देव्युवाच
यत्त्वया कथितं न्यासं पृथिव्यादिरनुक्रमात् ।
मन्त्रसोच्चारविन्यासं स्थानानि अनुपूर्वशः ॥ १ ॥
ते मया विदिता देवि यस्मिन् यस्मिन् व्यवस्थिताः ।
पुनश्च श्रोतुमिच्छामि संशयो मे महेश्वर ॥ २ ॥
न रूपेण विना न्यासो न च सिद्धिः प्रवर्तते ।
रूपहीना न सिध्यन्ति देवदैत्येन्द्रराक्षसाः ॥ ३ ॥
प्। ५१७)
रूपहीना महाक्रूराः विघ्नं कुर्वन्ति नायकाः ।
भूतैश्च परिभूयन्ते निवेशं यान्ति पन्नगाः ॥ ४ ॥
उच्चाटावेशकर्माणि मारणं ताडनानि च ।
शान्तिकं पौष्टिकं चैव अमृतीकरणानि च ॥ ५ ॥
वश्या नियोगसिद्धिश्च रूपहीना न सिध्यति ।
तस्माद्रूपं महादेव मन्त्राणां कथयस्व मे ॥ ६ ॥
तत्वानाञ्चैव देवेश देवानाञ्च विशेषतः ।
कलानां रूपमाख्या हि फलन्यासस्य यद्भवेत् ॥ ७ ॥
एतत्कार्यमशेषेण भगवन् वक्तुमर्हसि ।
ईश्वरः
प्। ५१८)
साधु साधु महाप्राज्ञे यत्त्वया चोदितोस्म्यहम् ॥ ८ ॥
न केनचिदहं पृष्टो ब्रह्मविष्णुसुरासुरैः ।
एतत्पृश्नं महापुण्यम् अशेषफलभूमिदम् ॥ ९ ॥
एकमुत्पाद्यकोह्येषु न्यासः परमदुर्लभः ।
प्राणायामपरो भूत्वा रूपलक्षणसंयुतम् ॥ १० ॥
न्यसेद्बीजगणं देवि दक्षिणेन समाहितः ।
सप्तरश्मिप्रतीकाशं शुद्धस्फटिकनिर्मलम् ॥ ११ ॥
अयः पिण्डसुतप्ताभं रञ्जितं परिहारितम् ।
चन्द्रांशुनिर्मलं शुद्धं विद्युत्कोटिसमप्रभम् ॥ १२ ॥
रश्मिमालासहस्रैस्तु द्योतयन्तं समन्ततः ।
प्। ५१९)
बीजं सञ्चिन्तयेद्देवि सर्वकिल्विषनाशनम् ॥ १३ ॥
ब्रह्महत्यादि पापानि ध्यानमात्रेण इत्ययम् ।
योगमुत्पद्यते देवि मासानभ्यन्तरेण तु ॥ १४ ॥
एवं बीजस्य विन्यासो योनिनां शृणु साम्प्रतम् ।
चण्डरश्मिप्रतीकाशं द्योतयन्तं समन्ततः ॥ १५ ॥
स्रवन्तममृतं दिव्यं जरारोगविनाशनम् ।
चन्द्रचन्द्रकसङ्काशं योनिचक्रं विचिन्तयेत् ॥ १६ ॥
मध्ये नवात्मकं देवं तप्तहाटकसन्निभम् ।
ध्यातव्यं योगिभिर्नित्यं द्योतयन्तं समन्ततः ॥ १७ ॥
बीजयोनौ च वा रश्मिः देवदेव्यस्य रश्मयः ।
प्। ५२०)
एकीभूतानि सञ्चित्य युगान्तकिरणत्विषः ॥ १८ ॥
बीजे तु ईश्वरः साक्षात् द्योतयन्तं देवि संस्थितम् ।
नवात्मानं वरारोहे ज्ञातव्यन्तु सदाशिवः ॥ १९ ॥
बीजयोनिनत्वात्मानां त्रयाणां रश्मयो बुधैः ।
पिण्डीभूताश्शिरस्थाने बिन्दुरेको विचिन्त्यता ॥ २० ॥
तस्योपरि शिखा दिव्या नादं परमदुर्लभा ।
