देव्युवाच
उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ १ ॥
ईश्वरः
उत्पत्तिं विलयञ्चैव एतत्प्रश्नवरं महत् ।
तदहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं वरानने ॥ २ ॥
उत्पत्तिर्निष्कलो ज्ञेयः प्रलयस्सकलस्मृतः ।
प्। ५८३)
एतत् ज्ञानपदं दिव्यं स देवासुरमानुषम् ॥ ३ ॥
ऊर्ध्वेनैव तु सो जातः अधो नैव मृतो भवेत् ।
एतत्सूतकमित्याहुः सर्वप्राणिषु वर्तते ॥ ४ ॥
ऊर्ध्वं प्रेतकमेवोक्तं ज्ञातव्यञ्च प्रयत्नतः ।
द्वावेतौ त्यजते यस्तु स भवेत्तत्वपारगः ॥ ५ ॥
मृतके सूतकेनैव युक्तं सर्वमिदं जगत् ।
मृतकं यो न जानाति सूतकञ्च स्वदेहतः ॥ ६ ॥
न चासौ ज्ञानविज्ञेयो ज्ञानं तस्य कुतो भवेत् ।
भोक्तव्यं सर्वतो देवि त्यक्ते मृतकसूतके ॥ ७ ॥
कर्तव्योऽनुग्रहो देवि विज्ञातं मृतकसूतके ।
प्। ५८४)
सूतकं देहमध्यस्थं मृतकञ्च तथैव च ॥ ८ ॥
परञ्च देहमध्यस्थं प्रविचार्य पृथक् पृथक् ।
उत्पत्तिप्रलयश्चैव भूतानामागतिं गतिम् ॥ ९ ॥
ज्ञानार्थं चिन्तयेद्यस्तु स भवेत्तत्वपारगः ।
देवी
भगवन् श्रोतुमिच्छामि प्राणिनाञ्च हिताहितम् ॥ १० ॥
कथं प्राणस्य सञ्चारः प्रतिसञ्चार एव च ।
कति प्राणास्मृता देव अब्दे तु कथयस्व मे ॥ ११ ॥
कस्मिन् काले चिरायुस्यात् कथं हीनायुरेव च ।
कथं दीर्घायुषञ्चैव कथं स्त्रीबालयोरपि ॥ १२ ॥
प्। ५८५)
विनाशं देवदेवेश कथयस्व प्रमाणतः ।
ईश्वरः
शृणु देवि परप्रश्नः त्वया देवि उदाहृतः ॥ १३ ॥
अयुते द्वे सहस्रैकं षट् शतानि तथैव च ।
मया पूर्वं समाख्यातं त्वयाऽपि विदितं तथा ॥ १४ ॥
तथैव प्राणसङ्ख्यातो विभज्य कथयामि ते ।
वर्षे वर्षे यावती प्राणा मासे पक्षे तथैव च ॥ १५ ॥
अह्निप्राणास्तु यावन्तो मृतौ सङ्ख्या तु यावती ।
गणितं गणितैर्देवि प्रमेयपरिमाणतः ॥ १६ ॥
कथयामि यथा तथ्यम् अशेषं तव सुवृते ।
प्। ५८६)
अहोरात्रेण ज्ञातव्यो कालज्ञेन महात्मना ॥ १७ ॥
विभज्य सर्वथा प्राणान् पूर्वोक्ता ये प्रकीर्तिताः ।
एते प्राणा मया प्रोक्ता शतभागविभाजिताः ॥ १८ ॥
विभाजिते भवेद्देवि एकैकस्य विभाकशः ।
शतद्वयञ्च विज्ञेयं प्राणानां वरवर्णिनी ॥ १९ ॥
षोडशश्चैव विज्ञातो शब्दे तत्परिमाणतः ।
