५३

देव्युवाच

शीघ्रगं सलिलं यद्वत् जलं दहति पावकः ।
मारुतः प्रवहं ब्रूते मन्त्रिणं मोक्षकस्तथा ॥ १ ॥

केन मात्राविभागेन येन च च्छिवकृद्भवेत् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ २ ॥

ईश्वरः

त्रिभेदं कथयिष्यामि अक्षरस्यैव सुवृते ।

प्। ६११)

येन विज्ञातमात्रेण मुच्यते नात्र संशयः ॥ ३ ॥

एकारेण यदा सान्तं सम्भिन्नं वरवर्णिनी ।
बिन्दुनादेन ज्ञातव्यं शीघ्रगं सलिलं नदेत् ॥ ४ ॥

श्रुत्वा पापैः प्रमुच्यन्ते नात्र कार्या विचारणा ।
तेन विज्ञातमात्रेण अमृतत्वाय कल्पते ॥ ५ ॥

ह सुकारसमायुक्तो ज्वलन्निव समं नदेत् ।
आकारेण यदा भिन्नं देवदेवं सदातने ॥ ६ ॥

मारुतः प्रवहं ब्रूते मया पूर्वमुदाहृतम् ।
सीतकम्पेन ह्रस्वेन मुखेनैव करोति यः ॥ ७ ॥

एवं वेद्यस्वदेहे तु ज्ञात्वा पापक्षयो भवेत् ।

प्। ६१२)

ढ उकारविभागेन श्रुत्वा पापैर्विमुच्यते ॥ ८ ॥

ह आकारविभागेन ज्ञात्वा मुच्येत बन्धनात् ।
आकारेण तु विन्यस्य ध्यानादुत्क्रमते ध्रुवम् ॥ ९ ॥

संहतप्राणिकरणं सम्मुखं पर्यवस्थितम् ।
अधस्ताद्वायुना दीप्तमीकारं वह्निदेवतम् ॥ १० ॥

सप्ताहमभ्यसेद्देवि ज्योत्स्ना भावं स पश्यति ।
शृणोति विविधान् नादान् मासादभ्यन्तरेण तु ॥ ११ ॥

सिद्धगन्धर्वदेवांश्च तिर्यग्वायुपथे स्थितः ।
त्रिभिर्मासैस्स पश्येत प्रत्यक्षं सर्वतः स्थितम् ॥ १२ ॥

यदा संहरते मानं योगी प्राणमशेषतः ।

प्। ६१३)

अभ्यासेन तु देवेशि निश्चलः सम्प्रजायते ॥ १३ ॥

एष ते कथितो देवि आदिभिन्नस्य सुवृते ।
षण्मासानभ्यसेद्यस्तु उच्चामरपुरं व्रजेत् ॥ १४ ॥

इच्छया संहरेत्प्राणानिच्छया विकिरेत्पुनः ।
संवत्सरेण मुक्तात्मा भवेत्स्वच्छन्दमृत्युकः ॥ १५ ॥

उत्तिष्ठमादितः कृत्वा सर्वं सिद्ध्यति नान्यथा ।
ह्रस्वकारविभिन्नस्य शृणुष्व सुरसुन्दरि ॥ १६ ॥

रश्मिनाऽकर्षणं कुर्यात् स्वदेहेनैव योगवित् ।
उदरे रक्तवर्णन्तु मध्याह्ने तेजमालिनम् ॥ १७ ॥

तृतीये शीतरश्मिञ्च ध्यायेन्नित्यं स्वदेहतः ।

प्। ६१४)

अहन्यहनि चाभ्यासं कर्तव्यं योगिना प्रिये ॥ १८ ॥

अभ्यासमासमात्रेण पश्यते त्रिविधं पुटम् ।
योगमुत्पद्यते तस्य अचिरादेव योगिनः ॥ १९ ॥

रक्तेनाकर्षणं कुर्याद्देवदैत्यवराङ्गनाः ।
एवमादीनि चान्यानि कुर्यादाकर्षणानि च ॥ २० ॥

