अतः परं प्रवक्ष्यामि साधकानां हिताय वैः ।
पञ्चगव्यविधानं तु तत्वतः शृणु षण्मुख ॥ १ ॥
चरुस्थाल्यां चरोश्चैव प्रवक्ष्याम्यनुपूर्वशः ।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ॥ २ ॥
पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् ।
ईशानेन यजेत् सर्पिः क्षीरं तत्पुरुषेण तु ॥ ३ ॥
अघोरेण दधि प्रोक्तं सद्योजातेन गोमयम् ।
गोमूत्रं वामदेवेन गायत्र्या तु कुशोदकम् ॥ ४ ॥
आलोढ्य हृदिना सर्वं ताम्रभाजनसंस्थितम् ।
परिकल्प्य त्रयो भागान् देवस्याग्रे तथात्मनः ॥ ५ ॥
उद्धृत्य शिष्यवत्स्याशि शिवजप्तं स्वयं पिबेत् ।
प्रक्षाल्य पूर्ववत्स्थालीं तथैवावेष्ट्य विन्यसेत् ॥ ६ ॥
सूत्रेण वर्मजप्तेन पुनकण्ठो षडानन ।
विन्यस्य पञ्चब्रह्माणि पुनः क्षीरेण पूरयेत् ॥ ७ ॥
शिवाग्निनापचेतं तु वर्मणा घटयेच्छनैः ।
व्रीहि श्यामाकनीवारानथ वा शालिब्रक्षली ॥ ८ ॥
तण्डुलान् प्रक्षाल्य निक्षिपेत् पश्चात् हृदयेन तु चालयेत् ।
हृदयं च शिरश्चैव शिवां गायत्रमेव च ॥ ९ ॥
प्। ५०)
जपंस्तत्साधयेन्मन्त्री चरुकं घृतसंयुतम् ।
यथास्सन्तं भवेदन्नं तदर्थमयारयेत् ॥ १० ॥
अवतार्य जपे शुद्धं यावन्निर्वाणमिच्छति ।
भागत्रयं ततः कुर्यात् यथा पूर्वमुदाहृतम् ॥ ११ ॥
आत्मीयं शिष्यसंयुक्तं कृतकर्मा तु भक्षयेत् ।
दन्तैरस्पृत्य मानं तु पञ्चाङ्गुल्यात्मसंस्थितम् ॥ १२ ॥
दर्भशर्य्यां समारूढः सह शिष्यैर्जितेन्द्रियः ।
जनपद्ध्यानरतो मौनी प्राकारास्त्रे सुगोपितः ॥ १३ ॥
बन्धपाशास्थुते शिष्या दृष्ट्वा स्वप्नान्ति शाक्षये ।
कथयन्ति गुरोस्सर्वे शुचिर्भूता समाहितः ॥ १४ ॥
शुभैरभीप्सितां सिद्धिं (अ)शुभैर्दुःखमाप्नुयात् ।
तस्माद् दुःखप्रदां दृष्ट्वा न सिद्धा सम्प्रयोजयेत् ॥ १५ ॥
दुःस्वप्नदर्शने मन्त्री हेम्मष्ठक सहस्रकम् ।
कृत्वा दीक्षां प्रकुर्वीतैहिकी सिद्धिवर्जिताम् ॥ १६ ॥
शुभ्रं नदं नदीं वापि समुदं पङ्कमेव वा ।
अतिषोर महादुर्गं तरतेयस्ससिद्धति ॥ १७ ॥
व्याधि मृत्युभयं वापि बन्धनं वासनक्षयम् ।
विदेशगमनं वापि भवेत् तेषां विलोमतः ॥ १८ ॥
गवाश्वभ्रमिनाशं वा वस्त्रालङ्कार कुञ्जरात् ।
पश्येद्यश्शयितः स्वप्ने तस्य सिद्धिर्न विद्यते ॥ १९ ॥
प्। ५१)
एतेषां तु पुरा लाभा दिष्टान् कामान् वाप्नुयात् ।
दृष्ट्वा न स्वपते यस्तु यावदभ्युदितो रविः ॥ २० ॥
शुक्लपक्षं चितिं वापि कण्टकाकीर्णमेव वा ।
या शिरोहत स्वप्नान्ते तस्य सिद्धिर्न विद्यते ॥ २१ ॥
तत्रस्थस्तु विबुध्येत तस्य सिद्धिर्विधीयते ।
प्रासादं वृषभं नावं पर्यङ्गं कुञ्जरं नगम् ॥ २२ ॥
योधि रोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते ।
येषामेक तमाद्वापि प्यवनं मृतुलक्षणम् ॥ २३ ॥
अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत् ।
आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा ॥ २४ ॥
ज्वलन्तं पश्यते स्वप्ने तस्य सिद्धिर्विधीयते ।