तृटिरष्टौ तु विज्ञेया अहो जीवस्य सुवृते ॥ २० ॥
रात्रिर्वै तावती प्रोक्ता ज्ञातव्या चारवेदिना ।
न न प्राणा स्मृतः पक्षो मासस्तद्विगुणेन च ॥ २१ ॥
पक्षश्चतुर्गुणेनैव ऋतवः परिकीर्तिताः ।
प्। ५८७)
अनेन अहमुख्येन ज्ञातव्यं तत्ववेदिना ॥ २२ ॥
शतत्रयं तथा षष्ठिः संवत्सरमुदाहृतम् ।
प्रहरे प्रहरे चैव वर्षाह्यत्र त्रयोदश ॥ २३ ॥
द्विगुणे पञ्चविंशत्या ज्ञातव्या वर्षाणि तु ।
अनेन क्रमयोगेन वेदितव्यं प्रयत्नतः ॥ २४ ॥
साम्पृतं शृणु देव्यत्र अतिगुह्यं वरानने ।
न केनचिदहं पृष्टो न मया कथितं क्वचित् ॥ २५ ॥
तदहं सम्प्रवक्ष्यामि शृणुष्वेकमना मम ।
भास्करव्योदये जातं बालकं कश्चमी दिशेत् ॥ २६ ॥
द्वितीये वर्षे चैव तृतीये स चतुर्थके ।
प्। ५८८)
पञ्च षट् सप्तमाष्टौ च यावद्वादशकोर्ध्वतः ॥ २७ ॥
प्रथमे दुतये चैव पुरुषेति समादिशेत् ।
यावद्वर्षा भवेद्यूनां तावदायुर्विनिर्दिशेत् ॥ २८ ॥
लौकिके प्रचुरे चैव तिलाभं परिकल्पते ।
प्राणसङ्ख्यैस्तु देवेशि ये शवाः परिकीर्तिताः ॥ २९ ॥
बालमध्यमवृद्धेति अदेशतत्वकारयेत् ।
प्रमेयप्राणवर्षा ये मूर्तिबाले तमादिशेत् ॥ ३० ॥
त्रिभागभाजिते नैव मध्यमं वृद्धमादिशेत् ।
एवं क्रमेण देवेशि ज्ञातव्यं तत्ववेदिना ॥ ३१ ॥
द्वितीये प्रहरे चैव त्रिजातेति तमादिशेत् ।
प्। ५८९)
एवञ्चतुर्थमादेशं कृत्वा देवि समादिशेत् ॥ ३२ ॥
मृते वा देव देवेशि विदितव्यं प्रयत्नतः ।
एवं ध्यानपरो भूत्वा योगी वै सुसमाहितः ॥ ३३ ॥
तलामलकवत्सर्वं पश्यते नात्र संशयः ।
यो वेगिनि बिलेनैव देवतारमितं शुभम् ॥ ३४ ॥
सञ्ज्ञेयचारवन्देवि मुच्यते नात्र संशयः ।
धानाधिवहने चैव नारी त्येवं समादिशेत् ॥ ३५ ॥
अधो नाडीप्रभावेण शृणु देवि वदाम्यहम् ।
प्रथमे विषुवे लग्ने पुरुषस्मृतजातकः ॥ ३६ ॥
अवसाने स्त्रियञ्चैव मध्यजातं नपुंसकम् ।
प्। ५९०)
यदाचारविभागे तु अविधज्ञास्तु योगवित् ॥ ३७ ॥
तदा ममास्तु विज्ञेयं तेन मृत्युं समादिशेत् ।
चतुष्षष्टि स्मृता मर्म देहिनां देहमुत्तमम् ॥ ३८ ॥
केचित्प्रत्ययभूतानि केचिदाध्यात्मिकानि तु ।
यानि कानि तथा चान्ये ज्ञातव्यानि यथाक्रमम् ॥ ३९ ॥