चित्तमाकर्षणञ्चैव सालभक्षास्तथैव हि ।
चित्तगृहाणि रम्याणि वाहिनीश्च तथैव च ॥ २१ ॥

शरीरव्याधि निर्नाशकुष्ठव्याधिक्षयं महत् ।
षण्मासयोगयुक्तस्य इत्येतत्समुदाहृतम् ॥ २२ ॥

संवत्सरेण योगीन्द्र उच्चावचपरा वपुः ।

प्। ६१५)

स्थूलात्स्थूलतरो भूत्वा सूक्ष्मात्सूक्ष्मतरः पुनः ॥ २३ ॥

स तनुर्वितनुश्चैव जायते नात्र संशयः ।
ह्रस्वका विभिन्नस्य कथितं तव शोभने ॥ २४ ॥

षड्वर्णेन विभिन्नस्य शृणु देवि वदाम्यहम् ।
सकृत्प्रभावविशदं चन्द्रार्कग्रहणं स्थितम् ॥ २५ ॥

विमनस्कं परं शान्तं केवलं तच्छिवात्मकम् ।
शून्यमाकाशभूतन्तु जरामृत्युविनाशनम् ॥ २६ ॥

अभ्यासमासमात्रेण शृणु देवि वदाम्यहम् ।
क्षुत्पिपासा विनिर्मुक्तो निर्द्वन्द्वच्छिन्न संशयः ॥ २७ ॥

देवगन्धर्वसिद्धाश्च त्रिभिर्मासैः स पश्यति ।

प्। ६१६)

देवैश्च सततं याति षण्मासाभ्यन्तरेण तु ॥ २८ ॥

संवत्सरेण युक्तात्मा योगिनस्सुसमाहितः ।
पश्यते देवि भूतेशं गणेशपरिवारितम् ॥ २९ ॥

स्वभावस्मरणाद्देवि कालक्षेपस्समुक्तिदः ।
ध्याननिर्मथनाद्देवि सिद्धिरुत्पद्यते ततः ॥ ३० ॥

एतत्त्रिभेदभिन्नस्य ज्ञानसिद्धिर्न संशयः ।

देव्युवाच

दूरस्थश्च समीपस्थः पीठस्थः पीठवर्जितः ॥ ३१ ॥

मलिनो निर्मलश्चेति त्वया पूर्वमुदाहृतः ।
किं दूरमन्तिको वाऽपि दूराद्दूरतरन्तु किम् ॥ ३२ ॥

प्। ६१७)

सन्निकृष्टं ततो देव भेदानि कथयस्व मे ।

ईश्वरः

अतिगुह्यतरं प्रश्नं केनचिन्नापि पृष्टवान् ॥ ३३ ॥

तदहं सम्प्रवक्ष्यामि साधकानां हिताय वै ।
दूरस्थं कथयिष्यामि सर्वयोगिहितावहम् ॥ ३४ ॥

येन विज्ञातमात्रेण आत्मा वै योग्यतां व्रजेत् ।
दशरूपा मया ख्याता सर्वे दृश्यन्ति शोभने ॥ ३५ ॥

विद्यातत्वेन ते प्रोक्ता बिन्दुतत्वे वरानने ।
खड्गेन गच्छतस्तस्य द्रष्टव्यं लक्षमुत्तमम् ॥ ३६ ॥

शीतरश्मिर्यथा सौम्यमभ्यासाज्जायते प्रिये ।

प्। ६१८)

बीजद्वयसमायोगाज्जायते नात्र संशयः ॥ ३७ ॥

रूपं तत्र मया देवि पूर्वन्तु कथितं तव ।
एतद्वारं मया ख्यातं ज्ञातव्यं तत्वचिन्तकैः ॥ ३८ ॥

समीपं दीपदृष्ट्या तु व्याख्यातं तव शोभने ।
तत्त्वया विदितं सर्वं मयापि कथितं तव ॥ ३९ ॥

पीठस्थं चक्षुषा ख्यातं मयापि कथितं पुरा ।
त्वया देवि तथा ज्ञातं किमन्यत्कथयामि ते ॥ ४० ॥

