४४

देव्युवाच

भगवन् श्रोतुमिच्छामि दिक्षाविधिमनुत्तमम् ।
सङ्क्षेपात् कथितं सर्वं विस्तरं कथयस्व मे ॥ १ ॥

पशुग्रहणसंयोगं दीक्षाकाले यथा भवेत् ।
अस्मिन् दीक्षे यथा यागं तत्तथा वक्तुमर्हसि ॥ २ ॥

ईश्वरः

प्। ३७८)

अतः परं प्रवक्ष्यामि दीक्षाविधिमनुत्तमम् ।
सामान्यं सर्वतन्त्राणां कथयामीति वाऽखिलम् ॥ ३ ॥

पञ्चब्रह्म शिवाङ्गाश्च शिवेन सह संयुताः ।
शुध्यर्थमध्वरे मन्त्रस्तव देवि उदाहृतम् ॥ ४ ॥

वामा ज्येष्ठा च रौद्री च शक्तयस्त्रीणि कीर्तिताः ।
ज्ञातव्या देशिकेन्द्रेण वियोगात्क्षेपयोजने ॥ ५ ॥

वामया योजयेन्मन्त्री ज्येष्ठया च वियोजयेत् ।
रौद्र्या चोत्कर्षणं प्रोक्तं पुनरन्यत्र योजयेत् ॥ ६ ॥

अवनीमादितः कृत्वा यावत्तत्वन्निरामयम् ।
विधिमेतं सकृत् ज्ञात्वा व्युहहोमेन शुद्ध्यति ॥ ७ ॥

प्। ३७९)

एकैकमाहुतिं देवि जुहुयाद्देशिकोत्तमः ।
एवमेव विधिं कुर्याद्यावत्सर्वं समाप्यते ॥ ८ ॥

अन्ते पूर्णाहुतिं दद्यात् एष एव विधिस्मृतः ।
शिखया ताडनं कुर्यात् मुद्रया पुष्पसंयुतम् ॥ ९ ॥

पशुर्हंहुङ्कृतेनैव ग्राह्यस्संहारमुद्रया ।
शिवेनच्छन्दयेत्पाशान् ततः पूर्णाहुतिक्रमात् ॥ १० ॥

एवमादिक्रमेणैव ज्ञातव्यं देशिकेन तु ।
सर्वाध्वानसमाप्तौ तु शिखोच्छेदन्तु कारयेत् ॥ ११ ॥

शिखयाच्छेदयेन्मन्त्री छित्वा पूर्णाहुतिं पुनः ।
पाशाश्च विविधान् कृत्य तत्वे तत्त्वे यथाक्रमम् ॥ १२ ॥

प्। ३८०)

सूक्ष्माः स्थूलाश्च ये पाशास्त्वर्षकम्बुकवत् स्थिताः ।
पाशाः कोटिसहस्राणि शिवेन कथितास्तु ते ॥ १३ ॥

पाशाश्शिवमुखं प्राप्य दह्यन्ते नात्र संशयः ।

देव्युवाच

असङ्ख्यायां महादेव पाशास्तु कथिताः प्रभो ॥ १४ ॥

अत्यन्तगहनाश्चैव कथं दह्यश्शिवाध्वरे ।

ईश्वरः

प्रकृतिं पुरुषञ्चैव नियतिं कालमेव च ॥ १५ ॥

मायाऽविद्या च ईशश्च सदाशिवश्शिवस्तथा ।
मूलपाशा स्मृताह्येते नव पाशा वरानने ॥ १६ ॥

प्। ३८१)

एतैर्दण्डैरिमे दग्धाः पाशाः पञ्चाशत्कोटयः ।
पञ्चाशत्प्रणवा देवि मया पूर्वमुदाहृताः ॥ १७ ॥

तेऽपि शुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
अष्टत्त्रिंशत्कलैर्देवि यथाऽध्वानं विशुद्ध्यते ॥ १८ ॥

तैर्विशुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
निवृत्तिश्च प्रतिष्ठा च विद्याशक्तिस्तथैव च ॥ १९ ॥

एभिः शोध्यं यदा ध्वानं शुद्धाः पञ्चाशत्कोटय ।
अमृता नाम कला या तु तथा चैवामृता मृता ॥ २० ॥

सुसूक्ष्मा च यथा देवि सूक्ष्मा च परिकीर्तिता ।
एभिस्तु शोध्यमध्वानं पूर्वदृष्टेन कर्मणा ॥ २१ ॥

प्। ३८२)

एतैः शुद्धैरिमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
पदमन्त्रप्रयोगेण शोधनीयाः शिवाध्वरे ॥ २२ ॥

एभिश्शुद्धे इमे शुद्धाः पाशाः पञ्चाशत्कोटयः ।
एवञ्च सप्तधा देवि अध्वानं परिकीर्तितम् ॥ २३ ॥

वेदितव्यं प्रयत्नेन शिवतन्त्रानुवर्तिभिः ।
भुवनाध्वा मया प्रोक्ता आहुतीनान्तु सङ्ख्यया ॥ २४ ॥

कलाभिस्तावती ज्ञेया सर्वाध्वानमशेषतः ।
त्वयाऽध्वानं यदा देवि जायते देशिकोत्तमः ॥ २५ ॥

शतं शतञ्च होतव्यं तत्त्वशुद्धिविधि स्मृतः ।
नव तत्वैस्तथा देवि एवमेव न संशयः ॥ २६ ॥

प्। ३८३)

कलातत्त्वे तथैवेह द्वितीयं त्रयमेव हि ।
पञ्चाशच्छतहोमेन वर्णाध्वानं प्रकीर्तितम् ॥ २७ ॥

तत्त्वाध्वाने कलाध्वाने वर्णाध्वाने तथैव च ।
उक्षेपं योजनञ्चैव एभिरत्र न कारयेत् ॥ २८ ॥

पदाध्वाने तथैवेह होतव्यं शतमेव तु ।
एवं शुध्यति अध्वानं सप्तधा परमेश्वरि ॥ २९ ॥

एवं ज्ञात्वा ततो दीक्षां कारयेद्देशिकोत्तमः ।

देव्युवाच

सर्वाध्वानं त्वया देव सूचितं न तु विस्तृतम् ॥ ३० ॥

तदहं श्रोतुमिच्छामि विस्तरेण ब्रवीहि मे ।

प्। ३८४)

ईश्वरः

आदिसूत्रे यदध्वानं सूत्रमात्रेण भाषितम् ॥ ३१ ॥

तदेव कथयिष्यामि विस्तरेण निबोध मे ।
देहाध्वानं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ३२ ॥

अङ्गुष्ठाग्रे स्थितो देवस्त्वनन्तः परमेश्वरः ।
चतुर्वक्त्रो महातेजा आदित्योदय सन्निभः ॥ ३३ ॥

योगिनं वासमासीनं विद्याविद्येश्वरैर्वृतम् ।
अनन्तं भुवनेशानमधस्तात्परिकल्पयेत् ॥ ३४ ॥

ॐ अनन्ताऽऽगच्छागच्छ आहुतिं प्रतिगृहाण शिवो ददाति ते स्वाहा । ॐ सद्योजातायेति आहुतिं जुहुयात् ।

प्। ३८५)

एवमादिक्रमेणैव हुनेदेकादशात्मिकम् ।
अधिकारे यथा भोगे लये वाऽनुक्रमेण तु ॥ ३५ ॥

पूर्णाहुतिं ततो दत्वा उद्धरेत यथाक्रमम् ।
एवं कालाग्निरुद्राय नरकेषु तथैव च ॥ ३६ ॥

ॐ कालाग्निरुद्र आगच्छ आहुतिं प्रतिगृहाण शिवोददाति ते स्वाहा ।

ॐ अवीचये नमः । ॐ रौरवाय नमः । ॐ महारौरवाय नमः । ॐ तामिस्त्राय नमः । ओमन्धतामिस्रे नमः ।
ॐ शीत नमः । ॐ उष्ण नमः । ॐ सञ्जीव नमः । ॐ सुजीवनाय नमः । ॐ पद्माय नमः । ॐ
महापद्माय नमः ।

प्। ३८६)

ॐ कापं सूत्राय नमः । ॐ सूचीमुखाय नमः । ॐ क्षुरधाराय नमः । ॐ पर्वताय नमः । ॐ
सितालवनाय नमः । ॐ रौद्राय नमः । ॐ कुम्भीपाकाय नमः । ॐ अम्बरीषाय नमः । ओमङ्गारराशये

नमः । ॐ भुवननमः । ॐ तीक्ष्णतुण्डाय नमः । ॐ वज्रतुण्डाय नमः । ॐ शकुनये नमः । ॐ
मीनोदराय नमः । ॐ खरोदराय नमः । ॐ सन्दंशाय नमः । ॐ काकतुण्डाय नमः । ॐ वानराननाय

नमः । ॐ उग्रीवाय नमः । तेजोष्टकम् । ॐ लोकाक्षाध्यक्षाय नमः । ॐ गणाध्यक्ष नमः । ॐ त्रिदश

नमः । ॐ त्रिपुरान्तक नमः । ॐ सर्व रूप नमः । ॐ शान्त नमः । ओन्निमेष नमः । ओमुन्मेष नमः ।

प्। ३८७)

तेजोष्टकन्तु होतव्यं देशिकैस्सुसमाहितैः ।
अत ऊर्ध्वं समाख्यातं योगाष्टममनुत्तमम् ॥ ३७ ॥

ॐ कृत नमः ।

एवमादिक्रमेणैव हुनेद्योगाष्टकं पुनः ।
एतेषामुपरिष्ठात्तु सुशिवा द्वादशस्मृताः ॥ ३८ ॥

ॐ वाम नमः । ॐ भीम नमः । ॐ उग्र नमः । ॐ भव नमः । ॐ शर्व नमः । ॐ विद्याधिप नमः ।
ओमेकवीर नमः । ॐ प्रचण्ड नमः । ओमीश्वर नमः । ओजसे नमः । ओमनन्त नमः । ओमेकशिव नमः ।
सुशिवाह्येते प्रकीर्तिताः । शोधनीयाश्शिवाध्वरे ।

प्। ३८८)

अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः ।

ॐ मण्डलाधिप नमः ।

अत ऊर्ध्वं महादेवो वामदेवभवोद्भवौ ॥ ३९ ॥

ॐ वामदेव नमः । ॐ भवोद्भव नमः । ओमेकपिङ्गेक्षण नमः । ओमीशान नमः । ओमङ्गुष्ठमात्र नमः ।
एते महादेवाष्टकास्मृताः । अत उपरिष्टाद्गुरुपङ्क्तिद्वयम् । ॐ शिवाऽनन्त नमः । अनन्त नमः । ॐ प्रभु

नमः । ॐ वामन नमः । ॐ चण्ड नमः । ॐ प्रताप नमः । ॐ व्रतार्ति नमः । ॐ शिव नमः । ॐ
कपालि नमः । ॐ भीम नमः । ओङ्कारालि नमः । ॐ पिङ्गल नमः । ॐ महेन्द्र नमः ।