आध्यात्मिकानि देवेशि दुर्विज्ञेयानि तानि वै ।
औत्पादकोनि यानि स्युः कथयामि समासतः ॥ ४० ॥
अकस्माज्जायते देवि देहे देहभृतां वरे ।
सीदन्ति सर्वाण्यङ्गानि दाहः शोषः क्षयो भवेत् ॥ ४१ ॥
उत्पत्तिकेन देवेशि वेदनार्तस्य योगिनः ।
प्। ५९१)
नाडीसञ्चारतत्वज्ञो लक्षभेदा कृतश्रमः ॥ ४२ ॥
उत्पत्तिकानाम मार्गाणां कृतकादि समारभेत् ।
मृत्युञ्जयादिभिर्योगैः पुनस्ताः समये बुधः ॥ ४३ ॥
प्रत्यक्षं स्यन्दते मर्म ज्ञातव्यं तत्ववेदिना ।
यस्मिन् यस्मिन् भवेत्स्वेदः शृणुष्व वदामि ते ॥ ४४ ॥
गुल्फदेशे तु प्रथमं हस्ताङ्गुष्ठौ तु मूलतः ।
बाहुसन्धिस्त्रितीया तु स्तनाभ्यान्तु चतुर्थकम् ॥ ४५ ॥
पञ्चमं वोष्ठदेशे तु योगिभिस्समुदाहृतम् ।
कण्ठस्यैवोपरिष्ठात्तु षष्ठं वै परिकीर्तितम् ॥ ४६ ॥
मूर्धानं वहतेह्येकं महामर्ममुदाहृतम् ।
प्। ५९२)
जानुसन्धिर्महामर्म चाष्टमं परिकीर्तितम् ॥ ४७ ॥
मेढ्रहस्ता महामर्म वेदितव्याः प्रयत्नतः ।
हृदये तु महामर्म देवि ते समुदाहृतः ॥ ४८ ॥
तानि वक्ष्यामि देवेशि यथातथ्येन मे शृणु ।
आध्यात्मिकानि यानि स्युः तानि वक्ष्यामि ते शृणु ॥ ४९ ॥
घोषमाणक्रमेणैव श्रुत्वा तं शृणु ते पुनः ।
तदा देवि विजानीयात् सद्यो मृत्युमुपस्थितः ॥ ५० ॥
लक्षयेद्बाह्यतः प्रोक्तं पूर्वदुष्टानि यानि वै ।
न पश्यति रसो जिह्वे षण्मासमधिकं पुनः ॥ ५१ ॥
एवमादीनि चान्यानि वेद्यानि भुवि मानवैः ।
प्। ५९३)
यो नरं वहते चैव मर्मस्तावत्ततस्मृतः ॥ ५२ ॥
एकस्मिन्वेगमायाति द्वितीये मन्दगामि च ।
तेषां वै सन्निरोधेन मर्मणाञ्चैव सुन्दरि ॥ ५३ ॥
ज्ञातव्यं योगिभिर्नित्यं तस्य मृत्युरुपस्थितः ।
अयात्मादात्मनः पश्येद्यदि स्यात्तत्ववेदिनः ॥ ५४ ॥
तदा मृत्युत्रयं चक्रम् आश्रयीत विचक्षणः ।
तदा तु प्रशमं यान्ति नात्र कार्या विचारणा ॥ ५५ ॥
एवं ते कथितं देवि अभिप्रीत्या मया तव ।
वेदितव्यं प्रयत्नेन न दद्याद्यस्य कस्यचित् ॥ ५६ ॥
देव्युवाच
प्। ५९४)
ये त्वया कथिता मर्मा प्रत्यक्षं परमेश्वर ।
कथं संहारकाले तु वेदितव्यं हि योगिभिः ॥ ५७ ॥
किमादिसंहरेन्मर्म लक्षणं किन्नु सम्भवेत् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ ५८ ॥
