देव्युवाच
त्रितत्वप्रभवा मन्त्राः त्वया पूर्वमुदाहृताः ।
दीपितं तेषु मन्त्राणां भगवन् कथयस्व मे ॥ १ ॥
श्रूयन्ते सर्वतन्त्रेषु शिवाज्ञा ओन्नमेति च ।
कथयाज्ञापयन्त्येते भगवन् वक्तुमर्हसि ॥ २ ॥
ईश्वरः
शृणु देवि परं गुह्यं मन्त्रसद्भावमुत्तमम् ।
यन्न कस्यचिदाख्यातं कथयामि तवाखिलम् ॥ ३ ॥
सर्वव्यापीति यत्प्रोक्तं मया नु तव सुवृते ।
प्। ४८८)
अर्धचन्द्रन्तु विज्ञेयमस्मिंस्तन्त्रे न संशयः ॥ ४ ॥
तस्य चैव कलाह्येका निरोधीत्यभिधीयते ।
तेन युक्तोपरिस्थान ओङ्कारः परिकीर्तितः ॥ ५ ॥
नादस्यैव कला या तु ऊर्ध्वगामीति विश्रुता ।
सा एव वर्त्तुलीभूतः नकारः परिकीर्तिताः ॥ ६ ॥
शक्तेः कलास्तु चत्वारो भागेनैव यथा स्थिताः ।
तास्तु वक्ष्यामि देवेशि यथातथेन मे शृणु ॥ ७ ॥
अमृता तु शिरोवस्था रविभूता मयोद्गता ।
सु सूक्ष्मा तिर्यगेनैव अर्धो दक्षिणतां गता ॥ ८ ॥
सूक्ष्मा नाम कला या तु अध ऊर्ध्वमुखा गता ।
प्। ४८९)
अग्रताम्रा चतुर्थी तु बिन्दुनादः सुसंयुता ॥ ९ ॥
पार्श्वे तु संस्थितास्तास्तु कथितं तव शोभने ।
स शिवस्सर्ववर्णानां व्यापयित्वा वरानने ॥ १० ॥
रेखाभूतविनिष्क्रान्तः प्रेरयन्तं समन्ततः ।
तेन छिन्नविभक्तानि पदमक्षरसन्धयः ॥ ११ ॥
नता लङ्घयितुं शक्ता अपि देवास्सवासवाः ।
ऋषयश्च तथा चान्ये योगिनो भुविमानवाः ॥ १२ ॥
तेन सर्वमिदं व्याप्तं जगदेतच्चराचरम् ।
तेन ज्ञापयते सर्वं मन्त्रग्राममशेषतः ॥ १३ ॥
निरुद्धा आदिरन्तेन मन्त्रास्सिद्ध्यन्ति नान्यथा ।
प्। ४९०)
शिवतत्वं परे शुद्धं स बाह्याभ्यन्तरे स्थितम् ॥ १४ ॥
अन्ते बिन्दुमधश्चोर्ध्वे मध्यतत्वं विनिर्गतम् ।
तेन ते प्रेरिता मन्त्राः शक्तयश्च न संशयः ॥ १५ ॥
सिद्ध्यन्ते नात्र सन्देहो मनसा यद्यदीप्सितम् ।
ओङ्कारमादितः कृत्वा नमस्कारं नियोजयेत् ॥ १६ ॥
मन्त्राणामेष संयोगः कथितस्तव शोभने ।
स्वाहाकारं वषट्कारं सुवौषट्कारमेव च ॥ १७ ॥
हुङ्कारसहितं देवि फट्कारं पुनरेव तु ।
एतत्र शक्तिसंयोगं वेदितव्यं प्रयत्नतः ॥ १८ ॥
ओन्नमस्कारसंयुक्तं पूजाजपनकर्मणौ ।
प्। ४९१)
स्वाहाकारसमायुक्तो होमेष्वाकर्षणेषु च ॥ १९ ॥
वौषट्कारसमायुक्तः शान्तिकर्माणि योजयेत् ।
