०९

अथाध्यासं प्रवक्ष्यामि सङ्क्षेपान्नतु विस्तरात् ।
उर्वीतत्वादितः कृत्वा यावत् तत्वं निरामयम् ॥ १ ॥

उर्वीतत्वं तु सौवर्णं सूर्यायुत समप्रभः ।
कुक्कुटाण्डसमाकारं ब्रह्माण्डमेतमुच्यते ॥ २ ॥

भुवनान्यष्ट षट् चैव तस्यैघाभ्यन्तरे स्थिताः ।
शतयोजनकोट्यंस्तु प्रमाणं तस्य कित्ततः ॥ ३ ॥

तस्यैवाथ स्थले रुद्रा रुद्रकोटिभिरावृतः ।
कालाग्निरीति विख्यातो रक्तकृष्णोग्ररूपधृत् ॥ ४ ॥

नोर्ध्वं निरीक्षते देवो माभूद्भस्म विदं जगत् ।
स एव रुद्रो विज्ञेयस्स शिवस्य च कालधृत् ॥ ५ ॥

तस्योर्ध्वं महानरकाः घोररूपाः सुदारुणाः ।
जीवैस्तु नारकैः सार्धं छत्यारिंशत्गतं क्रमात् ॥ ६ ॥

प्। ५७)

रौरवो महारौरवः कुम्भीपाकस्तथैव च ।
एते महद्धिकाश्शोधनीधाः प्रयत्नतः ॥ ७ ॥

सर्वे शुद्धा इमैः शुद्धैःर्नरकानात्रसंशयः ।
कूश्माण्डस्तु पतिस्तेषां न च रुद्रः प्रकीर्तितः ॥ ८ ॥

तस्योर्ध्वं सप्तपातालं क्रमशः सङ्ख्यवस्थिताः ।
स्वरूपैस्त्रिभिः सङ्कीर्णस्थीलुहाटेश्वरः प्रभुः ॥ ९ ॥

तलं च नितलं चैव वितलं च तथा परम् ।
सुतलं तलातलं चैव पातालं च रसातलम् ॥ १० ॥

नागाश्च गरुडाश्चैव किं पुरुषादनुजास्तथा ।
अग्निर्वायु कुबेराश्च पतयस्तु पृथग्विधाः ॥ ११ ॥

भूलोकं च तथा विद्यात् सप्तद्वीपार्णवैः सह ।
सचैलमस्वनोद्यान नदीनदसमाकुलम् ॥ १२ ॥

जम्बूशाककुशक्रौञ्च शालमलीद्वीप एव च ।
गोमेद पुष्करं चैव सप्तद्वीपाः प्रकीर्तिताः ॥ १३ ॥

पुष्करद्वीप मध्यस्थं पर्यन्तो मानसो तमाः ।
लोकपालाः स्थितास्तस्मिन् पृथिवीं पालं नि * ते ॥ १४ ॥

क्षारक्षीर दधिस्सर्पि तथा इक्षुरसोपि च ।
मदिरोदश्च स्वादूदः समुद्राः सप्तकीर्तिताः ॥ १५ ॥

गर्भोदस्त्वष्टमो ज्ञेयःस्तस्योर्वी द्वीपमुच्यते ।
आवृतं तेन सर्वं तु सोपि चोर्व्या समावृतः ॥ १६ ॥

प्। ५८)

समुद्रैरावृता द्वीपा द्वीपैस्तेपि समावृताः ।
एवं द्विगुणते वृद्ध्या सोन्यमावृत्यसंस्थिताः ॥ १७ ॥

जम्बूद्वीपं ततो मध्ये समन्ताल्लक्षमायतम् ।
नानाजनसमाकीर्णं नानासत्वसमाकुलम् ॥ १८ ॥

अनेकोषधि सम्पन्नं नानाधातु समन्वितम् ।
सर्वधर्माश्रय पुण्यमपुण्यमकृतात्मनाम् ॥ १९ ॥

तस्य मध्ये महामेरुः स्थितोस्सौ परिमण्डलम् ।
प्रविष्ट षोडशाधस्ताच्चतुरश्शीतित्रश्शितः ॥ २० ॥

स तु सर्वत्र सौवर्णः काञ्चनद्रुमसङ्कुलः ।
सिद्धविद्याधराकीर्णः किन्नरासुरसेवितः ॥ २१ ॥

वि * * * * * * भ शैलाश्चत्वारः स्थितस्य
चतुर्दिशम् ।
ष्ठ * * * * * ब्धाः मेधिनीतैस्तु तेषां मूर्ध्नि समो
पराः ॥ २२ ॥


तथोत्तरे ॥ २३ ॥

पद एव च ।

रक्तोदमानसं चैव सितोधेश्च महाह्रदः ।
तथावान समीपस्था विज्ञेया मन्दरादिषु ॥ २५ ॥

सदा पुष्पफलोपेतं पूर्वं चैत्र रथं वनम् ।
नानासुरभि गन्धाढ्यं नन्दनं गन्धमादने ॥ २६ ॥