प्। ३८९)

ॐ दिनकृन्नमः । ॐ प्रतोद नमः । ॐ दक्ष नमः । ॐ क्षेमीश नमः । ॐ कबलेश नमः । ॐ कटङ्कट
नमः । ॐ बुहन्तान नमः । ओमनादर नमः । ॐ श्वेत नमः । ॐ यजुर्वेद नमः । ॐ सामवेद नमः । ॐ

ऋग्वेद नमः । ओमथर्ववेद नमः ओमाचार्य नमः । ॐ शिव नमः । ॐ विरूपाक्ष नमः । ॐ नारायणाय
नमः । ॐ विबुचण्डोदर नमः । ॐ संवर्त नमः । ॐ यममाली नमः । ॐ गहनेश नमः । ॐ पीड
नमः
। प्रथिमा पङ्क्तिरिष्यते । ॐ श्वेत नमः । ॐ दारु नमः । ॐ लोकाक्षि नमः ।

प्। ३९०)

ॐ सूत्र नमः । ॐ सुहोत्र नमः । ओमेकपाद नमः । ॐ ग्रन्थेश्वर नमः । ॐ गौतम नमः । ॐ जैमिनि
नमः । ॐ दधिवाह नमः । ओमृषभ नमः । ॐ गोकर्ण नमः । ॐ गुहेश्वर नमः । ॐ गुहवासि नमः ।

शिखण्डि नमः । ॐ झटिमालि नमः । ओमुग्र नमः । ॐ शिखि नमः । ॐ शूली नमः । ॐ सुगति नमः ।

ॐ सुपाल नमः । ओमट्टहास नमः । ॐ दारुक नमः । ॐ षाढी नमः । ॐ त्रिदण्डीनमः । ॐ भाव

नमः । ॐ भाव्य नमः । ॐ लकुलीश नमः । द्वितीया पङ्क्तिरिष्यते । ॐ देवावरणे नमः । ॐ
दीर्घबाहू
नमः । ओमृभु नमः ।

प्। ३९१)

ओमृति नमः । ॐ भृति नमः । ॐ स्थाणु नमः । ॐ सद्योजाताय नमः । ॐ भुवन्नमः । ॐ चण्डि नमः ।
ॐ षण्मुख नमः । ओञ्चतुरानन नमः । ओञ्चक्रपाणि नमः । ॐ कूर्माक्ष नमः । ओमर्धनारीश्वर नमः

ॐ मेष संवर्तक नमः । ॐ भस्मेश नमः । ॐ कामनाशन नमः । ॐ कपालीश नमः । ॐ
भूर्भुवन्नमः । ॐ वषट्कार नमः ।

तृतीया पङ्क्तिराख्याता शोधनीया शिवाध्वरे ।
अथोर्ध्वं तत्वसर्गे तु बोद्धव्यं देशिकेन तु ॥ ४० ॥

पृथिव्यादि समारभ्य प्रधानान्तन्तु यावतः ।
अस्मिन् मध्ये तु ये तत्वाः शोधनीया विपश्चितैः ॥ ४१ ॥

प्। ३९२)

एवं प्रकृतितत्त्वन्तु व्याख्यातं तव शोभने ।
तस्याधस्तात्स्मृतास्सर्वे शोधनीयाः शिवाध्वरे ॥ ४२ ॥

यवयवाचान्तरेणैव परिवार्य व्यवस्थितः ।
प्रकृतेरूपरिष्ठात्तु भावसर्गं विजानतः ॥ ४३ ॥

अणिमां तारमम्भानां शोधनीयं विपश्चितैः ॥ ४३ १।२ ॥

ॐ अम्भन्नमः । ॐ सलिलन्नमः । ॐ ओघ नमः । ॐ वृष्टि नमः । ओन्तार नमः । ॐ सुपार नमः । ॐ
सुनेत्र नमः । ॐ सुमारि नमः । ओमुत्तमाभा नमः । इष्टयश्शोध्याः । ॐ तारा नमः । ॐ सुतारा नमः

ॐ तारायत नमः ।

प्। ३९३)

ॐ प्रमोद नमः । ॐ प्रमुदित नमः । ॐ मोदमान नमः । ॐ रद्यक नमः । ॐ सदा प्रमुदित नमः । ॐ
सिद्धि नमः । ॐ तार नमः । ॐ सुवार नमः । ॐ सुनेत्र नमः । ॐ सुमानि नमः । ओमुत्तमाभा नमः ।
तुष्टयश्शोध्याः । ॐ तारा नमः । ॐ सुतारा नमः । ॐ सुपार नमः । ॐ सुनेत्र नमः । ॐ सुमारि
नमः । ओमुत्तमाभा नमः ।
तुष्टयश्शोध्याः देशिकैस्सुसमाहितैः ॥ ४४ ॥

ॐ अणिमा नमः । ॐ लघिमा नमः । ॐ प्राप्ति नमः । ॐ प्राकाम्य नमः । ॐ वशित्वाय नमः ।
ओमीशित्वाय नमः ।

प्। ३९४)

ॐ सर्वकामावसायित्वाय नमः ।

अणिमादय ऐश्वर्याश्शोधनीया मुमुक्षुभिः ।
अत ऊर्ध्वं स्थितं देवि नाडी विद्याष्टकं स्मृतम् ॥ ४५ ॥

ओमिडा नमः । ॐ चण्डी नमः । ॐ गौरी नमः । ॐ शान्तिक नमः । ॐ माला नमः । ॐ मली नमः । ॐ
स्वाहा नमः । ॐ स्वधा नमः ।

रागाद्या विद्येशान्ताश्शोधनीयास्सदा बुधैः ।
अत ऊर्ध्वं विग्रहाष्टकं निग्रहानुग्रहे स्थितम् ॥ ४६ ॥

ॐ कार्य नमः । ॐ कारण नमः । ॐ सुख नमः । ॐ दुःख नमः । ॐ ज्ञान नमः । ॐ साध्य नमः ।
ॐ कारण नमः ।

प्। ३९५)

इति निग्रहानुग्रहे स्थिताः । पुरुषतत्त्वं शोध्यम् ।

अतः परं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
प्राकृते चैव तत्त्वे तु यस्मिन् संस्कार इष्यते ॥ ४७ ॥

तदहं सम्प्रवक्ष्यामि तन्मे निगदतः शृणु ।
भूलोकस्तु यदा प्राप्तः तिर्यग्योनिं विशोधयेत् ॥ ४८ ॥

स्थावरं प्रथमं शोध्यं ततः शोध्यं सरीसृपम् ।
पक्षियोनिः ततश्शोध्या मृगाश्च तदनन्तरम् ॥ ४९ ॥

पशुश्च शोध्यो देवेशि अनुपूर्वं यथाक्रमम् ।
गवाद्याः पशवः प्रोक्ताः सिंहाद्याश्च मृगा स्मृताः ॥ ५० ॥

भासाद्याः पक्षिणः प्रोक्ताः सर्पाद्यास्तु सरीसृपाः ।

प्। ३९६)

सप्तच्छदाद्या देवेशि स्थावरा परिकीर्तिताः ॥ ५१ ॥

एतान् शोध्यविधानेन मानुषं समुपक्रमेत् ।
अन्त्यजाः प्रथमं शोध्याश्शूद्रयोनिस्ततः पुनः ॥ ५२ ॥

वेश्ययोनिं ततो नीत्वा क्षुद्रयोनिं पुनर्नयेत् ।
क्षुद्राद्ब्राह्मेषु संयोज्य अधिकारं यथाक्रमम् ॥ ५३ ॥

अन्त्यजे अधिकारन्तु बन्धरोधनमारणम् ।
हिंसकादि विधानानि अधिकारं त्यजेत्सदा ॥ ५४ ॥

शूद्रत्वे शैवशुश्रूषां स वशित्वञ्च शोभने ।
अधिकारः सदा देवि शूद्रत्वे परिकीर्तितः ॥ ५५ ॥

वाणिज्यं कृषिधर्मञ्च वैश्यस्य परिकीर्तितम् ।

प्। ३९७)

क्षत्रक्रियांशस्तत्रैव संस्थितं वरवर्णिनी ॥ ५६ ॥

युद्धद्यूतञ्च व्यायामं विग्रहं फलमेव च ।
क्षत्रियाणामधिकारः कथितन्तु यथाक्रमम् ॥ ५७ ॥

गर्भाधानादितः कृत्वा अन्त्येष्टिञ्चाप्यपश्चिमम् ।
अधिकारन्तु विप्रस्य तव देवि उदाहृतम् ॥ ५८ ॥

आदौ संस्काराद्देवेशि चत्वारिंशत्तथैव च ।
अष्टाधिकञ्च विज्ञेयं संशोध्या देशिकेन तु ॥ ५९ ॥

ब्रह्मचारी द्विजो भूत्वा कर्तव्यन्तु यथाक्रमम् ।
पत्नीसंयोजनं कृत्वा यजेद्यज्ञान् स दक्षिणान् ॥ ६० ॥

एवं संशोध्यमानन्तु पञ्चाशत्तन्नियोजयेत् ।

प्। ३९८)

सूत्रेण गदितं पूर्वं तत्सर्वं तूर्णकारयेत् ॥ ६१ ॥

अविकल्पेन देवेशि देशिकेन्द्रेण धीमतः ।
पुरुषस्योपरिष्ठात्तु नित्या शोध्या तु देशिकैः ॥ ६२ ॥

द्विप्रकारासना शोध्या देशिकेन महात्मना ।
सुखपाशं दुःखपाशञ्च द्वयं शोध्यं समासतः ॥ ६३ ॥

रागं चरञ्च कान्तिश्च कालेन सह संयुतम् ।
विमलं सम्प्रवक्ष्यामि ज्ञानमार्गमतः परम् ॥ ६४ ॥

ॐ वामदेव नमः । ॐ भुव नमः । ॐ शर्व नमः ।
ॐ भवोद्भव नमः । ॐ वज्रदेह नमः । ॐ प्रभु नमः ।

प्। ३९९)

ॐ धाता नमः । ॐ क्रमश नमः । ॐ सुगेश नमः । विक्रमेश नमः ।

दशेते शङ्कराः प्रोक्ताः नीयत्या च सदा स्थिताः ।
दीक्षाकाले तु सर्वेते शोधनीया विपश्चितैः ॥ ६५ ॥

तत ऊर्ध्वं शिवादाय कालतत्वे व्यवस्थितः ।
काले तत्रैव विज्ञेया स्ते तु शोध्या विपश्चितैः ॥ ६६ ॥

ॐ शुद्ध नमः । ॐ प्रबुद्ध नमः । ॐ सुप्रबुद्ध नमः । ॐ प्रशान्त नमः । ॐ परौक्षर नमः । ॐ
व्यय नमः । ॐ शिव नमः । ॐ ध्रुव नमः । ॐ क्षर नमः ।

प्। ४००)

दशैते तु समाख्याताः शोधनीया विदुर्बुधैः ।
अत ऊर्ध्वं हरिहरादयो रागतत्त्वे शोधनीयाः ॥ ६७ ॥

