विस्तारः (द्रष्टुं नोद्यम्)
Sardhatrisatikalottaragama
Sardhatrisatikalottaragama
Based on the edition by N.R. Bhatt:
Sardhatrisatikalottaragama, avec le commentaire de Bhatta Ramakantha.
Pondicherry : Institut Francais d’Indologie 1979.
(Publications de l’Institut Francais d’Indologie, 61)
Input by Dominic Goodall, corrected by Yang Mei
[NOTE by D. Goodall:
The commentary has not been entered.
A small handful of suggested corrections to the edition has been incorporated
and the supplanted readings of the edition have been recorded. But this is not
a new edition of the text and many further corrections could have been suggested
on the basis of the Nepalese sources.]
०१
भगवन्देवदेवेश लोकनाथ जगत्पते ।
मन्त्रतन्त्रं त्वया प्रोक्तं विस्तराद्वस्तुसाधनम् ॥ स्त्क्_१।१ ॥
अल्पायुषस्त्विमे मर्त्या अल्पवीर्याल्पबुद्धयः ।
अल्पसत्त्वाल्पवित्ताश्च लोभमोहासमन्विताः ॥ स्त्क्_१।२ ॥
अल्पग्रन्थं महार्थं च पदार्थानीकसङ्कुलम् ।
वक्तुमर्हसि देवैषां प्रसादार्थं मम प्रभो ॥ स्त्क्_१।३ ॥
अथातः सम्प्रवक्ष्यामि शास्त्रं परमदुर्लभम् ।
नाम्ना तु वातुलात्तन्त्राद् दध्नो घृतमिवोद्धृतम् ॥ स्त्क्_१।४ ॥
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् ।
मुक्तिदं परमं किं च दिव्यसिद्धिप्रदायकम् ॥ स्त्क्_१।५ ॥
तद्विदित्वा महासेन देशिकः पाशहा भवेत् ।
आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः ॥ स्त्क्_१।६ ॥
अन्तर्जलगताः सत्त्वास्ते अपि नित्यं ब्रुवन्ति तम् ।
स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् ॥ स्त्क्_१।७ ॥
स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् ।
चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् ॥ स्त्क्_१।८ ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ।
ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घा ह्यङ्गानि षण्मुख ॥ स्त्क्_१।९ ॥
अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः ।
सविसर्गं भवेदस्त्रम् अनुस्वारविवर्जितम् ॥ स्त्क्_१।१० ॥
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् ।
शिवं तत्तु विजानीयान् मन्त्रमूर्तिं सदाशिवम् ॥ स्त्क्_१।११ ॥
षष्ठमस्य द्वितीयं तु चतुर्थाद्येन संयुतम् ।
द्वितीयात्पञ्चमाच्चैव आदिमं योजयेत्पुनः ॥ स्त्क्_१।१२ ॥
हन्ति विघ्नाञ्शिवास्त्रेण शिखया मुक्तिदं स्मृतम् ।
एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् ॥ स्त्क्_१।१३ ॥
ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत् ।
समासात्कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः ॥ स्त्क्_१।१४ ॥
अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै ।
हस्ताभ्यां संस्पृशेत्पादाद् ऊर्ध्वं यावत्तु मस्तकम् ॥ स्त्क्_१।१५ ॥
एषा मुद्रा महामुद्रा सर्वकामार्थसाधिका ।
करन्यासं पुरा कृत्वा मुद्राबन्धं तु कारयेत् ॥ स्त्क्_१।१६ ॥
तलिकां हस्तपृष्ठं च अस्त्रबीजेन शोधयेत् ।
कनिष्ठामादितः कृत्वा अङ्गुष्ठं चाप्यपश्चिमम् ॥ स्त्क्_१।१७ ॥
ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि यत्नतः ।
प्रासादं विन्यसेत्पश्चाद् व्यापिनं सर्वतोमुखम् ॥ स्त्क्_१।१८ ॥
०२ अन्तःकरणविन्यासपटलः
अन्तःकरणविन्यासो भूतशुद्धिस्तथैव च ।
भूतशुद्धिं पुरा कृत्वा ततो ऽन्तःकरणं कुरु ॥ स्त्क्_२।१ ॥
हृद्बीजं पार्थिवे युक्तं पार्थिवीं धारयेत्क्रमात् ।
शिरो ऽप्सु तेजसि शिखां कवचं वायुना सह ॥ स्त्क्_२।२ ॥
अस्त्रं च शिवसंयुक्तम् आकाशं धारयेत्सदा ।
हुम्फडन्तेन पटलं भित्त्वा चोर्ध्वं विशेषतः ॥ स्त्क्_२।३ ॥
पञ्चोद्घाताश्च चत्वारस् त्रयो द्वावेक एव च ।
द्वादशान्ते निरालम्बं विज्ञानं केवलं स्थितम् ॥ स्त्क्_२।४ ॥
दीक्षायां तु यथा वत्स तत्प्रयोगं समाचरेत् ।
प्रक्रियान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः ॥ स्त्क्_२।५ ॥
ओमित्यनेन कमलं योगपीठं तदा भवेत् ।
सूर्यमण्डलसङ्काशम् अकारं ह्यात्मसम्भवम् ॥ स्त्क्_२।६ ॥
विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारजम् ।
पुर्यष्टकं च तन्मात्रं तुर्यातीतं सदाशिवम् ॥ स्त्क्_२।७ ॥
चिन्तयेत्परमं धाम सुषुम्नाभिन्नमस्तकम् ।
तेनाप्लावितमात्मानं परिपूर्णं विचिन्तयेत् ॥ स्त्क्_२।८ ॥
यो ऽभसेदीदृशं मर्त्यः समाधिं मृत्युनाशनम् ।
न तस्य जायते मृत्युर् इति शास्त्रस्य निश्चयः ॥ स्त्क्_२।९ ॥
पश्चाद्गुरोः साधकानां मूर्तेस्तु ग्रहणं भवेत् ।
ईशानाद्यास्तु सद्यान्तं मूर्ध्न आरभ्य विन्यसेत् ॥ स्त्क्_२।१० ॥
नेत्रं दत्त्वा तदावाह्यो देवदेवः सदाशिवः ।
सर्वज्ञं च तदात्मानं चिन्तयेत्तु विचक्षणः ॥ स्त्क्_२।११ ॥
हृदयं च शिरश्चैव शिखां कवचमेव च ।
न्यसेदस्त्रं च मन्त्रज्ञो यथास्थानेष्वनुक्रमात् ॥ स्त्क्_२।१२ ॥
हृदये ऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् ।
ललाटे त्वीश्वरं ध्यायेद् वरदं सर्वतोमुखम् ॥ स्त्क्_२।१३ ॥
यथार्चने तथाग्नौ च ध्याने स्नाने तथैव च ।
यथा देवे तथा देहे चिन्तयेत्तु विचक्षणः ॥ स्त्क्_२।१४ ॥
कृत्वान्तःकरणं ह्येवं पश्चाद्बाह्यं तु षण्मुख ।
सबाह्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ॥ स्त्क्_२।१५ ॥
अन्तःकरणविन्यासपटलः
इति द्वितीयः पटलः
०३ वारुणस्नानप्रकरणम्
अतः परं प्रवक्ष्यामि स्नानं पापहरं शुभम् ।
सकृज्जप्तेन सङ्गृह्य मृदा अस्त्रेण मन्त्रवित् ॥ स्त्क्_३।१ ॥