प्। ५९)

विविधामोद बबुलं वैभ्राजं वैपुले स्थितम् ।
निर्मितांस्तपुरादेवैः सरांसि च सरोरुहाः ॥ २७ ॥

सर्वगन्ध वहं रम्यं सुपार्श्वे विवनं ततः ।
तेषु वृक्षं लता गुल्म रूपाद्याये सुगन्धिनः ॥ २८ ॥

निर्मितास्ते पुरादेवैः सरांसि च सरोरुहाः ।
सदा सन्निहिता तेषु वसन्तकुसुमायुधम् ॥ २९ ॥

कोकिलारावमधुरैष्षट् पदोद्गीतकिन्नरैः ।
नित्यज्योत्स्नाकरं चन्द्र उच्वातपतिभास्करः ॥ ३० ॥

वर्षन्ति स्वेच्छया मेघा मारुतीश्च या ।
तेषु देवाः सगन्धर्वकिन्नराप्सरसोगणाः ॥ ३१ ॥

सिद्धविद्याधराश्चैव सदा क्रीडन्निभाविताः ।
चतुर्दशसहस्राणि योजनानि षडानन ॥ ३२ ॥

मेरोर्मूर्ध्नि अधोभागे लोकपालाष्टकं पुनः ।
इन्द्रपावकधर्मेशनीरुतीवरुणानिलाः ॥ ३३ ॥

कुबेरश्च तथेशानो लोकपालाष्टकं पुनः ।
पूर्वेणैन्द्रामरावत्यां तेजोपत्यां हुताशनः ॥ ३४ ॥

वैवस्वत्यां यमो राजा कृष्णवत्यां निशाचरः ।
शरवत्यां जलाध्यक्षो गन्धवत्यां तु मारुतः ॥ ३५ ॥

यशोवत्यां निधानेश ईशानस्तु महोदयः ।
अष्टपुष्यास्तु देवानां भोगस्थानानि षण्मुख ॥ ३६ ॥

प्। ६०)

प्रज्यं तेषु म * महाभागानधिकारं च बाह्यशः ।
मेरोर्मूर्ध्नि सभा दिव्या ब्रह्मणश्च तथात्मनः ॥ ३७ ॥

मनोवतीति विख्याता महामहामुन्न्निसेवीतर ।
तत्र गङ्गानदी पुण्या कृत्वा तस्याः प्रदक्षिणम् ॥ ३८ ॥

पतिता हि चतुर्दिक्षु विष्कं गिरि * * मूर्ध्नि ।

तस्मादिहागता दिव्याऽनुग्रहार्थं सरिद्वरा ।
तस्यैशान्यां महाश्रोतं ज्योतिष्कं नाम विश्रुतम् ॥ ४० ॥

तस्य मूर्ध्नि सभादिव्या महादेवस्य धीमतः ।
रुद्रकन्येस्सलावण्येर्देवदानवदुर्लभैः ॥ ४१ ॥

आवृता सा सभा दिव्या रुद्रैश्यामित विक्रमैः ।
भुवर्लोकस्तु तस्योर्ध्वं स्वर्लोकस्तस्य मूर्धनि ॥ ४२ ॥

उहजनस्तपस्सत्यमुपर्युपरि संस्थिताः ।
ब्राह्माण्डभित्तिमासृत्य सत्यलोकस्य मूर्धनि ॥ ४३ ॥

ब्रह्मा विष्णुश्च रुद्रश्च स्थिता लोकाः क्रमेण तु ।
ऐश्वर्यामृतसम्प्राप्ता एकद्वित्रिगुण क्रमात् ॥ ४४ ॥

आत्मतुल्य गुणोपेतैः वृता कन्यैश्च तत्समैः ।
बाह्यतश्चत रुद्रास्तु स्थिता देश दिशास्वपि ॥ ४५ ॥

ब्रह्माण्डस्य महासेन धारकास्तेत्वनिन्दिताः ।
दिव्यज्ञानबलोपेत स्वच्छन्दगतिगोचराम् ॥ ४६ ॥

प्। ६१)

शशाङ्काङ्कित मूर्धानो जटामकुटमण्डिताः ।

आवृतास्ते समन्तात् तु रुद्रैश्च बलदर्पितैः ।
एते प्रमाण्डा दधो भागे पूवादिदिगसृके ॥ ४८ ॥

अनन्तः पालको वीरो विषाग्निर्विषलोचनः ।
वृषो वृषधरो वीरो ग्रसनो बन्द्धवाम्मुखः ॥ ४९ ॥

कपालीशो ह्यजो बुद्धो वज्ञदेह प्रमर्दनः ।
विभूति रघयश्शास्तापिनाकी त्रिदशाधिपः ॥ ५० ॥

अग्निरुद्रो हुताशी च पिङ्गलः * दको हरः ।
ज्वलनो दहनो बभ्रु भस्मान्तक क्षयान्तकः ॥ ५१ ॥