अत ऊर्ध्वं भवेच्छिष्याः कल्याणाद्या महातपाः ।

ॐ कल्याण नमः । ॐ पिङ्गल नमः । ॐ भुव नमः । ॐ वीर नमः । ॐ प्रवर नमः । ॐ मेधा नमः ।
अमस्तिते नमः । ॐ छेदक नमः । * * * क नमः । ॐ शास्त्रकार नमः ।

दशैते गुरवो ज्ञेयाः विद्यातत्वे तु शोधयेत् ॥ ६८ ॥

कालरौद्रप्रवक्ष्यामि ये तु रुद्रा व्यवस्थिताः ।
वामो ज्येष्ठश्च रुद्रश्च तत्रैव परिकीर्तिताः ॥ ६९ ॥

प्। ४०१)

ॐ वाम नमः । ॐ ज्येष्ठ नमः । ॐ रुद्र नमः । एवं महादेव मन्त्रत्रयम् ।

गोपतिश्च तथोर्ध्वन्तु ग्रन्थिं हृदयसंस्थितः ।
असङ्ख्यरुद्रकोटीभिः गोपतिः परिवारितः ॥ ७० ॥

ॐ गोपति नमः । अत ऊर्ध्वं संस्थितं विश्वम् ।
ॐ त्रिकल नमः । ॐ क्षेमेश नमः । ॐ ब्रह्मण नमः । ॐ अधिपते नमः । ॐ शिव नमः ।

पञ्चैते तु समाख्याताश्शोधनीयाश्शिवाध्वरे ।
अत ऊर्ध्वमनन्तेश पाशाञ्चैव तु संस्थिताः ॥ ७१ ॥

प्। ४०२)

पूर्वोक्ताश्चैव ये पापा उदमाहाद्यनुक्रमात् ।

ॐ मद नमः । ॐ मोह नमः । ॐ शोष नमः । ॐ वैचित्य नमः ।

एवमादिक्रमेणैव शोधनीयाश्शिवाध्वरे ॥ ७२ ॥

अत उपरि ऋषिकुलम् । ॐ ऋषिकुलन्नमः । अतो वागीश्वरी देवी । ॐ वागीश्वरी नमः । अत ओङ्कारः
अतस्साध्योङ्कार ॐ साध्योङ्कार नमः । अतो धातारः ॐ धातार नमः । ॐ मनेश नमः । ॐ
ध्यानाहार
नमः । ॐ भस्मेशाय नमः ।

प्। ४०३)

एते मायोदरे शोधनीयास्सर्वेप्येते विदुर्बुधाः । अत ऊर्ध्वं प्रमाणानि । ॐ पञ्चार्थ नमः । ॐ शिवगुह्य
नमः । ॐ रुद्राङ्कुश नमः । ॐ हृदय नमः । ॐ लक्षण नमः । ॐ व्यूह नमः । ओम्मादशि नमः ।

प्रमाणाष्टकं संशोध्यं देशिकेन महात्मना ॥ ७३ ॥

तेषां वै उपरिष्ठात्तु हुनेन्मायान्तु देशिकः ।
अतोपरि भवेद्विद्या सर्वविद्याभवारिणी ॥ ७४ ॥

अष्टधा भेदभिन्नां तु स्वभावात्परिकीर्तिता ।
नव भेदविहीनस्तु पुनरेव स उच्यते ॥ ७५ ॥

प्। ४०४)

ॐ वामे नमः । ॐ ज्येष्ठे नमः । ॐ रौद्री नमः । ॐ काली नमः । ॐ कलविकरणी नमः । ॐ
बलविकरणी नमः । ॐ बलप्रमथिनी । ॐ सर्वभूतदमनी नमः । विद्यातत्वे शोधनीयाः ।

अतोपरि स्थितं देवि ईश्वरं योगमीश्वरम् ।
अनन्तेशादयो वाऽपि यष्टव्यास्तु समाहितैः ॥ ७६ ॥

ॐ अनन्त नमः । ॐ सूक्ष्म नमः । ॐ शिवोत्तम नमः । ॐ एकनेत्र नमः । ॐ एकरुद्र नमः । ॐ त्रिमूर्ति
नमः । ॐ श्री कण्ठ नमः । ॐ शिखण्डी नमः । ईश्वरतत्वे शोधनीयाः । अत ऊर्ध्वं
रूपचतुष्टयम्

प्। ४०५)

ॐ धर्म नमः । ॐ ज्ञान नमः । ॐ वैराग्य नमः । ॐ ऐश्वर्य नमः । रूपचतुष्टयम् । ॐ वामे नमः ।
ॐ ज्येष्ठे नमः । ॐ रौद्री नमः । शक्तित्रयम् । अत उपरिष्टात् शक्तिद्वयम् । ॐ ज्ञानशक्तिर्नमः । ॐ
क्रियाशक्तिर्नमः । अत उपरिष्ठात्-

तेजीशश्च ध्रुवेशश्च प्रमाणत्वे प्रकीर्तिताः ।

ॐ तेजीश नमः । ॐ ध्रुवेश नमः ।
प्राणाध्वनि निष्ठानां दीक्षाज्ञानसमन्वितम् ॥ ७७ ॥

निर्वाणं परमं स्थानं कथितं तव सुव्रते ॥ ७७ १।२ ॥

प्। ४०६)

उपरिष्ठात् प्रणवम् । ॐ प्रणव नमः । अत उपरिष्टात् ब्रह्मविष्णुरुद्रभुवनत्रयम् । ॐ ब्रह्म नमः । ॐ
विष्णु नमः । ॐ रुद्र नमः । ॐ प्रतोदन नमः । ॐ मनव नमः । अतः परमतिक्रम्य एकाक्षरम् ।
ओमेकाक्षर नमः । ॐ पिङ्ग नमः । ॐ हंस नमः । सौम्यरुद्रत्रयम् । अत उपरिष्टाद्ध्रुवः । अत
उपरिष्टात्
रुद्रैकादश संस्थानम् । ॐ ब्रह्म नमः । ओमर्क नमः । ॐ दण्डि नमः । ॐ मुण्डि नमः । ॐ सौरभेय

नमः । ॐ मृत्युहर नमः । ॐ प्रणीत नमः ।

प्। ४०७)

ॐ सुख नमः । ॐ विजृम्भित नमः । एकादश रुद्राश्शोधनीयाः ।

दीक्षाकाले तु ज्ञातव्या गलके सम्प्रतिष्ठिताः ॥ ७८ ॥

तृतीयन्तु ध्रुवं वक्ष्ये । ॐ ध्रुव नमः ।

सप्तकोटि सहस्राणि परिवारे ध्रुवस्य तु ।
अतो निरञ्जनो देवः तस्य सङ्ख्या न विद्यते ॥ ७९ ॥

ॐ निरञ्जन नमः । अत ऊर्ध्वं शक्तिः संशोध्या । ॐ शक्ति नमः । अत उपरिष्टात् अष्टौ ते
भुवनेश्वराः । ॐ प्रीति नमः । ॐ प्रमादित नमः । ॐ प्रलम्ब नमः

प्। ४०८)

ॐ विष्णो नमः । ॐ गहन नमः । ॐ वितत नमः । अष्टौ ते भुवनेशाः । अत उपरिष्टाद्भवस्समयः । यः
क्षुद्रो विमलं शिवपञ्च कर्म । ॐ प्रभव नमः । ॐ रौद्र नमः । ॐ विमल नमः । ॐ शिव नमः ।
परतोऽन्य उद्घनो नाम दुर्भेद्यस्सर्वयोगिनाम् । अघन नमः ।

तस्योपरिष्ठाद्रुद्रोङ्कारः प्रकीर्तितः ॥ ८० ॥

पुरतस्तालुतो देवो रुद्रोङ्कारः प्रकीर्तितः ।
एवमीश्वर एव तत्वम् । ॐ रुद्रोङ्कार नमः ।

प्। ४०९)

सदाशिवोष्टभेदेन भ्रुवोर्मध्ये व्यवस्थितः ॥ ८१ ॥

आसनं लक्षपत्राढ्यं पूर्णचन्द्रमिवोदितम् ।
तस्यासने स्थिता नित्यं चतस्रो योगशक्तयः ॥ ८२ ॥

ॐ निवृत्ति नमः । ॐ प्रतिष्ठा नमः । ॐ विद्या नमः । ॐ शान्ति नमः ।

अतोपरि भवेन्नादं किञ्जाल्कसमतेजसम् ।
पुरुषाख्यः सविज्ञेयः सर्वं व्याप्य व्यवस्थितः ॥ ८३ ॥

महत्पुरुषैव्याप्तं सूर्यकोटिसमप्रभैः ।
अण्डेऽस्मिन् कुरुते राज्यं शिवशक्त्या प्रचोदितः ॥ ८४ ॥

अतः सुषुम्ना विज्ञेयाः सार्वाध्वानसमाप्तये ।

प्। ४१०)

नादब्रह्मबिले लीना पद्मसूत्रनिभा स्थिता ॥ ८५ ॥

ध्यातव्या योगिभिर्नित्यं तुषारकरणन्धुरः ।
अतोपरि महादेवि तेजश्शब्दमयं महत् ॥ ८६ ॥

अमृतस्येन्दुनिष्यन्द तेजोमृतवरो निधिः ।
स्वशक्तिकिरणोद्योत ज्योतयन्तं समासतः ॥ ८७ ॥

तस्य तेजोमहौघस्य सर्वे दीप्यन्ति शोभने ।
सा शक्तिः देवदेवस्य ध्यातव्या देशिकेन तु ॥ ८८ ॥

अन्तोपरि निरालम्बं सर्वाध्वानविवर्जितम् ।
प्रक्रियान्तं महाज्ञानमनौपम्यमनामयम् ॥ ८९ ॥

एवं संशोध्यमध्वानं योजयेत्परमे पदे ।

प्। ४११)

विद्यातत्त्वास्पदं कृत्वा योजयेत्परमे पदे ॥ ९० ॥

स्वदेहे प्रक्रियां ध्यात्वा पशुदेहे विशेषतः ।
यवं यवान्तरैकैकं संस्थिता भुवनानि तु ॥ ९१ ॥

प्रकृतिः पूर्वमाख्याता नाभ्यधस्तात्प्रतिष्ठिता ।
पुरुषं हृदि मध्यस्थं नियतिं पदबाह्यतः ॥ ९२ ॥

कालकण्ठमधस्तात्तु कलाविद्याक्रमेण तु ।
ज्ञातव्या देशिकेन्द्रेण दीक्षाकाले समाहितः ॥ ९३ ॥

तस्योपरि स्थिता माया ग्रन्थिस्थाने व्यवस्थिता ।
विद्याकण्ठप्रदेशे तु ज्ञातव्या देशिकेन तु ॥ ९४ ॥

ईश्वरं तालुमध्ये तु कथितं तव शोभने ।

प्। ४१२)

