देव्युवाच
भगवन् देवदेवेश गोवृषाङ्कितशासन ।
सर्वज्ञः सर्वकर्ता च प्रसादी भव मे प्रभो ॥ १ ॥
सर्वेषामेव मन्त्राणां समुदायं महेश्वर ।
प्। ५६४)
कथयस्व महादेव मन्त्रचारं मम प्रभो ॥ २ ॥
व्योमव्याप्यादितः कृत्वा पञ्चाङ्गानां तथैव च ।
ब्रह्मणाञ्चैव देवेश कथयस्व प्रसादतः ॥ ३ ॥
मातृकायां कथं ह्यात्मा भिन्नाभिन्नेषु वर्तते ।
कलेषु क्रियती सङ्ख्या प्रभुः किरति साङ्कुरः ॥ ४ ॥
मान्त्राणां वर्णसङ्ख्यायां कथं ह्यात्मा व्यवस्थितः ।
दशात्ममादितः कृत्वा तस्याङ्गानां यथाक्रमम् ॥ ५ ॥
समुदायेन देवेश कथयस्व यथातथम् ।
पदेषु कियती सङ्ख्या प्रभुश्चरति नित्यशः ॥ ६ ॥
कलानां सर्वमन्त्राणाम् अन्तः करणवर्जितः ।
प्। ५६५)
कथञ्चरति देवेश कथयस्व च शङ्कर ॥ ७ ॥
अध्यात्मकेन देवेश कथयस्व मम प्रभो ।
ईश्वरः
शृणु देवि महाज्ञानं यत्त्वया परिपृच्छ्रितम् ॥ ८ ॥
न कस्यचित् समाख्यातं कथयामि तवाखिलम् ।
सर्वेषामेव मन्त्राणां मन्त्रचारमनुक्रमात् ॥ ९ ॥
येन विज्ञातमात्रेण मुच्यते सिध्यतेऽपि च ।
मन्त्रचारं महादेवि दुर्लभं त्रिदशैरपि ॥ १० ॥
एकैकपदवर्णेषु विभज्यवरवर्णिनी ।
कथयामि न सन्दिग्धं प्राणेन सह सुवृते ॥ ११ ॥
प्। ५६६)
पूर्वमेव समाख्यातं सहस्राण्येकविंशतिः ।
षट् शतेन तथा प्रोक्ता प्राणसङ्ख्या यथाक्रमम् ॥ १२ ॥
तान् प्राणान् देवदेवेशि विभज्य अनुपूर्वशः ।
पदैस्तु यावती प्राणाः एकैकस्य विभागशः ॥ १३ ॥
यथा च चरते देही कथयामि तवाखिलम् ।
एकैकस्य तु वर्णस्य या सङ्ख्या वहतीश्वरे ॥ १४ ॥
कलेषु यावती सङ्ख्या शृणुदेवि यथाक्रमम् ।
एतद्भेदविधानज्ञो भिन्न देहस्स उच्यते ॥ १५ ॥
स ज्ञानी भूतले नित्यं मोचकस्स शिवं नयेत् ।
येन येन हि मन्त्रेण करणं कुरुते नरः ॥ १६ ॥
प्। ५६७)
सामरस्य च भावेन अव्युच्छिन्नस्वभावतः ।
स एवं मन्त्रमात्मानं याति नास्त्यत्र संशयः ॥ १७ ॥
यस्मिन् यस्मिन् पदेनैव योजयेन्मन्त्रदेवतम् ।
तन्मध्येन तु मन्त्रज्ञो मोचयेन्मुच्यतेति च ॥ १८ ॥
येन येन कलेनैव मन्त्री मन्त्रतनुर्भवेत् ।
तेन तेन कलेनैव मोचयेत्तत्वविद्गुरुः ॥ १९ ॥
येन येन तु वर्णेन आत्मानं योजयेन्नरः ।
तेन तेन हि वर्णेन मोचयेन्मुच्यतेऽपि च ॥ २० ॥
येन येन हि तत्वेन कुरुते न तनुं प्रिये ।
तेन तेन हि तत्वेन मोचयेन्मुच्यतेऽपि च ॥ २१ ॥
प्। ५६८)
मन्त्राणां यावती वर्णास्तद्ध्यानात्तावती स्मृताः ।
तेन यष्टे हुते चैव सिध्यते मुच्यतेऽपि च ॥ २२ ॥
मातृका यावती वर्णा अध्वानां तावती स्मृताः ।
तेन यष्टे हुते चैव सिध्यते मुच्यतेऽपि च ॥ २३ ॥
