अतः परं प्रवक्ष्यामि बाह्ययाग विधिक्रमम् ।
सर्वकामप्रदं गुह्यं सर्वपापहरं परम् ॥ १ ॥
अलङ्कृत्य स्वकन्देहं शिवमन्त्रैः यथाक्रमम् ।
शिवीभूतः सुपूतात्मा शिवस्यार्चनमारभेत् ॥ २ ॥
उत्तराभिमुखो भूत्वाऽस्त्रमावर्तयेच्छुचिः ।
विघ्नानुच्चाटयेत् स्थूलात् तालशब्द त्रयेण तु ॥ ३ ॥
तर्जन्या तर्जयेत् तांस्तु हंसमन्त्रान् विन्यसेत् ।
पुनरावेष्टयेन्मन्त्री तत्स्थानं कवचेन तु ॥ ४ ॥
ततो ह्यस्त्राणि विन्यस्ये दिशासु विदिशासु च ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ ५ ॥
गदात्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् ।
ऐन्द्री दिशं समारभ्य यावदीशानगोचरम् ॥ ६ ॥
अधश्चक्रं तु विन्यस्य पद्ममूर्ध्वं नियोजयेत् ।
गन्धैः पुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत् ॥ ७ ॥
ततश्शक्तिमनहृत्य सूक्ष्मामृतरूपिणीम् ।
प्। ३५)
व्यापयन्ति ह्यधश्चोर्ध्वमप्रमेयां मनौपमाम् ॥ ८ ॥
अर्घ्यपात्रं ततोग्राह्यं हुम्फट्कारेण क्षालयेत् ।
स बाह्याभ्यन्तरं पश्चात् कवचेनावकुण्ठयेत् ॥ ९ ॥
बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् ।
त्रितत्वं विन्यसेत् तस्मिन् पुनः शक्तिं नियोजयेत् ॥ १० ॥
आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च ।
गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् ॥ ११ ॥
आवाहयेत् परं देवं प्रासादं परमामृतम् ।
अङ्गैरङ्गीकृतं वत्स शुद्धस्फटिकनिर्मलम् ॥ १२ ॥
द्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि तु ।
अप्रोक्षितं न ता दिव्यं भविष्यत्वं च वै शिवे ॥ १३ ॥
स्वमन्त्रैरर्चनं कुर्याद् देवता नयथोदितम् ।
धर्मादि चास्त्रपर्यन्तं शिववर्ज षडानन ॥ १४ ॥
शिवस्य शिवमन्त्रैस्तु होमकाले विधीयते ।
सम्पूर्णाहुति दाने च सर्वकर्म समर्पणे ॥ १५ ॥
धर्मज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ।
आग्नेयं दिशमाश्रित्य विदिक्षु प्रणवेन तु ॥ १६ ॥
ब्रह्मस्थाने पुराशक्तिं कल्पयित्वा तु विन्यसेत् ।
योगपीठं ततः पश्चाच्छक्तिनालं च पङ्कजम् ॥ १७ ॥
अष्टपत्रं भवेत् तत् तु चतुर्भागान्तकर्णिकम् ।
प्। ३६)
त्रिभागकेपराकीर्णं शक्तिजालवितानितम् ॥ १८ ॥
वामाज्येष्ठा च रौद्री च कालि कला बला तथा ।
बलप्रमथनी सर्वभूतदमनी मनोन्मनी ॥ १९ ॥
आर्वपत्रात् समारभ्य यावत् पत्रं तु शाङ्करम् ।
हृदयेन तु विन्यस्य केसरेषु दलेषु च ॥ २० ॥
मनोन्मनीं न्यसेन्मध्ये शक्तिं वै कारणात्मिकाम् ।
ईशानं कर्णिकायां तु शिवव्योम प्रकल्पयेत् ॥ २१ ॥
शिवस्य पुनरीशान्यां मूर्तिमन्त्रं प्रकल्पयेत् ।
सितवर्णनिभं ध्यात्वा पूर्ववक्त्रे तु पुद्गलम् ॥ २२ ॥
याम्येत्वघोरनामानं वाममुत्तरतो न्यसेत् ।
सद्यः पश्चिम भागे तु ततोह्यावाहनं भवेत् ॥ २३ ॥
आवाह्य सद्यमन्त्रेण वामदेवेन स्थापयेत् ।
अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु ॥ २४ ॥
ततस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् ।
वर्णरूपक संयुक्तं पुनः पूजां प्रकल्पयेत् ॥ २५ ॥
ईशानं पञ्चधा मूर्ध्नि वक्तं वक्त्रचतुष्टये ।
दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु ॥ २६ ॥
हृदयाङ्गैरघोरं तु गुह्यवामं नियोजयेत् ।
पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् ॥ २७ ॥
हृदि ग्रीवा तथांसौ च नाभौ च जठरं तथा ।