सदाशिवस्तु मूर्धान्ते व्याख्या तत्वं पराजिते ॥ ९५ ॥

शान्त्यतीतेन देवेशि दद्यात्पूर्णाहुतिं क्रमात् ।
नवात्मकेन दातव्यम् अथवा प्रणवेन तु ॥ ९६ ॥

परमाक्षरेण दातव्यं पूर्णाहुतिः शिवस्य तु ।
सर्वाध्वनस्समाप्तौ तु शिखाच्छेदन्तु कारयेत् ॥ ९७ ॥

शिखामन्त्रेण देवेशि कर्तरीमभिमन्त्रयेत् ।
तदेव मुद्रया गृह्य छेदयेच्च विचक्षणे ॥ ९८ ॥

अङ्गुल्या वा च चत्वारच्छेदनीया तु सुवृते ।
घृतेन सम्भृतां कृत्वा होमयेत विचक्षणः ॥ ९९ ॥

तां हुत्वा देशिकेन्द्रस्तु भस्मस्नानन्तु कारयेत् ।

प्। ४१३)

उपस्पृश्याथ आचार्यः शुचीकृत्वा स्वकां तनुम् ॥ १०० ॥

कृत्वा सर्वमशेषन्तु पूर्णाहुत्या तु पातयेत् ।
स्वनन्तं पशुतत्वेन एकीकृत्य विचक्षणः ॥ १०१ ॥

योजयीत ततो मन्त्री पूर्वदृष्टेन कर्मणा ।
कलाध्वानं यथा ख्यातं प्रयोगं तादृशं कुरु ॥ १०२ ॥

युक्ते तु लक्षणं देवि मया पूर्वमुदाहृतम् ।
शिवधर्मे तु ये धर्माः भवन्ते साधकस्य तु ॥ १०३ ॥

देव्युवाच

मूर्त्तिस्त्रिविधमाख्याता त्वया देव पुरा मम ।
गृहणं केन वा तस्य एतदिच्छामि वेदितुम् ॥ १०४ ॥

प्। ४१४)

ईश्वरः

आत्मपञ्चदश प्रोक्तो हंसाख्यं तेन भेदयेत् ।
गृहणमायतेनैव बिन्दुना सहितेन तु ॥ १०५ ॥

शिखया ताडयित्वा तु ग्राह्यसंहारमुद्रया ।
अधोमुखकरेणैव एकैकेन तु सुवृते ॥ १०६ ॥

गृह्णीयान्मन्त्रयुक्तेन शिवहस्तेन देशिकः ।
उत्तानेन तु देवेशि वामया तु नियोजयेत् ॥ १०७ ॥

एतत्ते कथितं देवि पशुग्रहणमोक्षणम् ।
कर्तव्यं देशिकेन्द्रेण विधिदृष्टेन कर्मणा ॥ १०८ ॥

देव्युवाच

प्। ४१५)

अष्टत्रिंशत्कलैर्योगं यागञ्चैव महेश्वर ।
कथं तेषु स्थिता दीक्षा कथं योज्यस्तु देशिकैः ॥ १०९ ॥

केन वा ग्रहणं तस्य एतदिच्छामि वेदितुम् ।

ईश्वरः

कलायागं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ ११० ॥

न मया कस्यचित् ख्यातं तत्ते वक्ष्यामि सुवृते ।
कलानाञ्चैव देवेशि यं यं योगं वदाम्यहम् ॥ १११ ॥

कलया च तथा योगं कथयामि वरानने ।
कलापञ्च महेशस्य चत्वारो वदनस्य तु ॥ ११२ ॥

पञ्चवक्त्रं समुद्दिष्टं सकलेन तु सुवृते ।

प्। ४१६)

गर्भावरणमेतत्तु कथितं तव सुवृते ॥ ११३ ॥

मध्यपूर्वादियोगेन यावदुत्तरतः क्रमात् ।
आग्नेयवायुनैर्-ऋत्या चतुर्धा पुरुषं न्यसेत् ॥ ११४ ॥

चतुर्दिक्षु च विन्यस्य पूर्वा दिवि दिशासु च ।
अघोरस्य कलाह्यष्टौ तान्तु विद्येश विन्यसेत् ॥ ११५ ॥

वामदेवकला या तु शृणु तस्या वदाम्यहम् ।
पूर्वादारभ्य कर्तव्यं कलानाञ्च निवेशनम् ॥ ११६ ॥

द्वे पूर्वे दक्षिणे द्वे तु पश्चिमेन तथैव च ।
उत्तरेण तु देवेशि पुनरेकां कलां न्यसेत् ॥ ११७ ॥

चतुर्दिक्षु उन्मनी याम प्रोक्तानां प्रवरा कला ।

प्। ४१७)

शिवस्य परमा ह्येषा देहे तु परिकल्पयेत् ॥ ११८ ॥

सद्योजातकलाह्यष्टौ चतुर्धा कारणे न्यसेत् ।
अष्टौ दिशासु प्रणवे तु देवेशि विन्यसेन्नवशक्तयः ॥ ११९ ॥

धर्मज्ञानञ्च वैराग्यं विन्यसेत्तु यथाक्रमम् ।
अनन्तपद्मं तेनैव कल्पयेद्वरवर्णिनी ॥ १२० ॥

तेनैव मूर्तिसंयोगं कर्तव्यं देशिकेन तु ।
ब्रह्मोङ्कारेण कर्तव्यम् आत्मतत्त्वन्तु बुद्धिमान् ॥ १२१ ॥

उन्मनीहासनं तस्य कल्पयेद्वरवर्णिनी ।
निद्रागारन्तु देवेशि विद्या तत्वे तु विन्यसेत् ॥ १२२ ॥

ईशानस्य कलाह्येते चतुर्धा तु वरानने ।

प्। ४१८)

आसनं तस्य कर्तव्यं रुद्रोङ्कारः सदेशिकैः ॥ १२३ ॥

निधनोङ्कारन्तु यत्प्रोक्तं शिवतत्त्वं तेन कारयेत् ।
पञ्चमी च कला या तु ईशानस्य महेश्वरी ॥ १२४ ॥

पञ्चमूर्धानमीशानञ्चत्वारो वदनस्य तु ।

पञ्चवक्त्रम्

आसनं कारयेत्तेन निधनस्य न संशयः ॥ १२५ ॥

मूर्तिन्यासं कृता देवि कलैः सर्वैः पुनः क्रमात् ।
सकलीकृत्य चात्मानं वाहयेत्परमाक्षरम् ॥ १२६ ॥

एवन्तु निष्कलो देवि भवते नात्र संशयः ।
पञ्चधा प्रणवं तस्य कल्पयीत यथाक्रमम् ॥ १२७ ॥

प्। ४१९)

हृदि मूर्ध्नि शिखायान्तु कवचास्त्रक्रमेण तु ।
सद्यवामकलायन्तं न्यसेत् सर्वत्र देशिकः ॥ १२८ ॥

प्रणवेन तु कर्तव्यमात्मतत्वे तु ये स्थिताः ।
गन्धपुष्पं तथा दीपं बलो बलि निवेदनम् ॥ १२९ ॥

रुद्रोङ्कारेण विद्याख्ये रूपवर्णकलानां शिव ? ।

एवं यष्ट्वा तु विधिना ततो दीक्षान्तु कारयेत् ।
सद्योजातकलात्वेन वागीश्वर्यां प्रकल्पयेत् ॥ १३१ ॥

तेनैव योजयेत्तत्र हुनेत्तेनैव तानि च ।
अध्वानं भुवनाख्यञ्च आहुतीं तावतीं हुनेत् ॥ १३२ ॥

प्। ४२०)

ग्रहणे ताडने चैव उत्क्षेपे च नियोजयेत् ।
विशेषकरणे चैव प्रतियोज्य कले कले ॥ १३३ ॥

अन्ते पूर्णाहुतिं दद्यात् एष एव विधि स्मृतः ।
नवात्मकेन देवेशे शान्त्यतीतेन वाऽथवा ॥ १३४ ॥

परमाक्षरेण दातव्याः पूर्णाहुत्यः क्रमेण तु ।
पूर्वं कला स्थाप्य ततो वागीश्वरीं न्यसेत् ॥ १३५ ॥

कलैरेकैरथापि वा

कलाध्वानं यथा शोध्यं देशिकैः सुसमाहितैः ॥ १३६ ॥

आसनं या कला प्रोक्ता न योज्याह्यासनेन ताः ।

प्। ४२१)

प्रणवैकस्मृतस्तत्र त्रयाणां वरवर्णिनी ॥ १३७ ॥

कलैस्तत्त्वा यदा शोध्या पृथिव्यादिरनुक्रमात् ।
तस्य वक्ष्याम्यहं देवि तदेकाग्रमनाः शृणु ॥ १३८ ॥

तत्वे तत्वे शतं जुहुयात् पृथिव्यादिरनुक्रमात् ।
प्रकृत्यन्ते तु देवेशि हुनेत्तत्र शतं शतम् ॥ १३९ ॥

सन्यस्य कथितं ह्येतत् कला या परिकीर्तिताः ।
एकैककलया देवि तत्त्वेकैकन्तु होमयेत् ॥ १४० ॥

विशेषं किञ्च वक्ष्यामि वामदेवस्य तां शृणु ।
पुरुषमादितः कृत्वा गृध्यन्ते तु समासतः ॥ १४१ ॥

तत्वे तत्वे तु होतव्यं कला वामद्वयं द्वयम् ।

प्। ४२२)

कलैकेन तु देवेशि जुहुयादाहुतीश्शतम् ॥ १४२ ॥

एषा देवि समाख्याता कला वामस्य शोभने ।
मायाऽविद्या च होतव्या अघोरस्य कलैर्बुधः ॥ १४३ ॥

एकैकेन तु होतव्यमाहुत्या पञ्चविंशकम् ।
ईश्वरन्नैव देवेशे तथा तत्वं सदाशिवम् ॥ १४४ ॥

पुरुषस्य कलेनैव होतव्यं सुसमाहितैः ।
आहुतीनाञ्च पञ्चाशन्मेकैकेन तु होमयेत् ॥ १४५ ॥

विंशविंशतिहोमेन ईशानस्य कलेन तु ।
शिवतत्वन्तु होतव्यं देशिकेन महात्मना ॥ १४६ ॥

साम्प्रतं शते शते पूर्णाहुति * * * * * ।

प्। ४२३)

द्विकलेन तु देवेशि वामे पूर्णाहुति स्मृता ॥ १४७ ॥

पुनरेव कलैकेन वामे पूर्णाहुति स्मृता ।
चतुष्कलेह्यघोरस्य पूर्णाहुत्यश्शिवस्य तु ॥ १४८ ॥

दातव्या देशिकेन्द्रेण पुरुषस्य तथैव च ।
ईशानकलापञ्चेन हुनेत वरवर्णिनी ॥ १४९ ॥

पूर्णाहुत्या तु दातव्या देशिकेन महात्मना ।
योजने करणं यच्च मया पूर्वमुदाहृतम् ॥ १५० ॥

तत्त्वया विदितं देवि विभूयः किं कथयामि ते ।
एतद्देवि समाख्यातं कलाध्वानमशेषतः ॥ १५१ ॥

