अथ परं प्रवक्ष्यामि समयाचार लङ्घने ।
यथा विशुद्धयते देही विपन्नोप षडानन ॥ १ ॥
मृदम्भुना तु संशोद्ध्यास्त्र जप्तेन मन्त्रवित् ।
आलिप्यामलकैः पूतैः स्थापयित्वा शिवाम्भसा ॥ २ ॥
भस्मस्नानं विलोमेन कृत्वा तु परियापयेत् ।
गन्धपुष्पैरलङ्कृत्य उदक पाद निवेशयेत् ॥ ३ ॥
रक्तगन्धैस्तथा पुष्पैरजैवस्त्रोपवीतकैः ।
सं चाद्यवस्त्रसंयुक्तजस्त्रजापिभिरुत्क्षिपेत् ॥ ४ ॥
नीत्वा तु शाङ्करि दीक्षां शुचिस्थाने निधापयेत् ।
नि-ऋति प्लवनं तत्र शिवक्षेत्रं प्रकल्पयेत् ॥ ५ ॥
चतुर्हस्तायतं निम्न द्विहस्त समविस्तरम् ।
अस्त्र जप्तैस्तु तत्कीलैर्विदिक्षु कीलितो बहिः ॥ ६ ॥
विलोमं रक्तसूत्रेण कवचाख्येन वेष्टयेत् ।
पीतेन रजसावत्रं तस्य मध्ये समालिखेत् ॥ ७ ॥
त्र्यश्रमञ्च समायुक्तः शृङ्गाटकं तथोपरि ।
रक्तेन रजसा तं तु सर्वधान्यमयेन वा ॥ ८ ॥
पूर्वोक्तेन विधानेन तत्र वह्निं प्रकल्पयेत् ।
अस्त्रेण प्रस्तरां दर्भान् प्युत्क्रमेण तु देवताः ॥ ९ ॥
पर्युक्षणं तथा कुर्यादर्चिनाभ्युक्षणं तथा ।
स्रुचं स्रुवं च होमान्ते शवस्थोपरिविन्यसेत् ॥ १० ॥
प्। ९५)
पूर्ववच्छोदयेदाज्यमभिर्वार्य विलोमतः ।
तथैवोद्घाटनं कुर्यात् निष्णतिं च षडानन ॥ ११ ॥
तर्पयित्वा तथा वह्निं दत्वा पूर्णाहुतिं ततः ।
ऐश्वर्यादि विलोमेन मन्त्र सिंहासनं न्यसेत् ॥ १२ ॥
सन्ध्यादि मन्त्र विन्यासं दत्वा देहेष्वके गुह ।
शिवे शिवासने चैव तथा होमं समाचरेत् ॥ १३ ॥
पूजयित्वाय तथा न्यायं गन्धपुष्पैः पवित्रकैः ।
अर्घ्यपाद्यादिभिश्चैव यथाशक्त्या विचक्षणैः ॥ १४ ॥
ततः सञ्चिन्तयेन्नाडीः दिव्यरूपा मनोरमाः ।
ततश्चिति * नेत्तत्र चन्दनागरुदादिभिः ॥ १५ ॥
यथावासं भवेत् तस्य कुचवस्त्रोक्तरं गृह ।
पुनरभ्युक्ष्य तु प्रेतं मात्र बीजेन षण्मुख ॥ १६ ॥
चिति मध्ये नियुञ्जीत वस्त्रं चं न घृतप्लुतः ।
ततः सञ्चिन्तयेन्नाडीं तस्य देहे विचक्षणः ॥ १७ ॥
स्वसञ्ज्ञां हृदि संस्थाप्य तं मध्ये पुद्गलं न्यघे ।
ततः सन्धाय तत्वानि पादादारभ्य मन्त्रवित् ॥ १८ ॥
हित्वा तु तां तथा भूधः पशुं संयोजयेच्छिवे ।
तत्र सन्दीपयेद् बहिं तमस्ताद प्रदक्षिणः ॥ १९ ॥
अस्त्रबीजेन मन्त्रज्ञ आग्नेयीध्यारणं स्मरेत् ।
अविच्छिन्नां तथा राम घोयस्त्राभिमन्त्रिताः ॥ २० ॥
प्। ९६)
भ्रामयित्वास्त्रबीजेन जलधारां निधापयेत् ।
ततोजलं प्रजेद् विद्वान् स्नात्वा दत्वोदकं शुचिः ॥ २१ ॥
यागं यथोदितं कृत्वा निवेद्येशं क्षमापयेत् ।
एवं विमुच्यते देही समयादि विलङ्घने ॥ २२ ॥
अज्ञानाज्ज्ञानतो वापि कृतौ त्वं तेष्ठि कर्मणि ।
इति श्रीसर्वज्ञानोत्तरे अन्त्येष्टिप्रकरणम् ॥