मलस्नानं पुरा कृत्वा सकृज्जप्त्वा तु संहिताम् ।
तामेव मृत्तिकां पश्चाद् अभिमन्त्र्य सकृत्सकृत् ॥ स्त्क्_३।२ ॥
भागत्रयं ततः कृत्वा एकमस्त्रेण मन्त्रयेत् ।
द्वितीयं ब्रह्मभिर्वत्स शिवजप्तं तृतीयकम् ॥ स्त्क्_३।३ ॥
अस्त्रजप्तेन भागेन दिशां बन्धं तु कारयेत् ।
शिवजप्तेन तीर्थं तु ब्रह्मजप्तेन विग्रहम् ॥ स्त्क्_३।४ ॥
कुण्ठयित्वा ततः स्नायाच् छिवतीर्थस्य मध्यतः ।
चक्रवत्युपचारेण सुगन्धामलकादिभिः ॥ स्त्क्_३।५ ॥
उपस्पृश्य विधानेन सन्ध्यां वन्देत साधकः ।
मन्त्रैः सर्वैः सकृद्वत्स उपस्थानं तु कारयेत् ॥ स्त्क्_३।६ ॥
अभिषेकं पुरा कृत्वा ततः सन्ध्यां समाचरेत् ।
अस्त्रं न योजयेद्देहे क्षिपेत्तद्बहिरेव च ॥ स्त्क्_३।७ ॥
शरीरं शोषयेद्वत्स तेनात्मनि न योजयेत् ।
विघ्नेषु पाशजालेषु सदा योज्यं विचक्षणैः ॥ स्त्क्_३।८ ॥
हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत् ।
संहारं तस्य तीर्थस्य प्रासादेनैव कारयेत् ॥ स्त्क्_३।९ ॥
वारुणस्नानप्रकरणम् इति तृतीयः पटलः
०४ भस्मस्नानप्रकरणम्
भस्मस्नानं प्रवक्ष्यामि तदूर्ध्वं च षडानन ।
मन्त्रैः सर्वैः सकृद्भस्म अभिमन्त्र्य यथाक्रमम् ॥ स्त्क्_४।१ ॥
जलस्नानं पुरा कृत्वा अस्त्रबीजेन षण्मुख ।
विधिस्नानं ततः कुर्यान् मूर्ध्न आरभ्य मन्त्रवित् ॥ स्त्क्_४।२ ॥
ईशानेन शिरः स्नायान् मुखं तत्पुरुषेण तु ।
हृदयं बहुरूपेण गुह्यं वै गुह्यकेन तु ॥ स्त्क्_४।३ ॥
सर्वाङ्गाणि त्वजातेन अभिषेकं तु पञ्चभिः ।
उपरिष्टात्प्रसादेन स्नानं कुर्वीत षण्मुख ॥ स्त्क्_४।४ ॥
भस्मस्नानप्रकरणम्
इति चतुर्थः पटलः
०५ यजनप्रकरणम्
यजनं सम्प्रवक्ष्यामि यथाविध्यनुपूर्वशः ।
बीजाङ्कुरं पुरा शक्त्या पश्चादानन्तमासनम् ॥ स्त्क्_५।१ ॥
अनन्तं चान्तगं कुर्यात् क्रमेणैव षडानन ।
हृदयं कर्णिका पद्मं धर्मं ज्ञानादिमेव च ॥ स्त्क्_५।२ ॥
वैराग्यं च तथैश्वर्यम् ईशान्तं वह्नितो न्यसेत् ।
शक्तिभिः केसरव्यूहं हृदयेन च कल्पयेत् ॥ स्त्क्_५।३ ॥
आवाहयेत्ततो देवं हृदयेन तु षण्मुख ।
स्थापनं पाद्यमर्घ्यं च तथाचमनमेव च ॥ स्त्क्_५।४ ॥
स्नपनं पूजनं चैव हृदयेन तु कारयेत् ।
उक्तानुक्तं च यत्किञ्चित् तत्सर्वं हृदयेन तु ॥ स्त्क्_५।५ ॥
एकावरणमेतत्तु सर्वकामार्थसाधनम् ।
सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् ॥ स्त्क्_५।६ ॥
यजनप्रकरणम्
इति पञ्चमः पटलः
०६ अग्निकार्यप्रकरणम्
अतः परं प्रवक्ष्यामि अग्निकार्यविधिं क्रमात् ।
अस्त्रेणोल्लेखनं कुर्याद् वर्मणाभ्युक्षणं ततः ॥ स्त्क्_६।१ ॥
शक्तिन्यासं ततो दर्भैर् हृदयेनैव कारयेत् ।
हृदा वै शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् ॥ स्त्क्_६।२ ॥
गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम् ।
हृदयेनैव मन्त्रज्ञः सर्वकर्माणि कारयेत् ॥ स्त्क्_६।३ ॥
पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत् ।
शिवादिसर्वमन्त्रांश्च होमयेदनुपूर्वशः ॥ स्त्क्_६।४ ॥
अग्निकार्यप्रकरणम्
इति षष्ठः पटलः
०७ मण्डलविधानप्रकरणम्
अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
भूमिशोधनं कृत्वा शास्त्रदृष्टेन कर्मणा ॥ स्त्क्_७।१ ॥
अधिवासं ततः कृत्वा नक्षत्रे गुरुणान्विते ।
आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् ॥ स्त्क्_७।२ ॥
सूत्रेण सुमितं कृत्वा चतुरश्रं समन्ततः ।
मध्ये पद्मं प्रतिष्ठाप्यम् अष्टपत्र सकर्णिकम् ॥ स्त्क्_७।३ ॥
एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा ।
स्वतन्त्रविहितं प्राज्ञो लिखेदावरणत्रयम् ॥ स्त्क्_७।४ ॥
वाहयेत्पश्चिमद्वारम् आचार्यः सुसमाहितः ।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रप्रमाणतः ॥ स्त्क्_७।५ ॥
यज्ञकर्मविधिं कुर्यात् सुसमिद्धे हुताशने ।
पूर्वादारभ्य वक्त्रादीन् विन्यसेदनुपूर्वशः ॥ स्त्क्_७।६ ॥
पवित्राणि पुरा न्यस्य शिवाङ्गानि न्यसेत्ततः ।
आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरस्तथा ॥ स्त्क्_७।७ ॥
नैरृत्यां तु शिखा ज्ञेया कवचं वायुगोचरे ।
अस्त्र दिक्ष्वथ विन्यस्य कर्णिकायां सदाशिवम् ॥ स्त्क्_७।८ ॥
गर्भन्यासविधिः प्रोक्तो द्वितीयावरणे शृणु ।
हृदा पूर्वं समारभ्य लोकपालान्प्रपूजयेत् ॥ स्त्क्_७।९ ॥
[तृतीयावरणे ऽस्त्राणि स्वमन्त्रेण प्रपूजयेत्।]
सङ्क्षेपेण मया स्कन्द विधानं परिकीर्तितम् ॥ स्त्क्_७।१० ॥
अनुक्तं यद्भवेत्किञ्चित् तत्सर्वं मूलमाश्रयेत् ।
एवं विधिविधानज्ञो दीक्षाकर्म समाचरेत् ॥ स्त्क्_७।११ ॥
मण्डलविधानप्रकरणम्
इति सपतमः पटलः
०८ दीक्षाप्रकरणम्
अथ दीक्षां प्रवक्ष्यामि पञ्चतत्त्वव्यवस्थिताम् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ स्त्क्_८।१ ॥
पञ्चैतानि च तत्त्वानि यैर्व्याप्तमखिलं जगत् ।
सर्वतत्त्वानि तत्रैव द्रष्टव्यानि तु साधकैः ॥ स्त्क्_८।२ ॥
ब्रह्माण्डे तु निवृत्तिर्वै शतरुद्रावधिस्तथा ।
तदूर्ध्वं तु प्रतिष्ठा स्याद् यावदव्यक्तगोचरम् ॥ स्त्क्_८।३ ॥
ततो विद्या नियुक्ता सा यावद्विद्येश्वरान्तिकम् ।
शान्तिस्तदूर्ध्वमध्वान्ते शक्तिरेव शिवे पदे ॥ स्त्क्_८।४ ॥
अज्ञात्वैतानि तत्त्वानि यो दीक्षां कर्तुमिच्छति ।
वृथा परिश्रमस्तस्य नैव तत्फलमाप्नुयात् ॥ स्त्क्_८।५ ॥
निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते ।
विद्यां तेजो विजानीयाद् वायुः शान्तिः प्रकीर्तितः ॥ स्त्क्_८।६ ॥
शान्त्यतीता भवेद्व्योम तत्परं शान्तमव्ययम् ।
तं विदित्वा महासेन श्वपचानपि दीक्षयेत् ॥ स्त्क्_८।७ ॥
निवृत्तिं हृदयेनैव प्रतिष्ठां शिरसा गुरुः ।
शिवो विद्यां तु शिखया शान्तिं वै कवचेन तु ॥ स्त्क्_८।८ ॥
