०३ विमतीकरणम्

परम्भूयः प्रवक्ष्यामि विमतीकरणोत्तमम् ।
यथात्मा जीवसञ्ज्ञितः * * * * * * * * ॥ १ ॥

मन्त्रात्मा परमाख्याश्च तस्मात् परतरं न हि ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ २ ॥

संयोगः सर्वभूतानां भूतात्मा सम्प्रकीर्तितः ।
पुरुषाधिष्ठितैर्वीजैस्तन्मात्रैर्वीजसंयुतैः ॥ ३ ॥

सम्भवन्ति महाभूता मलया तु समन्विताः ।
सर्वेन्द्रिय समायुक्तं शरीरमिति चोच्यते ॥ ४ ॥

विनाशोत्पत्तिरेवास्य तच्चाहारमयं विदुः ।
आहारस्य परीणामाद्रसोत्पत्तिर्भविष्यति ॥

रसाच्छोणितम् । शोणितान्मांसं मांसान्मेदो मेदस्वेऽस्थीनि अस्थिभ्यो
मज्जामज्जातश्शुक्लंशुक्लशोणितसंयोगे वायुसंयोगाद्गर्भः
सम्भूयते । यथाग्नीषोपीतं? शोभि?

प्। १४)

तत्र शरीर मध्ये नाभिः । नाभिस्थाने मलः । मलस्थाने यथा तिष्ठति
वातपित्तश्लेष्माण इति त्रयो मलसङ्ग्रहात् । ऋतुकाल संयोगात् पुंसोरेत
आधिक्यादथ पुरुषो भवति । मातृरक्ताधिक्यात् स्त्री प्रजायते ।
उभयोस्साम्येनपुंसकम् । अथ काकञ्जकुब्जवामना जायते । परस्परा
कुलत्वादन्योन्य वायुपीडिता तं स्त्रीपुंसां संयोगवैषम्याच्छुक्लं
तद्विधं भवति । तेन युग्मं प्रजायते । एकरात्रोषितं कललं पञ्चरात्रेण
बुद्वुदम् । सप्तरात्रेण मांसपेशी सम्भवति । द्विसप्तरात्रेण
मांसपिण्डाकृतिर्भवति । मासादभ्यन्तरे बाहुरंसो जायते । मासद्वयेन
हस्तपादाङ्गुष्ठादयो जायन्ते । त्रिभिर्मासैर्जरायु स्नायुत्वक् चर्मा भवन्ति
। चतुर्भिर्मासैर्वंशपृष्ठे उरं कटिश्च भवति । पञ्चभिर्मासैश्शिरो
ललाट कर्णनासा भवन्ति । षड्भिर्मासैः च्छिद्राणि भवन्ति ।
सप्तभिर्मासैश्शरीरस्य व्यक्तिर्भवति । अष्टभिर्मासैः पूर्णाकृतिर्भवति ।
नवभिर्मासैस्समायुक्त चेतनो भवति । पूर्वजातिं स्मरति । सोऽहमित्यहं
चिन्तयति । चेष्टयति । घटात्घट इवाम्बुनोपलभ्यते । सूक्ष्मत्वादाकाशनीलो
यथा । तस्मात् पञ्चात्मक समायुक्तं चेतनम् । बुद्धिरहङ्कारो मनः
प्रकृतिश्च प्रकृतेः पुरुश्च मनसा सङ्कल्पं करोति ।

ह्य एव मनसायुक्त इन्द्रियैः सह युज्यते । इन्द्रियज्जी? ततोर्थेषु नित्यमेव
प्रवर्तते ॥

प्। १५)

इत्येवं प्रकृति स्वभावं शरीरं प्रत्ययैश्चेष्टितव्यम् । असत्वात्
सत्वरजस्तम इति पुरुषस्य स्वभावभेदं कुर्वन्ति ॥ १८ ॥

सत्वप्रकाशकं भावं रजो राजात्मकं गुह ॥ १९ ॥

तमो मोहात्मकं भावमुत्पादयति देहिनाम् ।
सत्वात्सञ्जायते ज्ञानं रजसो लोपमेव च ॥ २० ॥

तमसो सत्यमज्ञानं प्रमादालस्यमेव च ।
सत्यात्सत्यं दया धैर्यं विनयस्थैर्यमेव च ॥ २१ ॥

रजसः क्रोधसम्भावो निर्दयत्वं च जायते ।
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ॥ २२ ॥

जघन्यगुणप्रत्तिस्था अतो गच्छन्ति तामसाः ।
रजस्तमश्चाभि भूयसत्वं वर्धति षण्मुख ॥ २३ ॥

रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा ।
यमेव स्वेते पुरुषो अतिसङ्गात्सदा गुणम् ॥ २४ ॥

सोस्याप्याधिको भूत्वा स्वधर्मे विनियोजयेत् ।
एवमेक कपालस्य षोडश पार्श्वपटलानि भवन्ति ॥ २५ ॥

त्रीण्यस्ति शतानि नवस्नायु शतानि नवद्वाराणि ।
मज्जापञ्चप्रस्तामेदः प्रस्थद्वयं त्रिस्तोर्ध्वं रोमकोट्यः ॥ २६ ॥

