०२ स्वात्मसाक्षात्कारप्रकरणम्

अथान्यं सम्प्रवक्ष्यामि उपायं तत्वतो गुह ।
अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ॥ १ ॥

येन विज्ञायते सम्यक् यं ज्ञात्वा शिवो भवेत् ।
न कस्य विजायाख्यातं तद्विज्ञानं शृणुष्व मे ॥ २ ॥

गुरुपारम्परायातमदृष्टं सर्वादिभिः ।
भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ॥ ३ ॥

यो सौ सर्वगतो देवो सर्वात्मा सर्वतोमुखः ।
सर्वतत्वमयो चिन्त्यस्सर्वस्योपरि संस्थितः ॥ ४ ॥

सर्वतत्वव्यतीतश्च वाङ्मनो नामवर्जितः ।
सोहमेवमुपासीत निर्विकल्पेन चेतसा ॥ ५ ॥

यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् ।
निर्विकल्पमनोद् देश्यं हेतु दृष्टान्तवर्जितम् ॥ ६ ॥

अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् ।
अविभाष्यमसन्देहं तदहं नात्रसंशयः ॥ ७ ॥

अहमेव परो देवः सर्वमन्त्रमयः शिवः ।
सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ॥ ८ ॥

मया व्याप्तमिदं सर्वं दृश्या दृश्यं चराचरम् ।
अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ॥ ९ ॥

अनेकाकारसम्भिन्नं विश्वं भुवनसञ्चयम् ।
शिवाद्यवनि पर्यन्तं तत्सर्वं मयि संस्थितम् ॥ १० ॥

प्। ८)

यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ॥ ११ ॥

अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः ।
एवमुपासयेन्मोहान्न शिवत्वमवाप्नुयात् ॥ १२ ॥

शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् ।
यः शिवः सोहमेवेति अद्वैतं भावयेत् सदा ॥ १३ ॥

अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः ।
सर्वगं सर्वदेहस्थं पश्यते नात्रसंशयः ॥ १४ ॥

एवमेकात्मभावेन संस्थितस्य तु योगिनः ।
सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ॥ १५ ॥

योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः ।
अकायो निर्गुणो ह्यात्मा सोऽहमस्मिन्न संशयः ॥ १६ ॥

अविज्ञातः पशुः सो हि सृष्टिधर्म समाश्रितः ।
विज्ञातशाश्वतश्शुद्धस्स शिवो नात्र संशयः ॥ १७ ॥

तस्मादात्मा सदावेद्यः सुविचार्यः विचक्षणैः ।
परापरविभागेन स्थूल सूक्ष्मविभागशः ॥ १८ ॥

परः परमनिर्वाण अपसृष्टिभेदतः ।
स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैक संस्थितः ॥ १९ ॥

अथवा बहुशोनेन किमुक्तेन षडानन ।
वाग्विकल्प विशेषेण मनः सम्मोहकारिणी ॥ २० ॥

प्। ९)

सर्वेधर्मानस्सन्ति यमेव परिकल्पयेत् ।
तत्तद्भवत्यसन्देहात् सदा तद्भाव भावतः ॥ २१ ॥

इत्येवमात्मविज्ञानं कथितं तु समासतः ।
ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासते ॥ २२ ॥

न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः ।
आत्मविज्ञानमाश्रित्य विमलं सर्वतो मुखम् ॥ २३ ॥

संसारार्णवमग्नानां भूतानां शरणार्थिनाम् ।
नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ॥ २४ ॥

आत्मानं परमो भूत्वा यो विजानाति तत्वतः ।
स मुच्यते त्वयत्नेन सर्वावस्थां गतोपि सन् ॥ २५ ॥

आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते ।
तथात्मानमुपासीत योयमात्मापरस्तु सः ॥ २६ ॥

न प्राण्यो नैव चापानो विशिष्टकरणस्तथा ।
सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ॥ २७ ॥

न चैवाभ्यन्तरे बाह्ये नाति दूरे समीपतः ।
स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ॥ २८ ॥

तिर्यगूर्ध्वमधंश्चैव बहिरन्तश्च नित्यशः ।
सर्वशून्यं तमाभास समात्मानं भावयेत्थ ॥ २९ ॥

नैव शून्यं च चाशून्यमशून्यं शून्यमेव च ।
पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३० ॥

निरामय निराधारं वर्णरूप विवर्जितम् ।

प्। १०)

निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ॥ ३१ ॥

निरामय निरालम्बमप्रमेय मनोपमम् ।
स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ॥ ३२ ॥

सन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः ।
भावयेदात्मनात्मानं मात्मन्येवात्मनि स्थितम् ॥ ३३ ॥

स देश जाति सम्बन्धान् वर्णाश्रम समन्वितान् ।
भावानेतान् परित्यज्य स्वरूपं भावयेद् बुधः ॥ ३४ ॥

मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः ।
सर्वभावान् परित्यज्यात्माभावं तु भावयेत् ॥ ३५ ॥

अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ३६ ॥

नैव चिन्त्यं न चाचिन्त्यमचित्तं चित्तमेव च ।
पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३७ ॥

अचिन्त्यं चिन्तयेन् नित्यं कृत्वा चित्तं निराश्रयम् ।
निस्तत्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ॥ ३८ ॥

निर्विकल्पमचिन्त्यं च हेतु दृष्टान्त वर्जितम् ।
तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ॥ ३९ ॥

निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् ।
यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ॥ ४० ॥

सर्वदिग्देशकालेषु योगाभ्यासोप्यधीयते ।
सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ॥ ४१ ॥

प्। ११)

गवामनेकवर्णानां क्षीरस्याप्येक वर्णताः ।
क्षीरवत् पश्यते ज्ञानमङ्गिनस्तु गवांसमाः ॥ ४२ ॥

यस्मात् सर्वगतं ब्रह्म व्यापकं सर्वतो मुखम् ।
तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ॥ ४३ ॥

नैव तस्य कृतोर्थेन कार्य न विधिस्मृतः ।
न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ॥ ४४ ॥

गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोपि पिवन्नपि ।
सर्वदा सर्वकालेषु वातशीतातपेषु च ॥ ४५ ॥

भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु ।
आत्मन्येष स्थितः शान्तः आत्मतृप्तस्तु निष्कलः ॥ ४६ ॥

ना गतोऽहं गतो वापि ना गमिष्ये न गच्छता ।
न भूतो न भविष्यामि प्रकृत्य स्थिर धर्मणि ॥ ४७ ॥

प्रकृतानि तु कर्माणि प्रकृतिः कर्मसम्भवा ।
नाहं किञ्चित् करोमीति युक्तमन्येत तत्ववित् ॥ ४८ ॥

नैवः प्रकृतिबन्धोस्ति मुक्ति इत्यभिधीयते ।
न चैव प्राकृतैर्दोषैर्लिप्ये * * कदाचन ॥ ४९ ॥

निर्दश्य तमोरूप दीपो यद्वत् प्रकाशते ।
आभात्येवं परोह्यात्मात्स्यैक्वैवा(?) ज्ञानजन्तपः ॥ ५० ॥

स्नेहक्षमाद्यमादीपो वलान्निर्वाणमिच्छति ।
तथात्मा भावनायुक्त स्वात्मन्ये वा वलिष्ठते ॥ ५१ ॥

प्। १२)

घट संवृतमाकाशं नीयमाने यथा घटे ।
घटो नियतिनाकाशमाकाशत्वं प्रपद्यते ॥ ५२ ॥

विभिन्ने प्राकृते देहे तथात्मापरमात्मनि ।
इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा ॥ ५३ ॥

सर्वबन्धाद्विनिर्मुक्तस्सर्वज्ञः सर्वगो भवेत् ॥ ५४ ॥

तदा गमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् ।
अस्मात्परं नान्यदिहास्ति किञ्चिद् ज्ञात्वैव सन्त्यज्य मनोविकल्पम् ॥ ५५ ॥

विज्ञानमेवं समुपास्य विद्वान् विशत्यकायं सततं नियुक्तः ।
सर्वत्रगामी भरतीह मुक्तस्तद्धर्मधर्मी बहिरन्तसंस्थः ॥ ५६ ॥

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहस्स शिवत्वमेति ॥ ५७ ॥

न जपो नार्चनं स्नानं न होमो नैव साधनम् ।
धर्माधर्मफलं नास्ति न पिण्डो नोदक क्रिया ॥ ५८ ॥

नियमानि न तस्यास्ति नोपवासो विधीयते ।
प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ॥ ५९ ॥

अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके ।
शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ॥ ६० ॥

शिववच्छाश्वतः शुद्धः सृष्टिधर्म विवर्जितः ।
सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः ॥ ६१ ॥

अतः परतरं नास्ति विज्ञेयं कुत्र चिद्गुह ।

प्। १३)

विमलयति सर्वभावान् विमलात्मा विमलबुद्धिरतशुधीः ॥ ६२ ॥

सर्वं विमलं पश्यति विमलो विमलेन भावेन ।
जाग्रजाग्रजाग्रस्वप्नं तथा जाग्रसुषुप्तिकम् ॥ ६३ ॥

जाग्रतुर्यं कालपरमतीतं परदर्शनम् ।
विश्वाग्रस्वोपशान्तश्च शिवदर्शनमेव च ॥ ६४ ॥

सायुज्यमिति भेदेन चोर्ध्वमेकादश स्मृतः ॥ ६५ ॥