ईश्वरः
शृणु देवि परं गुह्यं मर्माणां कथयामि ते ।
येन विज्ञातमात्रेण चारज्ञो नावसीदति ॥ ५९ ॥
प्रत्यहं मर्मणां दृष्ट्वा लक्षणं वै विचक्षणः ।
ज्ञात्वा श्रेयांसि कुर्वीत तदाऽसौ नावसीदति ॥ ६० ॥
मर्माणि पञ्चविंशत्तु कालचक्रमुदाहृतम् ।
प्। ५९५)
तदा प्रभृति कर्तव्या कालस्यैव प्रतिक्रिया ॥ ६१ ॥
द्वादशाब्दान् पुनर्वक्ष्ये त्रिविधं चक्रयोगतः ।
तत्र ज्ञात्वा पुनस्सम्यग्यथा मृत्युञ्जयो भवेत् ॥ ६२ ॥
स पक्षमासकथितं तद्भेदं कथयेत्पुनः ।
मृतसञ्जीवनञ्चैव कथयिष्ये यथा भवेत् ॥ ६३ ॥
तेभ्यो गुह्यमिदं देवि मर्माणान्तु परीक्षणम् ।
तथा येन प्रकारेण रोधितेन तु लक्षणम् ॥ ६४ ॥
तथा ते कथयिष्यामि हितार्थं सर्वयोगिनाम् ।
मणिबन्धेन शून्येन शृणु तस्यैव लक्षणम् ॥ ६५ ॥
मन्दायासौ सदा हस्तावङ्गुल्यं शिशिरायता ।
प्। ५९५)
तिलको दह्यते यस्य संहृतं तं विनिर्दिशेत् ॥ ६६ ॥
एतद्देवि विदित्वा तु कुर्यात्तस्य प्रतिक्रियाम् ।
मासैकादशभिश्चैव मृत्युमभ्येति सुवृते ॥ ६७ ॥
स्कन्धशूलं प्रजायेत वातभग्नेव लक्ष्यते ।
मुहुर्मुहुः प्रकम्पश्च संहृतं तं विनिक्षिपेत् ॥ ६८ ॥
मासैस्तु दशभिश्चैव मृत्युमभ्येति नान्यथा ।
शङ्खौ तु हीयमानौ तु शृणु वक्ष्यामि लक्षणम् ॥ ६९ ॥
अकस्मात्कम्पते शीर्षं नेत्रं विसृपते प्रिये ।
निरुद्धं तं विजानीयात् प्रत्यक्षञ्चैव दृश्यते ॥ ७० ॥
एवं वै लक्षणं यस्य सोऽष्टमासान्न जीवति ।
प्। ५९७)
कण्ठनाड्युपरिष्टात्तु स्तम्भिते लक्षणं शृणु ॥ ७१ ॥
जिह्वा न परिवर्तेत स्फुटवाच प्रवर्तते ।
शोषितस्तु वरारोहे सप्तमासान्न जीवति ॥ ७२ ॥
कण्ठं स्तम्भित मर्मस्य शृणु वक्ष्यामि लक्षणम् ।
कण्ठशोषं भवेत्तीव्रं निश्लेष्मं का समावहेत् ॥ ७३ ॥
पाषाणसदृशञ्चैव भुक्तमन्नं न जीर्यते ।
एवं वै लक्षणं यस्य चतुर्मासान् स जीवति ॥ ७४ ॥
वृषणधस्थिते मार्गे स्तम्भिते लक्षणं शृणु ।
रक्तवर्णं भवेन्मूत्रं दहती च न संशयः ॥ ७५ ॥
एतद्वै लक्षणं यस्य त्रिमासान् स तु जीवति ।
प्। ५९८)
मुष्कसूत्रप्रदेशे तु यस्यैवं शूलमावहेत् ॥ ७६ ॥
वृषणस्य तु मध्ये तु कृष्णवं यदि पश्यति ।