द्विप्रकारेण देवेशि ज्ञातव्यं देशिकेन तु ।

प्। ४२४)

भुवनाध्वा कलाध्वा च कथितस्तु समासतः ॥ १५२ ॥

कथितं देवदेवेशि ज्ञातव्यं देशिकेन तु ।
एवं दीक्षासमाप्तौ तु आचार्यः सुसमाहितः ॥ १५३ ॥

विसर्जयित्वा देवेशि तत्र चण्डेश्वरं यजेत् ।
अपरेऽहनि देवेशि यजेच्चण्डेश्वरं प्रभुम् ॥ १५४ ॥

पञ्चाङ्गेन समायुक्तमर्धचन्द्रपुरोत्तमे ।
मन्त्राः पूर्वं मया ख्याताः आदिसूत्रे वरानने ॥ १५५ ॥

एकेनावरणेनैव पूजयित्वा विचक्षणः ।
मण्डले तर्पणं कृत्वा हुनेदष्टशतं क्रमात् ॥ १५६ ॥

एवं हुनेत्ततो देवि चण्डेशाय महे * * ।

प्। ४२५)

१४५ पुटे पूर्वोक्तविषयादन्यन्नास्ति श्लोकप्रक्षेपः दृश्यते ।

द्वितीयावरणे चैव विद्याङ्गैश्च यजेत्पुनः ।

सर्वावरणा बाह्या विज्ञेयास्तु वरानने ।
एतत्ते पदचक्रन्तु तव देवि उदाहृतम् ॥ १५९ ॥

प्रथमं शिवगर्भन्तु द्वितीयं चक्रवर्तिनाम् ।
तृतीये तु महादेवि वायव्या वरणान्यसेत् ॥ १६० ॥

चतुर्थन्तु गणेशानामाग्नेय्यां तदनन्तरम् ।

प्। ४२६)

षष्ठन्तु लोकपालानां माहेन्द्रं सप्तमं स्मृतम् ॥ १६१ ॥

दशमो नव तत्त्वास्तु विन्यसेत् यथाक्रमम् ।
विद्याङ्गरेखतो दद्यात् बाह्यतः परमेश्वरि ॥ १६२ ॥

पूर्वादिक्रमयोगेन विन्यसेत यथाक्रमम् ।
अष्टैकैकपदा ये तु ते तु स्तोत्रमुदाहृतम् ॥ १६३ ॥

गर्भादारभ्य होतव्याः सर्वे तु क्रमशः प्रिये ।
आसनादिविधिं कृत्वा तदारम्भ्य वा पुनः ॥ १६४ ॥

बाह्याः प्रतिषु दिक्ष्वष्ट स्वष्टौ योन्या पदो प्रिये ।
शतं शतञ्च होतव्यं शुध्यते नात्र संशयः ॥ १६५ ॥

पूर्णाहुत्या तु दातव्या शिवेन वरवर्णिनी ।

प्। ४२७)

एकाशीति पदञ्चैव पूर्वमेव उदाहृतम् ॥ १६६ ॥

भद्रकं यजनं वक्ष्ये शृणु देवि यथाक्रमम् ।
पूर्वोक्ते भूप्रदेशे तु तुषकेशास्थिवर्जिते ॥ १६७ ॥

सुसमे भूप्रदेशे तु निम्नोन्नतविवर्जिते ।
प्रागुदक्प्लवने देशे सूत्रयेद्भुवनं शुभम् ॥ १६८ ॥

चतुर्विंशति हस्तानि क्षेत्रमानं प्रकीर्तितम् ।
सूत्रयित्वा यथान्यायं नवभागेन भाजयेत् ॥ १६९ ॥

मध्यमं नवभागेन पुनरत्रैव सूत्रयेत् ।
नवभागविभक्तेषु भागार्धन्तु विवर्जयेत् ॥ १७० ॥

द्वात्रिंशदङ्गुलं पद्मं विधिद्वात्रिंशदङ्गुला ।

प्। ४२८)

चतुर्विधिसमायुक्तमष्टद्वारोपशोभितम् ॥ १७१ ॥

द्वारपूर्वं मयाख्यातं तन्मानेनैव कारयेत् ।
यथा मध्यं तथा सर्वे कर्तव्यं देशिकैः सदा ॥ १७२ ॥

रेखापद्मस्य देवेशे परिधेयच्छदन्तरम् ।
षोडशाङ्गुलमित्याहुः रेखापद्मस्य चा * क्तम् ॥ १७३ ॥

परिधेश्च न सन्देहः कर्तव्यं देशिकेन तु ।
शिवाङ्गाच्छृणु देवेशि कथयामि निबोध मे ॥ १७४ ॥

ॐ सर्वव्यापिने नमः । ॐ व्योमरूपाय नमः । ओमनन्ताय नमः । ओमनाथाय नमः । ओमनाश्रिताय नमः ।

प्। ४२९)

शिवाङ्गाः परिकीर्तिताः । ॐ ध्रुवाय नमः । ॐ शाश्वताय नमः । ॐ योगपीठसंस्थिताय नमः । ॐ
नित्ययोगिने नमः । ॐ ध्यानाहाराय नमः । विद्याङ्गा परिकीर्तिताः ।

पदब्रह्मा तु देवेशि अङ्गे पूर्वमूदाहृतम् ।
ज्ञातव्यं देशिकेनैव दीक्षाकाले न संशयः ॥ १७५ ॥

ॐ उन्नमः । ॐ व्योमव्यापिने नमः । ॐ व्योमरूपाय नमः । ॐ सर्वव्यापिने नमः । ॐ शिवाय नमः ।
ओमनन्ताय नमः । ओमनाथाय नमः । ओमनाश्रिताय नमः । ॐ ध्रुवाय नमः ।

प्। ४३०)

प्रथमं शिवगर्भे तु न्यसेदेतदुदाहृतम् ।

ॐ शाश्वताय नमः । ॐ योगपीठसंस्थिताय नमः । ॐ नित्ययोगिनः । ॐ ध्यानाहाराय नमः । ॐ
ओन्नमः । ॐ शिवाय नमः । ॐ सर्वप्रभवे नमः । ॐ शिवाय नमः ।

ओमीशानमूर्धाय नमः । ॐ तत्पुरुषवक्त्राय नमः ।

विद्येशावरणं ह्येतत् द्वितीयं परिकीर्तितम् ॥ १७६ ॥

ॐ अघोरहृदयाय नमः । ॐ वामदेव गुह्याय नमः । ॐ सद्योजातमूर्तये नमः । ॐ ओन्नमो नमः । ॐ
गुह्यातिगुह्याय नमः । ॐ गोप्त्रे नमः । ॐ अनिधननिधनाय नमः ।

प्। ४३१)

ओन्निधनाय नमः ।

तृतीयावरणं देवि देवाद्यानां प्रकीर्तितम् ।

ॐ सर्वविद्याधिपाय नमः । ॐ ज्योतीरूपाय नमः । ओम्परमेश्वरवराय नमः । ॐ चेतन नमः । ओमचेतन
नमः । ॐ व्योमिन् व्योमिन् नमः । ॐ व्यापिन् व्यापिन्नमः । ॐ रूपिन् रूपिन्नमः । ॐ प्रथम प्रथम नमः ।

तेजस्तेज नमः ।

चतुर्थे तु गणेशानामावरणं परिकीर्तितम् ॥ १७७ ।

ॐ ज्योतिर्ज्योतिन्नमः । ओमरूप नमः । ओमग्नि नमः ।

प्। ४३२)

ॐ मधु नमः । ॐ भस्म नमः । ओमनादि नमः । ओन्नाना नमः । ओन्धुधूधुधू नमः । ॐ भूर्नमः ।
आग्नेयावरणं ह्येतत् योगाद्यानामुदाहृतम् । ॐ भुवर्नमः । ॐ स्वर्नमः । ओमनिधन नमः । ओन्निधनोद्भव

नमः । ॐ शिव नमः । ॐ सर्व नमः । ॐ परमात्मन्नमः । ॐ महेश्वर नमः ।

षष्ठं वै लोकपालानामावृतं परिकीर्तितम् ॥ १७७ १।२ ॥

ॐ महादेव नमः । ॐ सद्भावेश्वर नमः । ॐ महातेज नमः । ॐ योगाधिपते नमः । ॐ मुञ्च मुञ्च मुञ्च
नमः । ॐ प्रथम प्रथम नमः । ॐ शर्व शर्व नमः । ॐ भव भव नमः ।

प्। ४३३)

ॐ भवोद्भव नमः ।

सप्तमं महेन्द्रावरणं ताराद्यानां प्रकीर्तितम् ॥ १७८ ॥

ॐ सर्वभूतसुखप्रद नमः । ॐ सर्व सान्निध्यकर नमः । ओम्ब्रह्मविष्णुरुद्रपर नमः । ओमनर्चितानर्चित
नमः । ॐ संस्कृतासंस्कृत नमः । ॐ पूर्वस्थित पूर्वस्थित नमः । ॐ साक्षि साक्षि नमः । ॐ तुरु
तुरु
नमः । ॐ पतङ्ग पतङ्ग नमः । ॐ पिङ्गपिङ्ग नमः ।

अष्टमं लोकपालास्त्रावरणं समुदाहृतम् ॥ १७८ १।२ ॥

ॐ शब्दशब्द नमः । ॐ सूक्ष्म सूक्ष्म नमः । ॐ शिव नमः

प्। ४३४)

ॐ शर्व नमः । ॐ सर्व नमः । ओमोन्नमो नमः । ओमों शिवाय नमो नमः । ॐ ओन्नमः ।

नवमावरणं ह्येतत् अम्भाद्यानां प्रकीर्तितम् ॥ १७९ ॥

दशमे नवतत्वानि विन्यसेत यथाक्रमम् ।

ॐ ऊन्नमः । ॐ यन्नमः । ॐ लन्नमः । ओमन्नमः । ॐ क्षन्नमः । ॐ रन्नमः । ॐ हन्नमः । ॐ
प्रसन्नमूर्तये नमः । नवमं मध्ये विन्यसेत् ।

विद्याङ्गा रेखतो दद्यादैश्वर्यास्ते प्रकीर्तिताः ॥ १८० ॥

ॐ सर्वात्मने पराय परमेश्वराय योगाधिपाय योगसम्भवाय

प्। ४३५)

करदःकरदसद्यः भवोद्भवाः वामदेव सर्वकार्यप्रशमनमं सदाशिव प्रसन्न नमो नमः ।
सर्वात्मदेहहृदयम् ।
ॐ सुशिव नमः । ॐ सुशिव देवशिरः । ओंशिवहृदय ज्वालिनी नमः । ज्वालिनी शिखा शिवात्मकं महातेजः
सर्वज्ञं प्रभुमव्ययम् ॥

आवर्तयेन्महाघोरं कवचं पिङ्गलं शुभम् ॥ १८० १।२ ॥

आयाहि पिङ्गल महारव च शिवाज्ञया हृदयं बन्ध बन्ध प्रज्वल प्रज्वल व्याघूर्ण ककृस्तक्ष्मः ।
वज्रधर वज्रपाश वज्रशक्तिश्चन्द्रा शरीर मम हृदयमनुप्रविश्य

