४९

देव्युवाच

सकलं देवदेवेश श्रुतं विस्तरतः प्रभो ।
निष्कलं श्रोतुमिच्छामि सकलं व्याप्य विष्ठितम् ॥ १ ॥

ईश्वरः

अतः परं प्रवक्ष्यामि शिवधर्मं सनातनम् ।
येन मुक्तस्सधर्मात्मा धर्मोत्सन्नो निगद्यते ॥ २ ॥

प्रभुस्वतन्त्रश्च सदा सदासम्पूर्णलक्षणः ।
अमेयस्सर्वगश्शुद्धः सर्वशक्तिकलान्वितः ॥ ३ ॥

प्। ५४२)

व्याप्य कृत्स्नां स्थितो लोकाननन्तादिशिवान्तकान् ।
एकान्तावस्थितो ह्येषः शिवशक्तिसमन्वितः ॥ ४ ॥

ईशत्यग्रे स भगवान् ईशिनीभिश्शिवोऽव्ययः ।
जगत्कृत्स्नं महायोगं शक्तियोगं मरीचिभिः ॥ ५ ॥

स्थाप्यते विंशके चैव पशून्यस्मात्स्वशक्तिभिः ।
शान्तत्वात् स्वकर्तृत्वात् शक्तिमत्वान्महौजसः ॥ ६ ॥

शासनाच्छमनाच्छक्ति क्षेत्रज्ञानुग्रहं प्रति ।
प्रकुर्वन्ति जगत्कृत्स्नं शक्तयस्ता महात्मनः ॥ ७ ॥

शिवेनाधिष्ठितं यस्मात् जगत्सर्वं चराचरम् ।
सर्वाकारमनाकारमनौपम्यमनामयम् ॥ ८ ॥

प्। ५४३)

सर्वैस्सर्वकलाव्यापी सूक्ष्मस्तन्मयां गतः ।
मन्त्रतेजोमयोनित्यमचिन्त्यः परमश्शिवः ॥ ९ ॥

सर्वप्रमाणदूरस्थः तुर्यातीतः परापरः ।
वाग्विशुद्धः परज्योतिः स्वतेजो दृढगोचरः ॥ १० ॥

अप्रमेयमनिर्देश्यमनौपम्यमनामयम् ।
सुसूक्ष्ममव्ययन्नित्यं कारणं ज्योतिरुत्तमम् ॥ ११ ॥

सोमार्कानलतेजोभिः पिण्डीकृतसहस्रशः ।
विद्युत्परार्धकोटीनां तत्तेजो व्याप्य तिष्ठति ॥ १२ ॥

वैद्युतञ्चन्द्रसूर्यौ च नक्षत्राणि हुताशनः ।
तेजसा तस्य दीप्यन्ते महातेजाश्च स स्मृतः ॥ १३ ॥

प्। ५४४)

मणेरिव मणिं तेजः स्वतेजोपरिसंवृतः ।
एवं व्रतः परो देवः स तेजस्तेजसामपि ॥ १४ ॥

व्योमस्थं व्योमवन्नित्यं व्योमसाधर्म्यरूपिणम् ।
निर्मलादर्शकप्रख्यं शरद्वारिसमप्रभम् ॥ १५ ॥

अभिख्यामिव सूर्याणां युगपद्युदयं यथा ।
अत्यन्तनष्टतमसा ऊर्ध्वभासा दिशो दश ॥ १६ ॥

विधा विचिन्त्यदलक्ष्यमचिन्त्यरूपमीश्वरम् ।
नित्यं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ॥ १७ ॥

सर्वगं सर्वकृत्सर्वस्सवेशस्सर्ववित्प्रभुः ।
सर्वभूतात्म भूतस्थ परं व्योमशिवोऽव्ययः ॥ १८ ॥

प्। ५४५)

भोज्यं भोक्ता च दाता च सर्वतत्वतनुःपरः ।
निश्चित्य कर्तृकर्ता च सर्वभूतपतिश्शिवः ॥ १९ ॥

नानाशिवसहस्राणि पद्मसर्वयुतानि च ।
सर्वे शुद्धाश्च नित्याश्च ये स्थिताश्शिवगोचरे ॥ २० ॥

सूर्यकोटिप्रभास्सर्वे शुद्धाश्चैव स्वभावतः ।
पृथग्रूपन्तु यत्प्रोक्तं साधकैः शास्त्रचिन्तकैः ॥ २१ ॥

