नमः शिवायशक्त्यै च विन्दवे शाश्वताय च ।
गुरवे च गणेशाय कार्तिकेयाय धीमते ॥ १ ॥
अतः परं प्रवक्ष्यामि योगमन्त्रकितस्तुतम् ।
शान्तस्य * * * * * * * * * * *
युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु ।
उक्त स्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख ॥ ३ ॥
योध्यातायश्च तद्ध्यानं तद्वैर्यान्न प्रयोजनम् ।
सर्वाण्येतानि यो वेत्ति स योगं योक्तु मर्हति ॥ ४ ॥
आत्माध्याता मतोध्यानं ध्येयः सूक्ष्मो महेश्वरः ।
यत्परा परमैश्वर्यमेतद्ध्यान प्रयोजनम् ॥ ५ ॥
मानामानौ समौ कृत्वा सुखदुःखे समे तथा ।
हर्षं भयं विषादं च सत्यजन् योगमभ्यसेत् ॥ ६ ॥
शून्यागारे मठे रम्ये देवतायतने शुभे ।
नदीतीरे विविक्तेन्त गृहे घोरवनेपि वा ॥ ७ ॥
प्रच्छन्ने च विविक्ते च निश्शब्दे जनवर्जिते ।
योगदोष विनिमुक्ते निर्विकल्पे निरातपे ॥ ८ ॥
स्नात्वा शुचि रूपस्पृश्य प्रणम्य शिरसा शिवम् ।
योगाचार्यान्नमस्कृत्य योगं युञ्जीत * * * ॥ ९ ॥
पद्मकं स्वास्तिकं नापि उपस्थाप्यां जलिं तथा ।?
पीठार्धतर्धचन्द्रं वा कर्मतो? भद्रमेव वा ॥ १० ॥
प्। २)
आसनं रुचिरं वद्ध्वोर्ध्वकायः समं शिरः ।
सर्वसङ्गान् परित्यज्यात्मसस्थं मनोगुह ॥ ११ ॥
न दन्तैः संस्पृशेद् दन्तान् सृक्विण्या च न जिह्वया ।
किञ्चित् कुञ्चित नेत्रस्तु शिवं सम्यक्तदोच्चरेत् ॥ १२ ॥
पुनर्विनंशिकश्चैवास्त्र युक्तष्षडानन ॥ १३ ॥
न पृथक् हृदयं तस्य न शिरो न शिखागुह ।
वर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते ॥ १४ ॥
प्राणापानौ समौ कृत्वा सुषुम्नान्तर चारिणौ ।
तयोर्वृत्तिर्निरुध्यात्मा शिवं ध्यायेद् विचक्षणः ॥ १५ ॥
अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् ।
सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः ॥ १६ ॥
उत्तमा मध्यमा मन्दास्संसर्गास्त्रिविधाः स्मृताः ।
प्राणायामांश्च तान् कुर्यात् पूरकुम्भक रेचकान् ॥ १७ ॥
प्राणायामैर्दहेद्दोषान् धारणाभिदिस्तुतम् ।
प्राणायामो भवादेय पूरको देहपूरकः ॥ १८ ॥
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूर्ण कुम्भवत् तिष्ठेत् प्राणायामस्सकुम्भकः ॥ १९ ॥
ततोर्ध्वं रेचयेद् वायुं मृतु निच्छ्वास संयुतम् ।
रेचकस्त्वेष विख्यातः प्राणसंशयकारकः ॥ २० ॥
प्। ३)
प्रसार्यचाग्रहस्तं तु जानुं कृत्वा प्रदक्षिणम् ।
च्छोटिका ततो दद्यान्मनन्नैष्टा त्वभिधीयते ॥ २१ ॥
मात्रा द्वादश विज्ञेयाः प्रमाणं तालसञ्ज्ञकम् ।
तालद्वादशकं ज्ञेयं प्राणायामस्तु आन्यसम् ॥ २२ ॥
मध्यमश्चतर्विंश ज्येष्ठ * * द्विगुणो भवेत् ।
एकैकां वर्धमात्रां प्रत्यहं योगवित्तमः ॥ २३ ॥
नत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् ।
प्राणायामोत्तमोयत्त द्विगुणा धारणा मता ॥ २४ ॥
धारणाद्विगुणो योगो योगोपि द्विगुणी कृतः ।
योगसिद्धिरिति ज्ञेया शिवेन परमात्मना ॥ २५ ॥
तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि ।
रसं तेजस्परिशन्ति च शब्दतन्मात्रमेव च ॥ २६ ॥
पश्यते कर्मयोगेन वर्णभावैः पृथग्विधैः ।
अहङ्कार मनोबुद्धिं गुणमव्यक्त पौरुषम् ॥ २७ ॥
अभिव्यक्तानि जानीयात् स्वधर्मगुण लक्षणात् ।
विद्यां कलां ततः कालं मायां विद्यां ततः पराम् ॥ २८ ॥
दृष्ट्वानु क्रमशः सर्वान् पुनरस्त्रेण भेदयेत् ।
विद्येश्वरं ततस्तत्वं तथा सादाशिवं परम् ॥ २९ ॥
भित्वा तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् ।
अमृतात्मा शिवः साक्षात् तस्मिन्निष्टस्तु योगवित् ॥ ३० ॥
प्। ४)
सर्वज्ञस्सर्वगस्सूक्ष्मस्सर्वेशस्सर्वकृद् भवेत् ।
सर्वेष्वेव स शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम् ॥ ३१ ॥
पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् ।
ज्ञात्वा तु तत्व सद्भावं तन्त्रसारं तु दुर्लभम् ॥ ३२ ॥
सर्वथा वर्तमानोपि गृह्णाति न पुनस्तनुम् ॥ ३३ ॥
॥ इति योगपादः समाप्तः ॥