एतत्ते कथितं सर्वं मन्त्राणां तव सुवृते ।
ज्ञात्वा सर्वमशेषेण दीक्षायोगजपं कुरु ॥ २४ ॥
पदवर्णशिवं कृत्वा पूजयेत यथाक्रमम् ।
ह्रस्वदीर्घास्तु ये वर्णाः स्वरयुक्तास्तु ये स्मृताः ॥ २५ ॥
ते वर्णा देवतैर्युक्ता स्तत्वैश्चैव यथाक्रमम् ।
प्रणवोद्धारभेदेन ज्ञात्वाऽत्रैव पदानि तु ॥ २६ ॥
प्। ५६९)
एकैकं पूजयेद्वर्णमानुपूर्वेण मन्त्रवित् ।
होमं पूर्वोदितस्तेषां कर्तव्यो देशिकेन तु ॥ २७ ॥
कलाभेदेन देवेशि यजते यदि देशिकः ।
कलापत्रेषु संस्थाप्य मन्त्रकर्णिकया न्यसेत् ॥ २८ ॥
स्वमन्त्रेण तु सर्वेषां पूजा होमविधिक्रिया ।
कर्तव्या देशिकेन्द्रेण सिद्धिकामेन भामिनी ॥ २९ ॥
सर्वे ते न तु भेदेन ज्ञातव्यास्तत्ववेदिभिः ।
एवं पूज्य यथा न्यायं दीक्षां कुर्वीत देशिकः ॥ ३० ॥
एतत्सर्वं समासेन मया ख्यातं वरानने ।
प्। ५७०)
वेदितव्यं प्रयत्नेन साधकैर्मोक्षकाङ्क्षिभिः ॥ ३१ ॥
पुनरेव प्रवक्ष्यामि भेदामृतमनुत्तमम् ।
यज्ज्ञात्वा मुच्यतेऽवश्यं भवसंसारबन्धनात् ॥ ३२ ॥
आध्यात्मकप्रयोगेन वेदितव्यं मनीषिभिः ।
पूर्वादारभ्य विज्ञेयमेकैकस्य यथाक्रमम् ॥ ३३ ॥
एकाशीति त्वभावेन विभज्य वरवर्णिनी ।
कथयामि न सन्दिग्धम् अशेषन्तु तवानघे ॥ ३४ ॥
विभाजितेषु ये प्राणा एकैकस्य विभागशः ।
प्राणाश्शतद्वयं ज्ञेयाः प्राणतिष्ठतस्तथैव च ॥ ३५ ॥
षट् प्राणाश्च पुनर्ज्ञेया निमेषद्वयमीश्वरी ।
प्। ५७१)
लवमेकत्तृटिस्तृंशत् ज्ञातव्यं सुरसुन्दरि ॥ ३६ ॥
एकैके तु पदे देवि प्रभुश्चरति नित्यशः ।
अहोरात्रेण देवेशि ज्ञातव्यं सुसमाहितैः ॥ ३७ ॥
वामे च पदवर्णेषु प्रभुश्चरति तां शृणु ।
व्योमव्यापिनि वर्णानां प्राणा वै षष्टि कीर्तिताः ॥ ३८ ॥
त्रिभिस्तु रहिता देवि निमेषार्धं तथैव च ।
तृटिस्तु पञ्चभूतानाम् एकैकस्य वरानने ॥ ३९ ॥
एवं ज्ञात्वा विमुच्यन्ते ह्यशेषपशुबन्धनात् ।
कथितं तव देवेशि पदवर्णेषु शोभने ॥ ४० ॥
व्योमव्यापिनमाख्यातं सद्याद्यान् कथयामि ते ।
प्। ५७२)
सद्यस्य वामदेवस्य अघोरस्य तथैव च ॥ ४१ ॥
पुरुषेशस्य देवेशि कथयामि निबोधये ।
सद्यः कलाभिरष्टाभिः एकैके तु यथा भवेत् ॥ ४२ ॥
चरते नित्यमीशानी कथयामि यथाक्रमम् ।
सहस्रद्वयसंयुक्तं तथा सप्तशतानि च ॥ ४३ ॥
ज्ञातव्यं योगिनां नित्यम् चारज्ञेन महात्मना ।
अघोरे तावती ज्ञेया देशिकेन महात्मना ॥ ४४ ॥
वामस्य सम्प्रवक्ष्यामि तदेकाग्रमना शृणु ।
सहस्रार्धसमाश्चैव तथा षट्तृंशतानि च ॥ ४५ ॥
प्राणाष्षष्टि पुनर्देवि ज्ञातव्या देशिकेन तु ।
प्। ५७३)
प्राण एकस्समाख्यातो लवमेकं तथैव च ॥ ४६ ॥