दूरस्थं दिव्यमित्याहुः समीपं दिव्यसञ्ज्ञितम् ।
पीठस्थं नयनं प्रोक्तं बिन्दुतत्वं समासतः ॥ ४१ ॥

देहस्थं मलिनं प्रोक्तं सर्वतत्वेषु शोभने ।

प्। ६१९)

ज्ञातव्यं योगिभिर्नित्यम् अधमं योगिसिद्धिदम् ॥ ४२ ॥

निर्मलो देहहीनस्तु ज्ञाते सिद्धिर्न संशयः ।
सर्वकर्माणि कर्तव्याण्याशु सिद्धिमवेप्सता ॥ ४३ ॥

निर्मलन्तु विनिर्दिष्ट सर्वतन्त्रेषु शोभने ।
शक्तिचेष्टाविकाराणि कुरुते नित्यमेव च ॥ ४४ ॥

सकलस्तु स विज्ञेयः शक्तिचेष्टा अदेहतः ।
दृश्या शक्तिरिति ख्याता त्वयापि विहिता तथा ॥ ४५ ॥

विज्ञानमपि शो ब्रूयान्नशोभमुपयात्यसौ ।
यथा बिन्दुर्मया ख्यातः शक्तिस्तु विदिता तथा ॥ ४६ ॥

प्रत्यक्षं भवते सूक्ष्मं सुसूक्ष्मं दिव्यमुच्यते ।

प्। ६२०)

उच्चारं दूरमित्युक्तं कथितं तव शोभने ॥ ४७ ॥

दूराध्यातमिति प्रोक्तं कथितन्तु मया तव ।
एतत्तस्मिन् मया ख्यातं परस्यैवापरस्य च ॥ ४८ ॥

त्वयापि विदितास्सर्वे सकलाः परमेश्वर ।
एतद्देवि रहस्यन्तु मया ख्यातं समासतः ॥ ४९ ॥

वेदितव्यं प्रयत्नेन गुरुमाराध्य यत्नतः ।
एतत्प्रश्नपरं देवि सर्वेषामपि चोत्तमम् ॥ ५० ॥

परीक्षा पूर्वमेवोक्तं दातव्यं तादृशाय तु ।

देव्युवाच

शक्तिचेष्टाविकारे तु यत्त्वयोक्तं महेश्वर ॥ ५१ ॥

प्। ६२१)

तेन युक्तानि चेष्टानि कुरुते कथयस्व मे ।

ईश्वरः

एतत्प्रश्नं परं देवि सर्वेषामपि चोत्तमम् ॥ ५२ ॥

तदहं सम्प्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
आधारो नाद इत्युक्तः स जीवः परिकीर्तितः ॥ ५३ ॥

तेजस्पर्शमृता शक्ति नादं व्याप्य व्यवस्थिता ।
स नादो बिन्दुमाश्रित्य शक्तिना प्रेरितो यदा ॥ ५४ ॥

तदा तत्क्षोभमायाति बिन्दुशक्त्या प्रचोदितः ।
बिन्दोर्वर्णाः समुद्भूताः यतः शास्त्रञ्च वाङ्मयम् ॥ ५५ ॥

शक्ता समरसी भूत्वा बिन्दुनादे व्यवस्थिताः ।

प्। ६२२)

सुषुप्त इव चात्मानं सुखदुःखं न बाधते ॥ ५६ ॥

बिन्दुदेवं तथैवेह ज्ञातव्यञ्चैव देहिना ।
सर्वज्ञानता शुद्धा शिवकायाद्विनिर्गता ॥ ५७ ॥

बिन्दुनादस्तत्वेषु चेष्टते परमेश्वरि ।
बिन्दुनादस्य या चेष्टा तत्वानाञ्चैव सुवृते ॥ ५८ ॥

ज्ञातव्या सा सदा तज्ज्ञैः शिवशक्तिसमन्विता ।
शक्तेः समरसो देवि कथितञ्चानुपूर्वशः ॥ ५९ ॥

बिन्दो रूपप्रकाशस्तु नादशब्दस्तु यत्स्मृतः ।
तत्सर्वं शक्तिना व्याप्तं वेदितव्यं प्रयत्नतः ॥ ६० ॥

