वर्णयागविधानं तु स्वरं संयोग पूर्वकम् ।
परमीकरणं चैव ब्रूहि तत्वेन शङ्कर ॥ १ ॥
शृणुष्वैकमना भूत्वा वर्णयागविधिक्रमम् ।
ककारादि क्षकारान्तं स्वरसंयोगपूर्वकम् ॥ २ ॥
प्। २४)
एकैकमक्षरं भिन्नं स्वरै द्वादशभिस्तथा ।
ह्रस्वै ब्रह्मसमाख्याता दीर्घैरङ्गानि निर्दिशेत् ॥ ३ ॥
सानुस्वारसमायोगात् त्रयोनेत्राः प्रकीर्तिताः ।
स विसर्गा स्मृता ह्यस्त्रा अनुस्वारविवर्जिताः ॥ ४ ॥
हृद्वीजा अपञ्चमे बीजो षष्ठं बीजं नियोजयेत् ।
मात्रात्रयसमायुक्तं मूर्ध्नि बिन्दु प्र * पयेत् ॥ ५ ॥
शिवमेवं विधिं विद्यात् सर्ववर्णेष्वनुक्रमात् ।
ह्रस्वदीर्घप्लुतानन्तान्य या कामं प्रकल्पयेत् ॥ ६ ॥
ह्रस्वस्याद्यन्त युत्तेन फट्कारेण तु मारयेत् ।
यधि क्रोधेनसंयुक्तो जपेत् संरक्तलोचनः ॥ ७ ॥
ह्रिङ्कारान्तसंयुक्ता दीर्घस्त्रिच्चाटयेद्ध्रुवम् ।
महांस्तु साधको भूत्वा साध्यनूनं प्रकल्पयेत् ॥ ८ ॥
निर्गुत्योदितमार्गेण प्रविशेत् तस्य तेन च ।
तत्रस्य एवाद्वयो भूत्वा तेनेव कर्षयेत् पुनः ॥ ९ ॥
अङ्गान्यङ्गेषु बन्धाय चिन्त चेतसि निक्षिपेत् ।
पद्मकोशस्थितं तं तु संहरेद्धृदयेन तु ॥ १० ॥
यदेव कुरुते कर्म न देवोपवदं स्मृतम् ।
जपेत् तद् भावना युक्तो नामं मन्त्रपि दर्हितम् ॥ ११ ॥
बिन्दुयुक्ताः स्मृता मन्त्रा प्रणवादि नियोजिताः ।
नमस्कारान्तसंयुक्तानार्चने सम्प्रयोजयेत् ॥ १२ ॥
प्। २५)
होमे स्वाहान्तसंयुक्ता शान्तिकाकर्ष पौष्टिके ।
वश्ये च सम्प्रयोक्तव्या स्वाहाकारान्तसंयुताम् ॥ १३ ॥
किं वा मन्त्रविधानेनाति विस्तारवेनते ।
सर्वसाधारणं वत्स शृणु सङ्क्षेपविस्तरम् ॥ १४ ॥
यो विधिर्मन्त्रराजस्य प्रोच्यमानो भविष्यते ।
तमेव सर्वमात्राणां सततं परिकल्पयेत् ॥ १५ ॥
तथैव सर्वदेवानां यजने सम्प्रयोजयेत् ।
इति श्रीसर्वज्ञानोत्तरे क्रियापादे स्थूलवर्णमन्त्रोद्धारप्रकरणम् ॥