याम्यो मृत्युहरोधाता विधाता कर्त एव च ।
कालो रौद्रश्च विख्यातो धर्माधर्म पतिस्तथा ॥ ५२ ॥

नैर्-ऋतो मारणोहन्त क्रूरद्रष्टा भयानकः ।
ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहित दंष्ट्रवान् ॥ ५३ ॥

लोह्यती बल * शैवपाशहस्तो महाबलः ।
श्वेतोथ जयभद्रश्च दीर्घबाहुर्बलान्तकः ॥ ५४ ॥

बन्दवामुखोथ भीमश्च वरुणो लयवासकाः ।
कपर्दी मेघसञ्चारी सर्वगः सर्वगन्धवान् ॥ ५५ ॥

वायुः सूक्ष्मश्च तीक्ष्णश्च वेगकान् शोणितद्युतिः ।

प्। ६२)

निधीशो रूपवान् धन्यस्सौ देहस्तथैव च ।
प्रगैक्षणेकाशश्चा प्रकाशश्चललक्ष्मिवान् ॥ ५७ ॥

कामधृक्ल सर्ववद्याधिपस्सर्वज्ञस्सर्वगेश्शिवः ।
प्रभुः पिङ्गे क्षणे शानौ भूतबालो बलि * धः ॥ ५८ ॥

शम्भुर्विभुर्गणाध्यक्षस्त्रक्षः त्रिदशवन्दितः ।
संवाहश्च विवाहश्च बिन्दुभ्यो मेक्षणश्शुचिः ॥ ५९ ॥

लोकेशबलमाक्रम्य प्रभुश्शक्ति समन्विताः ।
विचरन्ति महादेवा लोकपालैः प्रपूजिताः ॥ ६० ॥

एते रुद्रासामाख्याताः सूर्यकोटि समप्रभाः ।
कपालमालाभरणाः लोकपालस्त्रधारिणः ॥ ६१ ॥

एषामूर्ध्वं भवेदापो दशधा वृत्य संस्थिताः ।
खराखमुखरमावर्तोर्मिसमाकुलः ॥ ६२ ॥

तत्रास्ते भगवान् देवो वरुणो मृतसम्भवः ।
शुद्धस्फटिकसङ्काशी आदि गुह्याष्टकावृतः ॥ ६३ ॥

ओङ्कारस्तस्य पूर्वेण आग्नेय्याः शशिभूषणः ।
देवदेवस्तु याम्यायां भोजगन्धस्तु नैर्-ऋते ॥ ६४ ॥

आषाढमेश्च वारुण्याः वायव्यां डिण्डिरेव च ।
भारभूमिस्तु सौम्यायामैशान्यां लाकुलं विदुः ॥ ६५ ॥

अत ऊर्ध्वं भवेदन्यद् वाग्नेर्यावरणं विदुः ।
सुभाताय सुसङ्काश मेघस्तनित निस्वनः ॥ ६६ ॥

प्। ६३)

तत्रास्ते भगवानग्निरिति मह्याष्टका प्रतिः ।
पद्मराग प्रतीकाशो ज्वलन्तस्तेन तेजसा ॥ ६७ ॥

हरश्च त्रिपुरघ्नश्च त्रिशूलिः सूक्ष्म एव च ।
महाकालश्च सर्वाश्च ईशानो भरवस्तथा ॥ ६८ ॥

अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः ।
नीलजीमूतसङ्काशो भिन्नाञ्जन समप्रभः ॥ ६९ ॥

तत्रास्ते भगवान् वायुः कृष्णवर्णाञ्जनोपमः ।
सुभगः कामरूपी च गुह्याद्गुह्याष्टकावृतः ॥ ७० ॥

पितामहं पितुः स्थानं स्वयम्भूरुग्र एव च ।
विश्वेशश्च महानादो महद्भीमस्तथाष्टमः ॥ ७१ ॥

अतश्चोर्ध्वं भवेद् व्योम भूतस्त्वे सम्प्रदवितः ।
अप्रमेयमनिर्देश्य मोक्षस्तानमिवापरः ॥ ७२ ॥

तत्रास्ते भगवान् देवो व्योमरूपी महेश्वरः ।
सूक्ष्ममूर्ति महाश्चासौ पवित्रेरष्टभिर्वितः ॥ ७३ ॥

भावश्चैव महायोगी त्रिमूर्ती रुद्र एव च ।
महाबल शिवश्चैव सहस्राक्षः स्थाणुरेव च ॥ ७४ ॥

अतो ह्यूर्ध्वं भवेत् तत्त्वं हङ्कारस्य षण्मुख ।
दीप्तपावकवर्णाभं भीमनादं दुरासदम् ॥ ७५ ॥

त्रिविधस्तस्त्र्य विज्ञेयोहङ्कारो घोररूपधृत् ।
प्रलयाम्बुधनिर्घोष स्थाण्वष्टक समावृतः ॥ ७६ ॥

प्। ६४)

कपर्द ऊर्ध्वरेभाश्च महानुत्कट एव च ।
श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च ॥ ७७ ॥