बिन्दुनादो वरारोहे यदा शक्तिसमन्वितः ।

प्। ६२३)

त्रिभिरेव तु संयुक्तः स जीव इति कीर्तितः ॥ ६१ ॥

शिवशब्दो वरारोहे त्रिभिरेभिः प्रकीर्तितः ।
ईषत्स्पर्शसमायुक्त मुखनासापुटस्य तु ॥ ६२ ॥

सा शक्तिः कथिता देवि शिवतत्वे प्रकीर्तिताः ।
इति ते कथितं देवि शक्तेस्समरसं तथा ॥ ६३ ॥

परीक्षा पूर्वमेवोक्ता दातव्या तादृशाय तु ।

देव्युवाच

प्रणवत्त्रयन्तु देवेश योगाध्याये यदुक्तवान् ॥ ६४ ॥

तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।

ईश्वरः

प्। ६२४)

देहस्थं यजातान्तेषां व्योमस्थञ्च तथैव हि ॥ ६५ ॥

योगकाले च देवेशि प्रणवेन यजेत्सदा ।
अधस्तात्पञ्चतत्वानि ब्रह्मोङ्कारेण पूजयेत् ॥ ६६ ॥

विद्यातत्वे स्थिता ये तु रुद्रोङ्कारेण पूजयेत् ।
शिवतत्वे स्थिता ये तु निधनेन प्रपूजयेत् ॥ ६७ ॥

मानसं योगकाले तु पूजनीयः परः शिवः ।
शिवपूजाविधौ पश्चाद्योगं सेवेत योगवित् ॥ ६८ ॥

तत्वाद्या मया प्रोक्ता ब्रह्माद्यैश्च समायुताः ।
तेषां स्थलं पवित्राद्यं प्रणवेन तु दापयेत् ॥ ६९ ॥

देव्युवाच

प्। ६२५)

रूपस्पर्शादिशब्देभ्यः स्थिरकालास्सर्वतस्थिताः ? ।
यस्मिन् पूर्वाणि देवेश कस्मिन् स्पर्शः प्रतिष्ठितः ॥ ७० ॥

शब्दं कथय देवेश एतदिच्छामि वेदितुम् ।

ईश्वरः

जीवस्य भूतसंस्थस्य त्रिस्थाने शृणु दर्शनम् ॥ ७१ ॥

येन ज्ञातेन दृष्टेन श्रुतेन वरवर्णिनी ।
मुच्यते नात्र सन्देहः सिद्धिश्चैव न संशयः ॥ ७२ ॥

शुद्धस्फटिकसङ्काशं हृत्पद्मे तु विचिन्तयेत् ।
अङ्गुष्ठपर्वमात्रन्तु पञ्चवक्त्रं महेश्वरम् ॥ ७३ ॥

पूर्वोक्तविविधा रूपाः शिवस्य कथिता मया ।

प्। ६२६)

एतद्रूपं मया ख्यातं सर्वतन्त्रेषु सुवृते ॥ ७४ ॥

स्पर्शे च शृणु देवेशि कथयामि न संशयः ।
दिवारात्रविभागेन अयने विषुवे तथा ॥ ७५ ॥

सङ्क्रान्त्यादिषु देवेशि स्पर्शस्तु समुदाहृतः ।
उच्चारं स्पर्शमित्येते केचिदाहुर्मनीषिणः ॥ ७६ ॥

स्पर्शमन्ये वदन्त्येवं बिन्दुमन्ये तथैव च ।
इदं तेनाभिजानन्ते विवदन्ति परस्परम् ॥ ७७ ॥

शब्दाशयमिति ज्ञेयं तस्मिन् पक्षास्तु ये स्मृताः ।
तस्मिन् स्थितः शिवस्साक्षात् कथितं तव सुवृते ॥ ७८ ॥

एतत्ते पूर्वमाख्यातं त्रिभेदमनुपूर्वशः ।

प्। ६२७)

ना शिष्याय प्रदातव्यं रहस्यमिदमुत्तमम् ॥ ७९ ॥

देव्युवाच

व्योमनाभदिशापत्रं न मया च न धारितम् ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ ८० ॥