पुष्ट्यर्थे च सदा कुर्यात् सकारोकारसंयुतम् ॥ २० ॥
तत्संयोगद्वितीयस्त्वकारोकारसंयुतः ।
षकारमन्त्रयोगेन हकारसहितेन तु ॥ २१ ॥
पुष्ट्यर्थे सर्वमन्त्राणाम् आत्मनश्च परस्य वा ।
अमृतीकरणं कुर्यात् वषट्कारसमन्वितः ॥ २२ ॥
नमो नमेति मन्त्राणामिन्धनार्थे नियोजयेत् ।
प्रणवेन यदा हीनं मन्त्रग्राममशेषतः ॥ २३ ॥
हुङ्कारमादियोगेन स्वाहान्तेन तु शोभने ।
प्। ४९२)
आनयेज्जपदैत्यादि व्रतजप्तशुचिस्सदा ॥ २४ ॥
हुङ्कारमादियोगेन फट्कारेण तु योजयेत् ।
उच्चाटयति भूतानि दिव्यभूमिगतानि तु ॥ २५ ॥
तदेव मादियोगेन फट्फडेति द्वितीयकम् ।
मारणे तु विधिं कुर्यात् शेषास्सर्वे नमो युताः ॥ २६ ॥
सिद्धिदास्सर्वकार्येषु तवैवं समुदाहृतम् ।
होमकालेऽथ शुद्धिर्जपयोगे च सर्वदा ॥ २७ ॥
यया विज्ञाय कर्तव्यं दीक्षाकाले च देशिकैः ।
एकान्ननिरतो नित्यमुपवासरतोऽपि वा ॥ २८ ॥
नक्तं वा चरुभुङ् नित्यं भिक्षाऽहाररतोऽपि वा ।
प्। ४९३)
कृच्छ्रचान्द्रायणैर्वाऽपि जपकाले सदा भवेत् ॥ २९ ॥
एवमादिक्रमणैव साधयेन्मन्त्रदेवताम् ।
अन्यथा नैव सिद्ध्यन्ति वृ * क्षश्नान्ति साधकाः ॥ ३० ॥
होमेन सर्वकर्माणि साधकः साधयेद्यथा ।
तथा ते कथयिष्यामि शृणुष्वैकमना मम ॥ ३१ ॥
सकलीकृत्य मन्त्रज्ञः पूर्वदृष्टेन कर्मणा ।
त्रिस्थानकाल तत्वज्ञः शिवशक्तिपरायणः ॥ ३२ ॥
होमयेन्नियतो मन्त्री जपतो नियतस्तदा ।
अक्षराक्षतसन्धान न द्रुतं न विलम्बितम् ॥ ३३ ॥
स्फुटसंयोगसंयुक्तं ह्रस्वदीर्घमपेक्षितम् ।
प्। ४९४)
प्लुतं विसर्गसंयुक्तं स्वययुक्तं मयोदितः ॥ ३४ ॥
एवं ज्ञात्वा तु मेधावी जपहोमं समाचरेत् ।
श्रीपर्ण्यभिषेके चापि कृत्वा तु रुचिरासनम् ॥ ३५ ॥
कुशासनं तथा देवि अथवा गोमयासनम् ।
एभिरासनमुख्यैस्तु विस्तीर्णैस्तु समाहितैः ॥ ३६ ॥
स्थित्वा होमं सदा मन्त्री नोत्सुकस्यात् कदाचन ।
पदादुच्चुको भूत्वा होमयेद्भुवि देशिकः ॥ ३७ ॥
वेदना महती तीव्रा जायते नात्र संशयः ।
वेदनार्तो यदा मन्त्री न लक्षं विन्दते सदा ॥ ३८ ॥
अशोमुदामयश्चैव कटिग्रन्थ्यधिपे पृथुः ।
प्। ४९५)
उरस्तम्भो महाघोरः पार्श्वे रोगस्तथैव च ॥ ३९ ॥
एवमादीनि दुःखानि जायते नात्र संशयः ।