महालिङ्गेश्च स्थूलेशः कारणाज्ञानुवर्तिनः ।
आदिगुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा ॥ ७८ ॥

गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च ।
स्थाण्वष्टकाश्च पश्यैते नियोगाद्भामिवासिनः ॥ ७९ ॥

अनुग्रहायमोकानां लिङ्गभूताः प्रदष्ठिताः ।
तेषामेव समीपस्थः यद्यत्तोयं षडानन ॥ ८० ॥

तत्तीर्थं पुनरं पुण्यं तत्र स्नात्वा शिवं व्रजेत् ।
रुद्राहेते सदा शुद्धाः कामरूपाः बलोत्कटाः ॥ ८१ ॥

कोट्यायुत परीवाराः सुखदुःख फलप्रदाः ।
प्रमदाभिरनिन्द्याभिर्दिव्य यौवनशालिभिः ॥ ८२ ॥

शुद्धस्फटिकसङ्काशैः डाडिमीकुसुमप्रभैः ॥ ८३ ॥

नीलाञ्जन समप्रभैः श्यामवर्णैरनौपमैः ।

(दीप्य)न्ते नित्यमेतैस्ते पञ्चतत्वाधिपाः शिवाः ।

आदित्योदयसङ्काशं सन्ध्यारागसमप्रभम् ।
तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणी ॥ ८६ ॥

प्। ६५)

अणिमाद्यष्टसंयुक्ता तुषि शक्ति समन्विता ।
सखीभिस्समतुल्याभिद्विरष्टवयशालिभिः ॥ ८७ ॥

आतासा महाभागा तत्प्रबुद्धैश्च योगिभिः ।
देवयोन्यष्टकं तत्र परितः सुव्यवस्थितः ॥ ८८ ॥

अप्रबुद्धं च शुद्धं च तथा सृष्टि प्रवर्तिकः ।
पैशाचं राक्षसं याक्षं गन्धर्वं चन्द्रमेव च ॥ ८९ ॥

सौम्यं चैवाथ प्राजेशं ब्राह्मं चैवाष्टमः स्मृतः ।
अत्तोर्ध्वं तु भवेदन्यद् गुणावरणसञ्ज्ञकः ॥ ९० ॥

इन्द्रनील महारत्न शुद्धस्फटिकरूपकः ।
तद्वर्णो भुवनान्तस्था ब्रह्माविष्णुमहेश्वरः ॥ ९१ ॥

तमोरजस्तथा सत्व गुणाविष्ठितविग्रहाः ।
तथा च वनितास्सर्व पुरुषास्तं निवासिनः ॥ ९२ ॥

अन्योन्यबलमाक्रम्य गुणेश्शासम्प्रवर्तकः ।
अष्टौ योगीश्वरान्दस्ति तस्मिन्निरामयाः ॥ ९३ ॥

निर्गुणानिरहङ्कारा नित्यं योगपरायणाः ।
अक्तं च कृतश्चैव भैरवं ब्राह्ममेव च ॥ ९४ ॥

अतश्चोर्ध्वं भवेदन्यदव्यक्तं तत्वमुत्तमम् ।
अप्रतक्लमविज्ञेयं निर्वाणपदपस्थितः ॥ ९५ ॥

अप्रमेयमनिर्देश्यं निर्गुणं गुणमालि च ।
उत्पत्ति सर्वतत्वानां भूतानां च षडानन ॥ ९६ ॥

प्। ६६)

स्थित्वा तु पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः ।
उत्पादयति सत्वानि भवभूतानि चैव हि ॥ ९७ ॥

तत्रैव संस्थिता रुद्रा अष्टावेव महाबलाः ।
तत्तत्व धर्मिणः सर्वे सर्वे चानन्दविग्रहाः ॥ ९८ ॥

क्रोधेश्चाण्डसंवर्तो ज्योतिपिङ्गसुरगाः ।
पञ्चान्तकैकवीरौ च शिवेदसहितैश्वराः ॥ ९९ ॥

नितम्बकटिनिस्तारै पीनोनतपयोधरैः ।
आक्षाम्मद्ध्यदेशान्ते सम्पूर्णवदनोज्वलैः ॥ १०० ॥

सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः ।
सेव्यन्तो नित्यमेते तु स्मरबाणनिपीडितैः ॥ १०१ ॥

शिखे तेन सहिता एते क्रोधेशादय ईश्वरः ।
अतोर्ध्वं तु भवेदन्यत् रागावरणसञ्ज्ञकम् ॥ १०२ ॥

कुङ्कुमोदकसङ्काशं कुसुम्भरजसन्निभम् ।
तत्रास्ते भगवान् रागो जपाकुसुमसन्निभः ॥ १०३ ॥

सेव्यते स भगवान् रागश्चानन्द रूपधृत् ।
तत्रैव पुरुषो ज्ञेयस्तद्धर्मगुणरञ्जितः ॥ १०६ ॥

प्। ६७)