प्। ४३६)

सर्वदुष्टास्तम्भय हुम्फण्णमः । पिङ्गलो नाम यः कवचः ओङ्कारबन्धं हुम्फट् कव हृदयम् । ॐ
प्रस्फुर प्रस्फुर घोर घोरतर तनुरूप चट चट प्रचट प्रचट कह कह वं वं घातय घातय हुम्फट्

अघोरास्रम् । ॐ ॐ अघोरशिवाय हुम्फट् । अघोरास्त्रं हृदयम् । ॐ व्योमव्यापिने व्योमरूपाय सर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहाराय ।

ओन्नमश्शिवाय सर्वप्रभवे शिवाय ईशानमूर्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेव गुह्याय
सद्योजातमूर्तये ओन्नमो नमः ।

प्। ४३७)

गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वयोगाधिकृताय सर्वाऽविद्याधिपतये ज्योतीरूपाय परमेश्वरपराय
अचेतनाचेतनव्योमिन् व्यापिन् व्यापिन् अरूपिन्नरूपिन् प्रथमप्रथमः तेजस्तेजः ज्योतिर्ज्योतिः अरूप अनग्नि अधूम
अभस्म अनादि नाना नाना धू धू धू धू ॐ भूः ओम्भुवः ॐ सुवः । अनिधननिधन निधनोद्भव
शिवसर्वपरमात्मन् महेश्वर महादेव सद्भावेश्वर महातेज योगाधिपते मुञ्च मुञ्च प्रथम प्रथम शर्व
शर्व भव भव भवोद्भव सर्वभूतसुखप्रद सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रपर

प्। ४३८)

अनर्चितानर्चित पर असंस्कृता संस्कृत पूर्वस्थित पूर्वस्थित साक्षि साक्षि तुरु तुरु पतङ्ग पतङ्ग पिङ्ग
पिङ्ग ज्ञान ज्ञान शब्द शब्द सूक्ष्म सूक्ष्म शिव सर्व सर्वद । ओन्नमो नम । ओन्नमः । ॐ शिवाय नमो
नमः । परं महानाथ शिवभट्टारकः । ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेनाति भवे

भजस्व मां भवोद्भवाय नमः । सद्यः वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः
कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ।

प्। ४३९)

ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतस्सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः । अघोरः ।

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । तत्पुरुषः । ॐ
ईशानस्सर्वभूतामीश्वरस्सर्वभूतानां ब्रह्माधिपतिः ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मेऽस्तु सदाशिवोम् ।

ईशानः । ॐ तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि । तन्नश्शिवः प्रचोदयात् ।

शिवात्मकमिदं सर्वं शिवादेव प्रवर्तते ॥ १८१ ॥

शिवाय शिवगर्भाय शिवस्सर्वः प्रचोदयात् ।

प्। ४४०)

ॐ आम् ईम् ऊं व्योमव्यापिने ॐ ॐ प्रशान्ताय नमः । ॐ प्रणवात्मने नमः । ॐ हुं शिवाय नमः । ॐ
हुन्नमः । ॐ फण्णमः । ॐ जुन्नमः ।

वर्णास्थे यजनं प्रोक्तं शिवाय परमात्मने ॥ १८२ ॥

ॐ सद्योजातं प्रपद्यामि नमः । ॐ सद्योजाताय वै नमः ।
ॐ भवे नमः । ॐ अभवे नमः । ॐ अनादि भवे नमः ।
ॐ भजस्व मान्नमः । ॐ भव नमः । ॐ उद्भवाय नमः ।
नमः ॐ वामदेवाय नमो नमः । ॐ ज्येष्ठाय नमो नमः ।
ॐ रुद्राय नमो नमः । ॐ कालाय नमो नमः । ॐ कल नमः ।

प्। ४४१)

ॐ विकरणाय नमो नमः । ॐ बल नमः । ॐ विकरणाय नमो नमः । ॐ बल नमः । ॐ प्रमथनाय नमो
नमः । ॐ सर्वभूतदमनाय नमो नमः । ॐ मनन नमः । ॐ उन्मनाय नमो नमः । ॐ अघोरेभ्यो नमः ।
ओमथ घोरभ्यो नमः । ॐ घोर नमः । ॐ घोरतरेभ्यो नमः । ॐ सर्वतो नमः । ॐ शर्वसर्वेभ्यो नमः ।
ओन्नमस्ते अस्तु रुद्र नमः । ॐ रूपेभ्यो नमः । ॐ तत्पुरुषाय विद्महे नमः । ॐ महादेवाय धीमहे नमः ।

ॐ तन्नो रुद्र नमः । ॐ प्रचोदयान्नमः । ॐ ईशानस्सर्वविद्यानान्नमः । ॐ ईश्वरस्सर्वभूतानान्नमः ।

ॐ ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा नमः । ॐ शिवोमेऽस्तु नमः । ॐ सदाशिवोन्नमः ।

एकैकन्तु पदं योज्य एकैकन्तु पदं हुनेत् ॥ १८३ ॥

एकैकपदपीठे तु नव तत्वं प्रकल्पयेत् ।
एकैकपदपीठेन दीक्षां निर्वाणगामिनीम् ॥ १८४ ॥

एकैकपदपत्रस्य हुनेद्देवि शतं शतम् ।
मण्डलतर्पणं कृत्वा हुनेदेकादशात्मकम् ॥ १८५ ॥

पूर्णाहुत्यः क्रमेणैव दातव्या अनुपूर्वशः ।
एकामतिपदञ्चैव हुत्वा संशोध्य चाध्वरम् ॥ १८६ ॥

प्। ४४३)

पुनः सङ्क्षेपतो देवि शृणुष्व कथयामि ते ।
आवाहरोधसान्निध्यं पदैकैकन्तु शुध्यति ॥ १८७ ॥

पीठे पीठे पदा देवि नव एव प्रकल्पयेत् ।
दशभिर्दशभिराहुतीभिः पीठशुद्धिं न संशयः ॥ १८८ ॥

एवं समाप्यते दीक्षा पदचक्रेण सुवृते ।
सर्वसंहितसामान्यं विधिमेतत्समाचरेत् ॥ १८९ ॥

एतद्देवि समाख्यातं पदयागमनुत्तमम् ।
सर्वसंहितसामान्यं सर्वतन्त्रेषु कीर्तितम् ॥ १९० ॥

विद्याराजाधिराजेशान्यष्ट्वा मोक्षमवाप्नुयात् ।
पुनरन्यं प्रवक्ष्यामि मन्त्रसारं सुगुह्यकम् ॥ १९१ ॥

प्। ४४४)

येन विज्ञातमात्रेण परां सिद्धिमवाप्नुयात् ।
त्र्यक्षन्दशभुजन्देवं मया पूर्वमुदाहृतम् ॥ १९२ ॥

तदहं सम्प्रवक्ष्यामि तदेकाग्रमनाः शृणु ।
पद्मासनोपविष्टन्तु द्योतयन्तं समन्ततः ॥ १९३ ॥

पञ्चवक्रधरं देवं कर्णिकस्योपरि स्थितम् ।
तत्रस्थं शक्तिमध्यस्थमादित्योदय सन्निभम् ॥ १९४ ॥

क्वचिदिन्द्रनिभञ्चैव क्वचिन्मरकसन्निभम् ।
क्वचिद्रससुसङ्घातं सूर्यकोटिसमप्रभम् ॥ १९५ ॥

द्योतयन्तं स्थितं देवं प्राणाङ्गुष्ठसन्निभम् ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ १९६ ॥

प्। ४४५)

मण्डलत्रयम् ।

अमृतमण्डदशभुजो देवो शान्त्य * * ता शिवः ।
आसनं तस्य देवस्य द्योतयन्ति समन्ततः ॥ १९७ ॥

शिखादीपशिखाकारा तालुं भित्वा विनिर्जिता ।
तस्यान्ते परतो देवि शक्तिस्तु परिकीर्तिता ॥ १९८ ॥

प्रक्रियान्तं स विज्ञेयं तद्भित्वा योजयेत्परे ।
छित्वात्मस्थं पशुं कृत्वा तदा योज्येत सुवृते ॥ १९९ ॥

कालं भ्रूक्षेपमात्रन्तु तत्वं ज्ञात्वा तु योजयेत् ।
एष देवि समाख्यात आत्मा तु परमेश्वरि ॥ २०० ॥

एवं यः पश्यतात्मानं स मुच्यति न संशयः ।

प्। ४४६)

मोचयेच्च न सन्देहः पद्मं दृष्ट्वा परे शिवे ॥ २०१ ॥

अदृष्ट्वा तु न सिध्येत न च नेता परं पदम् ।
तस्माद्यत्नपरेनैव द्ध्यातव्यो योगिभिस्सदा ॥ २०२ ॥

हृत्कर्णिकास्थमात्मानं कृत्वा ध्यातीत योगवित् ।
स्वस्थानावस्थितं देशं सर्वं पश्यन्ति योगिनः ॥ २०३ ॥

योजनानां शतं देवि पश्यते नात्र संशयः ।
पत्र पत्रे यथान्यासं कथयामि महेश्वरि ॥ २०४ ॥

पूर्वपत्रञ्च आग्नेयमीशानार्द्धे तथैव च ।
अर्धार्धपत्रयोगेन पूर्वदेशं स पश्यति ॥ २०५ ॥

ईशानस्यैव चार्धेन वायव्यस्य च सुवृते ।

प्। ४४७)

उत्तरेण च पत्रेण पश्यतेप्युत्तरं पथम् ॥ २०६ ॥

पश्चिमं पत्रमेकन्तु वायव्यार्धेन शोभने ।
नै-ऋत्यार्धेन योगीन्द्रः पश्चाद्देशन्निरीक्षयेत् ॥ २०७ ॥

नै-ऋत्यार्धेन देवेशि समस्तं दक्षिणेन तु ।
आग्नेयस्यैव चार्धेन दक्षिणापथ पश्यति ॥ २०८ ॥

पत्रैरेव तु चत्वारः पार्श्वकेन तु सुवृते ।
द्वितीये तापनीप्रोक्ता प्रतिदेशन्तु तां विदुः ॥ २०९ ॥

एवं सर्वेषु तत्वेषु ज्ञातव्यं तत्त्ववेदिनाम् ।
आत्मानं सुषिरं कृत्वा देशान् कृत्वा तु मध्यतः ॥ २१० ॥

अनन्तरूपमात्मानं कृत्वा पश्यति नान्यथा ।

प्। ४४८)

सरित्समुद्रनदयस्सर्वेऽभ्यन्तरीकृताः ॥ २११ ॥

पश्यते नात्र सन्देहो योगी योगेन संस्थितः ।
तत्वरूपं समाख्यातं ते तु या विदिताः पुरा ॥ २१२ ॥

तां दृष्ट्यामादिशेत्सर्वं भवते नात्र संशयः ।
मेरुं तत्कर्णिकां कृत्वा त्रैलोक्यं पश्यते तदा ॥ २१३ ॥

