१४

एवं दीक्षा त्वया ख्याता मृतानामपि शङ्कर ।
तथैवाचार रहितामन्त्येष्टिः पाशशोधिनी ॥ १ ॥

नैष्ठिकानां समाख्याहि ब्रह्मचर्यो जितात्मनाः ।
ज्ञानचर्यान्वितस्यापि कालाकस्य गतिर्भवेत् ॥ २ ॥

ज्ञानाचर्या द्वितौ बौद्धौ बुद्धि तत्वमवाप्नुयात् ।
तामसं जिनभक्तानां प्राप्नुवन्ति * * * * ॥ ३ ॥

ये भवन्त्य जितात्मानस्तेषां मुक्तिस्तु दीक्षया ।
चैवतानि पश्यन्ति मुक्तिस्थानानि षण्मुख ॥ ४ ॥

मुक्तिस्थानं भवेदेकं विमलं सर्वतो मुखम् ।
अचलं बासकं शान्तं लिङ्गाश्रय विवर्जितः ॥ ५ ॥

तस्मिन् नियोजन्मन्त्री शोध्य तत्व क्रमेण तु ।
यो चस्मिन्नाश्रितो लिङ्गी तमादौ पूजयेत् ततः ॥ ६ ॥

तर्पयित्वा तथा सम्यक् प्रायश्चित्तं विशोधयेत् ।
पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन ॥ ७ ॥

पश्चादष्ट सहस्रं तु अस्त्र बीजेन होमयेत् ।

प्। ९७)

भूयोप्यष्टसहस्रं तु मूलमन्त्रेण होमयेत् ॥ ८ ॥

भूत्वा दीक्षापराकार्या संसार्णव तारिणी ।
नैष्ठिको दीक्षितस्त्वेन नित्यमप्यभिचारतः ॥ ९ ॥

शिवशास्त्रपरोनित्यं शिवहोमरतः शुचिः ।
शिवार्चन शिवध्यायी शिवजापि सदा भवेत् ॥ १० ॥

अ * ल काङ्क्षिण स्कन्द नानुग्रहं करिष्यति ।
द्वावेवाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ ॥ ११ ॥

लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि ।
एवं कार्याधिकारोयं यावत् सङ्क्रामतो न्यतः ॥ १२ ॥

सङ्क्रामिताधिकारस्तु कर्मशन्या समाचरेत् ।
गृहस्थ ब्रह्मचारित्वं सञ्ज्ञामात्रं तु केवलम् ॥ १३ ॥

पारमार्थिकमेतेषां नाश्रमो नाश्रमक्रिया ।
यदर्थं कृत कर्माणो नियुक्तौ परमे पदे ॥ १४ ॥

तदर्थं नाश्रमः प्रोक्तः शिवशास्त्र समाश्रितः ।
पूर्वसन्ध्या जपं होमं यच्च कर्म क्रमागतः ॥ १५ ॥

स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्र तत्परः ।
यस्मिन् वर्णो स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् ॥ १६ ॥

तत्रैव संस्थितो नित्यं शिवधर्मं प्रकल्पयेत् ।
यदुक्तं शिवशास्त्रेऽस्मिन् न्युक्तं कर्मषडानन ॥ १७ ॥

तदवश्यं तु कर्तव्यं तद्विलङ्ख्य विलङ्घनम् ।

प्। ९८)

आज्ञेयं कारणा ज्ञेया नोविकल्प्या कदाचन ॥ १८ ॥

सिद्धे यं साधनं नास्ति दूषणं न च विद्यते ।
न पुं हि य*(?)र्षकं वाक्यं दैविकं रिषिस्तथा ॥ १९ ॥

न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजन्मना ।
न शैवं विष्णुना वाक्यं बाध्यते तु कदाचन ॥ २० ॥

यो भि बाधति मूढात्मा सं नष्टो मूढचेतनः ।
उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् ॥ २१ ॥

वाक्यानां वाक्यवित् प्राज्ञैस्तथा गुह्यं हितैषिभिः ।

सम्बन्धादशधर्माश्च प्रसिद्धां ना विचारयेत् ।
गर्भाधानादितः कृत्वा यावदुद् बाहमेव वा ॥ २३ ॥

तावं तु वैष्टिकं कर्म पश्चाद् वै वेत्यनन्यभात् ।
न मुख्य प्रवत्या च स्कन्द लोकं धर्मान् समाचरेत् ॥ २४ ॥

न चान्य शास्त्रेद्दिष्टां न चान्यं देवतां स्मरेत् ।
विशुद्ध भावना युक्त शिवैक गत मानसः ॥ २५ ॥

विशुद्ध माप्नुयात् स्तानमचिन्त्य सर्वग मृव ।
शबलं कर्मसन्देह द्यत्कृतं कृतकोद्भवम् ॥ २६ ॥

नेह मन्त्रफलं तस्य नैकान्ते सुखदं भवेत् ।
यमेवेच्छति सम्प्राप्त शुद्धकर्म समाश्रयेत् ॥ २७ ॥

तत्कर्म परतां नित्यं सुखी त * दवा स्व्यतः ।

प्। ९९)

शास्त्रस्यैवा विरोधेन शुद्ध कर्माजितेन्द्रियः ॥ २८ ॥

अनेनैव स्वदेहेन सिध्यते नात्र संशयः ।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राशुद्धस्तु साधकाः ॥ २९ ॥

सुवर्णादानु पूर्वेणाचार्याश्च षडानन ।
श्रद्धधानान सूयाश्च कर्मज्ञाः कर्म तत्पराः ॥ ३० ॥

अनुरक्ताभिषक्ताश्च ते त्वानुग्रहकाः स्मृताः ।
कृष्णवर्णमृगो यस्मिन् चरते तु षडानन ॥ ३१ ॥

तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः ।
यत्र विप्रास्सदाचारा यतयश्च तपोधनाः ॥ ३२ ॥

सन्निदेवास्तथा वेदाः पुण्यदेहां तमादिशेत् ।
तद्देश कुलसम्भूता आचार्याश्शास्त्रसम्मिताः ॥ ३३ ॥

शिवशास्त्रं परां नित्यं शिवार्चाग्निपरायणाः ।
आपादमस्तकं यावत् भस्मस्नानं द्विजस्य तु ॥ ३४ ॥

नाभेरूर्ध्व ह्रपस्योक्तं मारत्नेन तु भस्मना ।
वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुण्ड्रकः ॥ ३५ ॥

भस्मना ब्रह्म जप्तेन यथास्थानेष्वनुक्रमात् ।
ब्राह्मणस्य जटाश्लष्णाः कनकाः परिकीर्तिताः ॥ ३६ ॥

स्थूलास्तद्विगुणो ज्ञेया क्षत्रियस्य तु व्यन्तराः ।
वैश्यस्यैका शिखा स्थाने तथा शूद्रस्य कीर्तिताः ॥ ३७ ॥

ह्रस्व श्लक्ष्णानुसंयुक्तास्संयतस्य जितेन्द्रियः ।

प्। १००)

यज्ञोपवीत सूत्रं तु विप्रे पञ्चसरं मृतम् ॥ ३८ ॥

त्रिसरं क्षत्रियस्योक्तः वैश्यस्य द्विसरं स्मृतः ।
शूद्रस्यैक सरं ज्ञेयं नित्यमव्यभिचारिणः ॥ ३९ ॥

अर्चायामग्निकार्ये वा सन्ध्या काले च नान्यथा ।

इति श्रीसर्वज्ञानोत्तरे लिङ्गोद्धारादिप्रकरणम् ॥