प्। ३७)
पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपकम् ॥ २८ ॥
गुह्ये चैव तथालिङ्गे ऊरुभ्यां जानुनोस्तथा ।
जङ्घयोश्च स्फिचौ कट्यां पार्श्वे वामकला न्यसेत् ॥ २९ ॥
पादौ हस्तौ च नासा च शिरश्चैव लजा प्रभौ ।
सद्योजात कलाह्येवं ततस्सर्वत्र मूर्तिषु ॥ ३० ॥
नेत्रं नेत्रेषु विन्यस्य ततोङ्गानि नियोजयेत् ।
हृदयं हृदये न्यस्य शिरं शिरसि विन्यसेत् ॥ ३१ ॥
शिखायां तु शिखां विद्यात् कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु पुनरङ्गानि नियोजयेत् ॥ ३२ ॥
आग्नेर्यां हृदये न्यस्य ईशान्यां तु शिरो न्यसेत् ।
नैर्-ऋत्यां तु शिखां दद्यात् वायव्यां कवचं न्यसेत् ॥ ३३ ॥
अस्त्रं दिशासु सर्वासु द्वितीया वरणे स्थितः ।
पूर्वादारभ्यमन्त्रज्ञो गायत्रीं विदिशासु च ॥ ३४ ॥
विद्येश्वरांस्तृतीये तु पूर्वादारभ्य विन्यसेत् ।
अनन्तेशं च सूक्ष्मं च शिवं च पुनरुत्तमम् ॥ ३५ ॥
एकनेत्रैकरुद्रौ च त्रिमूर्तिं चामृतद्युतिम् ।
श्रीकण्ठं च शिखण्डीशं युगान्तादित्यसन्निभाः ॥ ३६ ॥
इच्छारूपधरास्सर्वे इक्षु मूर्ति फलप्रदाः ।
गणेश्वरांश्चतुर्थे तु कौबेर्याशादिशः क्रमात् ॥ ३७ ॥
दिवं चैव तु चण्डेशं महाकालं च नन्दिनम् ।
प्। ३८)
गणाध्यक्षं च भृङ्गीशं वृषभं स्कन्दमेव च ॥ ३८ ॥
ध्यायेत् सान्निध्यमनुद्विग्नपद्मराग समप्रभात् ।
पञ्चमे लोकपालास्तु क्रमादावरणे बुधः ॥ ३९ ॥
विन्यसेदस्त्रमार्गेण ध्मातचामीकरप्रभान् ।
इन्द्रं च पावकं चैव यमं निर्-ऋतिमेव च ॥ ४ ॥
जलं वायु कुबेरेशान् विष्णु ब्रह्माणमेव च ।
विद्येश्वर गणेशानामाननं प्रणवं विदुः ॥ ४१ ॥
बिन्दुं च लोकपालानां विसर्गं चास्त्रयोनिषु ।
विन्यस्यैवं विधानेन ततः सम्पूजयेच्छिवम् ॥ ४२ ॥
शुद्धस्फटिकसङ्काशं वरदाभयपाणिनम् ।
संश्लिष्ट रत्नपादान्तं शङ्खचक्राम्बुजाङ्कितम् ॥ ४३ ॥
समजङ्घोरुचरणं गूढग्रन्थि सिरोच्छ्रयम् ।
विस्तीर्ण कट्युरसकं पीनवक्षस्थलांसकम् ॥ ४४ ॥
सुरक्तपाणिशाखान्तं दीर्घबाहुं नखोज्वलम् ।
स्थूलबाहु शिरोस्कन्धं निम्ननाभिं कृशोदरम् ॥ ४५ ॥
कम्बुग्रीवं विभक्ताङ्गं सम्पूर्णवदनोज्वलम् ।
सुभ्रूललाटबिम्बोष्ठ कर्णनासं सुमूर्धजम् ॥ ४६ ॥
विमलं पञ्चवक्त्रं च पञ्चमूर्ध्व विभूषितम् ।
त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम् ॥ ४७ ॥
शशाङ्कार्धधरं देवः पद्मपत्रायतेक्षणम् ।
प्। ३९)
बद्धपद्मासनं सौम्यं किञ्चित् कुञ्चितलोचनम् ॥ ४८ ॥
मन्त्रसिंहासनारूढं बीज्यमानं वराङ्गनैः ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरमनोहरम् ॥ ४९ ॥
सर्वलक्षणसम्पूर्णं सर्वाभरणभूषितम् ।
ध्यात्वात्वेवं विधं मन्त्री सर्वकामफलप्रदम् ॥ ५० ॥
ततः स्नानादिकं कर्मं मन्त्रयुक्तं समाचरेत् ।
स्नापयेत् सद्य बीजेन कवचेन विलेपयेत् ॥ ५१ ॥
वस्त्राणि मेखलां चैव वामदेवेन * * * ? ।
ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च ॥ ५२ ॥
केयूरमुपवीतञ्च कटकं हारमेव च ।
अघोरेण प्रदातव्यं धूपं तत्पुरुषेण तु ॥ ५३ ॥
नेत्रेण दापयेद् दीपं पुनराव(र)णैः क्रमात् ।
गन्धपुष्पाणि धूपञ्च दीपं चात्र प्रदापयेत् ॥ ५४ ॥
ततस्त्वर्घ्यं प्रयुञ्जीत पाद्याचमनपूर्वकम् ।
निवेद्यार्घ्यं तु देवस्य ततो मुद्रां प्रदर्शयेत् ॥ ५५ ॥
नमस्कार ध्वजश्चैव कालकर्णि च सिष्टुरा ।
चोटिका मुद्राः ततः पद्मः लिङ्गञ्च द्रव्यरूपिणि ॥ ५६ ॥