अथातः सम्प्रवक्ष्यामि शिवीकरणमुत्तमम् ।
यत्कृत्वा तु नरः सम्यक् शिवो भवति नान्यथा ॥ १ ॥
देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः ।
शुद्धदेहस्ततो भूत्वा शिवमन्त्रान् नियोजयेत् ॥ २ ॥
सुषिम्नान्तर्वहिः शक्ति विन्यसेद् व्योमरूपिणीम् ।
तस्य मध्ये तु हुङ्कारं ज्वलन्तं पावकप्रभम् ॥ ३ ॥
प्राणापानसमायुक्ते तस्मिन् चित्तं निवेशयेत् ।
प्। २८)
उत्छ्र?टान्तेस्त्र मोक्षस्तु हुङ्कारेण समन्वितः ॥ ४ ॥
ग्रन्थिभेदं कुरुष्वेवं पुनः साधानमारभेत् ।
सन्निरुद्धे कृते सम्यक् गूर्ध्वं वायुः प्रवर्तते ॥ ५ ॥
योद्घात इति विख्यातः स्वेच्छया तु कनीयः * ।
पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित् ॥ ६ ॥
सान्तबीजमयं जीवं न्यसेधूङ्कारमूर्धनि ।
हुङ्कारस्य शिखान्तस्य पुरुषं बीजविग्रहम् ॥ ७ ॥
ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दुभूतं निरामयम् ।
ततः संयोजयेद् योगी शिवे परमकारणे ॥ ८ ॥
शिवातीते सदाशान्ते शुद्धस्फटिक निर्मले ।
एकेनोद्घात मात्रेण एकलक्षस्सुमन्त्रितः ॥ ९ ॥
एकीभावसमायुक्तः प्रविशेच्छिवमव्ययम् ।
बीजवृत्याशिखेलून तत्व वृत्या तु तत्ववित् ॥ १० ॥
हृदा तु पार्थिवं बीजं वारुणं शिरसा सह ॥ ११ ॥
नियुक्तं शिखयाग्नेयं वायव्यं कवचान्वितम् ।
होकार मन्त्रसंयुक्तं मण्डलेषु प्रयोजयेत् ॥ १२ ॥
एतास्तु धारणा ज्ञेय ऐन्द्राद्या देशिकोत्तमैः ।
वैन्दवास्तु कलास्ताश्च निवृत्याद्याः प्रकीर्तिताः ॥ १३ ॥
प्रधन्दारण भेदेन प्रणवेत्वेकधा स्थिताः ।
प्। २९)
ज्ञानत्वैतास्तु कलासम्यक् स्थूल सूक्ष्मविमिश्रकाः ॥ १४ ॥
ततो ध्यानं प्रकुर्वीत देह संशोधनाय च ।
चतुरश्रं समम्पीतं वज्राङ्ग वज्राङ्गं कठिनं गुरुम् ॥ १५ ॥
लकारासनमारूढं हृद्बीजमध्यतः स्थितम् ।
उद्घातैः पञ्चभिर्युक्तं वायुभूत विशोधयेत् ॥ १६ ॥
अर्धचन्द्रं द्रवं सौम्यं शुद्धकुन्देन्दु समप्रभम् ।
वारुणं मण्डं ध्यायेत् मध्ये कमलभूषितम् ॥
वकारासन मध्यस्थं शिरोबीजमधोमुखम् ।
युक्तं चतुर्भिरुद्घातैः वह्निभूतं विशोधयेत् ॥ १८ ॥
विषानल महावेग कालपाशविनाशनम् ।
वर्षन्तं तमभिध्यायेत् नादमानं सुशीतलम् ॥ १९ ॥
डाडिमी कुसुम प्रख्य मध्यशृङ्गाटकाङ्कितम् ।
त्र्ययश्रमर्चस्सुसम्पन्नमाग्नेयं मण्डलं स्मरेत् ॥ २० ॥
रकारासनमारूढं शिखाख्यं बीजमुत्तमम् ।
उद्घातै स्त्रिभिः संयुक्तं जलभूतं विशोधयेत् ॥ २१ ॥
शोधयन्तं स्वकन्देहं निर्दहन्तमकल्मषम् ।
सकृष्णं बिन्दुभूतं * * * * * * * *
वायव्यमण्डलं ध्यायेत् पादादारभ्य चञ्चलम् ।
यकारासन् संविष्टं कवचं वायुविग्रहम् ॥ २३ ॥