शान्त्यतीतं परं व्योम प्रासादेन तु होमयेत् ।
एकैकस्य शतं होम्यम् इत्येवं पञ्च होमयेत् ॥ स्त्क्_८।९ ॥
पञ्चपूर्णाहुतीर्दद्यात् प्रासादेन तु षण्मुख ।
प्रायश्चित्तविशुद्ध्यर्थम् अष्टावेकैकयाहुतीः ॥ स्त्क्_८।१० ॥
अस्त्रबीजेन मन्त्रज्ञो होमयेदनुपूर्वशः ।
एवं समाप्यते दीक्षा जननादिविवर्जिता ॥ स्त्क्_८।११ ॥
हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात् ।
इयमिष्टिर्न प्रकाश्या गोपनीया प्रयत्नतः ॥ स्त्क्_८।१२ ॥
रहस्यं सर्वतन्त्राणाम् एष संस्कार उत्तमः ।
योनिन्यासादिकं कर्मोद्- धारणं चाप्यपश्चिमम् ॥ स्त्क्_८।१३ ॥
शोधनानुक्रमं देव कथयस्व यथाविधि ।
दश सप्त च ये शोध्याः पृष्टाश्चात्र त्वया गुह ॥ स्त्क्_८।१४ ॥
यस्य यद्बीजमुक्तं तु तद्वक्ष्याम्यनुपूर्वशः ।
योनिबीजं तु हृदये कल्पयेच्च यथाक्रमम् ॥ स्त्क्_८।१५ ॥
अर्चनं प्रोक्षणं चैव ताडनं च तथा परम् ।
सन्धानं चैव संयोगं निक्षेपं तदनन्तरम् ॥ स्त्क्_८।१६ ॥
अर्चनं च ततः कुर्याद् गर्भाधानं तथैव च ।
जननं चाधिकारं च भोगं चैव लयं तथा ॥ स्त्क्_८।१७ ॥
स्वतत्त्वे चाहुतिशतं हृदयेन तु षण्मुख ।
पाशच्छेदं तथास्त्रेण दद्यात्पूर्णाहुतिं ततः ॥ स्त्क्_८।१८ ॥
हृदयेनात्र तूद्धारः कर्तव्यश्चाप्यनुक्रमात् ।
उद्धारे प्रोक्षणे चैव ताडने च तथैव च ॥ स्त्क्_८।१९ ॥
हुम्फट्कारसमायुक्तं कर्तव्यं चानुपूर्वशः ।
सन्धानं चैव तत्त्वानां कर्तव्यं तु यथाक्रमम् ॥ स्त्क्_८।२० ॥
तत्त्वे तत्त्वे त्विदं कर्म एष एव विधिक्रमः ।
एभिस्तु शोधितैर्वत्स विधिं प्राप्नोति पुष्कलम् ॥ स्त्क्_८।२१ ॥
अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन ।
पूर्णाहुतिप्रदानं च कर्तव्यं धारणायुतम् ॥ स्त्क्_८।२२ ॥
अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् ।
दीक्षाप्रकरणे ह्येतद् योज्यं सर्वत्र सर्वदा ॥ स्त्क्_८।२३ ॥
लिङ्गोद्धारविधाने च नित्यसंस्कारकर्मसु ।
पशोर्ग्रहणमोक्षं तु यत्त्वयोक्तं पुरानघ ॥ स्त्क्_८।२४ ॥
पाशा आभ्यन्तरा बाह्याः कम्सिन्स्थाने कथं स्थिताः ।
कस्मिन्स्थाने तु विच्छेद्याः सद्य उत्क्रमणं कथम् ॥ स्त्क्_८।२५ ॥
पशूनां चैव निर्देशं कथयस्व महेश्वर ।
आदिमस्य द्वितीयेन गृहीत्वात्मानमात्मना ॥ स्त्क्_८।२६ ॥
मुष्टिना यावत्स्थानं तन् नयेत्तं सुविचक्षणः ।
विषुवत्सम्प्रयोगेण ब्रह्माद्यास्ते शिवान्तकाः ॥ स्त्क्_८।२७ ॥
एकत्र समतां यान्ति अन्यथा तु पृथक्पृथक् ।
द्वादशान्ते तु ते च्छेद्याः शरेणास्त्रेण संयुताः ॥ स्त्क्_८।२८ ॥
तदा सायुज्यतां यान्ति समयैः परिवर्जिताः ।
अनिर्दिष्टमसञ्ज्ञं च यत्कृतं तद्वृथा भवेत् ॥ स्त्क्_८।२९ ॥
तमुद्दिश्य कृतं कर्म मोक्षदं तन्न संशयः ।
सूर्यस्य ग्रहणे वत्स विषुवद्योगसंयुतम् ॥ स्त्क्_८।३० ॥
आयामान्ते यदा च्छिन्नं तदा चोत्क्रमते ध्रुवम् ।
मनसि ग्रथिताः पाशाः सूत्रे मणिगणा इव ॥ स्त्क्_८।३१ ॥
हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तुवितानितम् ।
तद्दृष्ट्वा छेदनं कुर्यान् मनोवृत्त्या मनश्च्छिदा ॥ स्त्क्_८।३२ ॥
मनसा मनसि च्छिन्ने जीवः केवलतां व्रजेत् ।
विस्तरं त्यज देवेश सङ्क्षेपात्कथयस्व मे ॥ स्त्क्_८।३३ ॥
येन विज्ञातमात्रेण पशून्मोचयते क्षणात् ।
विज्ञातमात्रेण] चोन्ज्; विज्ञानमात्रेण भत्त्
शृणु षण्मुख तत्त्वेन येन मोक्षो ध्रुवं भवेत् ॥ स्त्क्_८।३४ ॥
प्रयोगेणातिसूक्ष्मेण योगदृष्टेन मन्त्रवित् ।
दिव्येन योगमार्गेण शक्तिं यः प्रेरयेत्तु ताम् ॥ स्त्क्_८।३५ ॥
तं विदित्वा महासेन जीवं प्राणमयं बुधः ।
विषुवत्सम्प्रयोगेण योजयेच्छाश्वते पदे ॥ स्त्क्_८।३६ ॥
योगं तु विषुवं प्राप्य को न मुच्येत बन्धनात् ।
पृथिव्याद्यब्जनाडीर्वै शब्दादिगुणवायुभिः ॥ स्त्क्_८।३७ ॥
आत्माधिदेवता मन्त्राञ् ज्ञात्वा मुक्तस्तु मोचयेत् ।
नाडीविवरसम्बन्धा ऊर्ध्वनाला ह्यधोमुखाः ॥ स्त्क्_८।३८ ॥
ग्रन्थिद्वययुताः सर्वे हुम्फडन्तेन योजिताः ।
ततश्चोर्ध्वत्वमायान्ति उद्घातैः पूर्ववद्गुह ॥ स्त्क्_८।३९ ॥
क्ष्माद्यानालोक्य मनसा सबाह्याभ्यन्तरं पुनः ।
तत्त्वे तत्त्वे नियोक्तव्या वियुक्ता निरहङ्कृता ॥ स्त्क्_८।४० ॥
ब्रह्माद्याञ्श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत् ।
तेजश्चेतो द्विरभ्यस्य आयामो भास्करस्य तु ॥ स्त्क्_८।४१ ॥
ताडयित्वा पुरा वत्स ग्रहणं पूर्ववद्भवेत् ।
भित्त्वार्गलां न्यसेद्योनिं तत्त्वं तत्त्वेन सन्धयेत् ।
शक्तिभिः सम्पुटीकृत्य वौषडन्तेन निक्षिपेत् ॥ स्त्क्_८।४२ ॥
दीक्षाप्रकरणम् अष्टमम्
०९ अभिषेकप्रकरणं
अभिषेकं प्रवक्ष्यामि सङ्क्षेपान्न तु विस्तरात् ।
हिताय साधकेन्द्राणां परमेशेन भाषितम् ॥ स्त्क्_९।१ ॥
मृण्मयं कलशं ह्येकं चन्दनेन विलेपितम् ।
ब्रह्मपत्रपुटं वाथ पद्मपत्रमथापि वा ॥ स्त्क्_९।२ ॥
सर्वौषधियुतं कृत्वा सर्वगन्धोपशोभितम् ।
शतमष्टोत्तरं जप्त्वा प्रासादं सर्वतोमुखम् ॥ स्त्क्_९।३ ॥
यागं कृत्वा तु पूर्वोक्तम् अभिषेकं तु कारयेत् ।
शुभनक्षत्रदिवसे मुहूर्ते करणान्विते ॥ स्त्क्_९।४ ॥
बहुमङ्गलनिर्घोषैः शङ्खवादित्रनिःस्वनैः ।
ब्रह्मघोषैश्च विविधैर् नृत्तगीतसमन्वितैः ।
अनुज्ञातो ऽभिषिक्तश्च आचार्यः पाशहा भवेत् ॥ स्त्क्_९।५ ॥
अभिषेकप्रकरणं नवमम्
१० नाडीचक्रप्रकरणं
नाडीचक्रं परं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः ।
नाभेरधस्ताद्यत्कन्दम् अङ्कुरास्तत्र निर्गताः ॥ स्त्क्_१०।१ ॥
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ।
तिर्यगूर्ध्वमधश्चैव व्याप्तं नाभेः समन्ततः ॥ स्त्क्_१०।२ ॥
चक्रवत्संस्थिता नाड्यः प्रधाना दश तासु याः ।
