४५

देव्युवाच

भगवन् श्रोतुमिच्छामि अधिवासनमुत्तमम् ।
चरुकञ्च महादेव दन्तधावनमेव च ॥ १ ॥

प्। ४७०)

मन्त्रबोधविधानञ्च भगवन् कथयस्व मे ।

ईश्वरः

शृणु देवि परं गुह्यम् अधिवासनमुत्तमम् ॥ २ ॥

सर्वसंहितसामान्यं कथयामि तवाखिलम् ।
तिथिनक्षत्रवाराणि शाकुनानि शुभानि तु ॥ ३ ॥

दिव्यान्तरिक्षभौमानि लब्ध्वा सम्यक् परीक्षितान् ।
आदौ भौमं परीक्षेत शास्त्रदृष्टेन कर्मणा ॥ ४ ॥

हिमवच्छैलविन्ध्यौ वा पारिधात्रे तथाम्बुदे ।
महेन्द्रे मलये सह्ये रम्ये पुण्यशिलोच्छये ॥ ५ ॥

गङ्गाद्यां सरितां श्रेष्ठा अन्तर्वेद्यां तथैव च ।

प्। ४७१)

श्मशाने वा गृहे वाऽपि देवगारे तथैव च ॥ ६ ॥

उद्याने च तथा कुर्यात् पद्मषण्डे तटेऽपि वा ।
एवमादौ शुभस्थाने यत्र वा रमते पुनः ॥ ७ ॥

सितरक्तपीतकृष्णमधुरादौ चतुर्विधा ।
ब्राह्मणानां सिताभूमिः रक्तावाक्षत्रयस्य तु ॥ ८ ॥

वैश्यस्य वसुधा पीता कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणे मधुरास्वादा कषाया क्षत्रियस्य तु ॥ ९ ॥

वैश्ये तु षड्रसा प्रोक्ता शूद्रस्य कटका स्मृता ।
अद्य गन्धाद्विजे भूमिः क्षत्रिये रक्तगन्धिनी ॥ १० ॥

शकृत् गन्धाविशे भूमिः शूद्रस्य क्षारगन्धिनी ।

प्। ४७२)

श्वानयेज्जानुमात्रन्तु तां समुद्धृत्य पूरयेत् ॥ ११ ॥

ईदृशीं वसुधाभूमिं कुर्याद्भूमि परिग्रहम् ॥ १२ ॥

यष्ट्वा तु देवदेवेशि हुनेदष्टशतं क्रमात् ।
बलिस्तत्रैव दातव्या देशिकेन महात्मना ॥ १३ ॥

भूम्याः परिग्रहो ह्येवं तव देवि उदाहृतः ।
अपरेऽहनि देवेशि अधिवासनमारभेत् ॥ १४ ॥

सम्भारैः सम्भृतो मन्त्री कुर्यात्तत्राधिवासनम् ।
गन्धपुष्पसमायुक्तं पञ्चगव्याक्षतेन च ॥ १५ ॥

गर्भैः मन्त्रैस्तु सम्पूज्य होमं तत्रैव कारयेत् ।

प्। ४७३)

हुत्वा तु देवदेवोऽयं मन्त्राणाञ्च यथाक्रमम् ॥ १६ ॥

शतं देवाय होतव्यामाहुतीनां वरानने ।
दशांशञ्चैव मन्त्राणां हुत्वा पूर्णाहुतिं ददेत् ॥ १७ ॥

येनाध्वानन्तु सम्प्राप्य सर्वांस्तास्तत्र पूजयेत् ।
पूजयेत्सर्वतत्वानि गन्धपुष्पविधिक्रमैः ॥ १८ ॥

एवं सम्पूज्य तत्वानि पशोह्यालभनं कुरु ।
आलभ्य सर्वमन्त्रैस्तु न्यसेत्तत्वान्यथाक्रमम् ॥ १९ ॥

तत्वपाशान्निबध्नीयात् तत्वे तत्वे यथाक्रमम् ।
पाशानि ग्रन्थिषैर्बद्धा वासयेदेव संयुतम् ॥ २० ॥

करणीं कर्तरीञ्चैव सम्भारांश्च पृथग्विधान् ।

प्। ४७४)

सकलीकृत्य तान् सर्वान् वायेद्देवसंयुतम् ॥ २१ ॥

एवं कृत्वा तु विधिना अग्निस्थानेषु च क्रमात् ।
ताम्रपात्रे शरावेवा आनयेज्जातवेदसम् ॥ २२ ॥