महास्थानमहाज्ञानं महाप्रस्थानमेव च ।
महाद्युतिर्महाभूतिः महातेजा महायशाः ॥ २२ ॥

अप्रतर्क्यमविज्ञेयं स्वरूपे सम्प्रतिष्ठितम् ।
अग्राह्यं सर्वभूतस्थमक्षोभ्यञ्चाव्ययं तथा ॥ २३ ॥

प्। ५४६)

अघोषमस्वरञ्चैव आत्मसंवेद्यमव्ययम् ।
आत्मसंस्थञ्च विज्ञेयमरूपञ्चाप्रतिष्ठितम् ॥ २४ ॥

अक्लेशमक्षयञ्चैव समस्तं व्याप्तरूपिणम् ।
अजञ्चानन्तरूपञ्च अगोत्रपितृमातृकम् ॥ २५ ॥

अनस्थिसज्जरुधिरम् अत्वचं ह्यकलेवरम् ।
अनादिमध्यनिधनमचाल्यमचलं ध्रुवम् ॥ २६ ॥

अप्रसारितविस्तीर्णमव्युच्छन्नं समन्ततः ।
समञ्च सर्वभूतेषु सततं विततन्तनुम् ॥ २७ ॥

स बाह्येभ्यन्तरे सर्वे सर्वालयमनालयम् ।
निर्मलं निरहङ्कारं निर्बुद्धिञ्च निरिन्द्रियम् ॥ २८ ॥

प्। ५४७)

निर्गुणं निश्चलञ्चैव निष्प्रपञ्च निरामयम् ।
नित्योदयं निराभासं निर्विकल्पं निरामयम् ॥ २९ ॥

निस्संशयन्निरौपम्यन्नित्यं नित्योदितं तथा ।
न निम्नं नोध्रितञ्चैव न वक्रन्न च वा ऋजुः ॥ ३० ॥

न दीर्घन्न च वा ह्रस्वं न स्थूलं न च वा तनुः ।
न त्रिकोणं चतुष्कोणं न चैव परिमण्डलम् ॥ ३१ ॥

न चैव कश्चिदाकारस्सर्वाकृति निराकृतिः ।
न परोक्षं समक्षञ्च न गतिर्न च वा गतिः ॥ ३२ ॥

नो परिष्ठान्न चाधस्तात् नाग्रतो न च पृष्ठतः ।
न चास्ति न च वा नास्ति सर्वस्थं किमवीष्ठितम् ॥ ३३ ॥

प्। ५४८)

न शरीरं पृथक्त्वेन न चैकस्थं व्यवस्थितम् ।
न परं प्रत्ययं वेद्यन्नापरं किञ्चिदुच्यते ॥ ३४ ॥

शिवं सूक्ष्मञ्च विज्ञेयं सृष्टिसंहारवर्जितम् ।
न तत्र जायते सृष्टिः संहारो नैव जायते ॥ ३५ ॥

अनारम्भमनुत्पाद्यमक्षयञ्चानलं तथा ।
अव्ययञ्च ध्रुवन्नित्यमनौपम्यमनामयम् ॥ ३६ ॥

अनाश्रितमनादञ्च अविकारी तदुच्यते ।
सदा शान्तं सुनिर्वाणं परितृप्तञ्च सर्वतः ॥ ३७ ॥

सर्वभावविनिर्मुक्तं क्रियाकालविवर्जितम् ।
अभोज्यञ्चाप्यभुक्तञ्च स्वच्छञ्चैव सुनिर्मलम् ॥ ३८ ॥

प्। ५४९)

अप्रमेयमविज्ञेयं सर्वज्ञं सर्वतोमुखम् ।
धर्माधर्मगुणैहीनं संश्रितं न च केनचित् ॥ ३९ ॥

न चिन्तयित्वा मा भाति न च शक्यं प्रकाशितुम् ।
विरजं चारजं शुद्धं शिवधर्म पविश्च यत् ॥ ४० ॥

भावाभावविनिर्मुक्तं मायामायिविवर्जितम् ।
दूषणादोषरहितं न चलं नावचालितम् ॥ ४१ ॥

प्रत्यक्षादिप्रमाणैस्तु न च शक्यं प्रकाशितुम् ।
अनन्तनहनं सूक्ष्मं प्रमाणातीतलक्षणम् ॥ ४२ ॥

सर्वागमैरगम्यञ्च बहिरन्तश्च संस्थितम् ।
सर्वकारणधर्मञ्च कारणातीतलक्षणम् ॥ ४३ ॥

प्। ५५०)