अमृत्तौ व्यापकोचिद्व्यौ ब्रह्माण्डो मूर्तमानसौ ।
तत्रैव संस्थिता रुद्रा अष्टौ च शिवतुल्यगाः ॥ १०७ ॥

ज्ञानविज्ञानसम्पन्ना वीतरागा निरञ्जनाः ।
वामदेवो भवश्चैवोद्भवश्च तथा पुनः ॥ १०८ ॥

एकपिङ्गे क्षणे शानौ भुवनेशा पुरस्सराः ।
अङ्गुष्ठमात्रसहिता महादेवाष्टकाश्शिवाः ॥ १०९ ॥

निरामय महौजस्कास्तेनुरागनिरोधकाः ।
अतस्त्रध्वं भवेदन्यद् विद्यावरणसञ्ज्ञकः ॥ ११० ॥

इन्द्रकोपसङ्काशं क्वविच्चामीकरप्रभः ।
तस्य मद्ध्य स्थिता विद्या व्यापिनी विश्वरूपिणी ॥ १११ ॥

विश्वगा विश्ववेत्री सा रहस्य पदगामिनी ।
मण्डलाधारचित्राङ्गी ध्यानलोलायतेक्षणा ॥ ११२ ॥

शास्त्रशः भावनिश्वास वोषधीकेशसञ्चया ।
भावाभावाविलासाध्यैर्नित्यं प्रमुदितेन्द्रियैः ॥ ११३ ॥

संरम्भजनितारम्भैः खिनमष्ट पद क्रमैः ।
उत्क * * * निश्वासैः पयो पयो हरालसैः ॥ ११४ ॥

आकीर्णं हि पुरं दिव्यं विद्याविभवरङ्कितैः ।
तत्रैव संस्थिता रुद्रास्त्रयोदश * * * * ॥ ११५ ॥

वरेभ्यो परता शुद्धा विद्या विधि प्रकाशिकाः ।
वामदेवश्च भीमश्च उग्रश्चैव भवस्तथा ॥ ११६ ॥

प्। ६८)

सर्वेशा * नेश्वरौ चैवैकवीराप्रचण्डधृक् ।
ईश्वरोथ उमाकान्तस्त्वजेशोनन्त एव च ॥ ११७ ॥

तत एक शिवश्चैव सर्वेषामुपरि स्थितः ।
अतोर्ध्वं तु भवेदन्यत् कलावरणसञ्ज्ञकम् ॥ ११८ ॥

श्वेता पीतारूणं कृष्णं क्वचिच्चामीकुंसुमा * ।
तस्य मध्ये कलाज्ञेया चित्रवर्णानुलेपिनी ॥ ११९ ॥

चित्राभरण रत्नाढ्या चित्रमाल्याभरप्रिया ।
विज्ञानगमसम्पन्नै रूपयौवनगर्वितैः ॥ १२० ॥

सहार्यविकटाक्षेपा तत्कालकरणोचितैः ।
मनोहारि सुरम्याङ्गै मदलालसजृम्भितैः ॥ १२१ ॥

मण्डितं तत्पुरं रम्यं कलाभावानुरञ्जितैः ।
तत्र रुद्रो विभुर्व्यापी सर्वज्ञो ज्ञानभासकः ॥ १२२ ॥

नीललोहितवर्णोसौ शीतेन्दु सदृशः क्वचित् ।
कलाब्रह्माङ्गसम्भूतैर्मन्त्रविग्रहधारिभिः ॥ १२३ ॥

आवृतोसौस्मन्ता तु नेककोट्ययुतैः पुनः ।
याम्यज्येष्ठश्च रुद्रश्च कालकालविकारणः ॥ १२४ ॥

बलविकरणो देवो बलप्रमथनस्तथा ।
दमनः सर्वभूतानां मनोन्मन एव च ॥ १२५ ॥

दशैते सृष्टिसंहार स्थित्यनुग्रहकारकाः ।
अत ऊर्ध्वं भवेदन्यत् कालस्यावरणङ्गुह ॥ १२६ ॥

प्। ६९)

नीलनील समाकारं नीलाञ्जन समप्रभम् ।
तस्य मध्ये स्थितः कालो रौद्र सर्वाञ्जनान्तकृत् ॥ १२७ ॥

दंष्ट्रा विकटघोरस्य पिङ्गलभ्रूश्मसुतारकः ।
अतसी पुष्पसङ्काशैः कान्तिमत्प्रियदर्शिभिः ॥ १२८ ॥

अशोकपल्लवाकार पाणिपादाम्बुजाङ्किभिः ।
अत्यर्थरूपसम्पद्भिः प्रवालालशोभिभिः ॥ १२९ ॥

संसेव्यते सभगवान् कालः कामानुरागिभिः ।
उच्चुष्माश्शापरश्शण्डा मातङ्गा घोररूपिणः ॥ १३० ॥

याम्यो हालाहलश्चैव क्रोधनो बन्धवा मुखः ।
ततस्सूलगणानि * * * षद्रास्तथा परे ॥ १३१ ॥

हुलहुलास्तस्तथा चान्ये कालस्य विषये स्थिताः ।
अतोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम् ॥ १३२ ॥