त्रिभागन्तु तृटिर्देवि वेदितव्यं प्रयत्नतः ।
पुरुषस्य प्रवक्ष्यामि शृणु देवि समासतः ॥ ४७ ॥
सहस्राः पञ्च विज्ञेयाः शताश्चत्वार एव तु ।
एतद्देवि समाख्यातं ज्ञातव्यं तत्ववेदिना ॥ ४८ ॥
ईशस्य कथयिष्यामि शृणु देवि समासतः ।
सहस्रास्तु समाख्याताः चत्वारो वरवर्णिनी ॥ ४९ ॥
शतानि त्रीणि विज्ञेया विंशतिश्च न संशयः ।
एकैकस्य तु ब्रह्मस्य कला वै यावती स्मृता ॥ ५० ॥
तेन सङ्ख्येन देवेशि प्रभुश्चरति नित्यशः ।
प्। ५७४)
कलाचारं समाख्यातं सङ्क्षेपान्न तु विस्तरात् ॥ ५१ ॥
वेदितव्यं प्रयत्नेन योगिभिस्तत्वचिन्तकैः ।
शिवाङ्गान् सम्प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ ५२ ॥
येन विज्ञातमात्रेण सिद्धिमोक्षध्रुवं लभेत् ।
सर्वात्मेति समाख्यातं हृदयं परमात्मनः ॥ ५३ ॥
षट् षडक्षरको मन्त्र उच्चारेण समो भवेत् ।
सुशिवोऽष्टाक्षरः प्रोक्तः तस्य पारं शृणु प्रिये ॥ ५४ ॥
सहस्रद्वयसंयुक्तमेकैकस्य यथाक्रमम् ।
शतानि सप्त विज्ञेयाः ज्ञातव्यं देशिकेन तु ॥ ५५ ॥
एतत्ते चारमाख्यातं सुशिवस्य वरानने ।
प्। ५७५)
ज्वालिन्याः सम्प्रवक्ष्यामि शृणु देवि समासतः ॥ ५६ ॥
सहस्रैकं समाख्यातं शतानि च नवानि तु ।
प्राणषष्टिश्च विज्ञेयाः त्रयः प्राणस्तथैव च ॥ ५७ ॥
निमेषास्तु तथा त्रीणि लवमेकं तथैव च ।
तृटिविश्वसमायुक्तो एकैकस्य वरानने ॥ ५८ ॥
एवञ्चरति देवेशि ज्वालिन्या वर्णसङ्ग्रहे ।
पिङ्गलस्य प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ५९ ॥
या सङ्ख्या चरते देवि तामेवमवधारय ।
एतस्मिन् देवदेवेशि प्रभुश्चरति नित्यशः ॥ ६० ॥
वर्णचारं समाख्यातं पिङ्गलस्य वरानने ।
प्। ५७६)
अस्त्रेन्द्रस्य प्रवक्ष्यामि शृणु देवि समासतः ॥ ६१ ॥
वर्णे वर्णे यथा देवं कथयामि समासतः ।
शतानि पञ्चसङ्ख्यानि प्राणानां सुरसुन्दरि ॥ ६२ ॥
प्राणाश्चतुर्दश प्रोक्तं निमेषकं तथैव च ।
तृटिश्चतुर्थभागञ्च प्रभुश्चरति नित्यशः ॥ ६३ ॥
एष ते वर्णचारस्तु अघोरास्त्रस्य कीर्तितम् ।
एतद्देवि समाख्यातं शिवपीठे तु ये स्थिताः ॥ ६४ ॥
भिन्नावस्थेन देवेशि कथितञ्चानुपूर्वशः ।
अभिन्नाः शिवसंयुक्ताः मन्त्रा विद्योदितप्रदाः ॥ ६५ ॥
तदेषां चारमाख्यातं तन्नित्या वस्तु ये स्मृताः ।
प्। ५७७)
शिवस्यासनमास्थानमन्त्राः सर्वज्ञकीर्तिताः ॥ ६६ ॥
अप्रमेयाह्यनूपम्या अनिर्देश्या अनामयाः ।
पदवर्णविभेदेन कलाभेदेन ये स्थिताः ॥ ६७ ॥
नेत्रचारेण देवेशि मन्त्रा ज्ञेयाः सदा बुधैः ।
एकैकन्तु पदा मन्त्रं जपते साधको यदि ॥ ६८ ॥
