०५

सिद्धिताः परमाह्येताश्शिवीसान्निध्यकारकाः ।
गन्धदिग्धौ करौ कृत्वा मुद्रां सम्यक् प्रपूजयेत् ॥ १ ॥

प्। ४०)

पद्भ्यां पाद्यं पुरादद्यादागतस्य शिवस्य च ।
मुखेष्वाचमनीयञ्च शिरस्स्वर्घ्यं निधोजयेत् ॥ २ ॥

प्रथमा वाहनेत्वर्घ्यं पूजान्ते च तथापुरम् ।
विसर्जने तृतीयन्तु देवस्यार्घ्यं प्रकल्पयेत् ॥ ३ ॥

पूर्वमूर्धसमारभ्य दक्षिणोत्तर पश्चिमे ।
मध्ये चैव तु मन्त्रज्ञः पञ्चस्वर्घ्यं नियोजयेत् ॥ ४ ॥

सव्यं चैवापसव्यञ्चार्घ्यं दद्यात् पुनः पुनः ।
ऊर्ध्ववक्त्रे तु दातव्यं समुखं च पराङ्मुखम् ॥ ५ ॥

संस्थितस्य च देवस्य समुखं परिकल्पयेत् ।
विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम् ॥ ६ ॥

एवमर्घ्यविधानं तु ततो द्रव्यं निबोध मे ।
भक्ष्या भोज्यान्न पानादि लेह्यशोष्यान्यनेकशः ॥ ७ ॥

सर्वं हृदयमन्त्रेण य * * * धि चोदितम् ।
पुनरावणैर्दत्त्यात् नैवेद्यं मन्त्रसंस्कृतम् ॥ ८ ॥

अग्निः कार्यं ततः पश्चात् सुसमिद्धे हुताशने ।
शास्त्रदृष्टेन विधिना कृत्वा भूतबलिं हरेत् ॥ ९ ॥

तोयभक्तसमायुक्तं पुष्पधूपसमन्वितम् ।
दद्याद्भूतबलिं मन्त्री सर्वपाकविमिश्रितम् ॥ १० ॥

पाणिपादौ ततः क्षाल्या चान्तः पुनराचमेत् ।
प्रविश्यायतनं पश्चात् जपं कुर्याद् विचक्षणः ॥ ११ ॥

प्रणिपद्य प्रसाद्येशं ध्यानमाश्रित्य मन्त्रवित् ।
प्राणायामैः शिखांस्थयेकञ्चित्तः सदा जपेत् ॥ १२ ॥

प्। ४१)

बद्धपद्मासनोमौनी अक्षमाला करस्थितः ।
स्वस्तिकं वासनं बद्ध्वा समकायशिरः स्थितः ॥ १३ ॥

अनन्यमानसो योगी मन्त्री तन्मयताङ्गतः ।
अचिरात्सिद्धिमाप्नोति अदैतदैतमाश्रितः ॥ १४ ॥

इति श्रीसर्वमन्त्रानोत्तरे क्रियापादे अर्चनाप्रकरणम् ॥