एवं लक्षणतो बुध्वा द्वौ मासौ स तु जीवति ॥ ७७ ॥
स्तनस्यैवोपरिष्टात्तु स्पन्दनं यदि सम्भवेत् ।
गते दक्षिणतो देवि जीवेन्मासं स पक्षकम् ॥ ७८ ॥
ज्ञातुं सन्धिमधस्तात्तु स्पन्दनं स्तम्भ्यते यदि ।
मासमेकं न जीवेत इति शास्त्रेषु निश्चितम् ॥ ७९ ॥
अकस्माच्छ्रवणं देवि न शृणोति यथा पुरा ।
स्तम्भितं तं विजानीयादर्धमासं स जीवति ॥ ८० ॥
नेत्रे वाश्रुवहे कस्मात् विना दोषेण भामिनी ।
प्। ५९९)
ततोऽसौ मृत्युमभ्येति दिवसैर्दशभिस्तथा ॥ ८१ ॥
पादस्यैवापरिष्ठात्तु यदि वै स्तम्भितो भवेत् ।
तस्य मृत्युं विजानीयात् पञ्चाहात्तु न संशयः ॥ ८२ ॥
अकस्माच्चलनं चापि विस्मयञ्चैव जायते ।
विस्वरश्चैव जायेत हीनायुषोजि भामिनी ॥ ८३ ॥
एवं वै लक्षणं यस्य जीवते स दिनत्रयम् ।
चक्षुषी नैव दृश्येत पूर्वदृष्टञ्च रूपकम् ॥ ८४ ॥
एवं लक्षणतो दृष्ट्वा द्विदिनं स तु जीवति ।
गुल्फदेशे यदा स्पन्दं निष्पन्दं भवते यदि ॥ ८५ ॥
एवं लक्षणवाङ्मात्रे दिनमेकं स जीवति ।
प्। ६००)
हृदयं वेपते यस्य मूर्छाकम्पश्च जायते ॥ ८६ ॥
अजितं तं विजानीयाद्दिनार्धं सोऽपि जीवति ।
कण्ठे गुडुगुडोयेतत्किञ्चित्स्पन्दति सुवृते ॥ ८७ ॥
प्रहरैकेन देवेशि तस्य मृत्युं समादिशेत् ।
तालुमध्ये गतो वायुः किञ्चित्स्पन्दति सुवृते ॥ ८८ ॥
अतीतं तं विजानीयात् शतं प्राणान् स जीवति ।
एवं मर्मविभागज्ञः साधको नावसीदति ॥ ८९ ॥
प्रत्यहं प्रत्यवेक्षेत न स जानाति नान्यथा ।
एकादश शतञ्चाष्टौ नव सप्त तथैव च ॥ ९० ॥
षट् पञ्चचतुरश्चैव द्वौ मासौ तु विचक्षणैः ।
प्। ६०१)
मासं स पक्षकञ्चैव मासं मासार्धमेव च ॥ ९१ ॥
दश पञ्चदिनाश्चैव त्रीणि चैव दिनद्वयम् ।
अहरेकं विजानीयाद्दिनार्धं प्रहरं तथा ॥ ९२ ॥
प्रहरस्यार्धमर्धेन श्वासप्राणशतेन तु ।
मणिबन्धादितः कृत्वा वेदितव्यं प्रयत्नतः ॥ ९३ ॥
एवं ज्ञात्वा च बुध्वा च कुर्यात्तस्य प्रतिक्रियाम् ।
क्षेत्रं तीर्थं पवित्राणि जपहोमक्रियास्तथा ॥ ९४ ॥
मृत्युञ्जयादिदेवेशि सेवितव्यानि यत्नतः ।
एतैर्माया मया प्रोक्ताः यथासङ्ख्येन सुवृते ॥ ९५ ॥
पुनरन्यत्प्रवक्ष्यामि शृणु देवि यथाक्रमम् ।
प्। ६०२)