रोगे तु युज्यमाने तु यथा कुर्यात्तु देशिकः ॥ ४० ॥
तथाऽन्ते कथयिष्यामि सङ्क्षेपाच्छृणु सुवृते ।
नाव्याहारेण कर्तव्यो योगारम्भः कदाचन ॥ ४१ ॥
न क्षुधार्तं तृषार्तेन न चैव जनसंसदि ।
निवातशरणे दिव्ये तस्मिंस्थित्वा समभ्यसेत् ॥ ४२ ॥
अन्यथा कुरुतेऽन्यस्तु न लक्षं विन्दते सदा ।
स विकल्पस्य योगस्तु कथितस्तव शोभने ॥ ४३ ॥
दीक्षाकाले यथा होमः कर्तव्यो देशिकेन तु ।
प्। ४९६)
तथा तु शृणु देवेशि कथयामि समासतः ॥ ४४ ॥
क्षुधार्तो जायते शेषो महान्हि महतामपि ।
तृषार्ते जायते दोषः भित्तक्षोभोति दारुणः ॥ ४५ ॥
पित्तक्षोभाद्भवेद्व्याधिः देशिकस्य न संशयः ।
कम्पमानञ्च पित्तञ्च पिटकाद्यग्निसम्भवात् ॥ ४६ ॥
पित्तक्षोभाद्भवेद्देवि मायाव्याधिस्सुदारुणः ।
क्षुधार्तस्य तृषार्तस्य पशुका सह सुवृते ॥ ४७ ॥
सिद्धमन्त्रनियोग्यस्तु भवेते देशिकोत्तमः ।
नवमन्त्रपदस्यैव क्षुधया व्याकुलीकृतः ॥ ४८ ॥
विन्दते देशिकेन्दस्तु तस्माद्भुञ्जीत सुवृते ।
प्। ४९७)
हविष्य भोजनं कृत्वा घृतक्षीरपरिप्लुत ॥ ४९ ॥
पायसं वा स भुक्त्वा तु ततो दीक्षा समारभेत् ।
पूर्णाहुत्या प्रपातन्तु उत्सृष्टिस्तु न कारयेत् ॥ ५० ॥
अग्नितेजो न दह्येत प्रसृतेनैव पातयेत् ।
दह्यमानो यदा मन्त्री प्रायश्चित्तमवाप्नुयात् ॥ ५१ ॥
मुखे तु दह्यमानस्य मन्त्रास्तस्य पराङ्मुखः ।
ना साधयन्ति कर्माणि तस्मात्तं परिवर्जयेत् ॥ ५२ ॥
चक्षुषौ दह्यमानौ तु देवा कुप्यन्ति शोभने ।
तेन देषो भवोद्देवि तस्मात्तं परिवर्जयेत् ॥ ५३ ॥
रोमेषु दह्यमानेषु कुप्यन्ति ऋषयस्सदा ।
प्। ४९८)
एतेषु दह्यमानेषु प्रायश्चित्तार्थमादरात् ॥ ५४ ॥
हुनेच्च दैकं देवेशि नत्वा वाक्येन समाहितः ।
ध्यात्वा तत्वं विशुद्ध्येत प्रायश्चित्तानि संशयम् ॥ ५५ ॥
स्रुचिपूर्णा तु दातव्या पूर्णाहुत्या तु देशिकैः ।
पादाङ्गुष्ठौ समौ कृत्वा प्रसृतेन तु देशिकः ॥ ५६ ॥
उत्ताना करयुग्मेन पातयेत विचक्षणः ।
पात्रो न दह्यते देवि तथापता तु आहुतिः ॥ ५७ ॥
दह्यते तु यदा पात्रं प्रायश्चित्तन्तु होमयेत् ।
पूर्वोक्तेन विधानेन शुध्यते नात्र संशयः ॥ ५८ ॥
इति निश्वासकारिकायां षट् चत्वारिंशत्पटलः ॥