१०

अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः ।
सर्वतत्व निबन्धस्य सर्वधर्ममयस्य तु ॥ १ ॥

पशुधर्म नियुक्तस्यानादि मलमुषिणः ।
शृणुवत्सपरां दीक्षां शिवसायुज्यदांशुभाम् ॥ २ ॥

यस्य यस्य हि देवस्यादि मन्तो येक्षरः ।
अकाराकारसम्भिन्नं वह्निबीजमन्वितः ॥ ३ ॥

प्। ७७)

वायुबीजसुसंयुक्तम् अथ षष्ठं नियोजितः ।
मूर्ध्नि बिन्दुसमायुक्तः मन्त्री सर्वेषु कीर्तितम् ॥ ४ ॥

तदेकमक्षरं भिन्नं मात्राद्वादशभिः पुनः ।
ह्रस्वब्रह्म समाख्याता दीर्घैरङ्गानि निर्दिशेत् ॥ ५ ॥

त्रितत्वं बिन्दुसंयुक्तं त्रयो नेत्राः प्रकीर्तिताः ।
स विसर्जास्स्मृताः ह्यस्त्रा बिन्दुनाद विवर्जिताः ॥ ६ ॥

शिवोक्तेन विधानेन इष्ट्वा देवाननु क्रमात् ।
तर्पयित्वा यथा भूयस्ततो दीक्षां समारभेत् ॥ ७ ॥

उपोषितां शुचीः स्नातानाचान्तान् धौतवाससः ।
धौतपादास्तु संसिक्तान् रिष्यामन्त्रि प्रवेशयेत् ॥ ८ ॥

आलभ्यः पञ्चभिः ब्रह्मैः शिवाङ्गैः प्रणवेन च ।
नेत्रं नेत्रेषु विन्यस्य नेत्रबन्धं तु कारयेत् ॥ ९ ॥

दुकूलपट्टवेदाङ्गैस्तथा कार्पासजेन वा ।
सतशेन नवेनाथ सितेनश्लष्णवाससा ॥ १० ॥

पुष्पाञ्जलि समायुक्त दक्षिणामूर्तिमानयेत् ।
गुरोस्संसिक्तमनसा दर्भहस्तः सुमन्त्रितः ॥ ११ ॥

दर्भाग्रेर्दक्षिणाजानुं स्पृशत्वै देशिकस्य तु ।
ततश्चालंवनं कृत्वा पाशान् संहृत्य होमयेत् ॥ १२ ॥

हृदयेन विधानज्ञस्तथैवास्त्र द्वयेन तु ।
वर्गातीतं यकारं तं प्रासादं च पुनः क्रमात् ॥ १३ ॥

प्। ७८)

पूर्वात् बीजितान् कृत्वा धर्माधर्मेषु योजयेत् ।
धर्मे तु संस्तीज्योष्ठा वामा धर्मे ततोच्यते ॥ १५ ॥

उभयोः संस्थिता रौद्री तत्रस्थो होमयेदुभौ ।
त्रितत्वभेदिता वर्णा शक्तित्रयमिहोच्यते ॥ १६ ॥

वर्णातीत धर्मे तु धर्मा मध्यममेव तु ।
धर्माधर्मौ प्रसादेन व्यामिश्रौ होमयेत् पुनः ॥ १७ ॥

अथवा तावुभौ स्कन्द धर्माधर्मौ विमिश्रितौ ।
होमयेच्छिवतत्वेन सकलेन विचक्षणः ॥ १८ ॥

अकारौकारसम्भिन्नं हंसंवर्गान्तसंस्थितम् ।
मकारसहितं देवं वह्निवायुसमीरितम् ॥ १९ ॥

मूर्ध्नि बिन्दुसमायुक्तमतष्षष्ठं नियोजितः ।
सकलां सर्वभूतस्यं शिवतत्व प्रकीर्तितम् ॥ २० ॥

यस्मिन् तत्वे प्रभुर्यस्तु शिवं तत्र प्रकल्पयेत् ।
तन्मन्त्रैस्सर्व संस्कारस्तस्मिंस्तत्वे समाचरेत् ॥ २१ ॥

पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु ।
पतिधर्मांश्च वे धर्मे रमस्केनतानि तु ॥ २२ ॥

स्थाने जन्मतथेश्वर्यं तद्भोगापातनं तथा ।
अधिकारं लयं चैव होमयेत् क्रमशः पुनः ॥ २३ ॥

तत्वं संयोजयेत् पूर्वं कुण्डमध्ये विधानवित् ।
स्वनाम सर्वतत्वानां मन्त्रो ग्रहणकर्मणि ॥ २४ ॥

प्। ७९)

तत्व मध्ये तु गायत्रीं स्वमन्त्र विधिकल्पिताम् ।
पशुसङ्गृह्य तत्वज्ञ तस्य गर्भे नियोजयेत् ॥ २५ ॥

नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि ।
ह्रस्व वी * * * * * तेजपिण्डा कृतिं स्मरेत् ॥ २६ ॥

ताडयित्वास्त्र बीजेन हृदयेन समुद्रया ।
गर्भादानं तु सद्येन वासुपुंसवने स्मृतम् ॥ २७ ॥