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ स्त्क्_१०।३ ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा ।
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥ स्त्क्_१०।४ ॥
दश प्राणवहा ह्येता नाडयः परिकीर्तिताः ।
प्राणो ऽपानः समानश्च उदानो व्यान एव च ॥ स्त्क्_१०।५ ॥
नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः ।
प्राणस्तु प्रथमो वायुर् नवानामपि स प्रभुः ॥ स्त्क्_१०।६ ॥
प्राणः प्राणमयः प्राणो विसर्गः पूरणं प्रति ।
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥ स्त्क्_१०।७ ॥
निश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः ।
प्रयाणं कुरुते यस्मात् तस्मात्प्राणः प्रकीर्तितः ॥ स्त्क्_१०।८ ॥
अपानयत्यपानस्तु आहारं च नृणामधः ।
मूत्रशुक्लमलान्वायुर् अपानस्तेन कीर्तितः ॥ स्त्क्_१०।९ ॥
पीतं भक्षितमाघ्रातं रक्तपित्तकफादिकम् ।
रेअद् रक्तपित्तकफानिलम् wइथ् थे नेपलेसे म्स्स्
अन्द् उन्पुब्लिस्हेद् नेपलेसे म्स्स् ओफ़् सप्तशतिक अन्द् द्विशतिक रेचेन्सिओन्स्,
अच्चोर्दिन्ग् तो सन्देर्सोन् (लेच्तुरे नोतेस् ओन् तन्त्रसार)
समं नयति गात्रेषु समानो नाम मारुतः ॥ स्त्क्_१०।१० ॥
स्पन्दत्यधरं वक्त्रं नेत्रगात्रप्रकोपनः ।
उद्वेजयति मर्माणि उदानो नाम मारुतः ॥ स्त्क्_१०।११ ॥
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः ।
प्रीतेर्विनाशकरणो व्यापनाद्व्यान उच्यते ॥ स्त्क्_१०।१२ ॥
उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्मृतः ।
कृकरस्तु क्षुते चैव देवदत्तो विजृम्भणे ।
धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ॥ स्त्क्_१०।१३ ॥
इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च ।
नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः ॥ स्त्क्_१०।१४ ॥
नाडीचक्रं यथावस्थं प्रवक्ष्याम्यनुपूर्वशः ।
दशारं चक्रमेत्तत्तु विभागो जायते यथा ॥ स्त्क्_१०।१५ ॥
चक्रे भ्रमत्यसौ जीवो दशस्थानेष्वनुक्रमात् ।
स जीवो जीवलोकस्य बुध्यन्ते नैव मोहिताः ॥ स्त्क्_१०।१६ ॥
जीवः प्रयाति दशधा तेन चक्रं प्रकीर्तितम् ।
नाडीचक्रमिति प्रोक्तं येन सङ्क्रामति ह्यसौ ॥ स्त्क्_१०।१७ ॥
हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः ।*
हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् ॥ स्त्क्_१०।१८ ॥*
Wहत् मेत्रे इस् थिस्?? बद् (बेचौसे ओफ़् त्रन्स्मिस्सिओन्) आर्या।
उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः ।*
शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः ॥ स्त्क्_१०।१९ ॥*
आर्या मेत्रे
शून्यमरुत्सन्दंशकगृहीतकरणात्मको ह्युभयतो ऽपि ।*
संयाति यत्र नेयः शुष्कदलं मारुतेनेव ॥ स्त्क्_१०।२० ॥*
भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः ।*
गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते ॥ स्त्क्_१०।२१ ॥*
ईश्वरयोगाद्विषुवत्सङ्क्रान्तिश्चैव सिद्धिसंयोगात् ।*
सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् ॥ स्त्क्_१०।२२ ॥*
अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः ।*
सङ्क्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता ॥ स्त्क्_१०।२३ ॥*
सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः ।*
धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसन्धाने ॥ स्त्क्_१०।२४ ॥*
ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् ।*
तेजस्वी च बुभुक्षा पीडा वा जायते ऽग्निदिक्पत्रे ॥ स्त्क्_१०।२५ ॥*
जायते] चोन्ज्; सञ्जायते भत्त् उन्मेत्रिचल्
याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः ।*
नैरृत्ये] चोन्ज्; नैरृते भत्त् उन्मेत्रिचल्
वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् ॥ स्त्क्_१०।२६ ॥*
सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः ।*
यां यां दिशमभिगच्छति तद्भावं निखिलमायाति ॥ स्त्क्_१०।२७ ॥*
पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति ।*
इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् ।*
कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् ॥ स्त्क्_१०।२८ ॥*
नाडीचक्रप्रकरणं दशमम्
११
स जीवो जीवलोकस्य ज्ञायते ऽध्यात्मगो यथा ।
संशयो मे महादेव प्रसादीभव शूलधृक् ॥ स्त्क्_११।१ ॥
जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख ।
कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः ॥ स्त्क्_११।२ ॥
सङ्क्रान्तिं विषुवं चैव अहोरात्रायनानि च ।
अधिमासमृणं चापि ऊनरात्रं धनं तथा ॥ स्त्क्_११।३ ॥
ऊनरात्रं क्षुतं ज्ञेयम् अधिमासो विजृम्भिका ।
ऋणं च कासो विज्ञेयो निश्वासो धनमुच्यते ॥ स्त्क्_११।४ ॥
उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंस्थितम् ।
मध्ये तु विषुवत्प्रोक्तं पुटद्वयविनिःसृतम् ॥ स्त्क्_११।५ ॥
सङ्क्रान्तिः पुनरस्यैव स्वस्थानात्स्थान एव च ।
इडा च पिङ्गला चैव अमा चैव तृतीयका ॥ स्त्क्_११।६ ॥
सुषुम्ना मध्यमे ह्यङ्गे इडा वामे प्रकीर्तिता ।
पिङ्गला दक्षिणे ह्यङ्गे एषु सङ्क्रान्तिरुच्यते ॥ स्त्क्_११।७ ॥
ऊर्ध्वं प्राणो ह्यहः प्रोक्तः अपानो रात्रिरुचय्ते ।
८अब् = निश्वास-उत्तरसूत्र ५:१७च्द्
विभागा दश प्राणस्य यो वेत्त्येवं स वेदवित् ॥ स्त्क्_११।८ ॥
आयामो देहमध्यस्थः सोमग्रहणमिष्यते ।
देहातीतं तु तं विद्याद् आदित्यग्रहणं बुधः ॥ स्त्क्_११।९ ॥
अयुते द्वे सहस्रं तु षट्शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः ॥ स्त्क्_११।१० ॥
