यथा क्रमात् ॥ १५ ॥
ब्रह्मभिश्चानुपूर्वेण पुनरङ्गान्यनुक्रमात् ।
अभिषेकं शिवेनैव पश्चात् कुर्वीत षण्मुखः ॥ ६ ॥
ततो गन्धैश्च पुष्पैश्च वस्त्रालङ्कारपादुकैः ।
ब्रह्मसूत्र पवित्राद्यैः र्भूव्य पट्टं निवेदयेत् ॥ १७ ॥
पूजयित्वा विधानेन शिववन्तं तु देशिकः ।
प्। १०२)
शिव समीपं समाश्रित्याधिकारं समर्पयेत् ॥ १८ ॥
गुरुणायोऽधिकारस्तु गमवत्ससमर्पितः ।
अद्य प्रभृति योगीन्द्र सोधिकारो मया त्वयि ॥ १९ ॥
अनुग्राह्यास्तथा शिष्याश्शास्त्रदृष्टेन कर्मणा ।
श्रोतव्यं शिवशास्त्रं च श्रावणीयं तदर्थिनाम् ॥ २० ॥
संवत्सरोषिते शिष्ये दीक्षां निर्वर्तयेद्बुधः ।
सायके मन्त्र दीक्षां तु यस्मिन् तत्वे भिषिच्यते ॥ २१ ॥
इतरेष्वाहुतीं दत्वा शिवहस्तं प्रकल्पयेत् ।
समया मृपयेत् पश्चात् ब्रह्माङ्गानि तथैव च ॥ २२ ॥
न निन्द्या तु कारणं देवं तच्छास्त्रं च शिवोद्भवः ।
देशिकं पुत्रकं चैव गुरोर्वाक्यं न लङ्घयेत् ॥ २३ ॥
सुतिकायां न संस्पर्शं छाया चतुरलङ्घनात् ।
यत्नेन वर्णयेत् प्राज्ञो देव जग्धं च सौनिकम् ॥ २४ ॥
इत्येता समयास्तन्त्रैः समासात् परिकीर्तिताः ।
पालानां तु शिवं यान्ति सन्निरोधं ततो न्यथा ॥ २५ ॥
पिण्ड मन्त्रास्थतस्त्राव्यावत्सरात्मा शिवशिवस्तथा ।
समयज्ञेष्विदं ज्ञानमथ ऊर्ध्वं न दापयेत् ॥ २६ ॥
ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रादि नपुंसकाः ।
दीक्षाकाले त्वमीमांस्या ज्ञानदाने विचारयेत् ॥ २७ ॥
त्रिचतुःपञ्चभिः विप्र क्षत्रिये नव सप्तभिः ।
प्। १०३)
अष्टभिर्दशभिर्वैश्ये शूद्रे विंशत्या दापयेत् ॥ २८ ॥
उत्तमं सर्वशास्त्राणां शिवशास्त्रात्मकं गुह ।
गुह्याद्गुह्यतरं गुह्यं भवितव्यं प्रयत्नतः ॥ २९ ॥
ना शिष्याय प्रदातव्यं नाभक्ताय न नास्तिके ।
न गुरु द्वेषिणे चैव कन्यशास्त्ररताय च ॥ ३० ॥
यस्य देवे पराभक्तिः नित्यं गुरौ षण्मुख ।
नान्यशास्त्रे यथा भक्तिर्ज्ञानं तस्मिन्न स योजयेत् ॥ ३१ ॥
न जल्प शिवशास्त्रेण प्रकुर्वीत कदाचन ।
न वोरणं कुर्यात् दशद् देजनसं * * * * ॥ ३२ ॥
विविक्ते निर्जने रम्ये पूज्यविद्याधिपं गुरुम् ।
जितेन्द्रियः शुचिः स्नातः शिवज्ञानं तु श्रावयेत् ॥ ३३ ॥
श्रोतव्यं च तथा भूतैस्तच्छक्तैस्ता परायणैः ।
आदावन्ते च संयोज्य गुरुं सम्भाव भावितैः ॥ ३४ ॥
पौर्णमास्याममावास्यां चतुर्दश्यष्टमेषु च ।
नाध्यापयेच्छिवज्ञानं ग्रहणाय न सन्धिषु ॥ ३५ ॥
सविशेष जपं पूजा व्रत होमं समाचरेत् ।
दानोपवासनियमात् सर्वेष्वे तेषु षण्मुख ॥ ३६ ॥
कृतघ्ना नास्तिकाः क्रूराः निस्सत्याः कलह प्रियाः ।
मायाशाठ्य समोपेता भूमन्ते तन्त्र हारिणः ॥ ३७ ॥
पृच्छन्ति मधुरैर्वाक्यै शेषमुत्वाद्य वा पुनः ।
प्। १०४)
तेषां न विश्वसेद्धर्मान् यदीच्छेच्छान्तिमात्मनः ॥ ३८ ॥
एवं कार्यधिकारो हि यावत् सङ्क्रमितोन्यतः ।
सङ्क्रामिताधिकारस्तु कर्मसन्यासमाचरेत् ॥ ३९ ॥
साधकस्याभिषेकस्तु एवं वत्स विधीयते ।
आचार्य साधकश्चैव द्वावेतौ तुल्यमङ्गलौ ॥ ४० ॥
समाप्त विद्यो कर्तव्यो गुरुस्साधक एव च ।
सकाम सायको ज्ञेया निष्ठा मे देशिकः स्मृतः ॥ ४१ ॥
एक एव क्रियाकारो भावभेद प्रधक्तयोः ।
सोल्पं होमं जपध्यानं कुरुते देशिकस्सदा ॥ ४२ ॥
कर्मनिष्ठा प्रतिष्ठो हि सततं साधकोत्तमः ।
इति श्रीसर्वज्ञानोत्तरे क्रियापादे अभिषेकप्रकरणम् ॥