तस्यातिते स्थिता शक्तिः द्योतयन्ती समन्ततः ॥ २१ ॥
बिन्दोस्त्वीश्वरो ज्ञेयो * न्नदोर्ज्ञेयो सदाशिवः ।
शक्तिस्तु देवदेवेशि त्वमेव परिकीर्तिता ॥ २२ ॥
परत्वमपरश्चैव मातृका या प्रकीर्तिता ।
प्। ५२१)
साम्पृतं शृणु देव्यत्र तत्वानां कथयामि ते ॥ २३ ॥
उकारः प्रकृतिर्ज्ञेयो रूपत्रयसमन्विता ।
कृष्णं रक्तं तथा श्वेतं ध्यातव्यं योगिभिस्सदा ॥ २४ ॥
स्थानं पूर्वं मया ख्यातं ज्ञातव्यं देशिकेन तु ।
यकारं पौरुषं तत्वं शिवरूपं विचिन्तयेत् ॥ २५ ॥
सद्योतमदृशं वाऽपि आपरिध्वे तु पुष्करे ।
एतद्ध्यानपरो भूत्वा योगसिद्धिमवाप्नुयात् ॥ २६ ॥
वकारो नियतिः ज्ञेया तव वर्णं विचिन्तयेत् ।
अयं वा शुक्लकृष्णञ्च रक्तसूत्रेण चोदितः ॥ २७ ॥
तादृशं ध्यायमानस्तु न्यासकाले वरानने ।
प्। ५२२)
सिध्यते नात्र सन्देहः सत्यं देवि वदाम्यहम् ॥ २८ ॥
धूम्रवर्णाधरतलं लकारं कामरूपिणम् ।
द्योतयन्तं स्वकं स्थानं ध्यातव्यं शुद्धिमिच्छता ॥ २९ ॥
नीलमेघनिभाकारं मायातत्वसुभैरवम् ।
द्योतयन्तं स्वकं स्थानं ध्यात्वा सिद्धिर्न संशयः ॥ ३० ॥
विद्यां वै रक्तवर्णाढ्यां न्यासकाले विचिन्तयेत् ।
सिध्यते ह्यविचारेण साधकस्सुसमाहितः ॥ ३१ ॥
पूर्वाक्ता ये महारूपाः तेन सिद्ध्यन्त्यसंशयः ।
ईश्वरस्तु रकारो वै चित्ररूप उदाहृतः ॥ ३२ ॥
द्योतयन्तं महातत्वं मूर्धस्थाने व्यवस्थितम् ।
प्। ५२३)
सिध्यते ह्यविचारेण एवं न्यासं विचिन्तयेत् ॥ ३३ ॥
हङ्कारमीश्वरादूर्ध्वं देवदेवं सदाशिवः ।
ध्यातव्यं योगिभिर्नित्यं युगान्तकिरणत्विषा ॥ ३४ ॥
तेनेदं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
अनेन सिद्ध्यते योगी सर्वज्ञत्वं प्रवर्तते ॥ ३५ ॥
बिन्दुनादं समाख्यातं शक्तेश्चैव समासतः ।
कथितं स रहस्यन्तु न मया गोपितं तव ॥ ३६ ॥
पृथिव्यादीनि तत्वानि शृणु देवि वदाम्यहम् ।
शुक्लपद्मोपरिष्ठात्तु शोभयन्ती महायशाः ॥ ३७ ॥
बालस्त्रीरूपिणी श्यामा आदित्यसमतेजसा ।
प्। ५२४)
एवं रूपधरी ध्यात्वा विन्यसेत्पादयोर्धराम् ॥ ३८ ॥
सन्ततिध्यानयोगेन विषमाशु विनाशयेत् ।
आचार्यः सर्वभूतानां यथैव वसुधा भवेत् ॥ ३९ ॥
श्यामध्यानपरो भूत्वा आत्मन्यासन्तु कारयेत् ।
वायुञ्जानुप्रदेशे तु पीतवर्णं विचिन्तयेत् ॥ ४० ॥
सिध्यतेऽनेन योगेन न्यासेन सुसमाहितः ।