प्राणायामं समासेन कथयामि तवाखिलम् ।
उच्चारयेत्तु प्रणवं स्वरेणैकेन योगवित् ॥ स्त्क्_११।११ ॥
उदरं पूरयित्वा तु वायुना यावदीप्सितम् ।
प्राणायामो भवेदेष पूरको देहपूरकः ॥ स्त्क्_११।१२ ॥
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।
सम्पूर्णकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः ॥ स्त्क्_११।१३ ॥
मुञ्चेद्वायुं ततश्चोर्ध्वं श्वासेनैकेन योगवित् ।
निश्वासयोगयुक्तस्तु यावदूर्ध्वं स रेचयेत् ॥ स्त्क्_११।१४ ॥
रेचकस्त्वेष विख्यातः प्राणसंशयकारकः ।
यत्तद्धृदि सदा पद्मम् अधोमुखमवस्थितम् ॥ स्त्क्_११।१५ ॥
विकसत्येतदूर्ध्वं तु पूरकेण तु पूरितम् ।
ऊर्ध्वस्रोतो भवेत्पद्मं कुम्भकेन निरोधितम् ॥ स्त्क्_११।१६ ॥
रेचकेन तथा क्षिप्तं सद्यःप्राणहरेण तु ।
च्फ़्। किर् ५९:१
मुक्त्वा हृदयपद्मं तु ऊर्ध्वस्रोतोव्यवस्थितम् ॥ स्त्क्_११।१७ ॥
रेचितो गच्छति ह्यूर्ध्वं ग्रन्थिं भित्त्वा क्षणेन तु ।
भित्त्वा कपालद्वारं तु जीवो ह्यूर्ध्वं तु रेचितः ॥ स्त्क्_११।१८ ॥
सदाशिवपदं गत्वा न भूयो जन्म चाप्नुयात् ।
आयामः क्रियते तस्य नान्यस्य तु कदाचन ।
स जीवो जीवलोकस्य मया प्रोक्तः समासतः ॥ स्त्क्_११।१९ ॥
इत्येकादशः पटलः
१२
चन्द्राग्निरिव संयुक्ता आद्या कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवत्स्थिता ॥ स्त्क्_१२।१ ॥
सृष्टिन्यासं न्यसेत्तत्र द्विरभ्यासपदेरितम् ।
स्रवन्तं चिन्तयेत्तस्मिन्न् अमृतं साधकोत्तमः ॥ स्त्क्_१२।२ ॥
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
चिन्तयेद्विपरीतं तु सिद्धिकामः समाहितः ॥ स्त्क्_१२।३ ॥
स्वदेहं चिन्तयेद्विद्वान् दिव्यरूपमनौपमम् ।
यस्य यत्कर्म चोद्दिष्टं तत्कर्म परिचिन्तयेत् ॥ स्त्क्_१२।४ ॥
इदं च यो ऽभ्यसेदेवम् अमृतं सर्वतोमुखम् ।
अचिरेणैव कालेन स सिद्धिफलभाग्भवेत् ॥ स्त्क्_१२।५ ॥
सृष्टिन्यासमविज्ञाय कथं युञ्जीत साधकः ।
हन्यान्मुष्टिभिराकाशं तुषान्कुट्टयतीव सः ॥ स्त्क्_१२।६ ॥
इति द्वादशः पटलः
१३ मन्त्रसृष्टिप्रकरणम्
अथातः सम्प्रवक्ष्यामि सृष्टिं मन्त्रलिपेः क्रमात् ।
यथा तु सकलो देवो निष्कलेन समन्वितः ॥ स्त्क्_१३।१ ॥
कलामुत्पादयामास सर्वमन्त्रप्रवर्तिकाम् ।
ओङ्कारमूर्ध्नि मध्यस्थ ओङ्कारव्यापकस्तथा ॥ स्त्क्_१३।२ ॥
ओङ्कारप्रथमां रेखां सृजति प्रभुः(?) ।
विद्या नाम कला सा तु वर्णे वर्णे व्यवस्थिता ॥ स्त्क्_१३।३ ॥
ओङ्कारस्य उकाराभा रेखा या सम्प्रदृश्यते ।
प्रतिष्ठा नाम सा ज्ञेया उकाराक्षरसम्भवा ॥ स्त्क्_१३।४ ॥
मूर्ध्नि तस्य भवेद्यासौ सूक्ष्मरेखा निरञ्जना ।
मकारो ह्यभवत्तत्र निवृत्तिर्नाम सा कला ॥ स्त्क्_१३।५ ॥
ओङ्कारमूर्ध्नि संयुक्ता लय ओङ्कारमूर्धनि ।
रेखेयं व्योम्नि निर्वाणा सा कला शान्तिरुच्यते ॥ स्त्क्_१३।६ ॥
संयोगात्सम्प्रकाशेत निष्कले सकले स्थिता ।
मूर्धन्याक्रान ओङ्कारे शब्दस्तत्र तु जायते ॥ स्त्क्_१३।७ ॥
सा शक्तिः परमा सूक्ष्मा बिन्दुना सहिता मता ।
दीपादिव महत्तेजो विस्फुलिङ्गशिखान्वितम् ॥ स्त्क्_१३।८ ॥
निपतन्ती त्रिधा याति शिवविद्यात्मकैर्यथा ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः ॥ स्त्क्_१३।९ ॥
या कला रेखिनी तत्र पतिता बिन्दुना सह ।
सविद्येशः शिवः प्रोक्तो देवदेवः सदाशिवः ॥ स्त्क्_१३।१० ॥
प्रथमं तस्य तद्बीजं नादबिन्दुरितीरितम् ।
न जहाति परं स्थानं शाश्वतं ध्रुवमव्ययम् ॥ स्त्क्_१३।११ ॥
बिन्दुं तदुदरे क्षिप्त्वा मातृवत्परिरक्षति ।
तस्योर्ध्वं वामपार्श्वे ऽथ विष्णुबीजं प्रतिष्ठितम् ॥ स्त्क्_१३।१२ ॥
दक्षिणं ब्रह्मयोनिस्थम् एकमेव त्रिधा स्थितम् ।
पार्श्वबिन्दुद्वयोपेता सा रेखा मध्यतः स्थिता ॥ स्त्क्_१३।१३ ॥
तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शङ्करः ।
तद्बीजं परमं देवं शक्तिगर्भो महेश्वरः ॥ स्त्क्_१३।१४ ॥
यतः प्रवर्तते सर्वं मन्त्रतन्त्रं चराचरम् ।
अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् ॥ स्त्क्_१३।१५ ॥
शिवं त्वनादिनिधनं यं बुद्ध्वा नाभिजायते ।
दक्षिणस्थं हि यद्बीजं ज्ञानशक्तिः परा हि सा ॥ स्त्क्_१३।१६ ॥
तद्बीजमपरं ब्रह्मा यत्र गूढः स तिष्ठति ।
वामगो ऽथ परो बिन्दुः क्रियाशक्तिः परा हि सा ॥ स्त्क्_१३।१७ ॥
तत्र विष्णुः स्वयं बीजे गूढः सूक्ष्मो निरञ्जनः ।
एष देवो ऽपि सर्गस्थो विसृष्टो यः स शम्भुना ॥ स्त्क्_१३।१८ ॥
निगूढत्वान्न पश्यन्ति येन सृष्टं चराचरम् ।
विसर्गाज्जायते सृष्टिर् ईश्वरः प्रभुरेव सः ॥ स्त्क्_१३।१९ ॥
विसृष्टं येन तद्बीजं विसर्गस्तेन चोच्यते ।
तेन चापूरितमिदं जगत्सर्वं च तन्मयम् ॥ स्त्क्_१३।२० ॥
शक्तिरश्मिसमूहेन शतशो ऽथ सहस्रशः ।
सृजति ग्रसति ह्येष संयोजकवियोजकः ॥ स्त्क्_१३।२१ ॥
ज्ञानशक्त्या च भगवान् अनुगृह्णाति वै शिवः ।
विसर्गाच्च भवेत्सृष्टिः संहारो बिन्दुना सह ।
निर्वाणं तत्त्वविज्ञानं तन्त्रविस्तारगोचरः ॥ स्त्क्_१३।२२ ॥
मन्त्रसृष्टिप्रकरणम्
१४ गतिभ्रंशप्रकरणम्
संहारश्चैव सृष्टिश्च सर्वं निगदितं प्रभो ।
दीक्षितानां गतिभ्रंशं सङ्क्षेपात् कथयस्व मे ॥ स्त्क्_१४।१ ॥
मायाविनि शठे क्रूरे निःसत्त्वे कलहप्रिये ।
गतिभ्रंशकरे योगे तत्त्वं तच्छृणु षण्मुख ॥ स्त्क्_१४।२ ॥
विधाय मूर्ध्नि क्षिप्तस्य आयामे शशिनः क्रमात् ।
पूर्ववन्मनसालोक्य गतिं तस्य निवर्तयेत् ॥ स्त्क्_१४।३ ॥
संहारसम्पुटं कूटम् आदावन्ते षडानन ।
मातृकायां शतं हुत्वा एकैकस्य पृथक् पृथक् ॥ स्त्क्_१४।४ ॥
गतिभ्रंशप्रकरणम्
१५ प्रासादभेदप्रकरणम्
प्रासादं नादमुत्थाप्य जपेद्यः सततं नरः ।
