न प्राप्तोपि परां दीक्षां गुरुभुक्तोपि यत्नतः ।
कालेनान्त स्थितो यस्य तस्य मोक्षाः कथं भवेत् ॥ १ ॥
किं प्रदा तस्य सङ्क्लेशो मोक्षमुद्दिश्य यः कृतः ।
प्। ८९)
किं किञ्चिद् विद्यते कर्म तस्य धर्मोक्ष साधनम् ॥ २ ॥
गुरुभक्ताय शान्ताय सत्याचाराय सुव्रत ।
मृतस्यापि वरं स्कन्द दीक्षाकर्म विधीयते ॥ ३ ॥
अपि कल्पमति कुर्याद् एकश्चित्त समाहितः ॥ ४ ॥
तत्वानि देवता बीजं कलिकैः करवीरकैः ।
उच्चार्य विन्यसेन् मन्त्री दर्भै पुत्नीशके कृते ॥ ५ ॥
स्नापयित्वास्त्र बीजेन पञ्चगव्य शिवाम्बुजा ।
संस्थाप्य दक्षिणे पार्श्वे तस्य नाम हृदि न्यसेत् ॥ ६ ॥
अथवा व्योमसंस्थाने गोमयेन षडानन ।
सम्मन्त्र्य पञ्चगव्येन कृत्वा तस्मिन् नियोजयेत् ॥ ७ ॥
शक्तित्रयत्येनेत्तासु धर्माधर्म च षण्मुख ।
तदेवालम्भनं कृत्वा तस्मात् संहृत्य होमयेत् ॥ ८ ॥
ततस्तु मूर्ध्नि आगव्य यावत् पादतलान्तकः ।
विन्यसेत् सर्वतत्वानि तत्वैर्देवा न तु क्रमात् ॥ ९ ॥
बिन्दु तत्वे न्यसेन् मूर्ध्नि तत्र बिन्दु नियोजयेत् ।
शान्तीं च निष्कले स्थाने ध्यात्वा सर्वानिधो मुखात् ॥ १० ॥
मूर्ध्निथो खण्डिकोर्ध्वं तु न्यसेद् देवं सदाशिवम् ।
तत्रास्तथस्य संलीन विन्यसेच्छक्तिमण्डलम् ॥ ११ ॥
जिह्वायां वक्त्र मध्ये तु तत्र विद्यां च योजयेत् ।
अष्टौ विद्येश्वरान् मन्त्री ग्रीवायां बाहु सन्धिषु ॥ १२ ॥
प्। ९०)
मायां वै यामपार्श्वे तु न्यसेत् कालं तु दक्षिणे ।
कलामुरसिसंस्थाप्य हृदये नीललोहितम् ॥ १३ ॥
तत्रापरम् पुनर्विद्यां तत्रैव पुरुषः स्मृतः ।
रागोपि रञ्जकस्तस्य विद्य प्रबोध लक्ष्मणैः ॥ १४ ॥
अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् ।
शब्द स्पर्शं च रूपञ्च रसोगन्धश्च पञ्चमः ॥ १५ ॥
पृष्ठवंशे गुणं न्यस्य तत्रैव पुरुषत्रयम् ।
नाभि मेढ्रान्तरे बुद्धि महङ्कृतिश्च सन्धिषु ॥ १६ ॥
योन्यं व्योमेश्वरं देवं व्योम मध्ये नियोजयेत् ।
तत्रैव योजयेद् वायुं गुह्याद्गुह्याष्टकावृतम् ॥ १७ ॥
योनभ्यन्तरतः स्कन्द वित्तस्थाने हुताशनम् ।
तस्याधो वारुणं तत्वं यावधा जानुमण्डलः ॥ १८ ॥
तस्याभ्यन्तरे लोकान् यावदामुश्ल कीलकौ ।
लोकादौ विन्यसेद् देवान् ब्रह्म विष्णु महेश्वरान् ॥ १९ ॥
गुल्फाय पो * * प्रन्ते तु किञ्चिदभ्यन्तरे गुह ।
चिन्तयेत् सप्तपाताल नरकांस्तु तल स्थितौ ॥ २० ॥
पादाङ्गुष्ठे तु देवेशं कालाधिपतिमीश्वरम् ।
स्थापयित्वा विधानेन पुनरभ्यर्चयेत् क्रमात् ॥ २१ ॥
सञ्चित्य सहिता न्यध्व मूर्ध्नि आरभ्य मन्त्रवित् ।
पादादारभ्य तान् सर्व अंसौ संस्थाप्य शोधयेत् ॥ २२ ॥
प्। ९१)
यागं यथोचितं कृत्वा तत्वे योनि मनु क्रमात् ।
कल्पयित्वा यथा पूर्वं पशुं संहृत्य योजयेत् ॥ २३ ॥
गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् ।
तत्वातु सर्वतत्वेषु तथा संयोजयेच्छिवे ॥ २४ ॥
क्षीराज्यदधिसम्मिश्राअं सूच्यग्रे संव्यवस्थिताम् ।
कृत्वाग्नौ होमयेत् पश्चात् तां तु पुत्तलकां बुधः ॥ २५ ॥
अथवा पुनरप्येवं स्थूलसूक्ष्मविभेदतः ।
व्योमानिलानलाम्भोर्वीः पञ्चतत्वानि योजयेत् ॥ २६ ॥
तेषामन्तर्गतान्यसेत् सर्व तत्वात् षडानन ।