सुर्चार्नानि च भग्नानि ज्वलनास्थमनानि च ॥ २५ ॥
दृष्ट्वा न सिध्यते स्वप्ने हस्ताध्वस्तफलानि च ।
चिद्रवासोथ कृत्यञ्च स्वकं प्राकरणं तथा ॥ २६ ॥
ज्वलन्तं पाटिकां मलदिग्धं च दृष्ट्वा स्वप्नेन सिध्यते ।
सुशुक्यानि च वस्त्राणिनिचिद्राणि नवानि च ॥ २७ ॥
सिद्ययाच्चयितः स्वप्ने तस्य सिद्धिर्विधीयते ।
अग्निप्रवेशं कुरुते स्वप्नान्ते ऋतुमानवः ॥ २८ ॥
स्मृतिलोपो भवेद् वापि तस्य सिद्धिर्न विद्यते ।
शुक्लं विलेपनं माल्यमातपत्रासनध्वजम् ॥ २९ ॥
प्। ५२)
शङ्खपद्मनिधिं चैव लब्ध्वा स्वप्ने श्रिदं लभेत् ।
विपरीतानि चैतानि नाममात्राणि चैव हि ॥ ३० ॥
पश्येद्यः शयितः स्वप्ने तस्यसिद्धिर्न विद्यते ।
शुक्लोदनं दधी वापि अर्धमांस फलानि च ॥ ३१ ॥
यस्तु भुङ्क्तेस्तु स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
शाकं तैलं फलं कृष्णमद्याद्याशैतोनिशि ॥ ३२ ॥
न स सिद्धिं समाप्नोति न सुखं न च सम्पदः ।
अप्रजं म मद्या वा समुद्रयगां पयस्विनीम् ॥ ३३ ॥
स्वप्नान्ते च * चेद्योवै तय्स सिद्धिर्विधीयते ।
सर्वाण्येतानि शुष्काणि नाममात्राणि चैव हि ॥ ३४ ॥
यस्तु पश्यतु स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
आकाशगमने स्वप्ने अगम्यागमनं तथा ॥ ३५ ॥
विष्टानुलेपनं चैव दृष्ट्वा सिद्धिमवाप्नुयात् ।
तैलाभ्यङ्गमयोद्वाहं पुत्रलाभः प्रवर्तते ॥ ३६ ॥
गेयं लास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते ।
क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् ॥ ३७ ॥
उन्मत्तं भिन्ननासं वा दृष्ट्वा स्वप्नेनु सिध्यते ।
ऋक्षोष्ट्रं वानरं वापि खरमश्वतरं प्रकिम् ॥ ३८ ॥
योऽधि रोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते ।
तैलाभ्यङ्ग मथोद्वाहं पुत्रलाभ प्रवर्तते ॥ ३९ ॥
प्। ५३)
गेयं वाद्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते ।
क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् ॥ ४० ॥
उन्मत्तं छिन्ननासं वा दृष्ट्वा स्वप्ने न सिध्यते ।
एकाङ्ग विकलस्वप्ने * पिकारां मलान्वितः ॥ ४१ ॥
यस्याग्रतस्तुतं निष्ठे तस्य सिद्धिर्न विद्यते ।
क्षुधार्तः तृषितः स्वप्ने स्थानमुच्याट्यते स्वकान् ॥ ४२ ॥
ताट्यते वानरैर्घोरैर्नससिमवाप्नुयात् ।
वम्म्मे मूत्रपुरीषं वा स्वर्णं रजतं तथा ॥ ४३ ॥
दन्तपङ्क्तिः पतेद् वाथ जपेद् वाहुनतेवपि रान्दत्रितयेपि वा ।
हन्ति वाथ जयेद् वापि स्वप्ने सिद्धिमवाप्नुयात् ॥ ४४ ॥
स्वप्ने सोपि न सिध्यति * * * * * * * * ।
क्व प्रस्थितोसि मूढात्मा नास्ति ते त्वभिवाञ्छितः ।
एवमुक्तो नरः स्वप्ने प्रत्यक्षं वा न सिध्यति ॥ ४५ ॥
वेश्या कन्याथ वा रात्रि ब्रह्मणि चानुमोदते ।
राजा विप्रो था दिव्य तस्य सिद्धिर्विधीयते ॥ ४६ ॥
राजानमर्थसम्पन्नं ब्राह्मणा वेदपारगाः ।
स्त्रियञ्च लक्षणोपेतां दृष्ट्वा स्वप्नः प्रसिध्यति ॥ ४७ ॥
शुक्लांवरधरो भूत्वा शुक्लमाल्यानुलेपना ।