गायत्र्या चैव देवेशि तत्वेनाभ्युक्षणं कुरु ।
अभ्यर्च्य पञ्चभिः ब्रह्मैः ततः कुण्डे तु प्रक्षिपेत् ॥ २३ ॥

विष्टरं विन्यसेत्तत्र कुण्डं शोध्यविचक्षणः ।
अस्त्रेण शोधयेत्कुण्ड मुल्लिख्याभ्युक्ष्य उद्धरेत् ॥ २४ ॥

एवं कृत्वा तु देवेशि विष्टरन्तु प्रकल्पयेत् ।
वागीशी स्थापयेत्तत्र ऋतुमतीं महाधिपाम् ॥ २५ ॥

त्रिरावर्तं ततो देवि मन्त्रमेकैकशोभने ।

प्। ४७५)

एकादशेन मन्त्रेण शिवाग्निर्जानितो भवेत् ॥ २६ ॥

संस्कारं शुद्धिहेत्वर्थं जुहुयात् पूर्णाहुतिं प्रिये ।
शिवाग्नौ जनिते पश्चात् अग्निमाहुतिमन्त्रवित् ॥ २७ ॥

चरुन्तु श्रपयेद्देवि विधिदृष्टेन कर्मणा ।
न्यस्त्वा तु सर्वतन्त्राणि त्रितत्वां तत्र विन्यसेत् ॥ २८ ॥

सूत्रेण वेष्टयेत्कर्णं क्षीरपर्णञ्च कारयेत् ।
लिनीवारश्यामाक यव गोधूमपिण्डकैः ॥ २९ ॥

मध्वौषधिभिः कर्तव्यं कङ्गुना च तथैव च ।
यावत्पूर्णा भवेत्स्थाली कर्तव्यश्चरुकस्सदा ॥ ३० ॥

चालनभ्रमणाद्यञ्च यत्कर्मपरिकीर्तितम् ।

प्। ४७६)

पञ्चभिः ब्रह्मभिश्चैव अथ एकादशेन तु ॥ ३१ ॥

एवं विधिसमायुक्तं पुनः कुर्यात्तु देशिकः ।
सम्पाताभिहुतं कृत्वा सर्वमन्त्रैः सकृत् सकृत् ॥ ३२ ॥

स्वाहुत्याग्नौ तु देवेशि हेति द्रव्ये निधापयेत् ।
एवं हुत्वा तु विधिना त्रिभागं कल्पयेत्पुनः ॥ ३३ ॥

हुत्वा देवाय कल्पीत द्वित्रिधं वरवर्णिनी ।
तृतीयं साधकेभ्यश्च कल्पयेद्विधिपूर्वकम् ॥ ३४ ॥

पञ्चगव्यन्तु कर्तव्यं विधिदृष्टेन कर्मणा ।
गोमूत्रं गोमयं क्षीरं दधिसर्पि कुशोदकम् ॥ ३५ ॥

एतावाहृत्य कर्तव्यं पञ्चगव्यं सुशोभने ।

प्। ४७७)

सद्येन गोमयञ्चैव गोमूत्रं गुह्यकेन तु ॥ ३६ ॥

गृह्णेत्सर्पिरघोरेण दधिवक्त्रेण गृह्णयेत् ।
ईशानेन गृहेत्क्षीरं गायत्र्या तु कुशोदकम् ॥ ३७ ॥

अभिमन्त्र्य वरारोहे सर्वैः मन्त्रैः सकृज्जपेत् ।
दातव्यं वक्त्रमन्त्रेण यत्किञ्चित्पानभोजनम् ॥ ३८ ॥

दन्तधावनमप्यत्रं सक्षीरं सदलं शुभम् ।
अवक्त्रर्निर्घृणञ्चैव द्वादशाङ्गुलसम्मितम् ॥ ३९ ॥

दद्याद्वक्त्राभिमन्त्रेण मन्त्रितं गुरवेऽस्य तु ।
आज्याधिश्रयणं कृत्वा उद्वास्योत्पवनं कुरु ॥ ४० ॥

नीराजनं ततः कृत्वा कुर्याद्वक्त्राभिधारणम् ।

प्। ४७८)

वक्त्राभिधारणं कुर्यात् सद्य वामेन बुद्धिमान् ॥ ४१ ॥

अस्त्रेण निष्कृतिं कुर्यात्तत्वेनोद्घातनं स्मृतम् ।
एवं कृते तु देवेशि शिवाग्निर्जनितो भवेत् ॥ ४२ ॥

पश्चात् पद्मविधानन्तु कर्तव्यं सुसमाहितैः ।
आसनं विभजेत्तत्र अनन्तादिरनुक्रमात् ॥ ४३ ॥