एवमेव महातत्वमसादृश्य गुणै स्थितम् ।
न च तच्छक्यते ज्ञातुं विना तस्याप्यनुग्रहात् ॥ ४४ ॥

कर्तानुमानबुध्या च शास्त्रणाञ्च विकल्पनात् ।
गुरुवक्त्रात्तु लभ्येत तच्छक्त्या सम्प्रचोदितात् ॥ ४५ ॥

तत्वरूपं वरं यस्मात् निस्तत्वं तत्ववर्जितम् ।
यः प्रपद्येदिदं सर्वं ज्ञातं तेनापि सर्वतः ॥ ४६ ॥

आदौ मध्ये तथाचान्ते वस्तु शुद्धश्च यत्पदम् ।
तदीर्यतेनात्र भेदेन मनसा तु मनोन्मनौ ॥ ४७ ॥

व्यापिनं सर्वभावानां शुद्धाशुद्धत्वलक्षणः ।
अशुद्धं शुद्धतत्वन्तु व्योमामृतपदोद्भवः ॥ ४८ ॥

प्। ५५१)

न तस्माच्छक्यते वक्तुं विज्ञेयं निष्कलं शुभम् ।
स्वप्रकाशपरं वेद्यं न केनापि प्रकाशते ॥ ४९ ॥

यथा पुमान् स्वविषयान् स्वशक्त्यान्ववलोकते ।
तथाऽसौ परमो देवः स्वशक्त्रैवावलोकते ॥ ५० ॥

सर्वज्ञश्च सुसम्पूर्णः स्वभावविमलश्शिवः ।
सर्वदोषविनिर्मुक्तमसामान्यगुणोदयः ॥ ५१ ॥

न पार्वतीपतिरसौ च कपालशूली-
नासावपि त्रिपुरहानशशाङ्कमौलिः ।
एकान्तशान्तरहितः सततप्रवाहः
कोपप्रसादरहितः प्रभुरन्य ईशः ॥ ५२ ॥

प्। ५५२)

शिवमादौ शिवमध्ये शिवमन्ते च सर्वदा ।
महामालञ्जनाजालव्यतीततनुरीश्वरः ॥ ५३ ॥

जन्ममृत्युजरामोह कामक्रोधभवोद्भवाः ।
न विद्यन्ते यतस्तस्य शान्तं शिवपदं ततः ॥ ५४ ॥

ब्रह्मादिकारणेशानां शिवत्व सा दर्शनात् ।
शिवत्वं गीयते शम्भोः सदा सौम्यं महात्मनः ॥ ५५ ॥

शिवमेकान्तकल्याणमनौपम्यमनामयम् ।
सर्वमङ्गलमाङ्गल्यं नित्यं शुभकरं शिवम् ॥ ५६ ॥

अर्हस्तु पूजनीयार्थास्सर्वे भूतपतिर्द्विजैः ।
जगद्गुरुस्सविज्ञेयः सर्वालङ्कारसंयुतः ॥ ५७ ॥

प्। ५५३)

कारुण्यभस्मलिप्ताङ्गं शान्तिखट्वाङ्गधारणः ।
निस्सहत्वजटाधारः शिवचन्द्रकिरीटवान् ॥ ५८ ॥

ज्ञानशूलधरो नित्यं कृपाजिह्वाग्रपन्नगः ।
निरावरणमन्नत्वं त्रैलोक्यं दिव्यचक्षुषः ॥ ५९ ॥

कामात्मतापनो देव इच्छाशक्तिविभूषितः ।
अचलश्शाश्वतो व्यापी अजोनित्यस्वयम्भुवः ॥ ६० ॥

अप्रवृत्तस्सुसंवृत्तो ज्ञाता कर्ता च शाश्वतः ।
सर्वज्ञः सर्वकर्ता च सर्वतोक्षिशिरोमुखः ॥ ६१ ॥

अनक्षरमनुत्पाद्यमनिर्देश्यमनामयम् ॥ ६२ ॥

प्। ५५४)

तत्वावभासकं नित्यम् ऐश्वर्यं ज्ञानमुच्यते ।
साक्षिवत्संस्थितो नित्यं त्रिप्रकारस्य कर्मणः ॥ ६३ ॥

स भित्वा नाभिमध्यं तं संसारं न च सम्मृशेत् ।
यस्य यस्य मनश्चेष्टा शुभे वा यदि वाऽशुभे ॥ ६४ ॥

समन्तात्सर्वभूतानां ज्ञस्वभावञ्च व्यापकः ।
क्षणं यत्पश्यते सर्वं सुखदुःखं हिताहितम् ॥ ६५ ॥