कलाभिर्व्यापितास्तांश्च शान्ति शृण्यादिभिः क्रमात् ॥ २७ ॥
कलया शृन्यया लौप्तमाकाशं बैन्दवं परम् ।
व्याप्त सदाशिवं तत्वं शान्तया वायुरूपया ॥ २८ ॥
तस्यायो या पदं व्यक्तं विद्याया तेजरूपया ।
अव्यक्ताद्यावदम्भोन्तं व्याप्त चैव प्रतिष्ठया ॥ २९ ॥
स चाह्याभ्यन्तरं पश्चात् ब्रह्माण्डं तु प्रत्तय ।
व्यापितं सहरुद्रैश्च ध्मातचाकेरा भयम् ॥ ३० ॥
यदेव श्रन्यया व्याप्तं तच्छून्यमिति चोच्यते ।
वायव्ययागतो वायुस्तेजस्तेज सद्याप्रतः ॥ ३१ ॥
आपो वारुणया प्रोक्तो उर्वी पार्थिवया वृता ।
यदन्तरं यथा व्याप्तं तस्य नाम्ना तु तत्स्मृतः ॥ ३२ ॥
प्। ९२)
बहिरेवं स्थिता व्याप्ति शरीरे श्रासु तत्वतः ।
शोधनान् क्रमं चैषां पशुमाश्रित्य संस्थितः ॥ ३३ ॥
सञ्चिन्त्य पूर्ववद्रूपं तथा नाडीर्विचिन्तयेत् ।
शक्तित्रयं न्यसेत् तावद्धर्माधर्मौ च षण्मुख ॥ ३४ ॥
तन्मात्रैः पञ्चभिर्युक्तं गुणैश्च त्रिभिरावृतः ।
मनोबुद्धिरहङ्कारैरव्यक्तेन हृदि पुद्गलः ॥ ३५ ॥
भ्रुवो कर्णान्तरादूर्ध्वं श्रत्येश्रन्ये कलान्यसेत् ।
तस्याधो हृदयादूर्ध्वं मनिले शान्तिमेव च ॥ ३६ ॥
हृदयाद्राव मेढ्रान्तं विद्यां तेजसि योजयेत् ।
मेढ्राधो यावजान्वन्तं प्रतिष्ठा वरुणा न्यसेत् ॥ ३७ ॥
तस्याधः पार्थिवं तत्वं यावत् पादतलान्तिकम् ।
निवृत्तिं योजयेत् तत्र ध्यात्वा पूर्ववदर्चयेत् ॥ ३८ ॥
विद्येश्वरं यं बीजं कलाश्रुत्यां प्रकल्पयेत् ।
कवचादि शिवाअङ्गानि पुनश्शत्याकाः क्रमात् ॥ ३९ ॥
उर्वीवार्णबीजाभ्यां तेजसा निलखात्मभिः ।
संयुक्तास्ते स्मृतास्तत्वा योमाध्याक्ष्मावसानिकाः ॥ ४० ॥
ह्रस्वादौ ये स्त्वरापञ्च नपुंसकविवर्जिताः ।
तन्मात्रस्थे तु विज्ञेया गन्धाद्यादेशिकोत्तमैः ॥ ४१ ॥
अहङ्कारश्च सञ्ज्ञं तु अम्बुधीनीति सञ्ज्ञकम् ।
मकारस्तु मनः प्रोक्तः * तमः परिकीर्तितः ॥ ४२ ॥
प्। ९३)
रकारं तु रजो विद्धि संसत्वं तु निगद्यते ।
यकारं प्रकृतिं स्कन्द परिकल्प्यविशोधयेत् ॥ ४३ ॥
पृथिव्यादीनि तत्वानि निवृत्त्यादि विशोधयेत् ।
गन्धादि पञ्चसूक्ष्मानि सद्यादिभिरनु क्रमात् ॥ ४४ ॥
त्रितत्वेन तु होतव्यमहङ्कारादिकं क्रमात् ।
प्रणवेन विधानज्ञो होमधीत गुणत्रयम् ॥ ४५ ॥
तत्वे तत्वे तु तत्वज्ञः पञ्च सूक्ष्माणि शोधयेत् ।
गुणत्रयं तथा व्यक्तं मनोबुद्धिमहङ्कृतः ॥ ४६ ॥
एकैकस्याहुतिशत्तं दद्याच्छुद्धेन सर्पिषा ।
तिलैर्वाघृतसम्मिश्रैस्तण्डुलै राज्य संयुतैः ॥ ४७ ॥
श्रीफलैर्बिल्वपत्रैर्वा पुस्पैर्वाऽर्धाञ्जिकैः शुभैः ।
होमयेत ततोदिष्टं तैस्तु पूर्णाहुतिं तथा ॥ ४८ ॥
पूर्ववत् स्रोत शुद्धिस्तु तत्व संशुद्धिनैव च ।
क्रमात् सन्धाय तत्वानि तया हित्वा शिवं नयेत् ॥ ५१ ॥
एवं दीक्षा मृतस्योक्ता जीवतोपि हि षण्मुख ।
समयादिभ निर्मुक्ता सुख बन्धाद् विमुच्यते ॥ ५० ॥
सृष्टिसंहारन्यायेन पृथगत ध्वनि कल्पना ।
दीक्षा संहारतः कार्यारनयोरविसम्मता ॥ ५१ ॥
विपन्नस्याखिलं कर्मा हन्येकस्मिन् समाप्यते ।
आचारोऽयं स्थितं स्कन्द सिध्यर्थम् जीवितस्य तु ॥ ५२ ॥
इति सर्वज्ञानोत्तरे क्रियापादे मृतकदीक्षाप्रकरणम् ॥