आकाशं भुविरं रूपं ध्यातव्यं योगिभिस्सदा ॥ ४१ ॥
ऊरुयुग्मे महादेवि न्यासकाले विचिन्तयेत् ।
अहङ्कारं तथा रक्तं गुह्ये चात्मनि विन्यसेत् ॥ ४२ ॥
आदित्योदयसङ्काशं न्यासकाले विचिन्तयेत् ।
प्। ५२५)
कुङ्कुमारुणसङ्काशं चतुर्वक्त्रं चतुर्भुजम् ॥ ४३ ॥
चिन्तयेदक्षसूत्रैस्तु द्योतयन्तं समन्ततः ।
न्यासकाले तु देवेशि बुद्धिमेवं विधं न्यसेत् ॥ ४४ ॥
प्राकृतं पूर्वमाख्यातं पौरुषञ्च विशेषतः ।
ते त्वया विदिता देवि कलानां शृणु साम्पृतम् ॥ ४५ ॥
निवृत्तिश्शुक्लवर्णाभा आपादात्कटिरन्ततः ।
द्योतयन्ती समन्तात्तु रश्मिभिर्हिमशीतलैः ॥ ४६ ॥
प्रतिष्ठा पीतवर्णाभा हृदि कट्यान्तु यावधि ।
न्यासकाले तु ध्यातव्या योगमुत्पद्यते सदा ॥ ४७ ॥
विद्या तु रक्तवर्णेन हृदि कर्णावधि स्थिता ।
प्। ५२६)
द्योतयन्ती वरारोहे न्यासकाले विचिन्तयेत् ॥ ४८ ॥
आकर्णमूर्धनि यावत् शान्तिं वै विन्यसेत्सदा ।
चन्द्रातपप्रतीकाशां मुञ्चन्तीममृतं सदा ॥ ४९ ॥
ध्यातव्या योगिभिर्नित्यं न्यासकाले विचिन्तयेत् ।
सु सूक्ष्मा हृदयं यावत् ध्यातव्या नित्यमेव हि ॥ ५० ॥
बालातपत्रनीकाशा न्यासकाले विचिन्तयेत् ।
अमृताकर्णमाश्रित्य अनेककिरणोज्वला ॥ ५१ ॥
नीवातातपसङ्काशा न्यासकाले विचिन्तयेत् ।
अमृतामृतकला या तु अनौपम्या ह्यनामया ॥ ५२ ॥
तद्ध्यानान्मुच्यते देवि जन्मसंसारबन्धनात् ।
प्। ५२७)
मृत्युञ्जयेषिभिर्दिव्या ध्यातव्या नित्यमेव हि ॥ ५३ ॥
अमृतामृतेति या ज्ञेया जरामृत्युविनाशिनी ।
कर्णिके देवतान्यासं कर्तव्यं सिद्धिमिच्छता ॥ ५४ ॥
तेषां रूपं समाख्यातं यस्य एवं महात्मनः ।
क्षुषा हि देवेशि वेदितव्यानि देशिकैः ॥ ५५ ॥
वक्त्रं तथैव विज्ञेयं वेदितव्यं प्रयत्नतः ।
हृदि पद्मस्य विन्यासं शृणु देवि वदाम्यहम् ॥ ५६ ॥
अनन्तं पूर्वमेवोक्तपद्मञ्च वरवर्णिनी ।
धर्मपादो भवेत्छुक्लो ज्ञानं रक्तं विचिन्तयेत् ॥ ५७ ॥
वैराग्यं पीतमित्याहुः ईश्वर्यं तमसन्निभम् ।
प्। ५२८)
गात्रकाणि तथैवेह छदनानि तथैव च ॥ ५८ ॥
शक्त्यो गोरचनाभास्तु केसरा अरुणोपमा ।
एवं पद्मस्य विन्यासं यागकाले विचिन्तयेत् ॥ ५९ ॥
दीक्षाकाले तु देवेशि नित्यमेवं विचिन्तयेत् ।
तत्तन्यासे तु ते देवि ततस्तत्वं विचिन्तयेत् ॥ ६० ॥
तेन सर्वमिदं तत्वं व्यापितं सर्वमेव तु ।
तस्य तेजस्मृतास्सर्वे ये केचित् समुदाहृताः ॥ ६१ ॥