तदाचारेण जप्तव्या साधकेन महात्मना ।
मातृकायाः प्रवक्ष्यामि सर्वशास्त्रसुसंयुतम् ॥ ६९ ॥
येन विज्ञातमात्रेण सिध्यते साधकेश्वरः ।
तस्मात्सर्वप्रयत्नेन मातृकाचारमभ्यसेत् ॥ ७० ॥
एकैकोदयदा यज्ञे अचिरादेव सिध्यति ।
प्। ५७८)
अकारादिक्षकारान्ता मातृका परिकीर्तिताः ॥ ७१ ॥
एभिश्चरति विश्वात्मा यथा शृणु सुलोचने ।
एकैकस्य तु वर्णस्य शतानि चतुरेव तु ॥ ७२ ॥
द्वात्रिंशतिस्तथा प्राणा विज्ञेयास्साधकैस्सदा ।
तृटिरेका तु विज्ञेया साधकेन महात्मना ॥ ७३ ॥
तृटित्त्रिभागो विज्ञेयो वर्णे वर्णे चरेत्प्रभुः ।
अभिन्नं यजते यस्तु तस्य चारो न विद्यते ॥ ७४ ॥
एतत्ते कथितं देवि मातृकाचारमुत्तमम् ।
दशात्मदेहं वक्ष्यामि तदेकाग्रमना शृणु ॥ ७५ ॥
सहस्रस्य द्वयं ज्ञेयं शतमेकं तथैव च
प्। ५७९)
प्राणाष्षष्टिस्तथैवेह एकैकस्य वरानने ॥ ७६ ॥
भिन्नस्य चारमाख्यातं शिवेन परमात्मना ।
अभिन्नेषु वरारोहे भवेन्नित्योदितः प्रभुः ॥ ७७ ॥
हृदयस्य प्रवक्ष्यामि चारं शृणु सुलोचने ।
सहस्रत्रितयं ज्ञेयमेकैकस्य वरानने ॥ ७८ ॥
पञ्चाशीतिस्तथा प्राणा निमेषद्वयमेव च ।
द्वयमेकञ्च देवेशि तृटिरेका प्रकीर्तिता ॥ ७९ ॥
तृटिरेका समाख्याता त्रयांशमपि सुवृते ।
हृदयस्तु समाख्यातः शिरसः कथयामि ते ॥ ८० ॥
तत्वानां वाचनी सङ्ख्या सकलाद्या वरानने ।
प्। ५८०)
सङ्ख्या वै तावती प्रोक्ता शिरसस्तु न संशयः ॥ ८१ ॥
अस्त्रं तथैव विज्ञेयं चारज्ञेन महात्मना ।
नेत्रस्यैव प्रवक्ष्यामि चारं शृणु सुलोचने ॥ ८२ ॥
सहस्राः सप्त विज्ञेयाः शतद्वितयमेव च ।
एतच्चारं समाख्यातम् एकैकस्य वरानने ॥ ८३ ॥
ज्ञातव्यं देशिकेन्द्रेण सिद्धिमोक्षार्थकाङ्क्षिणा ।
वर्णस्थं कथितं देवि भिन्नचारकथा भवेत् ॥ ८४ ॥
शिवपीठे यदा देवि न दोषां चारमादिशेत् ।
सोनादिकस्तु भगवान् अनाख्येयं ह्यनामयम् ॥ ८५ ॥
वर्णस्थस्य पदस्थस्य भिन्नाभिन्नस्य वर्णितम् ।
प्। ५८१)
पीठं त स तु देवेशि कथितञ्चानुपूर्वश ॥ ८६ ॥
एवं चारविभेदज्ञो मुच्यते नात्र संशयः ।
समुदायेन मन्त्राणां कथितं तव शोभने ॥ ८७ ॥
योगे योगजपश्चैव ज्ञातव्यो देशिकेन तु ।
संवत्सरतनुर्देवो यदि स्याद्भजने गुरुः ॥ ८८ ॥
एकोदयेन ज्ञातव्यं देशिकेन महात्मना ।
षड्वर्णं यजते मन्त्री तस्यैव जपमारभेत् ॥ ८९ ॥
निष्कलेन वरारोहे क्लेशेनैव सिद्ध्यति ।
भिन्नावस्थं त्रिधा कृत्वा न भूयो जन्मभाक् भवेत् ॥ ९० ॥
सिद्धिन्यासेन सिद्ध्यर्थं संहारो मोक्षमेव तु ।
प्। ५८२)
उत्पत्तिप्रलयं ज्ञात्वा सिध्यते नात्र संशयः ॥ ९१ ॥
इति निश्वासकारिकायां पञ्चाशत्पटलः ।