०१

पशुपाशविधानं हि श्रोतुमिच्छामि तत्वतः ।
संयोगं च तथा तेषां कथयस्व महेश्वर ॥ १ ॥

आद्याः पाशास्ततस्तेषां जीव आद्यस्तु किन्तु वै ।
का पाशाः कोमलाः प्रोक्ताः कस्माद्वन्धः पुमानिति ॥ २ ॥

पतिश्च किं विधो ज्ञेयस्साधिकार पदे स्थितः ।
शिवश्च कीदृशः प्रोक्तो योधिकार विवर्जितः ॥ ३ ॥

ईश्वरः

पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मनदूषितः ।
सममूढो नित्यसंसारी किञ्चिद् ज्ञानीश्वरो क्रितः ॥ ४ ॥

ताम्रस्यैव तु हेमत्वमन्तर्लूनं यथा स्थितम् ।
अन्तर्लूनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु ॥ ५ ॥

रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते ।
तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यते ॥ ६ ॥

यथा ज्ञात्वा विभागेन पयसि संस्थितम् ।
तथात्मा पाशसंश्लिष्ट अविभागेन संस्थितः ॥ ७ ॥

प्। ५)

विषापहारं कुरुते * * ध्यानबलैर्यथा ।
कुरुते पाशविश्लेषं तथाचार्यः शिवाध्वरैः ॥ ८ ॥

मन्त्रौषधबलैर्यद्वत्सन्निरोधो विषस्य तु ।
तथा हि सर्वपाशानां सन्निरोधस्तु दीक्षया ॥ ९ ॥

दह्यते याम्यमानानां धातूनां तु यथामलम् ।
तथाचार्यो दहेत्पुंसां वायुभूतो मलावुभौ ॥ १० ॥

गुणभूताः स्मृताः पाशाः धर्माधर्मौ मलौ स्मृतौ ।
सहजौ साधकज्ञानां ताम्रकालिकवात्स्थितौ ॥ ११ ॥

त्रिविधास्ते स्मृताः पाशाः सहजागन्तुकास्तधा ।
सांसर्गिकास्तथा भूयः शृणु तेषु विनिर्णयम् ॥ १२ ॥

तन्मात्राद्यास्तु ये तत्वास्ससूक्ष्मास्सर्वगा गुह ।
ते तु पाशाः पराः प्रोक्तास्सहजास्सर्वजन्तुषु ॥ १३ ॥

इन्द्रियाणि च भूतानि यद्वीजं तेषु सम्भवम् ।
आगन्तुकाः स्मृताः ह्येते तस्मात् सांसर्गिकाः पुनः ॥ १४ ॥

संसर्गाद् यद् भवेत् कर्म शुभं वा यदि वा शुभम् ।
ते तु सांसर्गिकाः पाशाः सुखदुःखफलः प्रदा ॥ १५ ॥

कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् ।
पूर्वोपार्जित कर्माणां भावः संयोग कारकः ॥ १६ ॥

ईश्वरो व्यञ्जकस्तेषां भवेत् कर्मानुरूपतः ।
कर्मोदयाद् भवेत् सृष्टिरसास्तैः प्रलयं विदुः ॥ १७ ॥

प्। ६)

विषयासङ्गदोषेण गुणसङ्गो शिखिध्वज ।
वन्धमाप्नोति पुरुषो ह्यकर्तो सर्वगोपि सन् ॥ १८ ॥

पिता पुत्रापराधेन यथैकस्थो निबध्यते ।
अकर्तापीह पुरुषस्तथा बन्धमवाप्नुयात् ॥ १९ ॥

यथैव साधुसंयोगात् उदासीनोपि मानवः ।
तथाबन्धमवाप्नोति तथा ज्ञेयस्तु पुद्गलः ॥ २० ॥

अनादि निधनाः पाशा जीवो नाद्यस्तु कीर्तितः ।
तच्छेदकस्तथानादिः पशुपाशपतिस्तुसः ॥ २१ ॥

पतिस्सदा शिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः ।
सर्वमन्त्राधिपश्चासौ सृष्टिसंहारकारकः ॥ २२ ॥

पदवर्णादिभिर्युक्तैः पूज्यते सर्वदा तु सः ।
अशेष भवनाधारो योगपीठासनस्थितः ॥ २३ ॥

पतिरेवं समाख्यातस्सर्वकामफलप्रदः ।
स्थूलसूक्ष्मोपि मिश्रश्चैवं रूपं तु संस्कृतः ॥ २४ ॥

शिववस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः ।
निरामयो निराधारो वर्णरूप विवर्जितः ॥ २५ ॥

सर्वज्ञः सर्वगश्शान्तः सर्वात्मा सर्वतो मुखः ।
अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो ध्रुवः ॥ २६ ॥

स एव भगवान् व्यापिन् अप्रमेयो ह्यनौपमः ।
बहिरन्तर्विभागेन तिलेतैलमिव स्थितः ॥ २७ ॥

प्। ७)