एकादशोत्तरर्मशित द्रवस्य पलानि अष्टौ सन्धिरस्या एकद्वयम् द्वादश
पलार्मित(?) जिह्वा ।
वृक्षणं सार्धपलपञ्चकम् । शुक्लस्य कुडलत्रयम् । पित्तस्यादकम् ।
सप्तसिवाशतानि च ।

प्। १६)

अनियत मूत्रपुरीष माहारस्यानित भावाद्विज्ञेयम् ।

एवं विधोयं भूतात्मा पुरुष इति चोच्यते ।
योत्तरे वर्तते शब्दस्तस्य वाचा प्रवर्तकः ॥ २९ ॥

प्राणापान समायोगात् सोन्तरात्मा प्रकीर्तितः ।
तस्माच्च सर्वशास्त्राणि संस्कृत प्राकृतानि च ॥ ३० ॥

देशभाषादिभिर्नित्यं विधिवत्सम्प्रवर्तते ।
पश्वश्च मृगाश्चैव पक्षिणश्च सरीसृपाः ॥ ३१ ॥

यावन्तः केचनस्सत्वा उच्चरन्ति सदा दुतम् ।
सूक्ष्मा वै पञ्चतन्मात्रा मनोऽहङ्कार एव च ॥ ३२ ॥

बुद्धिरष्टगुणा ज्ञेया गुणाव्यक्तं च पौरुषम् ।
कलाकालस्तथा माया विद्याविद्येश्वरं च यत् ॥ ३३ ॥

सदाशिवं तथा तत्वं वेदं वंशान्तमेव च ।
एतेषां चैव संयोगात् तत्वात्मा पुरुषः स्मृतः ॥ ३४ ॥

ततम्मेतैर्जगत्कृत्स्नं पाशाश्चेते मलात्मकः ॥
सुसूक्ष्माः सर्वगानित्यस्सहजा सर्व ऋतुषु ॥ ३५ ॥

प्रकृतिश्चैव बोद्धव्या प्रक्रिया च निगद्यते ।
न परं प्रक्रिया ज्ञानात् न शिलाद्व्यापकं परम् ॥ ३६ ॥

न योगात्परतरः सिद्धिर्नशमात् परमं सुखम् ।
उदयो यक्ष्य तत्वस्य देहे भवति षण्मुख ॥ ३७ ॥

तदशात्मकं सदादेही विकार मनुवर्तते ।

प्। १७)

यस्मिंश्चरति भूतात्मा तत्तत्वं वृषसर्पते ॥ ३८ ॥

आभूय सर्वतत्वानि स च तन्मयतां व्रजेत् ।
मुहुर्मुहु सा देही सर्वतत्वैरनुक्रमात् ॥ ३९ ॥

सञ्चरन्त्यविभत्त्या तु व्यापकत्वं च सर्वदा ।
तच्च तस्य सदा स्कन्द तत्वभावैः पृथग्विधैः ॥ ४० ॥

लक्ष्यते व्यापकस्यापि उदयास्तमनस्थितिम् ।
तथा तत्वाधिपान् भावान् प्रगृह्णाति षडानन ॥ ४१ ॥

सर्वधर्म मयो ह्यात्मा यथा कामं प्रकल्पयेत् ।
यस्मिं स्थिते रतिं याति तमेव परिसेवते ॥ ४२ ॥

तस्मिंस्तत्वे स्थितिं विद्यात् तत्तत्कर्म समाचरेत् ॥ ४३ ॥

तस्मादेवं विदित्वा तु शिवतत्वे निरामये ।
निर्विकारे निराधारे रतिं कुर्याद् विचक्षणः ॥
न पुनर्मोह मायाति तस्मिंश्चैव षडानन ॥ ४४ ॥

स्थित्वास्मिन्नन्त कालेपि वरं निर्माणमाप्नुयात् ।
देही सर्वगतः सूक्ष्मः पुराणः शाश्वतो ध्रुवः ॥ ४५ ॥

व्यापकस्सर्व तत्वानां मजोवक्तः सनातनः ।
अस्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितेः ॥ ४६ ॥

सम्मूढो नित्यसंसारी किञ्चिज्ज्ञो निश्चलो क्रियः ।
पशुधर्मोस्य सञ्ज्ञेयः शिवधर्मस्तनोऽन्यथा ॥ ४७ ॥

पशुधर्मोदयः पुंसो ह्यनेकाकार रूप धृक् ।

प्। १८)

आत्मा जन्तुः पुमान् देही पुरुषः पुद्गली तथा ॥ ४८ ॥

जीवः कपाली क्षेत्रज्ञः पर्गाया एव मादयः ।
सर्वे धर्मात्मनः सन्ति संयुक्तः सर्वकर्मभिः ॥ ४९ ॥

सर्वान् देहान वाप्नोति याति सर्वासु योनिषु ।
यावन्नोत्पद्यते ज्ञानं तावद्भमति कर्मणा ॥ ५० ॥

अज्ञाना वृतदेहस्तु दुःखशोक परिप्लुतः ।
ज्ञानी लब्ध्वा परं शान्तं मचिरेणाधि गच्छति ॥ ५१ ॥

तदास्तु सर्वदुःखानां हानिरस्योपजायते ॥

इति भूतात्मादिप्रकरणं समासम् ॥