समेन सव्यमर्माणां यदि निष्पन्दता भवेत् ॥ ९६ ॥
वायोर्दोषं विजानीयात् कुर्याद्वायुप्रतिक्रियाम् ।
श्लेष्मणा चैव देवेशि निष्पन्दं यान्ति ते पुनः ॥ ९७ ॥
तान्येन प्रत्यवेक्षेत कुर्यात्पित्तप्रतिक्रियाम् ।
अन्यद्गुह्यतमं देवि शृणुष्व कथयामि ते ॥ ९८ ॥
येन विज्ञातमात्रेण सर्वदुःखं न जायते ।
इडा सुषम्नयोश्चारं ज्ञातव्यं योगिभिस्सदा ॥ ९९ ॥
तेन विज्ञायते देवि लोकस्यैव हिताहितम् ।
आत्मनश्च विजानाति यथाकालं विभागशः ॥ १०० ॥
दिनमेकं वहेद्यस्तु दक्षिणेन यशस्विनी ।
प्। ६०३)
उत्पातं किञ्चिदाख्याति न तत्र भयमादिशेत् ॥ १०१ ॥
दिनद्वयं निवर्तेत वहित्वा दक्षिणेन तु ।
गोत्रस्याचाशुभं विद्यान्न मृत्युं तस्य चादिशेत् ॥ १०२ ॥
दिनत्रयं वहेद्यस्तु यदि वै दक्षिणेन तु ।
महद्भयं भवेद्देवि ग्रामगोत्रस्य सुवृते ॥ १०३ ॥
चतुर्थेऽहनि योगेन निवर्तेत वरानने ।
आत्मनस्त्वशुभं विद्यान्महाक्लेशेन जीवति ॥ १०४ ॥
पञ्चाहमेकमार्गस्थं वहित्वा विनिवर्तते ।
आत्मनो मृत्युरायाति इति शास्त्रस्य निश्चयः ॥ १०५ ॥
पञ्चमस्योपरिष्ठात्तु यं दिवै विनिवर्तते ।
प्। ६०४)
राज्ञश्चैवाशुभं विद्यादाज्येन च वियुज्यते ॥ १०६ ॥
सप्ताहाद्यदि देवेशि निवर्तेत च योगिनः ।
वाहनानां क्षयं दृष्ट्वा कथयेच्छिवयोगवित् ॥ १०७ ॥
अष्टाहं वहते यस्तु तदूर्ध्वं विनिवर्तते ।
राज्ञां चैव भयं विद्यान्महाक्लेशेन जीवति ॥ १०८ ॥
नवमेऽहनि देवेशि वहित्वा विनिवर्तते ।
राजानमशुभं विद्यान्महाक्लेशेन जीवति ॥ १०९ ॥
दशमेऽहनि देवेशि वहित्वा विनिवर्तते ।
राज्ञां मरणमाशुस्याद्यदि वै विनिवर्तते ॥ ११० ॥
ततस्त्वेकादशेनैव न तस्य भयमादिशेत् ।
प्। ६०५)
जनानामशुभं विद्याद्यावत्पञ्च दशेऽहनि ॥ १११ ॥
दक्षिणेन यथा प्रोक्तं वामेनैव तथैव हि ।
एवं ज्ञात्वा तु मेधावीं न सीदेन्नैव योगवित् ॥ ११२ ॥
एवञ्चारविधानज्ञो योगविन्नावसीदति ।
एतद्देवि समाख्यातं रहस्यं गुह्यमुत्तमम् ॥ ११३ ॥
त्वया गुप्ततरं कार्यं न दद्याद्यस्य कस्यचित् ।
चारेण ज्ञायते * * कारयोगे न संशयः ॥ ११४ ॥
नारौ जयस्तु विज्ञेय सारे सिद्धिर्न संशयः ।
इति निश्वासकारिकायाम् एकपञ्चाशत्पटलः ।