षण्मासात्प्राप्नुयात्सिद्धिं योगयुक्तो न संशयः ॥ स्त्क्_१५।१ ॥
गमागमस्य जपतः सर्वपापक्षयो भवेत् ।
अणिमादिगुणैश्वर्यं षण्मासैस्तु न संशयः ॥ स्त्क्_१५।२ ॥
गमागमं विदित्वा तु मुच्यते नात्र संशयः ।
तन्मयस्तल्लयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् ॥ स्त्क्_१५।३ ॥
स्थूलः सूक्ष्मः परश्चैव प्रासादः कथितो मया ।
प्रासादं ये न बुध्यन्ति ते न बुध्यन्ति शङ्करम् ॥ स्त्क्_१५।४ ॥
प्रासादभेदप्रकरणम्
१६ प्रासादलक्षणप्रकरणं
अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् ।
ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा ॥ स्त्क्_१६।१ ॥
ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।
आप्यायने प्लुतश्चैव बिन्दुना मूर्ध्नि भूषितः ॥ स्त्क्_१६।२ ॥
स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे ।
प्लुतेन तु सदा वश्यं कुरुते नात्र संशयः ॥ स्त्क्_१६।३ ॥
दीर्घस्तूच्चाटयेत्क्षिप्रं फट्कारेण न संशयः ।
आदावन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः ॥ स्त्क्_१६।४ ॥
आदावन्ते च हृदय- योग आकर्षणे स्मृतः ।
आकर्षयेद्ध्रुवं युक्तो योजनानां शते स्थितम् ॥ स्त्क्_१६।५ ॥
एवमाकर्षयेत्साध्यं नाम विज्ञाय तत्त्वतः ।
साधकस्य भवेद्बह्वी न्यूना साध्यस्य कीर्तिता ॥ स्त्क्_१६।६ ॥
एवं विदित्वा मेधावी आकर्षं कुरुते ध्रुवम् ।
अविज्ञाय त्विदं सम्यङ् नैव सिद्ध्यते सर्वदा ॥ स्त्क्_१६।७ ॥
यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घ्यं च दापयेत् ।
अर्घ्यं दत्त्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः ॥ स्त्क्_१६।८ ॥
देवस्य दक्षिणे भागे पञ्चलक्षं स्थितो जपेत् ।
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् ॥ स्त्क्_१६।९ ॥
एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः ।
उक्तानुक्तानि कर्माणि सिद्धिं यान्ति न संशयः ॥ स्त्क्_१६।१० ॥
दशलक्षाणि जपतो जनाः स्वस्थानवासिनः ।
वशमायान्ति ते क्षिप्रम् इति शास्त्रस्य निश्चयः ॥ स्त्क्_१६।११ ॥
त्रिपञ्चलक्षं जपतो दशग्रामनिवासिनः ।
ते जना वशमायान्ति आत्मना च धनेन च ॥ स्त्क्_१६।१२ ॥
एवं विंशतिभिर्लक्षैः प्रासादस्य षडानन ।
देशदेशाधिपान्मन्त्री नियतं वशमानयेत् ॥ स्त्क्_१६।१३ ॥
लक्षाणां पञ्चविंशत्या विषयं वशमानयेत् ।
त्रिंशल्लक्षजपादस्य वशो वै मण्डली भवेत् ॥ स्त्क्_१६।१४ ॥
पञ्चत्रिंशच्च लक्षाणि जपन्पृथ्वीं वशं नयेत् ।
चत्वारिंशज्जपाद्देवम् ईक्षते हाटकेश्वरम् ॥ स्त्क्_१६।१५ ॥
लक्षाणि जप्त्वा पञ्चाशद्- विद्याधरसमो भवेत् ।
तत्रैव मोदते मन्त्री यावदाभूतसम्प्लवम् ॥ स्त्क्_१६।१६ ॥
प्रासादलक्षणप्रकरणं षोडशम्
इति षोडशः पटलः
१७ विज्ञानप्रकरणम्
अद्यापि संशयो देव ज्ञानविज्ञानयोः स्फुटम् ।
कथं वा ज्ञायते ज्ञानं कथं वा ज्ञेयमुच्यते ॥ स्त्क्_१७।१ ॥
विज्ञाय पूर्वमाधारं पश्चादाधेयमेव च ।
आधाराधेयवित्प्राज्ञः समर्थः सर्वकर्मसु ॥ स्त्क्_१७।२ ॥
आधारः पुरमित्युक्तम् आधेयस्त्वीश उच्यते ।
ईशं विज्ञाय मेधावी सदा यो नन्दति स्वयम् ॥ स्त्क्_१७।३ ॥
पुर्यष्टकसमायुक्तो ह्यध ऊर्ध्वं स गच्छति ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् ॥ स्त्क्_१७।४ ॥
बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् ।
नोते थत् थिस् देफ़िनितिओन् ओफ़् थे पुर्यष्टक इस् नोत्
अच्चेप्तेद् ब्य् रम् wइथोउत् चोन्सिदेरब्ले दिस्तोर्तिओन्।
यावदेतैर्न निर्मुक्तः कथं मुच्येत बन्धनात् ॥ स्त्क्_१७।५ ॥
ब्रह्मणि स्पर्शशब्दौ तु रसं वै केशवे त्यजेत् ।
रूपगन्धौ त्यजेद्रुद्रे बुद्ध्यहङ्कारमीश्वरे ।
मनो बिन्दुं शिवे त्यक्त्वा एभिर्मुक्तः शिवं व्रजेत् ॥ स्त्क्_१७।६ ॥
विज्ञानप्रकरणम्
इति सप्तदशः पटलः
१८ कालचक्रप्रकरणम्
कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः ।
कालचक्रमिति ख्यातं येन कालः प्रबुध्यते ॥ स्त्क्_१८।१ ॥
त्र्यहोरात्रप्रचारेण त्रीण्यब्दानि स जीवति ।
द्व्यहोरात्रप्रचारेण जीवेद्वर्षद्वयं तु सः ॥ स्त्क्_१८।२ ॥
अहोरात्रप्रचारेण अब्दमेकं स जीवति ।
अहरेकं व्रजेद्यस्य रात्रिमेकां तथैव च ॥ स्त्क्_१८।३ ॥
षण्मासाज्जायते मृत्युर् इति शास्त्रस्य निश्चयः ।
द्वितीयस्यानुचारेण अहोरात्रं स जीवति ॥ स्त्क्_१८।४ ॥
यथा चाद्या तथा वामा मध्यमा च तथैव च ।
कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः ॥ स्त्क्_१८।५ ॥
कालचक्रप्रकरणम्
इति अष्टादशः पटलः
१९ शिवभेदाष्टकप्रतिपादनप्रकरणम्
पूर्वमेवं प्रतिज्ञातं शिवभेदो ऽष्टधा स्थितः ।
कथं भिद्येत देवेश तत्त्वतः कथय प्रभो ॥ स्त्क्_१९।१ ॥
सकलं निष्कलं शून्यं कलाढ्यं खमलङ्कृतम् ।
क्षपणं च तथान्तस्थं कण्ठोष्ठ्यं चाष्टमं विदुः ॥ स्त्क्_१९।२ ॥
थिस् वेर्से इस् निस्मुल ६:६ (फ़्।२१वेर्सो, लिने २) [रेअदिन्ग् स्मृतम् फ़ोर् विदुः]
प्रासादं षष्ठसंयुक्तं षडन्तेन समन्वितम् ।
३ब् = निस्मुल ६:७ब्
सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् ॥ स्त्क्_१९।३ ॥
३च्द् = निस्मुल ६:७च्द् [wइथ् @देहस्थं फ़ोर् @भूतस्थम्]
निष्क्रामति स्वयं देवो देहं त्यक्त्वा समारुतः ।
निष्कलं तं विजानीयात् षड्वर्णरहितं शिवम् ॥ स्त्क्_१९।४ ॥
४अब्च्द् = निस्मुल ६:८
निश्वासोच्छ्वसने हित्वा स्थितो देहे तु काष्ठवत् ।
शून्यं तं तु विजानीयाद् धृदयेन तु भावयेत् ॥ स्त्क्_१९।५ ॥
५अब्च्द् = निस्मुल ६:९
चुम्बाकारेण वक्त्रेण यत्तत्त्वं परिकीर्तितम् ।
कलाढ्यं तं विजानीयाद् आकाशस्थमथ शृणु ॥ स्त्क्_१९।६ ॥
ऐश त्रेअत्मेन्त् ओफ़् ऋ इन् शृणु [मकिन्ग् थे प्रेविओउस् स्य्ल्लब्ले लोन्ग्]