सुम * * नो सञ्ज्ञेन पुरुषं जातकर्मणि ।
ईशानं योजये नाम्नि हृदयञ्चान्न प्राशने ॥ २८ ॥

शिरसा त्वधिकारञ्च शिखाया भोगमेव च ।
ऐश्वर्य नेत्रबीजेन कवचेन लयं हुनेत् ॥ २९ ॥

एकैकेन दशाहुत्या पूर्णाहुत्य शिवेन तु ।
दशभिः स्रोतसं शुद्धिं ब्रह्माङ्गैरनुपूर्वशः ॥ ३० ॥

शिवेन सर्वतत्वेषु तत्वशुद्धिं समाचरेत् ।
पाशच्छेदं तथा दाहं प्रायश्चित्तं च होमयेत् ॥ ३१ ॥

तत्वं तत्वेषु सन्धाय नरकांश्च विरोधयेत् ।
हुं फट् कारेत् ॥ ३२ ॥

वियोज्य ज्येष्ठया पश्चाद्रौद्राच्चैव चोद्धरेत् ।
तत्वे तत्वे त्विदं कर्म विधिनानेन षण्मुख ॥ ३३ ॥

कर्मभूमौ सुविस्तारं भूर्लोके तु समारभेत् ।
कालाग्नि रुद्रतत्वे तु कालाग्नित्वं विशोधयेत् ॥ ३४ ॥

प्। ८०)

नारके नारकान् धर्मान् भुक्त्वा कूश्माण्डतां नयेत् ।
पाताले सप्तमेतं तु न्यासं कृत्वा विमोचयेत् ॥ ३५ ॥

अथोर्ध्वं हाटकं तत्वं भूलोके जनयेत् ततः ।
स्थावरत्वं तु सद्येन सारिसृप्यमवात्मना ॥ ३६ ॥

पक्षित्वं घोररूपेण मृगत्वं पुरुषेण तु ।
पशुत्वमीशबीजेन होमयेदनुपूर्वशः ॥ ३७ ॥

एकैदशभिर्मन्त्रीं हुत्वा पूर्णाहुतिं ततः ।
सद्येन वामदेवेन हृदिना च विधानवित् ॥ ३८ ॥

शूद्रत्वं होमयेद् देही वैश्यादीननुपूर्वशः ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ ३९ ॥

उपनिष्क्रमणं नामान्नप्राशनमेव च ।
हृदिना निष्क्रम कर्म चूडा वै ब्रह्मभिः स्मृता ॥ ४० ॥

अथोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् ।
मेखलोपवीतं च दण्डं कृष्णाजिनं तपः ॥ ४१ ॥

स्वाध्यायमग्नीकार्यञ्च सन्ध्योपासनमेव च ।
भिक्षाभिवादनं मौनं ब्रह्मचर्यं शमोदमः ॥ ४२ ॥

गुरुपसदनं जाप्यमनिन्दामस्सुहार्जवः ।
अहिंसा सत्यमद्रोहस्त्यागः क्षान्तिरपैशुनः ॥ ४३ ॥

दयाभूतेषु लोलुत्वं मदिवं ह्रीरचापचलम् ।
तेजः क्षमाशुचि शौचमद्रो * * * * निता ॥ ४४ ॥

प्। ८१)

सर्वाननुक्रमेणैतान् गायत्र्यां दशधा हुनेत् ।
त्रायुषं चोपाकर्म गोदानं च महाव्रतम् ॥ ४५ ॥

नैष्ठिकं चासिधारं च हुनेत् पाशुपतेन तु ।
ततस्ता प्लावनेभ्योमश्शिवाङ्गैरभिधीयते ॥ ४६ ॥

पत्नीसंयोजनं कुर्यात् ब्रह्माङ्गैः पुनरेव हि ।
कृत्वा दर्भमयां पत्नीं मोमित्येव नियोजयेत् ॥ ४७ ॥

एकैकैर्दशभिमन्त्री एकैकेनाहुतीदश ।
अग्निष्टोमोत्यग्निष्टोमो वाजपेयोक्य षोडशी ॥ ४८ ॥

अतिरात्राप्तोर्यामश्च सोमसंस्था इति स्मृताः ।
ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेनव ॥ ४९ ॥

विंशाहुतीर्दद्यात् एकैकस्य विशुद्धये ।
पूर्णाहुतिं ततः पश्चात् सर्वसंस्कारकर्मसु ॥ ५० ॥

शिवेन सम्प्रयुञ्जीत प्लुतेनामृतवर्षिणा ।
शिवेन कुरुते होमं यस्मिन् संस्कार कर्मणि ॥ ५१ ॥

वर्जा पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् ।
सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत् सकृत् ॥ ५२ ॥

सोमवानाहुतिं दद्याद् दधिक्षीरं घृतं मधु ।
सहस्रक्रतु मध्ये तु दशदज्ञात् परं हुनेत् ॥ ५३ ॥

त्रिंशत्त्रिंश तिराहुत्या शिवेन च विचक्षणः ।
अश्वमेधं ततो होमेदाहुत्यं पञ्चविंशतिः ॥ ५४ ॥

