४७

देव्युवाच

पृथिवी दिवि भागेन देव देव त्वया पुरा ।
न्यासस्तु कथितो देव समयाचारधारितः ॥ १ ॥

कथं तत्वानि देवेशि देशिकेन महात्मना ।
आत्मदेहे तु ज्ञातव्या भगवन् वक्तुमर्हसि ॥ २ ॥

ईश्वरः

शृणु देवि परं गुह्यं सर्वज्ञानमनुत्तमम् ।
येन विज्ञानमात्रेण मुच्यते नात्र संशयः ॥ ३ ॥

आदौ तु देवदेवेशि मातृकां परिकल्पयेत् ।
दक्षिणे योजयेद्बीजं वामे योनिन्तु विन्यसेत् ॥ ४ ॥

प्। ५००)

नमस्कारान्तयोगेन प्रणवादिसमन्वितः ।
वर्गे वर्गे तु कर्तव्यं मन्त्रो वै देशिकेन तु ॥ ५ ॥

मातृकापूर्वविन्यासं नवमो तदनन्तरम् ।
पुनर्नवममुच्चार्य शब्दातीतन्तु कारयेत् ॥ ६ ॥

एवं विन्यस्य देवेशि विभिन्नं पुनरेव तु ।
अकारो प्रतिज्ञेया नाभ्यधस्तात्तु विन्यसेत् ॥ ७ ॥

यकारं पुरुषाख्यस्य हृदि पद्मे तु विन्यसेत् ।
पत्रेषु विन्यसेद्देवि नियतिं तदनन्तरम् ॥ ८ ॥

एवं माया च विद्या च ईश्वरश्च सदा शिवः ।
शिवतत्वन्तु देवेशि सर्वेषामुपरि स्थितम् ॥ ९ ॥

प्। ५०१)

एवं विन्यस्य तत्वानि सकलादिक्रमेण तु ।
बिन्दुनादं तथा शक्तिः एवं विन्यस्य यत्नतः ॥ १० ॥

हृन्मजो देवतान्यासं शृणु देवि ततः परम् ।
सूर्यमण्डलविन्यासमादावेव विचिन्तयेत् ॥ ११ ॥

द्वितीयमैन्दवन्यासं वह्निन्यासं तृतीयकम् ।
ब्रह्माविष्णुश्च रुद्रश्च तथाचेश्वर एव च ॥ १२ ॥

सदाशिवश्शिवश्चैव * * सेच्च यथाक्रमम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ १३ ॥

नादशक्तिश्शिवश्चैव विन्यसेथ यथाक्रमम् ।
सूक्ष्मा नाम कला या तु सु सूक्ष्मा च द्वितीयका ॥ १४ ॥

प्। ५०२)

अमृता मृता तृतीया च बीजामृतं ततः परम् ।
अस्य पञ्च च देवेशि विन्यसेच्छक्तिवत्सदा ॥ १५ ॥

चक्रन्यासं महादेवि पूर्वमेवमुदाहृतम् ।
तत्त्वया विदितं देवि किमन्यत्कथयामि ते ॥ १६ ॥

चक्षुषा च भयैवेह तदेव कथितं मयि ।
विदितं तत्त्वया देवि वा?स्ति तत्वमतः परम् ॥ १७ ॥

करन्यासं प्रवक्ष्यामि तदेकाग्रमना शृणु ।
नवात्मकं न्यसेत्पूर्वं भिन्नैकैकं न संशयः ॥ १८ ॥

पुनस्तु मन्त्रमुच्चार्य मङ्गुष्ठाग्रेण विन्यसेत् ।
सकलं दक्षिणाङ्गुष्ठे शेषं पूर्वं समाचरेत् ॥ १९ ॥

प्। ५०३)

करन्यासकृते देवि शिवं तत्रैव चिन्तयेत् ।
त्रितत्वं पूर्वं विन्यस्य शिवं पश्चात्तु विन्यसेत् ॥ २० ॥

एवं कृते ततो देवि शिवहस्तस्तु संस्मृतः ।
तेन सर्वमिदं कार्यमर्चनं प्रोक्षणं तथा ॥ २१ ॥