६अच्द् = निस्मुल ६:१०अच्द्
ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्तितम् ।
तत्रस्थं तं विजानीयाद् आकाशेन त्वलङ्कृतम् ॥ स्त्क्_१९।७ ॥
७अब्च्द् = निस्मुल ६:११
व्यावृतेनैव वक्त्रेण ब्रूयदेवं जगद्गुरुम् ।
दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणं स्मृतम् ॥ स्त्क्_१९।८ ॥
८अब्च्द् = निस्मुल ६:१२
अधोनादस्य क्षीणस्य यदन्तं परिकीर्तितम् ।
अन्तस्थं तं विजानीयाद् अनुच्चार्यं प्रकीर्तितम् ॥ स्त्क्_१९।९ ॥
९अब्च्द् = निस्मुल ६:१३
सप्तवर्गाष्टमं कोटिः सप्तमस्य द्वितीयकम् ।
वर्गातीतं षडन्तं च सप्तमात्त्रिचतुर्थकम् ॥ स्त्क्_१९।१० ॥
१० = निस्मुल ६:१४
आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु ।
खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् ॥ स्त्क्_१९।११ ॥
११ = निस्मुल ६:१५
एते भेदाः समाख्याता अणिमादिप्रसाधने ।
अनुच्चार्यमसन्दिग्धं मोक्ष इत्यभिधीयते ॥ स्त्क्_१९।१२ ॥
शिवभेदाष्टकप्रतिपादनप्रकरणम्
इत्येकोनविंशः पटलः
२० व्याप्तिप्रकरणम्
कथं व्यापी अधश्चोर्ध्वं तिर्यक् चैव कथं भवेत् ।
एतन्मे ब्रूहि तत्त्वेन कारुण्यात्त्वं महेश्वर ॥ स्त्क्_२०।१ ॥
यावद्देहे स्थितो जन्तोर् अधस्तावद्व्यवस्थितः ।
निर्गतो व्यापयेत्तिर्यग्- अन्तस्थः सर्वतः स्थितः ॥ स्त्क्_२०।२ ॥
त्रिमार्गावस्थितो देवः सर्वदेहेषु वर्तते ।
अविदित्वा न मुच्येत यद्यप्येतल्लयो भवेत् ॥ स्त्क्_२०।३ ॥
तत्त्रिमार्गं त्र्यधिष्ठानं सर्वदेहेषु वर्तते ।
यो वेत्त्येवमिमां व्याप्तिं सर्वव्यापी न संशयः ॥ स्त्क्_२०।४ ॥
न तस्य गर्भसम्भूतिर् यथा देवः प्रभाषते ।
तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति ॥ स्त्क्_२०।५ ॥
विदित्वा व्यापिनं जीवं मुच्यते नात्र संशयः ।
यथा तृणजलूका नु तृणाग्रं यावदागता ॥ स्त्क्_२०।६ ॥
उपरिष्टान्निरालम्बा तद्वज्जीवो ऽत्र संस्थितः ।
ऊर्ध्वशून्यमधः शून्यं शून्यं देहान्तरस्थितम् ॥ स्त्क्_२०।७ ॥
त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं गुह ।
व्याप्तिश्चास्य मया प्रोक्ता सङ्क्षेपान्न तु विस्तरात् ।
अतः परतरं नास्ति व्यापकं व्यापकस्य तु ॥ स्त्क्_२०।८ ॥
व्याप्तिप्रकरणम्
इति विंशः पटलः
२१ प्रत्ययप्रकरणम्
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा ।
अनग्निज्वलनं चैव वृक्षस्यालभनं तथा ॥ स्त्क्_२१।१ ॥
पाशानां स्तोभनं चैव महापातकनाशनम् ।
विषसंहरणं चैव निर्बीजकरणं तथा ॥ स्त्क्_२१।२ ॥
ग्रहज्वरविनाशश्च प्रत्ययो ऽष्टविधः स्मृतः ।
एवं ज्ञात्वा तु विधिवत् ख्यातिः सर्वत्र जायते ॥ स्त्क्_२१।३ ॥
प्रणवेनाग्निमध्यस्थो हकारो ह्रीं तथैव च ।
आदिरों च नमश्चान्ते अनग्निज्वलने हितम् ॥ स्त्क्_२१।४ ॥
अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम् ।
पञ्चाक्षरप्रयोगेण ज्वलत्येव न संशयः ॥ स्त्क्_२१।५ ॥
ओङ्कारः सर्वतो ऽधस्ताद् रेफस्तस्योर्ध्वतः स्थितः ।
पूर्ववत्सम्प्रयुक्तो ऽयं प्रयोगो भुवि दुर्लभः ॥ स्त्क्_२१।६ ॥
शतैः सप्तभिरुद्घातैर् आलब्धो म्रियते द्रुमः ।
भूयस्श्चाप्यायनं तस्य वारुणे स्रोतसि स्थितम् ॥ स्त्क्_२१।७ ॥
स जीवति पुनर्वृक्षो यथापूर्वं तथैव सः ।
तादृगेव पुनश्चासौ किं तु रेफविवर्जितः ॥ स्त्क्_२१।८ ॥
आप्यायनविधौ ह्येष पञ्चधा बिन्दुदीपितः ।
औकारमध्यसंयुक्तः प्रणवेनान्तदीपितः ॥ स्त्क्_२१।९ ॥
ईकारादिः स हौ मध्ये वह्निमध्यं ततः परम् ।
प्रयोगो विषुवत्काले पाशानां स्तोभकारकः ॥ स्त्क्_२१।१० ॥
शतैः पञ्चभिरुद्घातैः पतत्येव न संशयः ।
पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु ॥ स्त्क्_२१।११ ॥
ईकाराद्यन्तसंयुक्तं हौ च मध्ये नियोजितम् ।
प्राणानुस्वारसन्दीप्तं नमो ऽन्तं प्रणवं पुनः ॥ स्त्क्_२१।१२ ॥
उत्थापने प्रयुञ्जीत सर्वभूतेषु तत्त्ववित् ।
तावद्भिरेव चोद्घातैर् योजनीयः प्रयत्नतः ॥ स्त्क्_२१।१३ ॥
लबीजं जीवसंविष्टं हकाराद्यन्तसंस्थितम् ।
पूर्ववन्मध्यसंस्थं च वायुबिन्दुसमन्वितम् ॥ स्त्क्_२१।१४ ॥
यदस्यारोहणे प्रोक्तं गुरुत्वं जायते यथा ।
भूय एव प्रवक्ष्यामि लघुत्वं जायते यथा ॥ स्त्क्_२१।१५ ॥
ओङ्कारो हं यकारेण ह्यौकारो हं नमस्तथा ।
तुलापुरुषयोगो ऽयम् उद्घातैरयुतेन तु ॥ स्त्क्_२१।१६ ॥
स हकारो वकारेण यकारेण च दीपितः ।
ह्यौ मध्ये ह्लीं नमश्चान्ते वारुणेन तु बुद्धिमत् ॥ स्त्क्_२१।१७ ॥
उद्घाताष्टशतेनैव विषं संहरति ध्रुवम् ।
यथाग्निज्वलने दृष्टो निर्बीजकरणे तथा ॥ स्त्क्_२१।१८ ॥
शतैः पञ्चभिरुद्घातैर् विशेषो ऽत्र विधीयते ।
ओङ्कारमादितः कृत्वा ह्रूङ्कारं तदनन्तरम् ॥ स्त्क्_२१।१९ ॥
ह्रौं ह्रूं च फण्णमश्चान्ते ग्रहाणां नाशने मतः ।
प्रयोगे वारुणे मार्गे उद्घाताष्टशतेन तु ॥ स्त्क्_२१।२० ॥
प्रणवादि ततो हुं फट् हुं फट् हुं फट् तथैव च ।
फट् फट् फट् फट् फडेवं स्याद् वारुणेन तु बुद्धिमान् ।
उद्घाताष्टशतेनैव क्षिप्रं नाशयति ज्वरम् ॥ स्त्क्_२१।२१ ॥
प्रत्ययप्रकरणम्
इत्येकविंशः पटलः
२२ प्रासादनिर्णयप्रकरणम्
प्रासादः कीदृशो ज्ञेयो व्याप्तिस्तस्य च कीदृशी ।
शरीरं कीदृशं तस्य कथयस्व महेश्वर ॥ स्त्क्_२२।१ ॥
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम् ।
अष्टत्रिंशत्कलोपेतं नासावाचार्य उच्यते ॥ स्त्क्_२२।२ ॥
प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते गुरुः ।
अधस्ताच्छिष्यमात्मानं नयत्यत्र न संशयः ॥ स्त्क्_२२।३ ॥
प्रासादाब्जशिखान्तस्थो यस्तु दीक्षां करोति सः ।
आचार्यः सह शिष्येण शिवसायुज्यमाप्नुयात् ॥ स्त्क्_२२।४ ॥
