अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।
आश्रयं सर्वसिद्धीनामिहामुत्रफलप्रदम् ॥ १ ॥
प्रोक्षित्वा पुराप्राज्ञः कुण्डमस्त्रोदकेन तु ।
ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाक्रमम् ॥ २ ॥
पुनरुल्लेखनं कुर्यादस्त्रबीजेन षण्मुख ।
पुनरच्युक्षणं पश्चात् कवचेन विधानवित् ॥ ३ ॥
विष्टरं कुण्डमध्ये तु प्रणवेण पुनर्न्यसेत् ।
ततः शक्तिं न्यसेत् तस्मिन् तटित्सहस्रसन्निभाम् ॥ ४ ॥
ऋतुमतीं विशालाक्षीं सततं योनिमुद्रया ।
चतुद्ध्वः स्वरसम्भिन्नो वह्निबीजोर्ध्वदीपितः ॥ ५ ॥
षोडशान्तहतो हंसश्शक्तिरेषानिगद्यते ।
गन्धपुष्पार्चितां कृत्वा अर्घ्यधित्व विधानवित् ॥ ६ ॥
शिवसन्तर्पणार्थाय ततो वह्निं प्रकल्पयेत् ।
चतुर्थेन विनिर्मुक्तो ह्यधष्षष्ठं नियोजितः ॥ ७ ॥
स एव हंस सञ्ज्ञस्तु वह्नि सर्वार्थसाधकः ।
प्। ४२)
ताम्रपात्रेशरावे वा वधित्वा हुताशनम् ॥ ८ ॥
अस्त्रेण प्रोक्षयेत् तं तु पुनर्बूज नियोजयेत् ।
ततस्त्वा वेष्टयेत् पश्चात् कवचेन विधानवित् ॥ ९ ॥
पूजयित्वा त्रिधा कुण्डे योनिमार्गेण निक्षिपेत् ।
सद्योजातेन मन्त्रेण हृदयं तु पुनर्जपेत् ॥ १० ॥
गङ्गास्तानं भवेदेवं जातवेदसि षण्मुख ।
शिरसाभ्यर्चयित्वा तु वामदेवं ततो जपेत् ॥ ११ ॥
कृतं पुंसवनम् एवं सीमन्तोन्नयनं शृणु ।
अघोरेणार्चयेद् देवं शिखाबीजं ततो जपेत् ॥ १२ ॥
सीमन्तकरणं वह्नेः कृतं भवति शैवकम् ।
कवचेन समभ्यर्च्य जपेत् तत्पुरुषं विभुम् ॥ १३ ॥
जातकर्म कृतं ह्येवं ततो नाम विनिर्दिशेत् ।
ईशानेनार्चयित्वास्त्रं च परिवर्तयेत् ॥ १४ ॥
ततोस्या श्रावयेन्नाम शिवाग्निस्त्वं हुताशनः ।
जनने पद्ममुद्रास्य लिङ्गमुद्राग्नियोजने ॥ १५ ॥
निरोधे निष्ठुरा प्रोक्ता बीजाभ्या सर्वकर्मसु ।
एवमग्निं सुसंस्कृत्वा मुद्राः मन्त्रैः यथाक्रमम् ॥ १६ ॥
ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा ।
हृद्वीजेनास्तरेद्दर्भान् परिधयश्च निधापयेत् ॥ १७ ॥
प्रागग्रानुत्तराग्रां च पुनर्देवान् प्रपूजयेत् ।
प्। ४३)
ब्रह्माणं शङ्खरंविष्णुमनन्तेश समन्वितम् ॥ १८ ॥
पूर्वादारभ्य गायत्र्या विष्टरस्तान् तथाक्रमम् ।
आग्नेधिन्दिशमाश्रित्याज्य भाण्ड्ं तु स्थापयेत् ॥ १९ ॥
अधिश्रयं पुरा कृत्वा पश्चादीन् प्लवनादिकम् ।
प्रादेशमात्रकान् दर्भान् प्रश्चिन्ना नखेन तु ॥ २० ॥
अङ्गुष्ठानामिकैर्गृह्य घृतस्याप्लवनं कुरु ।
ततः सम्प्लवनं मन्त्री सम्मुखं घृतमुत्पलवत् ॥ २१ ॥
स्रुवं स्रुचं प्रताप्याग्नौ परिमृज्य समन्ततः ।
संस्पृशे तु कृशौस्सर्वमग्र मध्यावसानकम् ॥ २२ ॥
स्थापयेद् दक्षिणे भागेर्श्व कृज्यादीनि तथोत्तरे ।
हृदयेन विधानज्ञः सर्वकर्म समाचरेत् ॥ २३ ॥
ततोभिधारयेद् वक्त्रान् ब्रह्मभिस्त्वनुपूर्वशः ।
पुनरद्घाटनं कुर्यादस्त्रबीजेन षण्मुख ॥ २४ ॥