तेजसा तस्य दीप्यन्ते सर्वतत्वा न संशयः ।
एकैके तु कृते न्यासे एकैकं तेन भाषयेत् ॥ ६२ ॥
तदा तत्वगणास्सर्वे सिद्धिमुक्तिफलप्रदाः ।
प्। ५२९)
मन्त्रास्तथैव ज्ञातव्या कलाश्चैव समन्ततः ॥ ६३ ॥
एवं न्यासं पुरा कृत्वा सामर्थ्यं सर्वकर्मसु ।
उच्चाटे मारणे चैव ताडनेऽपि वरानने ॥ ६४ ॥
शूलहस्तमहारौद्रा क्रोधलोहितलोचनाः ।
भ्रुकुटीकरालवदना क्रूरकर्मसुयोजयेत् ॥ ६५ ॥
ऊर्ध्वकेशा महारौद्रा कृष्णवर्णा भयावहाः ।
कृशयन्तीं सदा देवि चिन्तयेन्मन्त्रदेवताम् ॥ ६६ ॥
मुद्गरायुधहस्ताञ्च शूलखट्वाङ्गधारिणीम् ।
पाषाणधारिणीञ्चैव काष्ठहस्तांस्तथैव च ॥ ६७ ॥
हुङ्कारमादिसंयुक्तां फट्कारान्तेन दीपिताम् ।
प्। ५३०)
मारणोच्चारणादीनि कुरुते नात्र संशयः ॥ ६८ ॥
शान्तिके पौष्टिके चैव शृणु देवि वदाम्यहम् ।
सौम्यां शुक्लीं महादेवि श्वेतपद्मे व्यवस्थिताम् ॥ ६९ ॥
श्वेतपद्मधरास्सर्वे कुम्भहस्तास्तथैव च ।
चन्द्रांशुधवलस्सौम्याः प्रासादं सव्यपाणिना ॥ ७० ॥
ध्यातव्या देवता देवि पौष्टिके शान्तितर्पणे ।
वशीकरण आकर्षे पाशमङ्कुशधारिणीम् ॥ ७१ ॥
रक्तवर्णाश्च ते सर्वे ध्यातव्यास्साधकेन तु ।
स्तम्भने कृष्णवर्णान्तु नित्यमेव विचिन्तयेत् ॥ ७२ ॥
मूर्तिन्यासं पुरा कृत्वा पश्चान्यासं समारभेत् ।
प्। ५३१)
एष देवि समाख्यातो न्यासः परमदुर्लभः ॥ ७३ ॥
अनुकूले तु भक्ते तु मया तु कथितं तव ।
एवं न्यास इह प्रोक्तः सर्वमन्त्रेषु चोत्तमः ॥ ७४ ॥
ब्रह्महत्यादिकैः पापैः न्यासादेव प्रमुच्यते ।
अभोज्य भक्षणं कृत्वा हत्वा लोकं चराचरम् ॥ ७५ ॥
मुच्यते नात्र सन्देहो न्यासं कृत्वा नराधमः ।
सुवर्णस्तेयगोदानं हुत्वा बहुतराणि च ॥ ७६ ॥
मुच्यते तत्क्षणाद्देवि न्यासं कृत्वा न संशयः ।
एवं न्यासविधिं कृत्वा आचार्यस्सुसमाहितः ॥ ७७ ॥
मोचयेद्दर्शनादेव नात्र कार्या विचारणा ।
प्। ५३२)
कालयागविधानेन देशिको यजते यदि ॥ ७८ ॥
न शक्तो देवि तस्याहं प्रसक्तं गुणसम्पदम् ।
एकाहमपि मया न्यासं कुरुते साधकोत्तमः ॥ ७९ ॥
मुच्यते नात्र सन्देहो जन्मसंसारबन्धनात् ।
सप्ताहमभ्यसेद्यस्तु इमं न्यासं समाहितः ॥ ८० ॥
एकविंशकलानाशु नरकान्नयते शिवान् ।
मासादुत्पद्यते योगः त्रिसन्ध्यं यस्तु चिन्तयेत् ॥ ८१ ॥
षण्मासं योगयुक्तस्तु यं धर्मं मनसि चिन्तयेत् ।
