०४

अतः परं प्रवक्ष्यामि पुरुषं मन्त्रविग्रहम् ।
सर्वशोकहरन्दीप्तं सर्वपापहरम्परम् ॥ १ ॥

सर्वदेवासुरयक्षाणां किन्नरासुररक्षसाम् ।
पितृमातृगणानाञ्च सिद्धविद्याधरादिषु ॥ २ ॥

नागगन्धर्वतिर्यक्क्ष पिशाचां च मानुषाम् ।
शिवादि सर्वतत्वानां मन्त्राविद्यन्ति शाश्वताः ॥ ३ ॥

नास्ति मन्त्रैर्विना किञ्चित् सर्वस्थावरजङ्गमम् ।
यावन्तः केचनस्सत्वा मन्त्राधिष्ठित विग्रहाः ॥ ४ ॥

यस्य यस्य हि तत्वस्यादिमं तु यदक्षरम् ।
षष्ठं त्रयोदशान्तं च तस्मिन् तस्मिन् नियोजयेत् ॥ ५ ॥

तं तु मन्त्रं विजानीया सर्वतत्वात्मकंवरम् ।
बिन्दुनालङ्कृतं मूर्ध्न सर्वकामफलप्रदम् ॥ ६ ॥

प्। १९)

तेषामङ्गानि युञ्जीत न ब्रह्मास्तेषु कीर्तितः ।
दीर्घभिन्ना स्मृता ह्यङ्गा नेत्रानुस्वारसंयुतः ॥ ७ ॥

स विसर्गस्मृतो ह्यस्त्रस्सोनुस्वारविवर्जितः ।
इति तेषां तु बीजानां मूर्ध्नि बिन्दुं प्रदापयेत् ॥ ८ ॥

ओङ्कार दीपितां मन्त्रां नमस्कारान्तयोजिताः ।
अर्चने च प्रयोक्तव्या होमे स्वाहान्त योजिताः ॥ ९ ॥

आवाहनास्य पात्रेषु स्थापनाचमनेषु च ।
स्नपने मन्त्रविन्यासे धारणाध्यानकर्मसु ॥ १० ॥

पूजाबलिविधानेषु जपहोम क्रियासु च ।
शिवस्य यो विधिः प्रोक्तः सर्वकर्मक्रमेषु च ॥ ११ ॥

सर्वेषाम्मेव तत्वानां तं विधिं परिकल्पयेत् ।
अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं हृदयेन तु ॥ १२ ॥

एवं विधिं विधानज्ञो बुध्या कर्मसमारभेत् ।
परमीकरणं प्रोक्तं सर्वतत्वेषु मन्त्रवित् ॥ १३ ॥

यो यथैव भवेन् मन्त्रो वाच्यवाचकभेदतः ।
स्थूल सूक्ष्म परस्सोहि मन्त्रात्म पुरुषः स्मृतः ॥ १४ ॥

स्थूलस्तु वाचकं सिद्धं सूक्ष्मे योगं च गच्छति ।
परः परम निर्वाणं यं प्राप्य न निर्वर्तते ॥ १५ ॥

यथा प्रदीपः प्रतिबुध्यमानो भवत्यनेकः पुनरेक एव ।
तथाहि मन्त्रः परिकल्प्यमानो भवत्यनेकः पुनरेक एव ॥ १६ ॥

प्। २०)

यथाम्भसोनेकविधस्य लोके जात्यन्तरं ह्येकमनेकरूपम् ।
तथैव मन्त्रस्य च वेदितव्यं जात्यन्तरं ह्येकमेनक रूपम् ॥ १७ ॥

यमेव साधयेन्मन्त्रं ममात्मानं प्रकल्पयेत् ।
तदात्मक स्मृता ह्यङ्गा बहिराहित द्विभागहाः ॥ १८ ॥

यस्य यादृग्विधं रूपं वृतं तस्यैव तादृशम् ।
तादृशोप्युपचारस्तु मन्त्रदेवानुरूपतः ॥ १९ ॥

शास्त्रोपदिष्टमार्गेण यथारूपं प्रकल्पयेत् ।
तथा रूपो भवेन्मन्त्रस्ततः कर्मप्रसाधयेत् ॥ २० ॥

श्रोतुर्भाव विभेदास्तु वर्णरूपं पृथग्विधम् ।
सर्वोपाश्रय सम्पन्नं स्फटिको कोपलवद्यथा ॥ २१ ॥

इति मात्रात्मकः पुरुषः प्रोक्तस्सर्वार्थसाधकः ।
सर्वज्ञः सर्वगश्चैव सर्वरूप मयो हि सः ॥ २२ ॥

