०२

मन्त्रोद्धारं प्रवक्ष्यामि तत्वतः शृणु षण्मुख ।
अतिगुह्यं परं सूक्ष्मं सर्वमन्त्रमयस्य तु ॥ १ ॥

मात्रकादौ स्थिता स्थिता या तु सर्पवद्वध कुण्डला ।
सा शक्तिः परमासूक्ष्मा विश्वास ददात्मिका ॥ २ ॥

पसरत्यूर्ध्वसन्नाना प्रेरितानान्तविग्रहा ।
करिणीय करं यद्वत् संवेष्योरसि संस्थिता ॥ ३ ॥

सुदीर्घा क्रियते यातु सन्तानेन महौजसा ।
सम्प्रदायेन सातूर्णमात्मानं मुञ्चते शुभा ॥ ४ ॥

प्रगुक्ता भवतीया तु करणीय करंयया ।
प्रकाशयति चात्मानं मोक्षद्वारं परापरम् ॥ ५ ॥

तत्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता ।
मध्यदेशमनुप्राप्य त्यजेत् तां चञ्चलां स्त्रियम् ॥ ६ ॥

मूलमत्रां विदित्वा तु शक्तेर्मध्यं सुदुर्जयम् ।

प्। २६)

तन्मूलं जायते येन भोधकस्सोभिधीयते ॥ ७ ॥

सम्भूतिः सर्वबीजानामुच्चारवशवर्तिनी ।
दीर्घोसु नाशिको नादो ह्यप्रमेयो ह्यनौपमः ॥ ८ ॥

स्निग्धप्रसन्नगभीरशक्त्युच्चारस्तु संस्मृतः ।
प्रासादष्षष्ठसंयुक्तः पुनः षष्ठान्त योजितः ॥ ९ ॥

अर्धेन्दुबिन्दुसंयुक्तो मात्रात्रयविभूषितः ।
स शिवः शाश्वतः प्रोक्तः सर्वज्ञानोत्तरोत्तरः ॥ १० ॥

अष्ठौ संविद्य मन्त्रज्ञैः तस्योच्चारः प्रकीर्तितः ।
ह्रस्वस्वरसमायोगा पञ्चब्रह्माणि निर्दिशेत् ॥ ११ ॥

दीर्घैः भिन्न स्मृतो ह्यङ्गः कारणात्मा महाद्युतिः ।
मूर्ध्नि बिन्दु सुषुम्नास्यां गायत्रीं तां विनिर्दिशेत् ॥ १२ ॥

स्वरादौ त्रीणि दिर्घाणि त्रितत्वं परिकीर्तितम् ।
नेत्रत्रयं तु तज्ज्ञेयं क्रमशः सम्प्रयोजयेत् ॥ १३ ॥

दक्षिणे ह्यात्मतत्वं तु विद्या तत्वमयोत्तरे ।
ललाटे शिवतत्वं तु त्रीणि पञ्चसु विन्यसेत् ॥ १४ ॥

मुखेषु नेत्रवित्प्राज्ञो नेत्रं नेत्र क्रमेण तु ।
विन्यसेदात्मनः पूर्वं शिवस्य च तथा पुनः ॥ १५ ॥

त्रयोदशान्तसम्भिन्नं विद्येशानां प्रकल्पयेत् ।
गणेशानां तु गायत्रीं तस्मिन् सान्निध्यमागताः ॥ १६ ॥

हृदयं लोकपालानां विज्ञेयं सार्वकामिकम् ।
अस्त्रपाशुपतं दीप्तस्त्र मन्त्रं प्रकल्पयेत् ॥ १७ ॥

प्। २७)

सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु सम्प्रभाम् ।
विश्वकीद्विश्ववेत्तारो विश्वकृद्विश्व मूर्तयः ॥ १८ ॥

ओङ्कारदीपिता मन्त्रा नमस्कारान्तयोजिताः ।
अर्च्चते सम्प्रयोक्तव्या होमे स्वाहान्तसंयुताः ॥ १९ ॥

न बिन्दुर्न शिखामात्राप्यस्त्रवशस्य षण्मुख ।
स विसर्गास्तथा दीप्ता घोरकर्मकरा स्मृताः ॥ २० ॥

एकत्रिंशान्तिकं वर्णं सप्तमस्वरयोजितम् ।
ककारार्धयुतं कृत्वा क्षरिकास्त्रं प्रकीर्तितम् ॥ २१ ॥

एते मन्त्राश्शिखास्सूक्ष्माः परमाः सर्वकामिकाः ।
सर्वैरेभिः सदा कुर्याच्छिवीकरणमात्मनः ॥ २२ ॥

यदा यदा समाचामे मन्त्रन्यासं यदा तदा ।
कुपितकरकायेषु मन्त्रिमन्त्रार्य सिद्धये ॥ २३ ॥

इति श्रीसर्वज्ञानोत्तरे क्रियापादे प्रासादमन्त्रोद्धारप्रकरणम् ॥