मण्डवकोशवच्छिद्रं हरिताल समप्रभः ।
तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी ॥ १३३ ॥

यथा तु मोहितं कृत्स्नं जगत्स्थावरजङ्गमम् ।
इन्द्रनीलसमप्रख्य रश्मिजालावकुण्ठितम् ॥ १३४ ॥

चलद्विन्दु सहस्रैस्तु कोटिभिस्तुमसावृता ।
वामचारास्त्रयस्तत्र वामगावामलोचनाम् ॥ १३५ ॥

वामकावामकृत्यं चोत्पाद्यन्ते षडानन ।
डङ्गविभ्रमकारिण्यो डङ्गस्नेहानुरञ्जिताः ॥ १३६ ॥

प्। ७०)

डम्भहासूत्रपातिन्यो डम्भवाक्य मनोहराः ।
तथा च पुरुषा स्कन्द ज्ञेया माया शुक्लसम्भवाः ॥ १३७ ॥

बहुप्रलापिनो मिथ्या मायाचार परायणा ।
अथवा सर्वतत्वानां निर्गमं सामुदाविकः ॥ १३८ ॥

त्रिमलं व्यापकं क्षिप्रं प्रोच्यमानं निबोध मे ।
यस्य तत्वस्य यत्तत्वं जन्मन्यभिधिकं भवेत् ॥ १३९ ॥

तत्स्वभावी भवेत् सोपि प्रलयेपि तथा गुह ।
एवं हि सर्वतत्वानां तत्वभाव प्रधश्चिधा ॥ १४० ॥

कथितास्ते समासेन रुद्रास्तस्मिन्निबोधमे ।
गगनेशो ह्यसाध्यश्च तथा हरिहरावुभौ ॥ १४१ ॥

दशोनो महावीर्यस्त्रिगलो गोपतिस्तथा ।
अथ सम्पुटस्संस्थास्ते मायातत्वस्य षण्मुखा ॥ १४२ ॥

ऊर्द्दोपि संस्थिता ये तु तां प्रवक्ष्याम्यतो शृणु ।
क्षमुशो ब्रह्मणोहन्त विद्येशानस्तथापरः ॥ १४३ ॥

विद्येशश्च शिवश्चैव अनन्तष्षष्ठ उच्यते ।
अमाधिनः स्मृतास्सर्वे मोहराग विवर्जिताः ॥ १४४ ॥

मायाबन्धविमोक्तारः पाशजाल विभेदकाः ।
अथोर्ध्वं तु भवेदन्यत् विद्यातत्वं षडानन ॥ १४५ ॥

डाडिमी पुष्पसङ्काशं किञ्चित् पीतं सुनिर्मलम् ।
तत्र विद्याधिपा ज्ञेयाः पद्मराग समप्रभाः ॥ १४६ ॥

प्। ७१)

सुदीप्ता निर्मलास्सूक्ष्मा व्यापिनी सर्वतोमुखी ।
तस्माद्विनिःसृता मन्त्रा पञ्चाङ्गं कृतलक्षणाः ॥ १४७ ॥

विद्याश्चै तथा ज्ञेया विद्यामन्त्राश्चमिश्रकाः ।
अचिन्त्या इपिणस्सर्वे सर्वे चानन्दविक्रमाः ॥ १४८ ॥

सर्वत्रगमिनः सर्वे सर्वे सर्वार्थसाधकाः ।
चतुर्विधामृतास्सर्वे पार्थिवाप्यानलानिला ॥ १४९ ॥

सर्वे समानधर्माणो श्रोतृभेदा पृथक्फलाः ।
पाणिनाचिन्तभेदात्तु मन्त्रभेदैः परः शिवाः ॥ १५० ॥

संस्थितोऽनुग्रहार्थाय साक्षिभूतस्तु कर्मणाः ।
स्थानं कर्म च भावञ्च देवता व्याप्तिमेव च ॥ १५१ ॥

वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु ।
एवं हि मन्त्रभेदस्तु मन्त्रीतीतस्य षण्मुख ॥ १५२ ॥

अधुनाभेदभेदन्तु प्रोच्यमानं निबोध मे ।
यावन्तः केचनसत्वाः सर्वतत्वेषु संस्थिताः ॥ १५३ ॥

तावन्तस्तु स्मृता भेद देहस्यस्य विदेहिनः ।
यादृग्रूपं भवेत् तेषां नामगोत्रञ्च षण्मुख ॥ १५४ ॥

तादृग्रूपं शिवविद्या तेषु देहे व्यवस्थितः ।
छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तः ॥ १५५ ॥

निष्कले निष्कलात्यन्त रूपं स्निमु रूपकम् ।
प्राणी धर्मादि निर्मुक्तस्सुख दुःखफलं गुह ॥ १५६ ॥

प्। ७२)

दादात्युपाह्यरूपेण तत्तद्धर्मानुरूपतः ।
एवं विद्या विचारेऽस्मिन् मन्त्रभेद शिवस्य तु ॥ १५७ ॥