ग्रहणण् योजनञ्चैव शिवहस्तेन कारयेत् ।
प्रथमं करविन्यासं न चास्मानं प्रकीर्तितम् ॥ २२ ॥

न्यस्त्वा वै वाक्षरन्देवि मातृकाया द्वितीयकम् ।
नवात्मानं तृतीयन्तु तद्भिन्नन्तु चतुर्थकम् ॥ २३ ॥

सकलादिक्रमेणैव पञ्चमं परिकीर्तितम् ।
त्रयोदशं परं देवि सर्वव्याधि व्यवस्थितम् ॥ २४ ॥

प्। ५०४)

एवं न्यासं पुरा कृत्वा ध्यायेत्तत्वन्तु योगवित् ।
त्रयोदशात्मसान्निध्यं यदि स्यात्तत्ववेदिनः ॥ २५ ॥

कुरुतेऽनुग्रहस्सो हि अवशेन वरानने ।
वचसा कुरुते दीक्षां चक्षुषा च न संशयः ॥ २६ ॥

एष देवि महान्यासः सेवितव्यः प्रयत्नतः ।
दर्शनात्पूर्वतेजन्तु वचसा च न संशयः ॥ २७ ॥

मनसा च न सन्देहः स्पर्शनेन न संशयः ।
न्यासे कृते तु देवेशि समर्थस्सर्वकर्मसु ॥ २८ ॥

एष पुण्यो महान्यासो मया देवि उदाहृतः ।
एकोऽपि यो विजानाति मुच्यते च न संशयः ॥ २९ ॥

प्। ५०५)

एवं न्यासं पुरा कृत्वा आचार्यच्छिन्नसंशयः ।
न लिप्यते पुण्यपापैः स्वाचार्यस्यापि मोचकः ॥ ३० ॥

एवं न्यासन्तु देवेशि न दद्याद्यस्य कस्यचित् ।
आचार्याय तु दातव्यमभिषिक्ताय धीमते ॥ ३१ ॥

अन्यथा दुष्टमर्त्यानां वदन् पदकभाक् भवेत् ।
सर्वसंहितसामान्यं ज्ञातव्यं देशिकेन तु ॥ ३२ ॥

देशे कृते महादेवि ये केचित्पापकर्मतः ।
मुच्यन्ते दर्शनात्तस्य आचार्यस्य न संशयः ॥ ३३ ॥

अनेन कृतवानस्तु पश्यते शृणु तेऽपि वा ।
वपुर्दर्शनमात्रेण मन्त्राणां स्रवणेन तु ॥ ३४ ॥

प्। ५०६)

ध्रुवं दर्शनमात्रेण ध्रुवं प्रणयनेन च ।
अग्निशब्देन सुश्रोणिपाशशब्देन चैव हि ॥ ३५ ॥

पातकैः मुच्यते देवि शब्दं श्रुत्वा नराधमः ।
वपुः सन्दर्शनाद्देवि देशिकस्य महात्मनः ॥ ३६ ॥

आब्रह्मलोकगामी स्यात् भवते नात्र संशयः ।
मन्त्राणां श्रवणेनैव शृणु देवि वदाम्यहम् ॥ ३७ ॥

मन्त्रं श्रुत्वा तु पापात्मा रुद्रसायुज्यमाप्नुयात् ।
धूमसन्दर्शनाद्देवि विष्णुसायुज्यमाप्नुयात् ॥ ३८ ॥

अग्निशब्देन सुश्रोणि शृणु देवि वदाम्यहम् ।
विद्यातत्वे तु या व्यक्तिः भवते पापकर्मणा ॥ ३९ ॥

प्। ५०७)

मनसा च न सन्देहः स्पर्शनाच्च न संशयः ।
एतत्ते कथितं देवि शिवस्यासं महत्फलम् ॥ ४० ॥

एवं ज्ञात्वा च देवेशि कुरु दीक्षां यथेच्छया ।
अनेन दीक्षिता मर्त्याः पशवो मुक्तबन्धनाः ॥ ४१ ॥

व्रजन्ति शिवसायुज्यं निर्मला विगतज्वराः ।
अतो मन्त्रविभागन्तु कथयामि वरानने ॥ ४२ ॥