आवाहयेच्च देवेशं पूर्वदृष्टेन कर्मणा ।
ब्रह्माणं स्थापयेन्नित्यं पूर्वदिग्भागतो बुधः ॥ ४४ ॥

दक्षिणे रुद्रमित्याहुः पश्चिमे विष्णुमेव च ।
उत्तरे च न्यसेन्नित्यं शिवाय परमेश्वरी ॥ ४५ ॥

विद्येशां लोकपालांश्च अस्त्राणि तु यथाक्रमम् ।

प्। ४७९)

पूजयेत्पावमानेन विष्टरस्थान्यथाक्रमम् ॥ ४६ ॥

आदौ तु यो विधिः कार्यः शृणु देवि यथाक्रमम् ।
हेमरूप्यमयात्कुर्यात् कलशान् रत्नपूरितान् ॥ ४७ ॥

कर्तव्यास्ताम्रजा वाऽपि मृण्मयं वाऽथ कारयेत् ।
अकालमूलकशान् चन्दनेनोपलेपितान् ॥ ४८ ॥

आसनं कल्पयित्वा तु शिवाख्ये कलशं न्यसेत् ।
आत्मतत्वमधो भागे विद्यातत्वन्तु मध्यतः ॥ ४९ ॥

शिवतत्वं तृतीयन्तु उपरिष्टात्तु विन्यसेत् ।
तत्रत्वदृष्ट्या तु सर्वाणि अवलोक्य महामतिः ॥ ५० ॥

शिखी भवति तत्सर्वं नात्र कार्या विचारणा ।

प्। ४८०)

वर्धन्यामुदपूर्णायां सर्वैर्मन्त्रैः सकृत् सकृत् ॥ ५१ ॥

ततो देवि जपेदस्त्रं * * * * * भ्रामयेत् ।
अच्छिन्नोदकधारान्तु दद्याद्बाह्ये तु देशिकः ॥ ५२ ॥

वर्धन्यामग्रतो गच्छेत् कलशार्धसमन्वितः ।
अस्त्रञ्च जपमानस्तु आचार्यश्च शिवात्मकः ॥ ५३ ॥

भ्रामयेच्चतुरश्रे तु पुनस्तत्रैव स्थापयेत् ।
अक्षरान्विकिरित्वा तु अपूजत्तेन बुद्धिमान् ॥ ५४ ॥

पञ्चगव्येन चाभ्युक्ष्य गन्धतोयेन ता पुनः ।
कलशं भ्रामयेत्पश्चात् एष एव विधि स्मृतः ॥ ५५ ॥

कलशं भ्रामयेत्पूर्णं ततो देवाधिवासनम् ।

प्। ४८१)

अग्निकुण्डं ततो गच्छेत् ततो मण्डलतर्पणम् ॥ ५६ ॥

दिशाधिवासनञ्चैव स्वरवत्तदनन्तरम् ।
दन्तधावनमङ्के स्यात् एष एव विधि स्मृतः ॥ ५७ ॥

हेमराजतताम्रैश्च पद्मरागमयैस्तथा ।
इन्द्रनीलमहानीला जज कुर्याद्विधानवित् ॥ ५८ ॥

एतेषामप्यलाभेन कल्पयेद्वर्णकैर्बुधः ।
शालिगोधूमवर्णैश्च प्रतिबिम्बे सुशोभनैः ॥ ५९ ॥

आलिखेन्मण्डलं दिव्यं समरेखं सुशोभनम् ।
कथितञ्चोत्तरे सूत्रे तानि कुर्याद्विचक्षणः ॥ ६० ॥

तेन सूत्रविभागेन आलिखेन्मण्डलं शुभम् ।

प्। ४८२)

पूजयेत्तत्र देवेशि पूर्वदृष्टेन कर्मणा ॥ ६१ ॥

एवं पूज्य यथा न्यायं ततो दीक्षां समाचरेत् ।
पत्नीसंयोजनं कुर्यात् ज्ञानसिद्धिक्रमारितम् ॥ ६२ ॥

तया सह यजेद्यज्ञं पत्यामास सहस्रकम् ।
विद्यादीक्षा समाप्तौ तु साधकस्सविधीयते ॥ ६३ ॥

शताष्टाधिक जप्तेन इष्टमन्त्रेण साधकः ।
अभिषेकञ्च देवेशि पूर्वमेव उदाहृतम् ॥ ६४ ॥

सूत्राः पञ्च चतुस्त्रिंशद्वाचेकाऽपि सुरेश्वरि ।
कारिकां वाऽथ यो वेत्ति अभिषिक्तस्य दापयेत् ॥ ६५ ॥