शोधयेत् पार्थिवं भूतम् उद्घात दवय योजितम् ।
ततः सञ्चिन्तयेद् व्योमं समलं सर्वतोमुखम् ॥ २४ ॥
प्। ३०)
नित्यं सर्वगतं शान्तं बिन्दुशक्तिविभूषितम् ।
ओङ्कारासंविष्टं हकारं नाहसंविलम् ॥ २५ ॥
कोनोघातमात्रेण शून्यभूतं विशोधयेत् ।
मण्डलं बीजसंयुक्तं ध्यानेन विविधेन च ॥ २६ ॥
प्राणायामैर्मतं सम्यक् धारणेत्यभिधीयते ।
यायेव धारणाधार्य जगत्सर्वं हि तन्मयम् ॥ २७ ॥
यदात्मकं च योगीन्द्रास्तत्तत्कर्मजलं ययुः ।
एवं संशुद्ध देहस्त्वमृतीभूतो विधानवित् ॥ २८ ॥
ततो निरुक्षयेन् मार्गं का नाडी वहते मम ।
यस्मिन् चरति पुद्गलः * * * * * * * * ॥ २९ ॥
तत्रान्तर्देह विनासमन्तर्य जनमेव च ।
देहस्तस्य विदेहस्य जाक्षिभूतस्य कर्मसु ॥ ३० ॥
नित्योदितस्य कुर्वीत सदासन्निहितस्य तु ।
वामनासा पुटे या तु इडासा परिकीर्तिता ॥ ३१ ॥
दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यत स्थिता ।
यस्मिन्नभ्यधिको वायुस्सानाडी सर्वकामदा ॥ ३२ ॥
इडानाड्यां वहन्त्यां च म दिवस्थान प्रकल्पयेत् ।
पिङ्गला नाडि पद्मं तु सुषुम्ना मूर्ध्नि योगवित् ॥ ३३ ॥
हृदयेच्चा विधानं तु नाभौ भौमं प्रकल्पयेत् ।
मूर्ध्नान्ते शिवं ध्यायेत् वरदं सर्वतोमुखम् ॥ ३४ ॥
प्। ३१)
रात्रौ सम्पूजयेद् देवं दिवाहोमं च कारयेत् ।
सन्ध्यासु च ततो ध्यानं दिवा रात्रौ जप स्मृतम् ॥ ३५ ॥
दिवा तु तामसं कुर्याज्जपो रात्रौ तु राजसम् ।
सन्ध्यायां सात्विकः प्रोक्तो जपः सर्वार्थसाधकः ॥ ३६ ॥
विस्पष्टस्तामसः प्रोक्तो राजसोपांशुरुच्यते ।
मनसा सात्विकं विघात् जपं जप्यविदां विदुः ॥ ३७ ॥
तामसं क्रूरकर्माणां वश्यादिषु च राजसम् ।
सात्विकं दिव्यसिद्धीनां जपं युज्याद्विचक्षणः ॥ ३८ ॥
प्राणपत्ति निरोधेन यो जपः क्रियते सदा ।
स जपः सात्विकः प्रोक्तो भोग मोक्ष फलप्रदः ॥ ३९ ॥
नं तु द्विविधं कुर्यात् स्थूला सूक्ष्मं सदाबुधः ।
ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः ॥ ४० ॥
स्थूल मन्त्रमयं प्रोक्तं सर्वावयवसंयुतम् ।
द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ होमवित्तमः ॥ ४१ ॥
केवलं शिवबीजं तु सर्वावयववर्जितम् ।
न जातिरूपं परं शुद्धं तत्सूक्ष्मं परिकीर्तितम् ॥ ४२ ॥
दक्षिणायनमित्युक्तं निशा सोमात्मिका गुह ।
अहस्तु विमलं प्रोक्तं सौरमेयोत्तरायणम् ।
सन्ध्या तु विषुवं प्रोक्तं वुत्तरेण * * * * ? ॥ ४३ ॥
उत्तरेण वहन्तस्य दक्षिणायनमादिशेत् ।
प्। ३२)
दक्षिणेनोत्तरं विद्यां मध्ये तु विषुवं भवेत् ॥ ४४ ॥
समीभूते यदा वायुःश्चरते सम्पुटद्वये ।