ईश्वरः

व्योमेत्याकाशमित्युक्तं व्योमसूर्यः प्रकीर्तितः ।
व्योमपद्ममिति प्रोक्तं व्योमप्रोक्तः सदाशिवः ॥ ८१ ॥

कलाश्चतस्रो याः प्रोक्ताः कण्टकास्ते प्रकीर्तिताः ।
व्योमनालस्मृताकाशं दिशा पत्राः प्रकीर्तिताः ॥ ८२ ॥

कर्णिकास्तु स्मृतास्सूर्यः कर्णिकास्थः सदाशिवः ।

प्। ६२८)

दिशा पत्रेषु देवेशि विद्येशान् परिकल्पयेत् ॥ ८३ ॥

नवकालाग्निरुद्रस्तु अधस्रोते व्यवस्थितः ।
शिखादूर्ध्वमुखास्तस्य व्यापकन्ति व्यवस्थिताः ॥ ८४ ॥

जलबुद्बुदसङ्काशं तत्र देवस्सदाशिवः ।
स्वच्छं सुनिर्मलं तेजः सुषिरज्योतिरुत्तमः ॥ ८५ ॥

पुष्करास्तु मया ख्यातां केसरास्तु ततैव च ।
एतच्च बिन्दुयोगन्तु कथितं तव शोभने ॥ ८६ ॥

पुरुषत्रयविज्ञानं तत्क्रियादर्शनं तथा ।
अत्र पद्मे तु विज्ञेयं योगिभिस्तत्र चिन्तकैः ॥ ८७ ॥

शिवशास्त्रस्य सद्भावमस्मिन् पद्मे प्रकीर्तितम् ।

प्। ६२९)

प्रत्यक्षं दृश्यते देवि तत्वा ये पूर्वचोदिताः ॥ ८८ ॥

स्वेन स्वेन तु रूपेण सर्वतन्त्रे व्यवस्थिताः ।
तां दृष्ट्वा योगविच्छ्रीमान् सर्वज्ञत्वं प्रपद्यते ॥ ८९ ॥

लीयते तस्य मध्ये तु स्वशरीरेण योगिनः ।
एतद्रहस्यं परमं कथितं तव शोभने ॥ ९० ॥

सुपरीक्ष्य च दातव्यं न च नास्तिकनिन्दिते ।
इदं ते कथितं देवि तारकं ज्ञानमुत्तमम् ॥ ९१ ॥

देव्युवाच

चिन्ताध्यानमिदं देव न मया वेदितं पुरा ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ ९२ ॥

प्। ६३०)

ईश्वरः

यददृश्यध्यानमित्युक्तं चिन्ता मानस उच्यते ।
मानसं मनसालोक्य यद्दलं प्रतिपादयेत् ॥ ९३ ॥

चित्तचैतन्यसंयोगात् स वै मानस उच्यते ।
ध्यायेल्लक्षवरं दिव्यं पूर्वदृष्टं वरानने ॥ ९४ ॥

चैतन्यं तद्गतेनैव ध्यानमेतत्प्रकीर्तितम् ।
एतद्देवि समाख्यातं ध्यानमानसमेव तु ॥ ९५ ॥

द्विविधोत्पाद्यमर्थन्तु सदा तेनैव युज्यते ।
तदा योगमिति प्रोक्तं युक्तस्य वरवर्णिनी ॥ ९६ ॥

देव्युवाच

प्। ६३१)

सन्धानं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
कस्मिन् सन्ध्या कथं सञ्ज्ञो भगवन् कथयस्व मे ॥ ९७ ॥

ईश्वरः

साधु पृष्टं त्वया भद्रे तथा ते कथयाम्यहम् ।
त्वदीयं पद्मकं देवि न दृष्टं केनचित्पुरा ॥ ९८ ॥

केचित्त्रितत्वसन्धानमिच्छन्ति वरवर्णिनी ।
अन्येव पशुसन्धानं कथयन्ति वरानने ॥ ९९ ॥