कथयेत्सर्ववृत्तान्तं नात्र कार्या विचारणा ।
एतद्देवि मयाख्यातं योगसद्भावमुत्तमम् ॥ २१४ ॥

पश्यते योगयुक्तस्तु त्रिभिर्मासैः न संशयः ।
षण्मासाद्योगयुक्तस्तु सर्वं पश्यति नान्यथा ॥ २१५ ॥

संवत्सरेण युक्तात्मा दिव्यादिव्यां स पश्यति ।

प्। ४४९)

देवैश्च समतां याति भुवनानि यथाक्रमम् ॥ २१६ ॥

एवं ध्यात्वा जपेद्यस्तु साधकस्सुसमाहितः ।
सिध्यते नात्र सन्देहो निर्विघ्नस्साधकेश्वरः ॥ २१७ ॥

अनेन विधिना युक्तो योगी यः परमेश्वरि ।
स सिद्धिं लभते क्षिप्रं नात्र कार्या विचारणा ॥ २१८ ॥

विजयं पूर्वपत्रे तु आग्नेय्यां शतृनाशनम् ।
शान्तिदं दक्षिणे पत्रे नैर्-ऋते चैव मारणम् ॥ २१९ ॥

श्रियमिच्छति वारुण्यां नाशार्थे वायवे दिशि ।
उत्तरं धनमिच्छद्भिः ईशान्यां ज्ञानमिच्छता ॥ २२० ॥

मृत्युञ्जयेषिणां नित्यम् ऊर्ध्वं गोक्षीरसन्निभम् ।

प्। ४५०)

ध्यातव्यं देवदेवेशि मृत्युदुःखैर्न पीड्यते ॥ २२१ ॥

अधस्तान्नयते देवि नरश्रेष्ठनराधमम् ।
एवं ज्ञात्वा वरारोहे नयते नात्र संशयः ॥ २२२ ॥

देव्युवाच

ऊर्ध्वं व्याह ते देवेशि शिख्या तस्य अनौपमा ।
तस्याहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ॥ २२३ ॥

कथं तेन च रूपेण शिखा तस्य फलप्रदा ।
अधस्तात्तु कथं देव नयते पापकर्मणः ॥ २२४ ॥

कथं प्रत्यक्षतो देहे पश्यन्ते योगिनः प्रभो ।
मुद्रायोगविधानञ्च कथयस्व प्रसादतः ॥ २२५ ॥

प्। ४५१)

ईश्वरः

शृणु देवि प्रवक्ष्यामि शिखाभेदमनुत्तमम् ।
येन विज्ञातमात्रेण सिध्यन्ते साधको भुवि ॥ २२६ ॥

गारुडे भूततन्त्रे च भगिनीनां तथैव च ।
शैवज्ञानं परे दिव्ये शिखाकर्म मनोरमम् ॥ २२७ ॥

शुक्लगोक्षीरसङ्काशा शङ्खकुन्देन्दु सन्निभा ।
शिखा मृत्युञ्जयार्थाय ध्यातव्या योगिभिस्सदा ॥ २२८ ॥

मेघधारानिपातेन पूरयन्ति समन्ततः ।
आचार्यते जगत्सर्वं विषग्रहविनाशयेत् ॥ २२९ ॥

प्। ४५२)

तृप्तिश्च कुरुते नित्यं मन्त्रध्यानमेव च ।
न च स्रोतो विभागेन स्रवन्ति यदि पश्यति ॥ २३० ॥

क्षणादाप्यायनं कुर्यान्नात्र कार्या विचारणा ।
रक्तवर्णशिखाध्यानं कृत्वा योगी यदा भवेत् ॥ २३१ ॥

तथा ते कथयिष्यामि तदेकाग्रमनाः शृणु ।
वशीकरणमावेशं मारणं शोषणं तथा ॥ २३२ ॥

विषापहारनिर्वाण निर्बीजकरणं यतः ।
अनग्निज्वलनञ्चैव मूर्च्छकं पावनं तथा ॥ २३३ ॥

रक्तवर्णधरेणैव एष ते समुदाहृतः ।
पीतवर्णाधरेणैव शृणु वक्ष्यामि सुवृते ॥ २३४ ॥

प्। ४५३)

ध्यानेन सिद्धिमाप्नोति धनधान्यफलप्रदाम् ।
स्तम्भयेत्पृथिवीं सर्वां त्रैलोक्यं स चराचरम् ॥ २३५ ॥

कृष्णवर्णशिखायान्तु शृणु वक्ष्यामि सुवृते ।
उच्चाटनन्तु विद्वेष करणं मोचनं तथा ॥ २३६ ॥

विषसङ्क्रमणञ्चैव मूकत्वञ्च न संशयः ।
स्तम्भनं सर्वतत्वानां विषयस्य च न संशयः ॥ २३७ ॥

सर्वं स सिध्यते तस्य शिखायोगविदं प्रिये ।
शिखया रहितं कर्म नैव सिध्यति साधकैः ॥ २३८ ॥

वायव्या तु कृष्णवर्णा तु रक्ताग्नेयी च सुवृते ।
पीता महेन्द्री विज्ञेया शुक्ला वारुणि उच्यते ॥ २३९ ॥

प्। ४५४)

कृष्णं रक्तं सितं पीतं स्फटिकाभञ्च सुवृते ।
सर्वकर्मकरञ्चैव शिखाकर्मविदस्सदा ॥ २४० ॥

शिखायोगमिदं देवि कथितं तव सुवृते ।
सर्वतन्त्रेषु सामान्यतन्त्रसिद्धिर्न संशयः ॥ २४१ ॥

शिखया रहितां देवि यस्सिद्धिमभिकाङ्क्षति ।
हनते मुष्टिनाकाशं पिबते मृगतृष्णिकाम् ॥ २४२ ॥

पञ्चात्मकमिदं देवि यो वेत्ति तत्तु सिध्यति ।
दीक्षासंरोधनं वक्ष्ये तदेकाग्रमना शृणु ॥ २४३ ॥

दुविदग्धे शठे क्रूरे अन्यायपथवर्तिने ।
तस्य देवि इदं कुर्यान्नास्यैव कदाचन ॥ २४४ ॥

प्। ४५४-आ)

परतत्त्वात्तदाकृष्य स्वेनतत्वेन देशिकः ।
पञ्च पञ्चभिराहुत्या नीयते यत्र रोचते ॥ २४५ ॥

तत स्थाप्य वराचार्यो क्षितिराच्छाद्य चोपरि ।
तिष्ठते तत्र दुष्टात्मा लङ्घने यस्तु देशिकः ॥ २४६ ॥

यस्मिन् योजयते स्थाने तद्दुःखमनुभुञ्जति ।
सिद्धिरोधं प्रवक्ष्यामि शृणु देवि यथा भवेत् ॥ २४७ ॥

वायुचक्रे तुलं स्थाप्य यत्तस्य सिद्धिसाधके ।
माहेन्द्रेण तु सञ्च्छाद्य क्षितिरूपधरेण तु ॥ २४८ ॥

एवं संस्तम्भितो देवि तिष्ठते नात्र संशयः ।
प्रत्यक्षं योगिनाञ्चैव यथा भवति तच्छृणु ॥ २४९ ॥

प्। ४५५)

यस्मिन् काले तु यो योगः सेवितव्यो हि योगिभिः ।
तदहं सम्प्रवक्ष्यामि शृणु देवि समासतः ॥ २५० ॥

घटिकासत्रिभागेन गतेन वरवर्णिनी ।
यावत्त्रीण्योपविष्टात्तु तावत्कालं समभ्यसेत् ॥ २५१ ॥

सुहृष्टं तल्लक्षपरं पुरक्षेण निमीलयेत् ।
पश्यते तस्य मध्ये तु कम्पमानां वरानने ॥ २५२ ॥

तदेव सदृशं लक्षं पश्यते नात्र संशयः ।
प्रथमे कांसनीलान्तु पश्यन्ते योगिनस्सदा ॥ २५३ ॥

रक्तां पीतां सिताञ्चैव तत्तुल्यसमतेजसा ।
एकलक्षं निमीलेत तस्य लक्षस्य पश्यताम् ॥ २५४ ॥

प्। ४५६)

रथचक्रसमाकारं पश्य देवि परं महत् ।
तं दृष्ट्वा योगिनः साक्षात् भिन्नदेशे विशेच्छिवम् ॥ २५५ ॥

असंशयेन देवेशि सादाख्यं पदमाप्नुयात् ।
स एव लक्षमात्मानं विद्यते पश्यतेद्ध्रुवम् ॥ २५६ ॥

अभ्यासेन तु देवेशे तत्तुल्यसमतां व्रजेत् ।
एवं योगवरस्यैव प्रत्ययं कथयामि ते ॥ २५७ ॥

मृते तु विलिखेत् पद्ममधुमेलं हुताशनः ।
कम्पते दुःखमादेशं कुरुते योगिनः प्रिये ॥ २५८ ॥

इन्दोलकमिवाभाति महाक्लेशेन जीवति ।
वश्यमेति शिखा देवि यत्र काले तु योगिनः ॥ २५९ ॥

प्। ४५७)

यस्मिन् दिशि शिखाऽयाति तस्मिन् सिद्धिं विनिर्दिशेत् ।
अविकल्पेन देवेशि पश्यते नात्र संशयः ॥ २६० ॥

हृदिस्थन्तु यदा पश्येत् शिखायोगमनुत्तमम् ।
वायुहंससमायुक्तं षष्ठस्वरसमन्वितम् ॥ २६१ ॥

नादान्तिम बीजेन * * * * * * * * * ।
पश्यते नात्र सन्देहो बिन्दुनादसमन्वितम् ॥ २६२ ॥

तदा उद्योतमया पक्षस्याभ्यन्तरेण तु ।
हृल्लक्षन्तु यदा दृष्टं योगिनेन वरानने ॥ २६३ ॥

तदा वै कर्णदेशे तु लक्षं कुर्यात्तु योगिभिः ।
वायुवर्णां परित्यज्य ऊ बिन्दुशिखयान्वितम् ॥ २६४ ॥

प्। ४५८)

शिरस्थानं यदा गच्छेद्योगिनस्सुसमाहितः ।
सर्वस्वरविनिर्मुक्त र वर्णकलसंयुतम् ॥ २६५ ॥

शिरस्थानं यदा तु ज्व मूध्निस्थानं समाश्रयेत् ।
तदा बिन्दुविनिर्मुक्तं शिखा सम्परिकीर्तिता ॥ २६६ ॥

शिखातीता पराशक्तिः शक्त्यतीतः परश्शिवः ।
वायव्यस्य पदाख्याताम् आग्नेयञ्चैव तत्तथा ॥ २६७ ॥

माहेन्द्रं वारुणञ्चैव एवमेव न संशयः ।
पञ्चमं सर्वयोगस्य आधारं परिकीर्तितम् ॥ २६८ ॥