देहभेदांश्च विख्यातस्तत्वभेदस्तथा विदुः ।
विद्योर्ध्वं तु भवेदन्यद् विद्येशावरणं पुनः ॥ १५८ ॥

दीप्तपावकवर्णाभं किञ्चित् द्रक्तं सुनिर्मलम् ।
अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन् विभूतितः ॥ १५९ ॥

विष्णुर्लिङ्गाग्निसङ्काशो विद्यूमकिरणोज्वलाः ।
तत्र मध्य महासेन चक्रवत् परिसंस्थिताः ॥ १६० ॥

तेऽधिकारं क्रमात् कुर्युः शक्तिचक्रसमन्विताः ।
स रहस्य सकल्पानि मन्त्र तन्त्राणि षण्मुख ॥ १६१ ॥

निगमन्ति महात्मानो रुद्राणाममितौजसाः ।
प्रासादासनपर्यङ्गा प्राकारभूषणायुधाः ॥ १६२ ॥

सर्वे मन्त्रमयास्थेवे यथेष्टा सर्वकामिका ।
विद्येश्चेश्वर्ये रचिस्सेस्तु दिव्यामृत सुखप्रदैः ॥ १६३ ॥

कुञ्चिताग्र कचोद्गारैर्ललाट मृदुपट्टकैः ।
पिनाकी धनुराकारै भ्रूभिरुन्नतवक्षभिः ॥ १६४ ॥

आलोकर्ण पर्वतैः स्निग्ध नेत्रोत्पलैः शुभैः ।
सम्पूर्ण शशिसङ्काशवदनाभोग मण्डलैः ॥ १६५ ॥

आताम्रोन्नतविम्वोष्टैस्तुङ्गनासाग्रशोभिभिः ।
नात्युन्नतैः समैः स्निग्धैःर्विशुद्धैर्दन्तपङ्क्तिभिः ॥ १६६ ॥

प्। ७३)

पद्मरागप्रतीकाशैन्नीलयं नानन्दकारिभिः ।
गुप्तरध्रैः समैः कर्णैर्विरोमैः स्निग्ध कोमलैः ॥ १६७ ॥

आकम्बुकर्णसीमन्तैर्मृणालललितैर्भुजैः ।
आवृत्त संहतैः पूर्णैः पीनोन्नतपयोधरैः ॥ १६८ ॥

आक्षां मध्यदेशान्तैर्गम्भीरावृत्तनाभिभिः ।
त्रिवलीतरङ्ग भङ्गोधैरोमराशिप्रकम्पिभिः ॥ १६९ ॥

पुलकोद्भिन्नरम्यान्तैर्निगूढैरस्थिसन्न्धिभिः ।
अश्वत्रपत्रसदृशैः गुह्य देशैर्मनोरमैः ॥ १७० ॥

कदली गर्भसंस्पर्शैरुरुभिश्शुभलक्षणैः ।
निगूढजानुगुल्फभिर्नितम्ब विपुलो ज्वलैः ॥ १७१ ॥

प्रस्तजङ्घैस्समैः पादैः प्रशस्तैर्लक्षणान्वितैः ।
सुरक्तपाणि पादान्तैश्शङ्खचक्राम्बुजाङ्कितैः ॥ १७२ ॥

सुक्लिन्तैष्ठरङ्गुलि पर्वेस्तनुतुङ्गनखोज्वलैः ।
स्निग्ध त्वक् स्वधल्परेखाभिस्सर्वलक्षणसंयुतैः ॥ १७३ ॥

सेव्यन्ते तु विद्येशास्सदा कदपपिडिताः ।
दिव्यगन्धानुलिप्ताङ्गैः दिव्याभरणभूषितैः ॥ १७४ ॥

दिव्याम्बरधरैः सैम्यैः दिव्यमाल्योक्तमाङ्गिभिः ।
रुद्रैश्च विविधाकारैः कालानलसमप्रभैः ॥ १७५ ॥

दिव्यज्ञानबलोपेतैस्सृष्टिसंहारकारकैः ।
अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्य मयं शुभम् ॥ १७६ ॥

सदाशिवं परं तत्वः शुद्धस्फटिक निर्मलः ।
योगपीठं परंशुद्धं तस्मिन् विद्या महात्मनः ॥ १७७ ॥

प्। ७४)

धर्मादि चरणैर्युक्तं मध्ये कमल भूषितम् ।
चारुकेसरपर्यन्तं सहस्रदलविस्तरम् ॥ १७८ ॥

बहिरष्टभिसंयुक्तं पङ्कजैर्विमलात्मकैः ।
विशुद्ध शक्तिभिन्नं ब्रह्माङ्गैरूपशोभितम् ॥ १७९ ॥

विद्येश्वरैश्च पीठस्थैः सिद्धयोगिभिरावृतम् ।
तत्रास्ते भगवान् देवो सर्वतत्वेश्वरोहरः ॥ १८० ॥