संसारमण्डलं कृत्स्नमादिमध्यान्तसंस्थितम् ।
सर्वमात्मनि पश्येत न च संयुज्यते विभुः ॥ ६६ ॥

सर्वभूतकृतं कृत्स्नं सङ्कल्पाध्यवसायिनम् ।
शृणुते मनुते नित्यं न तु युज्यति सर्वतः ॥ ६७ ॥

प्। ५५५)

शब्दस्पर्शञ्च रूपञ्च रसं गन्धं शुभाशुभम् ।
श्रोता वक्ता च भोक्ता च मन्ता च सुखदुःखयोः ॥ ६८ ॥

प्रादात्सर्वत्र सर्पादश्चेता पश्यन् शृणोति च ।
अशेषभुवनव्यापी निश्शेषो बन्धमोक्षकृत् ॥ ६९ ॥

सर्वज्ञः सर्वकरणः सृष्टिसंहारकारकः ।
अनादिमध्यनिधनः प्रभवः सर्वतत्वगः ॥ ७० ॥

सृष्टिसंहारकर्ता च क्रीडया प्रभवेश्वरः ।
सर्वज्ञश्च प्रबुद्धश्च प्रकको बोधकस्तथा ॥ ७१ ॥

पालको जलपाल्यश्च निग्रहानुग्रहेश्वरः ।
उत्पादकोह्यनुत्पाद्य आशास्यः शासिता तथा ॥ ७२ ॥

प्। ५५६)

ससर्वदीपसंवेद्यो ध्रुवश्शान्तोऽथ निर्मलः ।
इच्छया सकलो देव इच्छया कलवर्जितः ॥ ७३ ॥

इच्छया च सृजत्येन इच्छया संहरत्यपि ।
प्रवृत्तस्य विरोधीते विनाशोत्पत्तिकारणम् ॥ ७४ ॥

निर्मलोधिकमानश्च अप्रमेयः प्रमाणवित् ।
सर्वसम्भवहेतुश्चाप्यहेतुश्च सनातनः ॥ ७५ ॥

सुधामा शाश्वतो नित्यः प्रभवः कारणेश्वरः ।
सर्वकारणधर्मश्च शक्तिभिः प्रविभाव्यते ॥ ७६ ॥

स्वतो धर्मश्च भगवान् प्रतीघातविलक्षणः ।
अनादिख्ययश्चैव अविचाल्यो विचालकः ॥ ७७ ॥

प्। ५५७)

भोक्ता चैव तु भोक्ता च व्यापकः परमेश्वरः ।
शक्तिभिश्चाप्रमेयश्च तृप्तश्च भगवान् शिवः ॥ ७८ ॥

अक्षोभ्यश्चैव विक्षोभ्य तत्वानाञ्च विशेषतः ।
अतर्क्यचेष्टितो देवः प्रभुः प्रभवतामपि ॥ ७९ ॥

बुद्धिमत्पूर्वको देवः परं व्योम परात्परः ।
स तस्मात् ज्ञानमात्रेण निष्ठीवे हि स प्रेरितः ॥ ८० ॥

ओषधी योगवच्चैव यथाऽप्य बलिना बलः ।
प्रेरको निष्कलो ह्येष यथा सकलनिष्कलः ॥ ८१ ॥

सुसूक्ष्मत्वादमेयत्वादीशित्वात्परमेश्वरि ।
शक्तिराद्यातिविमला शक्तिभिन्ना निवार्यते ॥ ८२ ॥

प्। ५५८)

सुसमिद्धो यथा वह्नि स्थलन्दहति शाड्वलम् ।
भवेति शक्तिजिह्वत्वं प्रदीप्यन्तं निवार्यते ॥ ८३ ॥

उत्पत्तिविलयानान्तु स्थित्यनुग्रहकारिणः ।
कृतप्रसादनोपाय लक्षणं गीर्यते प्रभोः ॥ ८४ ॥

कालस्तरुष्वमूर्तोऽपि करोति कुसुमोच्चयम् ॥
फलानाञ्च तथा शेषां पतनञ्च यथा निशम् ॥ ८५ ॥

तथोत्पत्तिविनाशानां कर्ताशम्भुरमूर्तिमान् ।
अयस्कान्तगताशक्तिरमूर्ता कुरुते क्रियाः ॥ ८६ ॥

गृह्णात्यधो यथा तत्वं शिवशक्तिरनामया ।
शक्तयश्शङ्करवशाद्वर्तन्तेत्यन्तनिर्मलाः ॥ ८७ ॥

