५२

देव्युवाच

विज्ञप्ते किं प्रमाणन्तु ज्ञातव्यं देशिकेन तु ।
निस्सते किं प्रमाण स्यात् प्रविशेपि महेश्वर ॥ १ ॥

अन्तरे चायनस्यैव एतदिच्छामि वेदितुम् ।

ईश्वरः

महत्पुण्यमिदं देवि न पृष्टं केनचित्पुरा ॥ २ ॥

तदहं सम्प्रवक्ष्यामि साधकानां हितावहम् ।
प्राणस्यैव निरोधेन स्थातव्यं देशिकेन तु ॥ ३ ॥

एवं क्रमेण देवेशि अविच्छिन्नस्तु साधकः ।
तावत्तक्षणमात्रेण स सिद्धेनैव साधकः ॥ ४ ॥

प्। ६०७)

भवते नात्र सन्देहः सत्यं देवि वदाम्यहम् ।
यदा प्राणनिरोधस्तु भवते साधकस्य तु ॥ ५ ॥

तदाऽसौ ज्ञातविज्ञेया ज्ञेयं तस्य क्रतो भवेत् ।
ऊर्ध्वभागे चरे यावदधश्शून्यं विनिर्दिशेत् ॥ ६ ॥

ऊर्ध्वशून्यमधश्शून्यं मध्ये तु जयनं भवेत् ।
उत्कर्षणी कला सूक्ष्मा सु सूत्रे च द्वितीयका ॥ ७ ॥

अधोभागे स्थिते चैते ज्ञातव्ये तत्ववेदिना ।
ऊर्ध्वं सञ्चरतस्तस्य कले दक्षिणतः स्थिते ॥ ८ ॥

तदहस्सम्प्रबुद्धस्तु सर्वसिद्धिप्रदश्शुभः ।
अधोमुखे प्रयातस्य कले द्वे वामतस्थिते ॥ ९ ॥

प्। ६०८)

निशान्तन्तु विजानीयाच्चारज्ञे कथितं तव ।
यावद्दक्षिणतो याति तावद्वामेन शोभने ॥ १० ॥

तावच्छून्यं विजानीयात्त्रीण्येव वरवर्णिनी ।
मध्ये तु निश्चलं शून्यमयनं तं विनिर्दिशेत् ॥ ११ ॥

तस्य संस्पर्शभावेन यदा युज्यति साधकः ।
तदा निर्वाणतां याति नात्र कार्या विचारणा ॥ १२ ॥

तस्य संस्पर्शभावस्तु कथितस्तव शोभने ।
शून्यस्थानानि वक्ष्यामि शृणुष्वावहिता प्रिये ॥ १३ ॥

येन विज्ञातमात्रेण अभावपदमाप्नुयात् ।
निवृत्तिमध्यभागे तु प्रतिष्ठा तिर्यगुत्तरे ॥ १४ ॥

प्। ६०९)

विद्या दक्षिणतः प्रोक्ता शान्तिः पूर्वदिगाश्रिता ।
नादस्तु पञ्चमो ज्ञेयः स शिवः परिकीर्तितः ॥ १५ ॥

कलाश्चतस्रो या प्रोक्ता नादसञ्चरणात्मकाः ।
पञ्चमस्तु शिवः प्रोक्तः सुसूक्ष्मः कथितस्तव ॥ १६ ॥

नादपूजां करोत्येवमनुध्यानेन सुवृते ।
जीवस्तु नाद इत्युक्तः स्पर्शशक्तिमयस्मृतः ॥ १७ ॥

जीवस्पर्शविनिर्मुक्तो गुरुवक्त्रे प्रतिष्ठितः ।
द्विविधेन तु देवेशि कर्तव्योऽनुग्रहस्सदा ॥ १८ ॥

एतद्देवि न दातव्यं ज्ञानं ज्ञेयमिदं शुभम् ।
देयञ्च गुरुभक्ताय शिवभक्ताय धीमते ॥ १९ ॥

प्। ६१०)

अन्यथा दुष्टमर्त्यानां श्रेयस्सिद्धि निपातयेत् ।

इति निश्वासकारिकायां द्विपञ्चाशत्पटलः ॥