कलशैर्विंशतिभिश्चैव नवभिर्दशभिस्तथा ।

प्। ४८३)

अभिषिञ्चेत्ततः शिष्या नाचार्यः छिन्नसंशयः ॥ ६६ ॥

पृथिवीमादितः कृत्वा माया कलशपश्चिमम् ।
निर्माणकलशमारभ्य ऐश्वर्यञ्चापि पश्चिमम् ॥ ६७ ॥

एतत्तु सम्पुटीकृत्य सायङ्कञ्चाभिषेचयेत् ।
पञ्चाशत्कलशेनैव विद्याख्येनाभिषेचयेत् ॥ ६८ ॥

पृथिवीमादितः कृत्वा यावत्तत्वमनामयः ।
आनुपूर्वेण देवेशि आचार्यमभिषेचयेत् ॥ ६९ ॥

पञ्चसूत्रार्थवेत्तार आचार्यास्तत्त्वपारगाः ।
अभिषिक्तो यदा तेन स गुरुः शिवतुल्यगः ॥ ७० ॥

भोजयेद्दर्शनाद्देवि शिवतत्वस्य पारगः ।

प्। ४८४)

पृथिवीमादितः कृत्वा कलशा ये प्रकीर्तिताः ॥ ७१ ॥

व्यूहन्यासन्तु कर्तव्यं त्रितत्वं हि नव न्यसेत् ।
नवभिः कलशैश्चैव नव तत्वानि विन्यसेत् ॥ ७२ ॥

स मन्त्रान् सप्त आवर्त्य एकैककलशे बुधैः ।
अथवा कलशेकेन अभिषेकन्तु कारयेत् ॥ ७३ ॥

सर्वतत्वैश्च मन्त्रैश्च समुद्रैश्च समन्वितः ।
एकस्मिन् कलशेनैव विधिरेषोऽत्र कारयेत् ॥ ७४ ॥

चतुर्हस्तं भवेत्पीठं समन्तादुपशोभितम् ।
उच्छ्रियं हस्तमात्रन्तु कर्तव्यं सुसमाहितैः ॥ ७५ ॥

चतुर्भिस्तोरणैश्चैव पताकाध्वजशोभितैः ।

प्। ४८५)

वितानबुद्बुदैश्चैव वेदिस्थानं सुशोभितम् ॥ ७६ ॥

मण्डितं पुष्पचित्रैस्तु चूतपल्लवशोभितम् ।
स्वस्तकैः पद्मकैश्चैव सन्धार्थकसमन्वितैः ॥ ७७ ॥

पूर्वास्तत्रैव दातव्याः कलशेषु शुभानने ।
शङ्खभेरी रवोद्घोषैः स्तूर्यशब्दैस्तथैव च ॥ ७८ ॥

वेदशब्दजयारावां तस्मिन् काले तु कारयेत् ।
कौतुकैः मङ्गलैश्चैव तन्त्रीसङ्गीतसंयुतैः ॥ ७९ ॥

अभिषिञ्चेत्तदा शिष्यः पूर्वादारभ्य देशिकः ।
क्रमशश्चैव देवेशि मायान्ते परिकीर्तितम् ॥ ८० ॥

अभिषिक्तं तदाचार्य आनयेच्छिवसंयुतम् ।

प्। ४८६)

छत्रञ्चोपरि सन्धाय पादौ पादुकसंयुतौ ॥ ८१ ॥

आसने कल्पिते दिव्ये तत्र स्थाप्य विचक्षणः ।
अर्घ्यादिभिः समभ्यर्च्य अधिकन्तु समर्चयेत् ॥ ८२ ॥

अद्य प्रभृतिराचार्यश्शिवतन्त्रस्य धीमतः ।
कर्तव्योऽनुग्रहो नित्यं चतुराश्रमवासिनाम् ॥ ८३ ॥

व्याख्यानमर्चनञ्चैव गुरुशिष्यप्रबोधनम् ।
स्वल्पमह्नि जपं कार्यं स्वल्पमग्नौ च होमयेत् ॥ ८४ ॥

स्वल्पध्यानं सदा कुर्यात् सत्रमेतत्सदा तव ।
करणीं कर्तरीञ्चैव संहितां सृक्स्रुवं तथा ॥ ८५ ॥

अर्घ्यादिभिस्समभ्यर्च्य अधिकार समभ्यसेत् ।

प्। ४८७)

इति निश्वासकारिकायां पञ्चचत्वारिंशत्पटलः ॥