प्। ८२)

शिवमन्त्रेण मन्त्रज्ञो * * स्था भवति ध्रुवम् ।
वानप्रस्थ ततो हुत्वा सर्वमन्त्रैश्च पञ्चधा ॥ ५५ ॥

तस्मिन् सर्वपरित्यागं कृत्वा * * * * यते ।
भिक्षुत्वं होमयेत् तस्य सर्वमन्त्रैः सकृत् सकृत् ॥ ५६ ॥

विशुद्धं कल्मषं भूयो ब्रह्मलोके नियोजयेत् ।
सन्धानं पूर्ववत् कृत्वा भेदयित्वा ततः पुनः ॥ ५७ ॥

इष्ट्वातु पूर्ववद् देवान् पूर्वोक्त विधिमारभेत् ।
ब्रह्मत्वं वासु देवत्वं रुद्रत्वं विधानवित् ॥ ५८ ॥

पूर्ववत्कर्मयोगेन होमयेत् सुसमाहितः ।
कटाहं पूर्ववद्भित्वा दलरुद्रादिगीश्वरान् ॥ ५९ ॥

पूर्वोक्तेन विधानेन यजेद्ब्रह्माणु मूर्धनि ।

अग्निरुद्रं स्वके देशे कालं याम्ये नियोजयेत् ।
भयानकं तु नैर्-ऋत्यां वारुणं तु महाबलम् ॥ ६१ ॥

वारुण्यां शोषणन्यस्य कामरूपं ततोत्तरे ।
सर्वविद्याधिपं रुद्रमैशान्यां तु नियोजयेत् ॥ ६२ ॥

स्वमन्त्रैरर्चयेत्सर्वान् शिववच्छम्भुमीश्वरम् ।
पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम् ॥ ६३ ॥

ततस्तु शम्भुरुद्रत्वं जनयित्वा विरोधयेत् ।
शेषेषु निष्कृतिं दद्यात् विंशविंशाहुति क्रमात् ॥ ६४ ॥

प्। ८३)

विशोध्या पार्थिवं तत्वं वरुणेत्वे नियोजयेत् ।
तेजो निले तथा * त्नि अहं क्रीडिषणे गुणे ॥ ६५ ॥

प्राकृते पौरुषे चैव रागविद्या कले तथा ।
काले मायां पुनश्चेति विद्यायामीश्वरै तथा ॥ ६६ ॥

सदाशिवे तथा तत्वे तथा सकलनिष्कले ।
सर्वतत्वाधिपाधर्मान् तत्वधर्मास्तथापरान् ॥ ६७ ॥

विधिनानेन संशोध्य कारणे चोन्मने न्यसेत् ।
अथासर्वतत्वेषु यजेदेकं परं शिवम् ॥ ६८ ॥

तन्मन्त्रैः सर्वसंस्थारास्तत्वे तत्वे समाचरेत् ।
तस्यैव दक्षिणामूर्तौ क्रमात् तत्वाधिपान् न्यसेत् ॥ ६९ ॥

तं मध्ये पितु रुद्रास्ताण्ययैव नियोजयेत् ।
पूर्ववत् सर्वकर्माणि सर्वाध्वानि समाचरेत् ॥ ७० ॥

तथैव चोन्मनीभावमाहुत्यन्ते षडानन ।
चवारेव विधिः प्रोक्तः शरीरे शृणु साम्प्रतम् ॥ ७१ ॥

धेनशुधेन शुद्धस्तु भवतीह न संशयः ।
पूर्वोक्तेन विधानेन धारणाभिस्तु पञ्चभिः ॥ ७२ ॥

शोधयेत् सर्वतत्वानि देहस्थानि पुनर्णमात् ।
पशुं संयोजयेत् पूर्वं पूर्वोक्तविधिना शिवे ॥ ७३ ॥

साधिकारे शिवातीते शुद्धस्फटिक निर्मले ।
कर्मण्येव कृते तस्य शिवाश्शेदो विधीयते ॥ ७४ ॥

प्। ८४)

सप्ताभिर्मन्त्रितां कृत्वा क्षुरिकास्त्रेण कर्तरीम् ।
योजयेहीत शिखास्थाने युक्तां त्रिमधुरेण तु ॥ ७५ ॥

शिवाबीजेन मन्त्रज्ञो वौषडन्तेन निक्षिपेत् ।
शक्तिसम्पुटमध्यस्थं कारणेन नियोजयेत् ॥ ७६ ॥

अनमस्कं ततः पश्चात् साधिकाराद्विमोचयेत् ।
यमुद्दिश्यकृतङ्कर्म मन्त्रदैवतपूर्वकः ॥ ७७ ॥

विधानशास्त्रदृष्टेन तत् तस्य फलदद्धुवम् ।
यत्कृतः कामचारेण विधिहीनं षडानन ॥ ७८ ॥

न तेन कर्मणा सिद्धिं न सुखं न परां गतिम् ॥ ७९ ॥

॥ इति सर्वज्ञानोत्तरे क्रियापादे दीक्षाप्रकरणम् ॥