अतस्सङ्क्षेपतो वक्ष्ये दीक्षाविधि विनिश्चयम् ।
चातुर्वर्णहितार्थाय परमेशेन भाषितः ॥ १ ॥
संहृत्य सर्वतत्वानि पञ्चधा परिवर्तयेत् ।
देवताश्च ततो भूयस्तेषु मन्त्रान् यथाक्रमम् ॥ २ ॥
पृथिव्यापस्तथा तेजोः वायुराकाशमेव च ।
एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु ॥ ३ ॥
न विनापञ्चभिस्तत्वैर्देह बन्धो विधीयते ।
स्थूलसूक्ष्मविभागेन ज्ञात्वैतानि विशोधयेत् ॥ ४ ॥
सर्वतत्वानि शुद्धानि विशुद्धैः षडानन ।
देवैश्च देवतास्सर्वे शुद्धा स्मृताः भवन्ति हि ॥ ५ ॥
प्। ८५)
ब्रह्माविष्णुश्च रुद्रश्चानन्तेश सदाशिवौ ।
पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः ॥ ६ ॥
तेषां मध्यमन्त्रस्तु विभिन्ता मन्त्र या भवतु ।
त्रयस्त्रिंशतिमं शम्भोरितरेषास्वनामकम् ॥ ७ ॥
पूर्वविधजनं कृत्वा तथा योनिं प्रकल्पयेत् ।
ग्रहणं न तथा भूयः पशुसंयोजनं तथा ॥ ८ ॥
निवृत्ति * समन्त्रेण साधयेत् साधकोत्तमः ।
गुह्यकेन प्रतिष्ठां तु विद्याघोरेण होमयेत् ॥ ९ ॥
शान्तिं तत् पुरुषेणैव शान्त्यतीतां शिवेन तु ।
एकैकस्य शतं ज्ञेयमाहुतीनां तु साधकैः ॥ १० ॥
हुतैश्चैव तु मुच्यन्ते पशवोजन्मबन्धनात् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ ११ ॥
जन्मनिष्क्रमणं नाम अन्नप्राशनमेव च ।
अधिकारं तथा भोगं लयं चैव विधानवित् ॥ १२ ॥
ततश्च स्रोतसं शुद्धिं तत्व संशुद्धिमेव च ।
वियोगञ्च तथोद्धारं तत्वसन्धानमेव च ॥ १३ ॥
छेदं भेदनं दाहमेतान् पूर्ववदाचरेत् ।
पृथिव्यादिषु तत्वेषु ततः कुर्यान्निरञ्जनम् ॥ १४ ॥
पूर्ववद् देह संश्लिष्टान् शोध्यतत्वा शिवं नयेत् ।
पुनरेवं प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् ॥ १५ ॥
प्। ८६)
संस्काररहितः कर्मा भित्वा केवल योजनः ।
इष्ट्वा देवं शिवं शान्तं प्रासादममितौजसः ॥ १६ ॥
सहस्राहुति होमं तु ब्रह्माङ्गैः पुनराचरेत् ।
भूयोप्यष्ट सहस्रं तु दत्वा देवस्य षण्मुख ॥ १७ ॥
संहृत्य पुद्गलं पश्चात् शिवाग्रेव नियोजयेत् ।
ततः सन्धाय तत्वानि पुनर्मूलेन भेदयेत् ॥ १८ ॥
ततस्तेनैव मार्गेण बिन्दुतत्वे नियोजयेत् ।
अमनस्कं यथा पूर्व वासतत्वं षडानन ॥ १९ ॥
कृत्वा तु देहसंश्लिष्टान् पुनस्तत्वं नियोजयेत् ।
पूर्वोक्तेन विधानेन योजयित्वा पशुं शिवम् ॥ २० ॥
तथा चैव शिवाश्चेदं कृत्वा कुर्यादनामयम् ।
एवं दीक्षा समाना यागचण्डेश्वरस्य तु ॥ २१ ॥
कृत्वा पूर्वं गुरोर्यागम् अपरेऽहनि पुत्रकः ॥ २२ ॥
गुरुरप्यात्मसंशुद्ध्या विद्यादेवं विधानतः ।
शिवादीयोविदात्मायं गुरुपन्ति पुनर्व्रजेत् ॥ २३ ॥
शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु ।