सदाशिवो विभुर्व्यापी मन्त्रमूर्ति मधः परः ।
अनन्तकान्ति सम्पन्नः अप्रमेय गुणक्रमः ॥ १८१ ॥

अनन्तशक्ति सम्भोग अनन्तासनसंस्थितः ।
विभज्यसस्वकं देहमष्टधा परमेश्वरः ॥ १८२ ॥

अनन्तादि शिखण्ड्यन्त स्थित शान्तेन चेतसा ।
अतोर्ध्वं बैन्दवं तत्वं विमलं सर्वतोमुखम् ॥ १८३ ॥

परमं तत्वानामनन्तं ज्योतिरूपिणम् ।
तत्र विन्दु स्थितं स्कन्द शुद्धस्फटिकनिर्मलः ॥ १८४ ॥

कदम्बगोलकाकारं स्फुरत्किरणमालिनम् ।
सकलो निष्कलश्चैव तथा सकलनिष्कलः ॥ १८५ ॥

सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयस्तु पञ्चधा ।
कलै शान्त्यादिभिर्युक्त सकलं परिपठ्यते ॥ १८६ ॥

निष्कलः केवलो बिन्दु व्यापी सकलनिष्कलः ।
ज्वालिन्यादिभिः संयुक्तः सूक्ष्मोसौ परिकीर्तितः ॥ १८७ ॥

प्। ७५)

स्वरैः षोडशभिर्भिन्नैर्भिन्नात्मा विन्दुरुच्यते ।
ततोस्यानन्ततो भेद सर्वशास्त्रेषु षण्मुख ॥ १८७ ॥

मन्त्रेषु मातृकायाञ्च न विना बिन्दुना क्वचित् ।
निष्कलस्ता पराशक्तिरचिन्त्या सर्वतोमुखी ॥ १८८ ॥

सुसूक्ष्मा निर्मला नित्यानन्तानिर्वाणदायिनी ।
याविजृम्भति तत्वेषु सर्वतत्वेषु चैव हि ॥ १८९ ॥

तथा भूतं जगत्सर्वमेकयानेकरूपया ।
अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् ॥ १९० ॥

अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् ।
प्रकृतेः पुरुषसंयोगात् विद्यारागस्य चैव हि ॥ १९१ ॥

कलाकालस्य संयोगात् मायातत्वनन्तस्य सङ्गमात् ।
विद्या सदा शिवश्चैव बिन्दोः शक्तिसमागमात् ॥ १९२ ॥

सृष्टिरुत्पद्यते स्कन्द विन्दुशक्त्यादितः क्रमात् ।
पृथिवीमादितः कृत्वा यावत्तत्वन्तु वैन्दवम् ॥ १९३ ॥

तत्वात्तत्वं विजानीयात् दद्धा प्रत्य * संस्थितम् ।
उर्वी तत्वादितः कृत्वा देवताश्च षडानन ॥ १९४ ॥

अन्योन्यान्तरितैश्वर्या प्रभावान्तरितस्तथा ।
यानि नामानि तत्वानां तानि तत्वाधिपेष्वपि ॥ १९५ ॥

ज्ञात्वैवं योजयेन्मन्त्री यस्मिन् न्यः प्राप्तुमीहते ।
ब्रह्माण्डादूर्ध्वतो ये तु सर्वतत्वेष्ववस्थिताः ॥ १९६ ॥

जरामृत्युविनिर्मुक्त द्वन्द्वोपद्रववर्जिताः ।
तेषां हि या तना काचित् न भयं विद्यते क्वचित् ॥ १९७ ॥

प्। ७६)

वर्ज्य सृष्टिं तु संहारं स्थितिं सर्वात्मकां गुह ।
स्थितिकाले प्रभुञ्जन्ते यत्वैश्वर्यं यथोदितम् ॥ १९८ ॥

संहारे निर्गुणाभूत्वा तत्वैः सार्धं विशन्तिते ।
सृष्टिकाले प्रजायन्ते सर्वतत्वैः स्वकैः क्रमात् ॥ १९९ ॥

पुनरप्येवमेतेषाम् उदयास्तमनस्थितिः ।
यो यस्मिन्नाश्रितो नित्यं तत्वतस्तद्विधानवित् ॥ २०० ॥

तत्कालसमयो सोपि भवते तत्परायणः ।
यथान्तराणि प्रोक्तानि प्रभावैर्य व्याप्तिषु ॥ २०१ ॥

तथान्तराणि वेद्यानि उदयास्तमनादिषु ।
नोदयास्तमनं स्कन्द भवते शिव वेदिनः ॥ २०२ ॥

यतो हि सर्वतत्वानां विज्ञानादन्ततस्थिताः ।
तत्वैरेभिर्निबन्धात्मा सर्वधर्मश्च संयुतः ॥ २०३ ॥

नान्येन शक्यते माक्तुः वर्ज्यदीक्षाः शिवात्मिकाः ॥ २०४ ॥

॥ श्री श्री इति श्रीमत्सर्वज्ञानोत्तरे क्रियापादेऽध्वप्रकरणम् ॥