निष्कृतिं तु शिवास्त्रेण दत्वा सर्पिन्निरूपयेत् ।
शिवे सोमे तथा व्यघ्नौतस्त्रिधा परिकल्पयेत् ॥ २५ ॥
तर्पयित्वा ततो वह्निं दत्वा पूर्णाहुतिं क्रमात् ।
तत त्रासन विन्यासं प्राशुत्तं परिकल्पयेत् ॥ २६ ॥
पूर्वोक्तेन विधानेन गन्धपुष्पैरनुक्रमात् ।
पूजयित्वा शिवं सम्यक् ततो होमं समारभेत् ॥ २७ ॥
बहुभव्येन्धने शुद्धे सुसमिद्धे हुताशने ।
प्। ४४)
विद्रुमे लेलिहाने च हुनते यस्ससिध्यते ॥ २८ ॥
अर्चिष्मान् पण्डित शिखस्सुगन्द्धिल्लघुविक्रमः ।
स्निन्ध प्रदक्षिणावर्तो जातवेदस्तु सिध्वितः ॥ २९ ॥
विष्णुलिङ्गी लिखेद् भूमिं शुक्लः कृष्णः प्रक्षिणैः ।
दुर्गन्धश्चैव रूक्षश्च तत्र सिद्धिर्न विद्यते ॥ ३० ॥
तत्रैव होमयेत् तावच्छुद्धो हुताशनः ।
विशुद्धे पावके शुद्धेरन्यथा विफलो भवेत् ॥ ३१ ॥
तस्मादेवं विदित्वा तु विशुद्धो होमयेत् सदा ।
शिवादि सर्वमन्त्राणामाहुत्या परिसङ्ख्यया ॥ ३२ ॥
दशशतं सहस्रं वा अयुतं लक्षमेव वा ।
होमं दशगुणं प्रद्ध्या शिवस्य परिकल्पयेत् ॥ ३३ ॥
ब्रह्मशक्ति शिवाङ्गानां विद्येश्वरगणेश्वरान् ।
लोकपालास्त्रमुख्यानां तस्मादेक गुणः स्मृतः ॥ ३४ ॥
सम्पूर्णाहुतिदानं तु प्रकुर्वाद्धारणान्वितम् ।
अमृतं यत्परं वत्स स्रवन्तं मनुस्मरेत् ॥ ३५ ॥
पदमुच्छारयेन्मन्त्रं मन्त्री पूर्णाहुतिप्रतिम् ।
इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत् ॥ ३६ ॥
मन्त्रार्पित मनो भूत्वा मन्त्रालङ्कृतविग्रहः ।
होमयेदेक चित्तस्तु मन्त्रतन्मयताङ्गतः ॥ ३७ ॥
प्। ४५)
शब्दे तत्वे परे तेनस्स सिद्धिफलभाग्भवेत् ॥ ३८ ॥
प्रणम्य भक्त्या देवेशं स्तुत्वाचान्ते क्षमापयेत् ।
संहृत्यैव ततो मन्त्री जपः प्रजान्निवेदयेत् ॥ ३९ ॥
यत्कृतं यच्च कुर्याः तत्सर्वं सुकृतं तव ।
त्वं गतिर्विश्ववेत्ता च नान्योनाथो हि मे शिवः ॥ ४० ॥
विसर्जयेत् ततो देवं पुनः पूज्या विधानतः ।
पश्चादग्निं विसर्जेत कृतं कर्म समाहितः ॥ ४१ ॥
विसर्जितस्य देवस्य गन्धपुष्पन्निवेदनम् ।
निर्माल्यं तद्विजानीयात् वर्ज्यं वस्त्रविभूषणम् ॥ ४२ ॥
अर्चयित्वा कुतं यश्चण्डेशाय निवेदयेत् ।
निर्माल्यं भक्षणं दानं लङ्घनं च विवर्जयेत् ॥ ४३ ॥
आचम्योद्धूल्य पूतात्मा भोजनं तु समारभेत् ।
अथ पात्र विधानेन क्षालयित्वा तु भोजनम् ॥ ४४ ॥
तथैवावेष्टनं कृत्वा ततस्तस्मिन्निवेशयेत् ।
शिवेन शिवगायत्र्या हृदा चैव विधानवित् ॥ ४५ ॥
हृदयेनाहुतिः पञ्च शेषं कुर्याच्छिवार्पणम् ।
आचम्य तु शुचिर्भूत्वा शिवं ध्यायेत् पुनर्जपेत् ॥ ४६ ॥
वासिसूज्य जपस्यान्ते सत्यं प्रियहितः कुरु ।
किञ्चित् संव्यवहारार्थं प्राशुतं पुनराचमेत् ॥ ४७ ॥
अग्निकार्यं जपो यागे योगो दीक्षाः षडानन ।
प्। ४६)
गुह्ये मनोरमे स्थाने सुविशुद्धे महीतले ॥ ४८ ॥
इति सर्वज्ञानोत्तरे क्रियापादे अग्निकार्यप्रकरणम् ॥