चिति स्वरूपविज्ञानं चित्स्वभावः परश्शिवः ।
स्वयं निष्क्रमते ह्येकं तत् ज्ञानं ससुरासुरैः ॥ २६९ ॥

प्। ४५९)

द्वितीयं तत्स्वरूपन्तु दुर्विज्ञेयं सुरैरपि ।
सर्वथा ख्यापितं ज्ञानं सर्वतन्त्रेषु सुवृते ॥ २७० ॥

सकलद्वार्धभागेन ज्ञात्वा मुच्यति बन्धनात् ।
दिवारात्रविभागन्तु यस्माद्देवि प्रवर्तते ॥ २७१ ॥

तद्देवि पूर्वमाख्यातं सन्ताने तव शोभने ।
देशिकस्तं विजानाति मध्यस्थं कमलस्थितम् ॥ २७२ ॥

एतस्मात्परतो देवि गुरुपारम्परापरम् ।
त्रीण्येतानि परित्यज्य स परं परिकीर्तितम् ॥ २७३ ॥

षत्त्रिंशदङ्गुलं ख्यातञ्चारदेवे न शोभने ।
तत्र भागविभागेन शून्योच्चारः प्रकीर्तितः ॥ २७४ ॥

प्। ४६०)

नवसूत्रं यथा प्रोक्तं प्रयोगं तादृशं स्मृतम् ।
तेन सिध्यति देवेशि नात्र कार्या विचारणा ॥ २७५ ॥

अन्यं गुह्यतमं देवि शृणु वक्ष्यामि तत्त्वतः ।
तत्क्षणाद्देवि पश्येत प्रयोगमिदमुत्तमम् ॥ २७६ ॥

सव्यदक्षिणयोर्देवि दिव्यं कृत्वा तु योगिराट् ।
कलाश्चतस्रस्सं पश्येत् ज्वलन्तं दीपसम्भवम् ॥ २७७ ॥

आदिरन्तेन संसृष्टमुभयोरपि शोभने ।
मध्यदेशे तु यत्स्पृष्टमुभयोरपि पश्यति ॥ २७८ ॥

प्रकाशोन्मूलने नैवम्मम्बकं पश्यते यदा ।
सर्वेषामेव योगानां ध्यानयोगफलं शृणु ॥ २७९ ॥

प्। ४६१)

मेधाकान्तिस्तथारोग्यं सकृदुक्तन्तु गृह्यति ।
दिव्यादिव्यञ्च यत्किञ्चित् सर्वं पश्यति नान्यथा ॥ २८० ॥

सर्ववाङ्मयवेत्तारः त्रिमासाभ्यन्तरेण तु ।
उत्तिष्ठे चान्तर्धाने च बादलेपाञ्जने तथा ॥ २८१ ॥

गुडिकाद्या भवेत्सिद्धि षण्मासाभ्यन्तरेण तु ।
एतद्देवि समाख्यातं प्रयोगामृतमुत्तमम् ॥ २८२ ॥

समं सत्यञ्च देवेशि प्रत्यक्षं दृश्यते शुभे ।
अन्यतन्त्रविदा ये तु युक्तायुक्तविचारकाः ॥ २८३ ॥

एवं क्षिपन्ति चात्मानं ज्ञानं लब्ध्वा तपस्विनम् ।
न तैर्देवि इदं ज्ञानं ज्ञानसद्भावमुत्तमम् ॥ २८४ ॥

प्। ४६२)

सेवस्व प्रत्ययं ह्येतत् स्व परस्य न संशयः ।
हंसयोगमिदं देवि कथितं विधिविस्तरात् ॥ २८५ ॥

प्रक्रियाज्ञानविज्ञानं तस्माद्देवि विजानतः ।
त्रयाणां देवतानाञ्च दर्शनं तत्र सुवृते ॥ २८६ ॥

प्रत्यक्षं तेन दृश्येत विधिपूर्वेण नान्यथा ।
पुनरेव प्रवक्ष्यामि यजनं सुरसुन्दरि ॥ २८७ ॥

पञ्च ब्रह्मकलाभिश्च नव शक्तियुतेन च ।
आसनं प्रणवेनैव विद्याङ्गैश्च तथैव च ॥ २८८ ॥

एकेना वरुणेनैव यष्टव्यः परमेश्वरः ।
हृत्पद्मे स्थण्डिले चैव यष्टव्यं सिद्धिमिच्छता ॥ २८९ ॥

प्। २६३)

सिद्धिञ्च लभते योगी षण्मासाद्यजते यदि ।
प्रथमेऽहनि देवेशि प्रत्यक्षं प्रत्ययो भवेत् ॥ २९० ॥

तदेव मथनाद्देवि सिद्धिरुत्पद्यते सदा ।
यजनाज्जायते सिद्धिः ज्ञाने कैवल्यतां व्रजेत् ॥ २९१ ॥

ध्यानेन जपयोगेन सिद्धिदस्तु न संशयः ।
ईशानमूर्ध्वतो दद्यात् पूर्वं तत्पुरुषं स्मृतम् ॥ २९२ ॥

अघोरं दक्षिणे चैव वामदेवं तथोत्तरे ।
सद्योजातन्तु देवेशि संस्थितं पश्चिमेन तु ॥ २९३ ॥

आग्नेय्यां हृदयञ्चैव ऐशान्यान्तु शिरो न्यसेत् ।
नै-ऋत्यान्तु शिखा देवि वायव्यां कवचं तथा ॥ २९४ ॥

प्। ४६४)

अस्रचारप्रदेशे तु विन्यसेत्तु विचक्षणे ।
एकेनावरुणेनैवं यजेत सुसमाहिता ॥ २९५ ॥

मण्डलतर्पणं कृत्वा हुनेदेकादशात्मकम् ।
शिवेन देवे देवेशि हुनेत्पूर्णाहुतिं क्रमात् ॥ २९६ ॥

स्थण्डिले मण्डले चैव यजनं समुदाहृतम् ।
हृत्पद्मे यजनञ्चैव शृणु देवि वदाम्यहम् ॥ २९७ ॥

एकारात् चिन्तयेत्तत्वम् ऐकारन्तु विनिर्दिशोः ।
ऋजुरञ्च तु विज्ञेया धर्मापादचतुष्टयम् ॥ २९८ ॥

ओङ्कारेण तु देवेशि विन्यसेन्न शक्तयः ।
प्रथमं कल्पयेन्मूर्तिं तेन सर्वमशेषतः ॥ २९९ ॥

प्। २६५)

दशमं प्रणवं यच्च आवाह्य परमं शिवम् ।
प्रणवं न्यासयोगेन त्रितत्वं कारयेद्बुधः ॥ ३०० ॥

आकारं पूर्वतो न्यस्यम् ईकारं दक्षिणेन तु ।
ऊकारं पश्चिमेनैव व्योमबीजोत्तरेण तु ॥ ३०१ ॥

मं बीजं देवदेवेशि ईशान्यां परिकल्पयेत् ।
व्याबीजं वायुदेशे तु बी बीजं नै-ऋतेन तु ॥ ३०२ ॥

ने बीजं देवदेवेशि आग्नेय्यां चैव विन्यसेत् ।
तेनैव ध्यानकाले तु विन्यासं परिकीर्तितम् ॥ ३०३ ॥

पुनश्च शृणु देवेशि कथयामि तवाखिलम् ।
स्थावरं जङ्गमञ्चैव अण्डजं स्वेदजं तथा ॥ ३०४ ॥

प्। ४६६)

देवदानवतिर्यक्त्वदंष्टृणां क्रूरकर्मणाम् ।
हिंसकास्तस्य दुष्टात्मा दृष्ट्वा तां चिन्तयेद्बुधः ॥ ३०५ ॥

चक्षुषाऽयं मया प्रोक्तो दीक्षा मे तु यथा पुरा ।
तान् सर्वान् चिन्तयेद्देवि दुष्टसत्वस्य योगिनः ॥ ३०६ ॥

तत्वातत्वेषु सन्धाय चिन्तयेच्छिवमव्ययम् ।
एवञ्चिन्तितमात्रास्तु प्रशमं यान्ति ते शुभे ॥ ३०७ ॥

एवं सर्वेषु पापेषु मसकेषु स योगिनः ।
न ते हिंसन्ति पापात्मा शिवं दृष्ट्वा समं ययुः ॥ ३०८ ॥

एवं चिन्तयतो नित्यं विचरस्व यथा सुखम् ।
शिवेन समरसो भूत्वा ध्यानयोगपरायणः ॥ ३०९ ॥

प्। ६४७)

यत्र तत्र मनो गच्छेत् ध्यायमानस्य योगिनः ।
तदेव तत्परं ब्रह्म सर्वभावेन संस्थितम् ॥ ३१० ॥

शुभाशुभेषु कर्मेषु इष्टानिष्टोपपत्तिषु ।
स्थावरेषु च सर्वेषु धीरस्सर्वत्र संस्थितः ॥ ३११ ॥

मनसा गच्छते यत्र अचिन्त्यं चिन्त्यमेव च ।
तदेव तत्परं ब्रह्म वेदितव्यं हितैषिभिः ॥ ३१२ ॥

सर्वेषु समरसो भूत्वा तत्वभावेन येषु च ।
एवं समरसो भूत्वा विशते शिवमव्ययम् ॥ ३१३ ॥

एवं समरसो देवि विख्यातं तव शोभने ।
सर्वसंहितसामान्यं स तु जो जुष्टभाषितम् ॥ ३१४ ॥

प्। ४६८)

एवं समरसो भूत्वा योगिनः सुसमाहिताः ।
सिध्यन्ते नात्र सन्देहो मुच्यते नात्र संशयः ॥ ३१५ ॥

शृणु देवि परं गुह्यं प्रवक्ष्यामि समासतः ।
येन विज्ञातमात्रेण मुच्यते जन्मबन्धनात् ॥ ३१६ ॥

तत्प्रवक्ष्यामि अहं देवि मुद्राबन्धं परं शुभम् ।
उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ॥ ३१७ ॥

आकारेण तु नेकारम् अङ्कारसमन्वितम् ।
अव्याकारसमायुक्तो व्योमाकारसमन्वितः ॥ ३१८ ॥

प्रणवौ प्रसृतौ कृत्वा नेत्र मुद्रा प्रकीर्तिताः ।
कृञ्चतौ तु शिखा ज्ञेया पाशच्छेदकरी नृणाम् ॥ ३१९ ॥

प्। ४६९)

एतावेव समौ कृत्वा शिरमुद्रा प्रकीर्तिता ।
विशिष्ट हृदयं विद्या पिण्डितः कवचं तथा ॥ ३२० ॥

विक्षिप्तः शास्त्रमित्याहुः पञ्चतृंशाक्षरस्य तु ।
एतद्योगपरं देवि विख्यातं तव शोभने ॥ ३२१ ॥

अलेख्येयमिदं सर्वं वाचा सर्वं प्रकाशयेत् ।
वेदोक्तविधिना देवि अध्ययनं समुदाहृतम् ॥ ३२२ ॥

इति निश्वासकारिकायां चतुश्चत्वारिंशत्पटलः ।