पद्मसंस्थान्यजन्मन्त्री मण्डले हृष्टमानसान् ॥ २४ ॥
सदाशिवमनन्तं च विद्यारुद्रं सहोमया ।
विष्णुनद्देवेशं ब्रह्माणं स्कन्दमेव च ॥ २५ ॥
समयिकं पुत्रकः पश्चात् पूज्य शम्भुं तथा गुरु ।
प्। ८७)
गन्धपुष्प सवित्राध्यैर्वस्त्रालङ्कार वाहनैः ॥ २६ ॥
पूजयित्वा विधानेन तथात्मानं निवेदयेत् ।
एवं निवेदितात्मा तु गुरुपाशैर्विमुच्यते ॥ २७ ॥
अध प्रभृति भगवन्यो विदेहो ममात्मकः ।
युष्मदीयो विकल्पेन शंस्यवाल्यश्च ते सदा ॥ २८ ॥
एवं गुरुवशो भूत्वा सन्तुष्टो यावदायुषः ।
अनुज्ञातो यदा तेन कुर्यात् कार्याणि सुव्रतः ॥ २९ ॥
अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि च ।
वृथा तेषां विजानीयात् गुरुर्येषां न देवता ॥ ३० ॥
गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् ।
गुरोस्तु न परं किञ्चिदित्याह भगवान् शिवः ॥ ३१ ॥
ज्ञानाज्ञानेन दिव्येनाचोद्घाटयति चक्षुषी ।
अज्ञानतिमिराक्रान्ते तस्माज्ज्ञानमयो हि सः ॥ ३२ ॥
सिद्धविद्याधरान् भोगान् सदेवासुर मानुषान् ।
प्राप्नुवन्ति समायुक्त गुरुणोक्तेन कर्मणा ॥ ३३ ॥
गुरुपदिष्टमार्गेण प्राप्नुवन्ति परम्पदम् ।
तस्मादादौ गुरुः प्रोक्तः पश्चाद् देवो निरञ्जनः ॥ ३४ ॥
दीक्षया तु परं ज्ञानं नयते शाश्वतं यतः ।
तस्मान्नास्तत्र बोद्धव्यः गुरुभ्यः परतो गुह ॥ ३५ ॥
गुरवस्तोषिता येनाहं रुद्रगणैः सह ।
तोषितो नात्रसन्देहस्तथा देवास्सवासवाः ॥ ३६ ॥
प्। ८८)
अवज्ञानेन क्रुद्धेन नरके पतनं ध्रुवम् ।
तस्मादेवं विदित्वा तु गुरुं नैवावमानयेत् ॥ ३७ ॥
आसनं शयनं यानं नरोहेद्गुरुसन्निधौ ॥ ३८ ॥
(नाध्यापनं प्रकुर्वीत)
गुरों निम्नासनो भूत्वा स तिष्ठो तत्परायणः ।
चित्रां नैवाग्रतो धार्यं नोष्णंषं न च पादुके ॥ ३९ ॥
किरीटाद्युज्वलाज्वलां त्येवं न कुर्याद् गुरुसन्निधौ ।
नाध्यापनं प्रकुर्वीत व्याख्यानं शिष्यसङ्ग्रहम् ॥ ४० ॥
गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् ।
न श्रोतव्या गुरोर्निन्दा शास्त्रनिन्दा तथैव च ॥ ४१ ॥
देवस्य देशिकानाञ्च मुनीनाञ्च षडानन ।
गुरोर्ज्येष्ठं कनिष्ठं वा भ्रातरं न व्यति क्रमेत् ॥ ४२ ॥
तथा चैवात्मनो ज्येष्ठान् सर्वान् पश्येद् गुरुशिव ।
दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन ॥ ४३ ॥
तपोविद्याधिकस्यापि * तव्यं नाभिपादनम् ।
सर्वतो गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः ॥ ४४ ॥
मान्याः पूज्याश्च ते नित्यं गुरवोन्यत्र षण्मुख ॥ ४५ ॥
इति श्री सर्वज्ञानोत्तरे क्रियापादे कलातत्वपञ्चतत्वदीक्षाप्रकरणम् ॥