यं विग्रहन्ति स्वप्नान्ते तस्य सिद्धिर्न विद्यते ॥ ४८ ॥
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् ।
यं विग्रहति स्वप्नान्ते सुप्तेष्वपि न सिध्यति ॥ ४९ ॥
प्। ५४)
कुचेला वा मलग्रस्था व्याधिता विकृतानना ।
ताभिर्ये गृहीतः स्वप्ने सुप्नेष्वपि न सिध्यति ॥ ५० ॥
एवं स्वप्ना मयाख्याता विधिस्यस्य षडानन ।
कथयन्ति तथात्यन्तध्यं भविष्यं युक्त कर्मणः ॥ ५१ ॥
सूत्रयित्वा पुराभूमिं मण्डपेन्य प्रमाणतः ।
यागं यथोदितं कृत्वा रजन्यरज्य मण्डलम् ॥ ५२ ॥
शुक्लाम्बरधरो भूत्वा शुक्लमाल्यानुलेपनः ।
शुक्लयज्ञोपवीती च सूत्रपातं समारभेत् ॥ ५३ ॥
पूर्वापरौदिशौ साद्ध्ये वै शङ्खोर्धेन भानुना ।
पुष्यधेयेन वा मन्त्र चित्रास्वात्यन्तरेण वा ॥ ५४ ॥
एवं पूर्वापरं कृत्वा तत्र सूत्रं प्रकारयेत् ।
विकल्य मध्यदेशं तु तत्र शङ्कुं निधापयेत् ॥ ५५ ॥
शङ्कोरुभयतः सूत्रं सविकृत्वा प्रसारयेत् ।
बिन्दुद्वयं समालिख्य मत्स्यमुर्थापयेत् ततः ॥ ५६ ॥
शङ्कुविर्थं तु तत्सूत्रं मध्ये मत्स्य द्वयस्य तु ।
खटकाकर्षितं कृत्वा दक्षिणोत्तरतां नयेत् ॥ ५७ ॥
आत्रालयेतस्सूत्रं येवमुत्तरता दक्षिणे ।
विदिशासु तथा नीत्वा अन्तरेषु तथा नयेत् ॥ ५८ ॥
मध्ये बिन्दु स्थितं सूत्रं भ्रामयेच्चतुरङ्गुलम् ।
आलिख्य कर्णिकां तत्र द्वितीये केसरान् लिखेत् ॥ ५९ ॥
प्। ५५)
तृतीये दलसदूनि दलाग्राणि चतुर्थके ।
प्रतिवारण रेखां तु दद्यात् पद्मस्य बाह्यतः ॥ ६० ॥
रेखा रेखोतर ज्ञात्वा दलाग्राणि तु सङ्ग्रहेत् ।
कोणेन वायुधेत् कोणं तमसूत्रेण षण्मुख ॥ ६१ ॥
द्वात्रिंशत् षोडशाष्टौ वा पत्राण्यालिख्य विन्यसेत् ।
तेभ्यश्चतुर्गुणानेव केसरान् परिकल्पयेत् ॥ ६२ ॥
अष्टपत्रे न्यसेच्छक्तिं यथा पूर्वमुदाहृतः ।
बहिरङ्गुलमुत्सृत्य पद्मसूत्रं प्रसारयेत् ॥ ६३ ॥
तस्मात् तु षोडशाष्टौ वा गायत्रीं तत्र वर्जयेत् ।
अथवा वाहनारूढनस्त्र हस्ता षडानन ॥ ६४ ॥
पृथग्बाह्यास्त्र वर्गस्य यजेत् कृत्वार्थ वा कृतिम् ।
यवेनान्तरित रेखाशतं स्त्राङ्गुल सममिताः ॥ ६५ ॥
दद्यांवरणे रम्यो श्वेतपीतरुणासिताः ।
कर्णिकां पीतवर्णेन चतुरङ्गु(ल)मुच्छ्रिताम् ॥ ६६ ॥
किञ्चिद्धारिकं वर्णं दद्यात् केसरसन्धिषु ।
केसरां मूलसश्शुक्लान् कुर्यान् मध्ये रुणेन तु ॥ ६७ ॥
अग्रं चैव तु शुक्लेन दलान् शुक्लेन छादयेत् ।
चतुर्विधां ततो रेखामभ्युधिं नाम संहताः ॥ ६८ ॥
विचित्रैर्मिश्रितैर्वर्णै रचनाः परिकल्पयेत् ।
वाहयेत् पश्चिमद्वारमितराणि निरोधयेत् ॥ ६९ ॥
प्। ५६)
पद्ममानं विवेद्वारं विधीनां विस्तरं तथा ।
शोभाश्चोप शोभाश्च कपोलाश्च कपाटकाः ॥ ७० ॥
तुल्यमाना स्मृता ह्येता पद्मार्धेन तु कारयेत् ।
पद्मार्धे नाथ वा कुर्याद् द्वारं वीथिं षडानन ॥ ७१ ॥
तदर्तेनतरान् भूयः पृथक्प्रक्रमणेन तु ।
एवं तं रचितं कृत्वा परमं शिवमण्डलम् ॥ ७२ ॥
इष्ट्वा च विधिवद् दैवं ततो ध्यानं विशोधयेत् ।
इति सर्वज्ञानोत्तरे क्रियापादे पञ्चगव्यादि दीक्षाङ्गप्रकरणम् ॥