अतः परं प्रवक्ष्यामि महीतल विशोधनम् ।
तस्याः परीक्ष्य विज्ञानं परिग्रहमेव च ॥ १ ॥
सुगन्धास्वादुसंयुक्ता श्वेता रक्ता च पिञ्जरा ।
पांसुनाप्ययुनाधन्या भ्रमिस्सर्वार्थसाधिका ॥ २ ॥
प्रागुदक् प्लवनां स्निग्धां कृष्णां वा शुभदर्शनाम् ।
जलतीरसमीपस्थां शुद्धां भूमिं परीक्षयेत् ॥ ३ ॥
यस्य वर्णास्य यो गन्धः शोभनः स तु विद्यते ।
केशास्थि कण्टकैर्हीनां गर्तोषरविवर्जिताम् ॥ ४ ॥
त्रिहस्तोद्घात भूशर्य्यां सर्वदोषविवर्जिताम् ॥ ५ ॥
सेचयेद्गन्धतोयेन पञ्चगव्यशिवाम्भसा ।
धौतवस्त्रैः शुचिस्स्नातैस्ततः सञ्चालयेत् पुनः ॥ ६ ॥
अकालमूलकलशे वस्त्रपूतेन वारिणा ।
ततः कुटवपधीतै तु पलाशाश्वत्थ मुद्गरैः ॥ ७ ॥
दर्पणोदरसङ्काशां कृत्वा भूमिं परिग्रहेत् ।
पक्वेष्टकामयं वापि शुद्धदारुमयं तथा ॥ ८ ॥
मृण्मयं वा पुनाकृत्वा विशुद्धं यागमण्टपम् ।
दीर्घं द्विगुणं कृत्वा विस्तारादेकभागिकम् ॥ ९ ॥
प्। ४७)
द्वारास्त्रिदीयके भागे सार्धहस्तप्रमाणतः ।
मण्डलस्य तु द्वौ भागौ भागं कुण्डस्य कल्पयेत् ॥ १० ॥
विदिक्षु क्रूरकर्माणि कुर्यात् कुर्यात् दिक्षु शुभानि च ।
चतुरश्रं प्रकुर्वीत सुघनं यागमण्टपम् ॥ ११ ॥
विचित्रं चित्रकर्माढ्यं प्राकारपरिवेष्टनम् ।
चतुरश्रं ततः। कुण्डं कुर्याद् वर्तुलमेव च ॥ १२ ॥
मेखलोपरिमध्यस्थं योनिश्चैव प्रकल्पयेत् ।
मेखलां तु समां कुर्यात् ततः शास्त्रवित्तमम् ॥ १३ ॥
चतुरङ्गुलमुत्सेधां विज्ञाब्जलाञ्छनं दृढम् ।
हस्तप्रमाणेन अथो मध्य तथोपर ॥ १४ ॥
त्रिमेखलासमायुक्तं सुसमं चारुदर्शनम् ।
गजोष्ठवत् प्रकुर्वीत सूचि पुष्करमेव च ॥ १५ ॥
मेखलोपरिमध्यस्तमाज्ज्याधारं मनोहरम् ।
तस्योपरि पुनश्चोर्ध्वमुझ वा सदारुभिर्दृढम् ॥ १६ ॥
वितानसहितं कुर्याददिश्रं जालकान्वितम् ।
शोभनं तद्विजानीयात् सर्वकाम फलप्रदम् ॥ १७ ॥
कृत्वा सुनिर्मलं भूमिं परिगृह्य पुनर्यजेत् ।
वर्धन्यमुन्दी पूर्णायामघोरास्त्राभि मन्त्रिताम् ॥ १८ ॥
कृत्वेद किं दधेद्धीरा मत्युच्चिन्नां प्रदक्षिणाम् ।
तस्या मार्गेण कलशमाचार्येणोद्धतं शनैः ॥ १९ ॥
प्। ४८)
सर्वकास्मयेति भ्रूमयित्वा निधापयेत् ।
ऐशान्यमण्डलां ते तु विघ्नौघशमनं परम् ॥ २० ॥
पूर्वपङ्कजविन्यस्तं सप्तधान्योपरिस्थितम् ।
क्षालितं चास्त्रबीजेन कवचेनाव कण्ठितम् ॥ २१ ॥
स्त्रितत्वोपरि विन्यस्त चन्दनागरुधूपितम् ।
वस्त्रपूताम्बुसम्पूर्णं पञ्चरत्न समन्वितम् ॥ २२ ॥
सर्वौषधि समायुक्तं सर्वगन्धोपशोभितम् ।
हेम्ना कण्ठे तथा बद्धं सूत्रकण्ठमथापि वा ॥ २३ ॥
चूतपल्लवसंयुक्तं सितवस्त्रावकुण्ठितम् ।
एवं विधं शिवं रम्यं शिवेनाधिष्ठितं गुह ॥ २४ ॥
यागस्यादौ तु सम्पूज्य यागान्ते स्नानमाचरेत् ।
परिग्रहे वास्तु यागं पुनर्यागं गणाधिपे ॥ २५ ॥
कृत्वा शिवासनं कुर्यात् शिवस्य परमात्मनः ।
संहृत्य होमद्रव्याणि नैवेद्यां निधानि च ॥ २६ ॥
ततोधिवासयेत् तानि ततः शिष्याननुक्रमात् ।
पञ्चगव्यं चरुं तेषां दन्तकाष्ठं च मन्त्रितम् ॥ २७ ॥
क्षरिका सप्तवाराणि हृदयेन समर्पयेत् ।
तदा न विद्यते सिद्धिः विधिक्षपन तेन च ॥ २८ ॥
अतोन्यथा शुभा विद्यात् दन्तकाष्ठं षडानन ।
ईशान्यादिष्टकाष्ठासु मुखमस्य यदा भवेत् ॥ २९ ॥
प्। ४९)
धातु सर्वकर्माणि साधयेत् साधकोत्तमः ।
शोभनन्न् तद्विजानीयात् सर्वकाम फलप्रदम् ॥ ३० ॥
इति सर्वज्ञानोत्तरे क्रियापादे भूपरिग्रहप्रकरणम् ॥