प्। ५५९)

कर्ता स एव जगतः परोऽपि स इहोच्यते ।
न करोति स्वयं यस्मात् शान्तस्तेन निगद्यते ॥ ८८ ॥

न हि कर्ता कारयिता नित्या देवस्सदाशिवः ।
यथा कृषीवलाहीनां स्वकर्माण्यनुवर्तिनाम् ॥ ८९ ॥

जरा जातिना प्रसादेन न विना फलदानि तु ।
एवं सर्वाणि कर्माणि जपध्यानानि कानिचित् ॥ ९० ॥

महेश्वरप्रसादेन न विना फलदानि तु ।
अतीतस्सर्वभावानाम् अचिन्त्यगुणवर्जितः ॥ ९१ ॥

सर्वकृत् सर्वस्वभूतेन सनातनः ।
न चासौ चेन्द्रियग्राह्यो न करेण न चक्षुषा ॥ ९२ ॥

प्। ५६०)

आत्मनैवात्मना ग्राह्यो सर्वशः प्रभुरीश्वरः ।
पूरयती निरवशेषं समस्ततनुरीश्वरोप्यतनुः ॥ ९३ ॥

सकलपशुबन्धमोक्षप्रलयोत्पत्ति हेतुरेक एषः ।
अधितिष्ठति भूतानि गूढश्शब्दादिवर्जितः ॥ ९४ ॥

सर्वशश्शान्तस्सर्वज्ञः प्रभूरीशान अव्ययः ।
ओतप्रोतमनाद्यन्तं शक्तिभिर्व्याप्य संस्थितः ॥ ९५ ॥

चराचरं विश्वमिदम् ओजसा सर्वतोमुखः ।
सर्वतः सर्वभूतेषु स्थावरेषु चरेषु च ॥ ९६ ॥

सर्वबीजकलाव्यापी सर्वं व्याप्य व्यवस्थितः ।
अग्रे प्रकाशयेद्यस्मात् अग्रे शिववाच्छिवाध्वरे ॥ ९७ ॥

प्। ५६१)

सर्वासित्वाच्च तत्वानाम् अग्निर्वै सर्वतोमुखः ।
सर्वान्तस्समाधिस्थ अन्तःकरणगोचरः ॥ ९८ ॥

यदग्रे लक्ष्यते सूक्ष्मं योगिभिस्तदुपास्यते ।
सर्वात्मा सर्वभूतानां सर्वभूतविवर्जितः ॥ ९९ ॥

भावात्मा सर्वभावानां सर्वभावविवर्जितः ।
प्रधानगुणसंहर्ता तत्वं मया वरं स्मृतम् ॥ १०० ॥

सर्वभूतगुणावस्थस्सर्वभूतगुहाश्रयः ।
सर्वभूतात्मसंस्थानं सर्वत्र गतमव्ययम् ॥ १०१ ॥

जयावृत्तं सुसम्पूर्णं शुद्धं स्वात्मव्यवस्थितः ।
एवं परमनिर्वाण स्वमायी परमश्शिवः ॥ १०२ ॥

प्। ५६२)

अनादिमध्यनिधनो निर्द्वन्द्वः च्छिन्नसंशयः ।
एष दुःखातिगो हेतुरेष क्षेमकरश्शिवः ॥ १०३ ॥

विकारदेशोपमतुल्यवर्जितः
तथोपमा रूपनिरस्तसंस्कृतिः ।
अभावभावेन विलक्षणो धियः
शिवस्सदाकारणकारणान्तरः ॥ १०४ ॥

वस्तु यस्मात् क्वचित् किञ्चित् तादृगन्यन्न विद्यते ।
स निर्वाणः परश्शुद्धो निर्मायी परमश्शिवः ॥ १०५ ॥

एष ते निष्कलो देवः सकलेन समन्वितः ।
अनुध्यानेन तन्नित्यं स्मरन्ती मनसा धियः ॥ १०६ ॥

प्। ५६३)

कारिकायां महादेवि कथितं तव सुवृते ।
निश्वासे तु परे तन्त्रे निष्कलस्सकलस्य तु ॥ १०७ ॥

शिवधर्ममिदं सारं सर्वतन्त्रोत्तमोत्तमम् ।
देयं शैवाभिषिक्ताय न दद्यात्परदीक्षिते ॥ १०८ ॥

इति निश्वासकारिकायाम् एकोन पञ्चाशत्पटलः ।