सर्वं सम्पादयत्येष लोकस्यैव हिताहितम् ॥ ८२ ॥
वत्सराभ्यासयोगेन देवेश समतां व्रजेत् ।
प्। ५३३)
त्रैलोक्यस्य तु वृत्तान्तं कथयेन्नात्र संशयः ॥ ८३ ॥
द्विरब्दं योगयुक्तस्तु लोकालोकञ्चराचरम् ।
गच्छते नात्र सन्देहः साधकस्सुसमाहितः ॥ ८४ ॥
निदानखद्यमानानि क्षेत्रनादमनेकधा ।
सिद्ध्यते नात्र सन्देहः योगिनस्तु न संशयः ॥ ८५ ॥
उच्छिष्टान्तर्दधाने च पादलेपरसायने ।
आकाशगमनञ्चैव दण्डकाष्ठपवित्रकम् ॥ ८६ ॥
योगञ्च जनसिद्धिञ्च सिध्यते नात्र संशयः ।
ज्ञात्वा न्यासमिदं देवि विन्यासमन्यत्पलालवत् ॥ ८७ ॥
लक्षाह्यत्रैव ज्ञातव्यास्तत्वान्यत्रैव सुवृते ।
प्। ५३४)
आत्माह्यत्रैव ज्ञातव्यो देवाश्चैव विशेषतः ॥ ८८ ॥
एतद्देवि न दातव्यं पुत्रस्यापि वरानने ।
साधकस्य च दातव्यमाचार्यस्य तथैव च ॥ ८९ ॥
अन्येषां दुष्टमर्त्यानां श्रेयसोऽपि न पातयेत् ।
देव्युवाच
पञ्चब्रह्मेशवाङ्गानां रूपाणि कथयस्व मे ॥ ९० ॥
तैर्विना लभते सिद्धिं विद्याङ्गैश्च तथैव च ।
ईश्वर उवाच
पञ्चब्रह्म शिवाङ्गानां सामान्यं परमेश्वरि ॥ ९१ ॥
सर्वत्र जायते देवि रूपलक्षणसंयुतः ।
नवसूत्रे पुरा प्रोक्तः रूपास्ता एव शोभने ॥ ९२ ॥
वक्त्रयोगं समाख्यातं ज्ञातव्या देशिकेन तु ।
हृदयस्य प्रवक्ष्यामि रूपं शृणु सुलोचने ॥ ९३ ॥
शुद्धस्फटिकसङ्काशं किरणैरपि सङ्कुलम् ।
द्योतयन्तं ह्यधश्चोर्ध्वं हृत्प्रदेशे व्यवस्थितम् ॥ ९४ ॥
हृदि ध्यानपरे देवि न्यस्यते नात्र संशयः ।
शिरन्यासं शिरो देवि हारकुन्देन्दुसन्निभम् ॥ ९५ ॥
द्योतयन्तं समन्तात्तु न्यासकाले विचिन्तयेत् ।
इन्दुकोटिप्रतीकाशं शिखां देविं विचिन्तयेत् ॥ ९६ ॥
स्रवन्तीममृता धाराः प्लावयन्तीं विचिन्तयेत् ।
प्। ५३६)
तेन न्यासेन ध्यानेन साधकस्सुसमाहितः ॥ ९७ ॥
सिध्यते नात्र सन्देहो जरारोगविवर्जितः ।
कवचं सर्वगात्रेषु सूर्यकोटिसमप्रभम् ॥ ९८ ॥
सर्वविघ्नहरञ्चैव ज्वलन्तं सर्वतो मुखम् ।
न्यासेन सिध्यते देवि नात्र कार्या विचारणा ॥ ९९ ॥
अस्त्रं हस्तप्रदेशे तु न तु स्वाङ्गेषु योजयेत् ।
त्रासयन्तं महादेवि विघ्नाश्चैव विचिन्तयेत् ॥ १०० ॥
अस्त्रं पूर्वं जपित्वा तु अयुतानि दशैव तु ।
पश्चात्तु साधनं कुर्यात् निविघ्नैः सिद्धिमाप्नुयात् ॥ १०१ ॥
तेन सर्वं समाहृत्य दिशासु विदिशासु च ।
प्। ५३७)