ॐ अम् ऊन्नमः । ॐ यं नमः । ॐ लं नमः । ॐ मं नमः । ॐ क्षं नमः । ॐ रं नमः । ॐ हं
नमः । ॐ हृं नमः । ॐ आं नमः । ओन्नवात्मकः । ॐ कं खं गं घं दं नमः । ॐ चं छं जं

झं न्त्रं नमः । ॐ टं ठं डं ढं णं नमः ॥

प्। ५०८)

ॐ तं थं दं धं नं नमः । ॐ पं फं बं भं मं नमः । करशाखा सु विन्यसेत् । ॐ य र ल व
नमः । हस्तमध्यतः । ॐ श ष स ह नमः । ॐ मणिबन्धतः । ॐ क्षन्नमः । सम्पुटीकरणे
वामकरविन्यासः । ॐ अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अम् अः । नमः । पर्वे पर्वे एकैकमक्षरं न्यसेत् ।

अं नमः । करमध्यतः ।

परमाक्षरं देवेशि मणिबन्धे तु विन्यसेत् ।
अङ्गुष्ठमादितः कृत्वा पञ्चब्रह्माणि विन्यसेत् ॥ ४३ ॥

मध्यमादि शिवाङ्गानि विन्यसेत यथाक्रमम् ।

प्। ५०९)

रुद्रोङ्कारसमायुक्तः फट्कारेण समन्वितः ॥ ४४ ॥

करसंशोधनञ्चैव देहमालभनं तथा ।
प्रासादभूमिं संशोध्य सर्वमेतेन कारयेत् ॥ ४५ ॥

किञ्चित्संशोधनार्थन्तु तव देवि उदाहृतम् ।
सर्वमेतेन कर्तव्यं यत्किञ्चिच्छोधनाय वै ॥ ४६ ॥

ॐ पृथिव्यै नमः । ॐ अद्भ्यो नमः । ॐ तेजसे नमः । ॐ वायवे नमः । ॐ आकाशाय नमः । ॐ
अहङ्काराय नमः । ॐ बुद्धये नमः । ॐ प्रधानाय नमः । ॐ पुरुषाय नमः । ॐ नियति नमः । ॐ
काल
नमः । ओंराग नमः । ॐ विद्याय नमः । ॐ कालाय नमः ।

प्। ५१०)

विद्याय नमः । ईश्वराय नमः । सदाशिवाय नमः । शिवाय नमः । पादादारभ्य विन्यसेत् । ॐ हृदयाय
नमः । ॐ गीर्नमः । ॐ हुन्नमः । ॐ शिव नमः । ॐ लं नमः । ॐ रं नमः । ॐ जुं नमः । हृदय

कण्ठञ्च मुक्तिध्यञ्च विन्यसेत् ।

शक्तिकला यास्मविन्यासं कथितं तव सुव्रते ।
पञ्चमं विन्यसेच्छक्तिं शिवशक्तिकलां न्यसेत् ॥ ४७ ॥

शेषस्तु मनसा न्यासः कर्तव्यस्तु वरानने ।
शिवहस्तं यदा दद्यात् देशिकस्तु महात्मना ॥ ४८ ॥

सव्यहस्ते यजेद्यागं न्यासञ्चैवमशेषतः ।

प्। ५११)

मातृका होमकाले तु शृणु वक्ष्यामि सुवृते ॥ ४९ ॥

एकावरण संयष्ट्वा चतुर्भिर्वापि देशिकः ।
अग्निसंस्कारपूर्वन्तु कृत्वा तु वरवर्णिनी ॥ ५० ॥

एकैकमाहुतिं तत्र अनुलोमेन सुवृते ।
विलोमेन पुनश्चापि जुहुयाद्देशिकोत्तमः ॥ ५१ ॥

अनुलोमे सिद्धिकामो विलोमेप्ययनं कुरु ।
अनुलोमविलोमेन होतव्यं देशिकेन तु ॥ ५२ ॥

इति ते कथितो देवि न्यासः परमदुर्लभः ।
मन्त्राणाञ्चैव विन्यासः कथितस्तव शोभने ॥ ५३ ॥