तादृशं तत्वसन्धानं वदन्ति गुरवो बहुः ।
ईदृशं तत्वसन्धानं न विज्ञातन्तु देशिकाः ॥ १०० ॥

पूर्वमात्मनि मेधावी शिखां कृत्वा स्वकां तनुम् ।

प्। ६३२)

तदा कर्मसमर्थन्तु भवते साधकेश्वरः ॥ १०१ ॥

आत्मनञ्च पशुञ्चैव एकीकृत्य विचक्षणः ।
तदा तत्वे तु संयोज्य विधिं कुर्यादशेषतः ॥ १०२ ॥

पूर्वाहुत्या तु दातव्या तदन्ते चोद्धरेत्क्रमात् ।
उद्धृत्यचात्मसंस्थन्तु कृत्वा तत्वविदं शुभम् ॥ १०३ ॥

पृथिवीं तु तथोद्धृत्य आप्येन सह योजयेत् ।
विलीनामापमध्ये तु आप भूतां विचिन्तयेत् ॥ १०४ ॥

एवमभ्यस्तथा तेजो वायुरा * * * तथा ।
एवं वै सर्वतत्वानि कर्म कृत्वाऽनु संशयेत् ॥ १०५ ॥

तत्वसन्धानमित्युक्तम् अस्मिन् तन्त्रे वरानने ।

प्। ६३३)

एवं संस्थितस्तत्र पशुनालोक्येत्तदा ॥ १०६ ॥

सर्वध्यानसमाप्तौ तु शृणु देवि यथा पुनः ।
तत्वनीलं नयेत्तत्वं तत्वे तत्वे नियोजयेत् ॥ १०७ ॥

तत्वसिद्धिं यदा तत्वं दीक्षानिर्वाणगामिनी ।
सर्वतन्त्रेषु सामान्यं विधिमेतत्समारभेत् ॥ १०८ ॥

एवं वै यो न जानाति न हि नोच्छ्रयते पशून् ।

देव्युवाच

किं तत्वं प्रथमं देव द्वितीयञ्च तथैव च ॥ १०९ ॥

तत्वे लीनतु कर्तृत्वं तत्वसिद्धिस्तु क स्मृतः ।

ईश्वरः

प्। ६३४)

तत्वन्तु प्रथमाचार्यः तव देवि उदाहृतः ॥ ११० ॥

तत्वनीलन्तु यत्प्रोक्तं पशुतत्वं समासतः ।
पशुतत्वेषु संयोज्य पृथिव्यादिष्वनुक्रमात् ॥ १११ ॥

त्रितत्वापरशुद्धिन्तु आचार्यस्तत्वपारगः ।
विद्यातत्वास्पदं कृत्वा योजयेत्परमे पदे ॥ ११२ ॥

युक्ते यद्धर्मसञ्ज्ञो वै स धर्मः कथितस्तव ।

देव्युवाच

भूतात्मा तत्र बाह्यात्मा अन्तरात्मा तु इन्द्रियः ॥ ११३ ॥

परमात्मा स्थिता देवि मनोऽहङ्कारबुद्धिषु ।
भूतात्मा इन्द्रियात्मा च परमात्मा तथैव च ॥ ११४ ॥

प्। ६३५)

चतुर्थश्चैव देवेशि एतेषां व्यापकश्शिवः ।
भूतात्मा संस्थितो भूतैः इन्द्रियात्मा तथेन्द्रियैः ॥ ११५ ॥

परमात्मा स्थितो देवि मनोऽहङ्कारबुद्धिभिः ।
त्रिरात्मानं विनिर्मुक्तं चतुर्थं परमेश्वरि ॥ ११६ ॥

निरात्मा स तु विज्ञेयः स जीवः परिकीर्तितः ।
तस्य सादात्मकं देहं कृत्वा चैव विभागतः ॥ ११७ ॥

तदात्त्वनुग्रहं कुर्याद्योगं स्थाप्य शिवं तथा ।
एतत्समासतो देवि रहस्यं कथितं तव ॥ ११८ ॥

इति निश्वासकारिकायां त्रिपञ्चाशत्पटलः ॥