+०३ क्रियापादः

वृक्षाणां सारभूतं पुष्पं पुष्पं समुद्राणां क्षीरसागरम् ।
तथा च सर्वशास्त्राणां सारभूतं शिवागमम् ॥

प्। २३)

पदार्थानेक सम्पूर्ण सर्ववाङ्मय साधनम् ॥१ ॥

अल्पग्रन्थमहार्थं च तच्छ्रुणुष्व यथाक्रमम् ।
योऽसावतीन्द्रियो ग्राह्यस्तत्वातीतो निरञ्जनः ॥ २ ॥

सर्वज्ञः सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः ।
तस्माच्छास्त्रं विनिष्क्रान्तं नादरूपं निरामयम् ॥ ३ ॥

अत्यन्तगगनं सूक्ष्मं परमं सार्वकामिकम् ।
प्रविश्य वैन्दवं तत्वं बोधयित्वा च तंविलम् ॥

पुनः सदा शिवात्प्राप्तं ममेदं सूक्ष्मलक्षणम् ।
ततः स्वराश्च वर्णाश्च हंसवर्ण समुद्भवा ॥

पुनर्मन्त्राश्च शास्त्राणि छन्दो लक्षणसंयुता ।
वभूव परमोनादो नादाच्छब्दः प्रजायते ॥

शब्दमात्रा स्मृता मन्त्रा मन्त्रे मन्त्राधिदेवताः ।
सर्वान् कामान् प्रयच्छन्ति विधिना राधिता यदा ॥

स्वरवर्णसमायोगात् दृश्यादृश्यं चराचरम् ।
तस्मादिपासयेद्वर्णान् स्वरसंयोगपूर्वकम् ॥

इति श्रीसर्वज्ञानोत्तरे मन्त्रतन्त्रोत्पत्तिप्रकरणम् ॥