देव्युवाच

प्। ५१२)

किमादिपूर्वकं देव यजनं समुदाहृतम् ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ॥ ५४ ॥

ईश्वरः

शृणु देवि प्रवक्ष्यामि यत्त्वया परिपृच्छ्रितम् ।
तदहं सम्प्रवक्ष्यामि तव देवि वरानने ॥ ५५ ॥

गणयागन्तु प्रथमं यष्टव्यन्तु समाहितैः ।
पञ्चाङ्गेन समायुक्तमेकहस्तं सुरोत्तमे ॥ ५६ ॥

शिवपञ्चमविन्यासं शिवध्यानमना न्यसेत् ।
अष्टपत्रं न्यसेत्पद्मं केसरालं स कर्णिकम् ॥ ५७ ॥

कर्णिकायां न्यसेद्देवं गणेशं लोकपूजितम् ।

प्। ५१३)

आग्नेय्यां हृदयं न्यस्यम् ईशान्यान्तु शिरोन्यसेत् ॥ ५८ ॥

नैर्-ऋत्यान्तु शिखां देवि वायव्यां त्वचं न्यसेत् ।
चतुर्दिक्षु न्यसेदस्त्रमेष एव विधिस्मृतः ॥ ५९ ॥

ॐ हृन्नमः । ॐ हिन्नमः । ॐ हुन्नमः । ॐ हैं नमः । ॐ हन्नमः । ॐ जहि नमः । ॐ हनल नमः । ॐ
जहि नमः । ॐ अन्नमः ।

हृदयशिरश्शिखायैकवचास्त्रैः क्रमेण तु ।

ॐ ह्रौं नमः । ॐ गणपति । एवं भगवत्कर्णिकायां यजेत् सदा ।

आवाहन्तु कर्तव्यं हृदयेन विसर्जनम् ॥ ६० ॥

प्। ५१४)

प्रोक्षणाभ्युक्षणञ्चैव पञ्चभिस्तु न संशयः ।
अस्त्रेण शोधयेद्भूमिम् एष एव विधिस्मृतः ॥ ६१ ॥

अग्निसंस्कारविधानन्तु एभिः सर्वैस्तु कारयेत् ।
मण्डले तर्पणं कृत्वा दशदिक्षु बलिं हरेत् ॥ ६२ ॥

नवात्मकेन देवेन बलिं सर्वत्र दापयेत् ।
तेन ते तृप्तिमायान्ति भूतग्राममशेषतः ॥ ६३ ॥

प्रभूणामुत्सवे देवि को न तुष्यति सुव्रते ।
ततो भूतानि तुष्यन्ति शिवेन बलिना सदा ॥ ६४ ॥

बलिश्च द्विविधो देयो देशिकेन महात्मना ।
पायसं कृसरञ्चैव हारिद्रञ्च गुडोदनम् ॥ ६५ ॥

प्। ५१५)

हारिद्रञ्च तथा कुर्यात् कृष्णञ्च पललान्वितम् ।
षड्विधेष बलिर्देवि मया ते परिकीर्तितः ॥ ६६ ॥

दातव्यो देशिकेन्द्रेण आत्मनश्रेय इच्छता ।
एवं गणपतेर्यागो मया ते परिकीर्तितः ॥ ६७ ॥

यष्टव्यं देवदेवेशि निर्विघ्नं जायते सदा ।
गणयागन्तु प्रथमं द्वितीयं भुपरिग्रहम् ॥ ६८ ॥

अधिवासं तृतीयन्तु चतुर्थं मण्डलं स्मृतम् ।
पञ्चमन्तु समाख्यातं चण्डेशाय महात्मने ॥ ६९ ॥

गुरुपूजा स्मृता षष्ठा इति ते परिकीर्तिताः ।
षड्विधं यजते यस्तु आचार्यः सुसमाहितः ॥ ७० ॥

प्। ५१६)

मुच्यते सर्वपाशैस्तु स शिवं यात्यनामयम् ॥ ७० १।२ ॥

इति निश्वासकारिकायां सप्तचत्वारिंशत्पटलः