अस्त्रमध्ये जपं कुर्यात् तदा सिध्यति नान्यथा ॥ १०२ ॥
विद्याङ्गा एवमेव स्यात् कथितं तव शोभने ।
तत्र पाशुपतं हस्त्रं शिवाङ्गं घोरसञ्ज्ञितम् ॥ १०३ ॥
विद्याङ्गमयुतं देवि जप्तव्यं सुसमाहितैः ।
तदा निर्विघ्नतो देवि सिध्यते साधकोत्तमः ॥ १०४ ॥
प्राकारे तु सदा चिन्त्ये जपकाले तु साधकः ।
तदा निर्विघ्नमायाति साधको नात्र संशयः ॥ १०५ ॥
जयसङ्कर्षणं कुर्यात् विद्याङ्गे सुसमाहितः ।
कृत्वा पञ्चरवत्योगं मध्ये तु जपमारभेत् ॥ १०६ ॥
अर्घ्यन्त्वेकादशेनैव जपमध्ये निवेशितम् ।
प्। ५३८)
प्रमाणं जपितं मन्त्रं पुनरेव तु सुवृते ॥ १०७ ॥
पूजयित्वा यथान्यायं कल्पोक्तं कर्म आचरेत् ।
तदा सिद्धिमवाप्नोति देव्या मानुषकृत्रिमाः ॥ १०८ ॥
क्रीडन्ते मन्त्रिणस्सिद्धाः पूर्वोक्तानां यथाक्रमम् ।
सर्वकर्मकरः श्रीमान् कर्मणा मनसा गिरा ॥ १०९ ॥
तत्वं दृष्ट्वा जपेत्तत्वं लक्षमेकं वरानने ।
योगसिद्धिमवाप्नोति मन्त्रास्सिद्ध्यन्ति नान्यथा ॥ ११० ॥
रात्रौ शयनकाले तु शतमावर्तयेद्यदि ।
नष्टञ्च कथयेद्देवि शास्त्राणि विविधानि च ॥ १११ ॥
स एव प्रेरको देवः कथयेच्च न संशयः ।
प्। ५३९)
गुरुं ज्ञात्वा महादेवि कल्पते नात्र संशयः ॥ ११२ ॥
देव्युवाच
शब्दस्पर्शादिरूपेभ्यः इन्द्रियेभ्यस्तथैव च ।
यस्मिन् स्थाने तु ते शोध्याः एकदिक्कामवेदितुः ॥ ११३ ॥
ईश्वरः
शृणु देवि प्रवक्ष्यामि यस्मिन् सिद्ध्यन्ति शोभने ।
तथा ते कथयिष्यामि तदेकाग्रमनाः शृणु ॥ ११४ ॥
पृथिव्यापस्तथा देजो वायुराकाशमेव च ।
पञ्च पञ्च सुवैयोज्या देशिकेन महात्मना ॥ ११५ ॥
पृथिव्यादि गुणा ये तु पृथिव्यां स्तांस्तु शोधयेत् ।
प्। ५४०)
एवमत्वं तथा तेजो आशुगे वै तथैव च ॥ ११६ ॥
पृथिव्यां गन्धतन्मात्रं विषयां गन्धसञ्ज्ञितम् ।
कर्मेन्द्रियचरुस्थञ्च श्रोत्रज्ञानेन्द्रियं स्मृतम् ॥ ११७ ॥
एवमादिक्रमेणैव शोधनीया विपश्चिता ।
शाक्तौ शिवं तथैवेह एकैकं क्रमशस्तथा ॥ ११८ ॥
शोधयेत्पञ्चसु तथा पृथिव्यादिषु शोभने ।
अहङ्कारस्तथा षष्ठो अनुलोमाद्विशोधयेत् ॥ ११९ ॥
एषा ते कथिता दीक्षा मन्त्रोद्धारमशेषतः ।
कलानां निर्णयञ्चैव तत्वानां निर्णयस्तथा ॥ १२० ॥
पदानाञ्च समासेन व्याख्यातं तव शोभने ।
प्। ५४१)
ज्ञात्वा भक्तिमयं शिष्यं दीक्षां व्याख्यातुमर्हसि ॥ १२१ ॥
इति निश्वासकारिकायाम् अष्टचत्वारिंशत्पटलः ।