विषुवं तु विजानीयात् पुण्यमन्त्रो भयात्मकम् ॥ ४५ ॥
विषुवं चन्द्रमाहेन्द्रान्द्या दक्षिणायनमाश्रिताः ।
इडाख्यान्तर्गतां ध्यायेत् पितृयाने शिखिद्ध्वज ॥ ४६ ॥
ब्रह्मावह्नी रविर्वायुरुत्तरायणमाश्रिताः ।
पिङ्गलान्तर्गतं ध्यायेद् देवयानं तदुच्यते ॥ ४७ ॥
अनन्तेशश्चरुद्रश्च सदाशिव शिवौ तथा ।
सुषुम्नान्तर्गतं ध्यायेद् विषुवे च विचक्षणः ॥ ४८ ॥
धर्मज्ञानं च वैराग्यमैश्वर्यञ्च चतुष्टयम् ।
योगपीठं च पद्मं च प्रणवेन तु विन्यसेत् ॥ ४९ ॥
तत्वं विन्यसेत् पूर्वं कर्णिकायां विचक्षणः ।
व्यापयन्ति मधश्चोर्ध्वं पुनः शक्ति नियोजयेत् ॥ ५० ॥
ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् ।
पूरकेण शिखान्तस्थं शिवबीजमयम्परम् ॥ ५१ ॥
स्थापयेत शिखामध्ये ज्योतीरूपं सुनिर्मलम् ।
अमृते वा प्लाव्यमानमुपरिष्टात् समं ततः ॥ ५२ ॥
ततोऽस्य मन्त्रविन्यास सूक्ष्मदेहस्य षण्मुख ।
यथा भवति तत्वेन तच्छृणुष्व यथाक्रमम् ॥ ५३ ॥
शान्तौ करतलौ कृत्वा करशाखासु पञ्चसु ।
प्। ३३)
ईशानादीनि ब्रह्माणि कनिष्ठादिषु योजयेत् ॥ ५४ ॥
ततोङ्गानि नियुञ्जीत हृदयादि ततो पुनः ।
प्रासादं विन्यसेत् पञ्चद्व्यापिनं सर्वतोमुखम् ॥ ५५ ॥
ततश्चालभनं कुर्यात् पादादारभ्य मूर्ध * ? ।
ईशानं पञ्चधा मूर्ध्नि वक्त्रंवक्त्र चतुष्टये ॥ ५६ ॥
दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु ।
हृदाद्यङ्गैरघोरं तु गुह्यवामं प्रकल्पयेत् ॥ ५७ ॥
पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् ।
हृदि श्रीवातदानौ च नाभ्यां च जठरे तथा ॥ ५८ ॥
पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपिणम् ।
गुह्ये चैव तथालिङ्गे ऊर्वोर्वैजानुनोस्तथा ॥ ५९ ॥
जङ्घयोश्च स्फिचोत्कट्यां पार्श्वे वामकला न्यसेत् ।
पादयोर्हस्तयोश्चैव नासायां शिरसा तथा ॥ ६० ॥
बाह्येश्चैव च मन्त्रज्ञ सद्योजात कलान्यसेत् ।
नेत्रं नेत्रेषु विन्यस्य पुनरङ्गानि योजयेत् ॥ ६१ ॥
हृदयं हृदयेद् विन्यस्य शिरः शिरसि विन्यसेत् ।
शिखायां तु शिखाद्या तु कवचं स्तनमध्यतः ॥ ६२ ॥
अस्त्रं हस्तप्रदेशे तु ततोध्यानं समाश्रयेत् ।
शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि ॥ ६३ ॥
शिवमन्त्रन्यासमिदमात्मानं तु सदा कुरु ।
प्। ३४)
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
यथान्तर्देह विन्यासस्तथा बाह्येपि षण्मुख ॥ ६४ ॥
बाह्ययागं यथा वक्ष्ये सूक्ष्मदेहान्तरे तथा ।
तथा वै शिष्य देहे तु अग्नौ होमे तथैव च ॥ ६५ ॥
इति श्रीसर्वज्ञानोत्तरे क्रियापादे परमीकरणप्रकरणम् ॥