परात्परतरं वक्ष्ये मन्त्रातीतं निरञ्जनम् ।
निरामयं निराधारं वर्णरूप विवर्जितम् ॥ २३ ॥

सर्वज्ञः सर्वगः शान्तस्सर्वात्मा सर्वतो मुखः ।
अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो व्यथः ॥ २४ ॥

सुनिष्कलो निशालम्बो नाख्येयो व्यापको ध्रुवः ।
निरौपौम्यौ प्रमेयश्च परात्मा प्रकीर्तितः ॥ २५ ॥

यादृशेन तु भावेन पुरुषोपास्यते यदा ।
एकधा बहुधा चैव तथैव प्रतिपद्यते ॥ २६ ॥

प्। २१)

यमेव चिन्तयेद् रूपं सर्वमात्मनि विद्यते ।
सर्वकामप्रदो ह्यात्मा प्रोक्तष्षड्भेद विस्तरः ॥ २७ ॥

भूतात्मा ह्यन्तरात्मा च तत्वात्मा जीवसञ्ज्ञितः ।
मन्त्रात्मा परमाख्याश्च एकोपि बहुधा स्थितः ॥ २८ ॥

भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः ।
मन्त्रात्मा मन्त्रं यो ज्ञेयो ह्यन्तरात्मागिरान्वितः ॥ २९ ॥

भोक्ता तु सुखदुःखाना प्रकृतिस्थो गुणान्वितः ।
जित्वा स्वभुवनं तेषामेभिर्मुक्तः परस्तुः ॥ ३० ॥

सर्वरूपं यथैश्वर्यं नित्ययुक्तो ह्यवाप्नुयात् ।
प्राप्तोपि स द्विधा भावि पुनर्भावमवाप्नुयात् ॥ ३१ ॥

प्राग्यत्येन परीक्षेण क्षीयात्पापस्य कर्मणः ।
तत्वविश्लेष काले चाद्वैतं प्रतिपद्यते ॥ ३२ ॥

एक एव परो ह्यात्मा चित्तभेदात्त्वनेकधा ।
एकस्य बहुनामानि पृथग्भूतान्य कोटिभिः ॥ ३३ ॥

अनामकस्व कीयन्ते भ्रान्ति ज्ञानविमोहितैः ।
यथाभिव्यज्यते ज्ञानं विमलं सर्वतोमुखम् ॥ ३४ ॥

तदात्मीयं परं धर्मविन्दते शाश्वतं ध्रुवम् ।
अहमेव परोह्यात्मा पुरुषः कारणः स्मृतः ॥ ३५ ॥

अहमेव परम्ब्रह्म अहं ज्ञेय मतपरम् ।
सर्वे विनाशकाभावां मन एव पृथग्विधाः ॥ ३६ ॥

प्। २२)

भावाभावविनिर्मुक्त अहमेव शिवोऽव्ययः ।
योगसन्न्यस्त कर्मायो ज्ञानसम्भिन्न संशयः ॥ ३७ ॥

निर्विकल्पस्तदा नित्यमात्मानं पर्युपासयेत् ।
निरस्य वासनास्सर्वा आत्मतृप्तो निरामयः ॥

अद्वैतभावनायुक्तस्सदात्मा समुपासयेत् ।
अपाकृतेन नित्येन निर्मलेनाविकारिणा ॥

व्यापकेनाति सूक्ष्मेण परेण योगचक्षुषा ।
विशुद्धं शाश्वतं नित्यं प्रमेयं नौपमम् ॥

निर्विकल्पमचिन्त्यं च हेतुं दृष्टान्तवर्जितम् ।
दुत्रप्तं निर्गुणं शान्तं तत्वातीतं निरञ्जनम् ॥

अविभाव्यमसन्देहं पश्यमीशानमात्म * ।
सर्वगं सर्वदेहस्थं व्यापकं सर्वतोमुखम् ।

निरामयं निराधारमात्मानं पश्यते शिवम् ।
विभिन्नं प्रक्रिया मार्गं मन्त्र तन्त्र परावरम् ।
मूर्तामूर्तं जगत्कृत्स्नं पश्यतात्मन्युपस्थितम् ॥

सर्वज्ञः सर्वदर्शी च परिपूर्णः सुनिर्मलः ।
विमुक्तः केवलीभूतस्सुखमक्षयमाप्नुयात् ॥

इति सर्वज्ञानोत्तरे ज्ञानपादः समाप्तः ॥