ब्रह्मा विष्णुश्च रुद्रश्च इन्द्रश्चन्द्रो बृहस्पतिः ।
प्रजापतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा ॥ स्त्क्_२२।५ ॥
ये चान्ये प्राणिनो देवाः सर्वे प्रोक्ताः प्रसादजाः ।
एते चान्ये च बहवो मुनयः संशितव्रताः ॥ स्त्क्_२२।६ ॥
ध्यायन्ति परमं हंसं प्रासादं नामरूपतः ।
विभागं चास्य वक्ष्यामि यं ध्यात्वामृतमश्नुते ॥ स्त्क्_२२।७ ॥
सद्यः कलाष्टसंयुक्तम् अकाराक्षरजं विदुः ।
विद्यादुकारजं वामम् अघोरं च मकारजम् ॥ स्त्क्_२२।८ ॥
बिन्दुजः पुरुषो ज्ञेय ईशानस्तु शिखात्मजः ।
एवं मन्त्रास्तु पञ्चैते प्रासादात्सम्भवन्ति ये ॥ स्त्क्_२२।९ ॥
दशकोटिः सहस्राणां मन्त्राणाममितौजसाम् ।
इष्टेन तु प्रसादेन सर्व इष्टा न संशयः ॥ स्त्क्_२२।१० ॥
मारुता नव शक्त्याद्या ये मन्त्राः परिकीर्तिताः ।
प्रासादाब्जसमुत्पन्नाः सर्वे चामोघशक्तयः ॥ स्त्क्_२२।११ ॥
सद्यस्तु पृथिवी ज्ञेयो वामो ह्यापः प्रकीर्तितः ।
अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः ॥ स्त्क्_२२।१२ ॥
आकाशस्तु भवेदीशः स्वयं देवो महेश्वरः ।
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ॥ स्त्क्_२२।१३ ॥
अघोरः सामवेदः स्याद् अथर्वः पुरुषः स्मृतः ।
पञ्चमस्तु परः सूक्ष्मो व्योमव्यापी सदाशिवः ॥ स्त्क्_२२।१४ ॥
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ।
अघोरो रुद्रदैवत्य ईश्वरः पुरुषः स्मृतः ॥ स्त्क्_२२।१५ ॥
ईशानः शिवदैवत्यो हृदयादाववस्थितः ।
षष्ठं तु यत्परं तत्त्वम् असादृश्यगुणैः स्थितम् ॥ स्त्क्_२२।१६ ॥
तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः ।
ज्ञात्वा परमनिःश्रेणीं पञ्चसंस्थानगामिनीम् ॥ स्त्क्_२२।१७ ॥
ज्ञातमेव सकृद्येन विस्तृतं तु तदेव तत् ।
तत्काल एव मुक्तो ऽसौ यदा ज्ञातं हि तत्पदम् ॥ स्त्क्_२२।१८ ॥
प्रासादनिर्णयप्रकरणम्
इति द्वाविंशः पटलः
२३ ज्ञानामृतप्रकरणम्
शृणु षण्मुख तत्त्वेन ज्ञानामृतमनुत्तमम् ।
यन्न कस्यचिदाख्यातं नाख्येयं कथयामि तत् ॥ स्त्क्_२३।१ ॥
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः ।
आप्तोपदेशगम्यो ऽसौ सर्वतः किमपि स्थितः ॥ स्त्क्_२३।२ ॥
हम्स हंसेति यो ब्रूयद् धंसो देवः सदाशिवः ।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखः ॥ स्त्क्_२३।३ ॥
तिलेषु च यथा तैलं पुष्पे गन्ध इव स्थितः ।
पुरुषस्तु शरीरे ऽस्मिन् सबाह्याभ्यन्तरे स्थितः ॥ स्त्क्_२३।४ ॥
उल्काहस्तो यथा कश्चिद् द्रव्यमालोक्य तां त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य तथा ज्ञानं परित्यजेत् ॥ स्त्क्_२३।५ ॥
पुष्पं तु सकलं विद्याद् गन्धस्तस्य तु निष्कलः ।
वृक्षं तु सकलं विद्याच् छाया तस्य तु निष्कला ॥ स्त्क्_२३।६ ॥
सकले निष्कलो भावः सर्वत्रैव व्यवस्थितः ।
उपायः सकलस्तद्वद् उपेयश्चैव निष्कलः ॥ स्त्क्_२३।७ ॥
सकले सकलो भावो निष्कले निष्कलस्तथा ।
त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च ॥ स्त्क्_२३।८ ॥
अर्धमात्रा परा सूक्ष्मा तस्या ऊर्ध्वं परात्परम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव वा ॥ स्त्क्_२३।९ ॥
पञ्चधा पञ्चदैवत्यः सकलः परिपठ्यते ।
ब्रह्मणो हृदयं स्थानं कण्ठे विष्णुः समाश्रितः ॥ स्त्क्_२३।१० ॥
तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ।
नासाग्रे तु शिवं विद्यात् तस्यान्ते तु परं पदम् ॥ स्त्क्_२३।११ ॥
नासाग्रे म्स्स् इ,ई,उ,मु; नादान्ते भत्त्
परस्मात्तु परं नास्ति इति शास्त्रस्य निश्चयः ।
गमागमः कथं तस्य केन वा नीयते तु सः ॥ स्त्क्_२३।१२ ॥
संशयो मे महादेव कथयस्व यथार्थतः ।
शक्त्या तु नीयते जीवस् तस्मिन्प्राप्य निवर्तते ॥ स्त्क्_२३।१३ ॥
अस्यान्तं ते प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः ।
देहातीतं तु तद्विद्यान् नासाग्रे द्वादशाङ्गुलम् ॥ स्त्क्_२३।१४ ॥
तदन्तं तद्विजानीयात् तत्रस्थो व्यापयेत्प्रभुः ।
मनो ऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् ॥ स्त्क्_२३।१५ ॥
तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ।
एतत्तत्परमं गुह्यम् एतत्तत्परमाक्षरम् ॥ स्त्क्_२३।१६ ॥
नातः परतरं किञ्चिन् नातः परतरं शिवम् ।
नातः परतरं ज्ञानम् इत्याह भगवाञ्शिवः ॥ स्त्क्_२३।१७ ॥
शिवज्ञानामृतं प्राप्य सङ्क्षेपान्न तु विस्तरात् ।
कथितो देवदेवेन परमाक्षरनिर्णयः ॥ स्त्क्_२३।१८ ॥
एतत्ते शिवसद्भावं शिववक्त्राद्विनिःसृतम् ।
गुह्याद्गुह्यतमं गुह्यं गूहनीयं प्रयत्नतः ॥ स्त्क्_२३।१९ ॥
नाशिष्याय प्रदातव्यं नापुत्राय कदाचन ।
गुरुदेवाग्निभक्ताय नित्यं मुक्तिरताय च ॥ स्त्क्_२३।२० ॥
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् ।
दातास्य नरकं याति सिद्ध्येच्च न कदाचन ॥ स्त्क्_२३।२१ ॥
शिवामृतं मया ख्यातं सत्यं सत्यमिदं तव ।
एवं ज्ञात्वा तु मेधावी विचरेत्तु यथासुखम् ॥ स्त्क्_२३।२२ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भैक्षुकः ।
यत्र यत्र स्थितो ज्ञानी परमाक्षरवित् सदा ॥ स्त्क्_२३।२३ ॥
विषयी विषयासक्तो याति देहान्तके शिवम् ।
ज्ञानादेवास्य शास्त्रस्य सर्वावस्थो ऽपि मानवः ॥ स्त्क्_२३।२४ ॥
ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते ।
चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ स्त्क्_२३।२५ ॥
इत्येवं त्रिविधो ज्ञेय आचार्यस्तु महीतले ।
चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् ।
मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वामृतमश्नुते ॥ स्त्क्_२३।२६ ॥
ज्ञानामृतप्रकरणम्
इति त्रयोविंशः पटलः