४२

देव्युवाच

आत्मा मूर्तिस्त्वया देव कथितं शिवशासने ।
स पशुः पूर्वमाख्यातो देवो ज्ञेयस्तथैव च ॥ १ ॥

नमश्चेता च जीवश्च कथितन्तु त्वया पुरा ।
स पशुः निष्क्रियश्चैव अस्वतन्त्रमधोमुखम् ॥ २ ॥

कथं शिवत्वमायाति ज्ञेयं नामादि क्रमेण तु ।
एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हति ॥ ३ ॥

ईश्वरः

शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं सम्प्रवक्ष्यामि त्वत्प्रियार्थं वरानने ॥ ४ ॥

प्। ३६७)

सर्वसंहितसामान्यं विधिमेतत्समासतः ।
कथयामि न सन्देहः एकैकस्य यथाक्रमम् ॥ ५ ॥

षड्विधं मानसं ज्ञेयं शक्तिस्तु नवधा स्मृता ।
अनन्तपूजामित्युक्ता विसर्गेण समन्विता ॥ ६ ॥

एवं पूज्य अनन्तन्तु मुक्तिं तत्रैव विन्यसेत् ।
हां हूङ्कारसंयुक्तो अष्टभेदस्य चाष्टमम् ॥ ७ ॥

मूर्तिविन्यासं देवेशि अस्मिन् तन्त्रे उदाहृतम् ।
दीक्षाकाले यथा योगं ग्रहणञ्च यथा भवेत् ॥ ८ ॥

तथा ते कथयिष्यामि ग्रहणं येन यद्यथा ।
अनन्तमूर्तिसंयोगमेभिर्बीजैरुदाहृतम् ॥ ९ ॥

प्। ३६८)

एवं विन्यस्य यत्नेन सकलीकरणं ततः ।
मन्त्रातीतश्च मन्त्रश्च मया पूर्वमुदाहृतः ॥ १० ॥

तं ज्ञात्वा सकलं देवं निष्कलञ्च तथैव च ।
मूर्ध्नि वक्त्रौ च हृदये गुह्ये चैव यथाक्रमम् ॥ ११ ॥

विन्यसेद्देवदेवेशि सद्योजातन्तु मूर्तिषु ।
समयज्ञस्य देवेशि सकलीकरणं हितम् ॥ १२ ॥

अर्चनं तस्य वक्ष्यामि तन्मे निगदतः शृणु ।
स्थण्डिले शिवलिङ्गन्तु प्रोक्षणाभ्युक्षणादिना ॥ १३ ॥

अग्नौ शिवे च देवेशि द्रव्यमालभते तथा ।
पञ्चभिर्भ्रह्मभिश्चैव विधिसर्वमशेषतः ॥ १४ ॥

प्। ३६९)

ईशानमध्यतो दद्यात् पूर्वे तत्पुरुषन्यसेत् ।
अघोरं दक्षिणेचैव वामदेवं तथोत्तरे ॥ १५ ॥

पश्चिमे विन्यसेन्नित्यं सद्योजातन्तु सुवृते ।
अनेन विधिना यस्तु यजेत सुसमाहितः ॥ १६ ॥

ईश्वरावाप्तिसंयोगं समये कथितं मया ।
पञ्चब्रह्मसमायोगात् कलाभिश्च स सुवृते ॥ १७ ॥

विद्याङ्गैश्च समायुक्तं पुत्रके कथितं मया ।
आवाहनादिदेवस्य पूर्ववत्कथितं तव ॥ १८ ॥

द्वारावरणसंयुक्तं कथयेत्तस्य देशिकः ।
एवं तत्सकलीकृत्य सन्ध्याकाले उपासनम् ॥ १९ ॥

प्। ३७०)

कर्तव्यं पुत्रकेनैव कथितं सुरसुन्दरी ।
अनेन विधिना देवि पुत्रकस्सुसमाहितः ॥ २० ॥

लभते सामीप्यपदं सादाख्यस्य न संशयः ।
तैरेव पूर्वोक्तैस्तु शिवाङ्गैश्च समन्वितः ॥ २१ ॥

आवाहरोधसंयोग ध्यानयोगविचक्षणैः ।
लभते सायुज्यमात्मानं सादाख्यस्य महात्मनः ॥ २२ ॥

चतुरावरणैर्युक्तं यजेत सुसमाहितः ।
मन्त्रैः करणयोगेन स पशुः सुरसुन्दरि ॥ २३ ॥

भवेन्मन्त्रात्मकश्चैव स पशुर्नात्र संशयः ।
अमन्त्रेण पशुः प्रोक्तः चेता मात्रं समाविशेत् ॥ २४ ॥

प्। ३७१)

स चेतनः स्मृतस्तन्त्रैः अकिञ्चित्ज्ञः पशुः स्मृतः ।
समन्त्रैश्च सदायुक्तश्चेतनः परमेश्वरि ॥ २५ ॥

तदा योग्यश्शिवध्याने भवते नात्र संशयः ।

देव्युवाच

कथं मन्त्रात्मकं देहं पशोर्विज्ञायते प्रभो ॥ २६ ॥

एतदिच्छामि विज्ञातुं भगवन् वक्तुमर्हसि ।

ईश्वरः

मन्त्रैस्सम्बद्धदेहस्य शृणु तस्य पराक्रमम् ॥ २७ ॥

पातालादुद्धरेन्नागान् पातयेद्दैत्यराक्षसान् ।
नाशयेत्सर्वविघ्नानि शान्तिं पुष्टिं करोति च ॥ २८ ॥

प्। ३७२)

मन्त्रैः सम्बद्धदेहस्य प्रपलायन्ति नायकाः ।
उत्तिष्ठेदन्तर्द्धाने च पादचारे तथैव च ॥ २९ ॥

खड्गे च पादुके चैव रेचने अर्चने तथा ।
गुडिकाकाशगमने दण्डकाष्ठपवित्रके ॥ ३० ॥

आसनञ्चैव यानञ्च सर्वमन्त्रैः प्रसिध्यति ।
चेतनात्मा यदा देवि न किञ्चिदपि सिध्यते ॥ ३१ ॥

भूतैश्च बाध्यते देवि अज्ञानेन समावृतः ।
मन्त्रात्मा चेतनात्मा च कथितस्तव सुवृते ॥ ३२ ॥

कथितञ्च रहस्यन्तु भेदस्तु उभयोरपि ।
बिन्दुनादसमायोगात् वर्णस्तु नदते यदा ॥ ३३ ॥

प्। ३७३)

तत्तु मन्त्रात्मकं प्रोक्तं शिवं परमकारणम् ।
पञ्चब्रह्मकलैर्युक्ते कृते तु सकले शिवे ॥ ३४ ॥

तस्मिन् प्रकाशते देवो मन्त्रात्मा परमेश्वरः ।
वर्णव्यूहे स्थितो यस्मात् शिवः परमकारणः ॥ ३५ ॥

तेन देवि समाख्यातो मन्त्रात्मा परमेश्वरः ।
प्रणवो भयसंयुक्तो व्योमव्यापी इति स्मृतः ॥ ३६ ॥

पदमन्त्रसमायुक्तो धर्मात्मा परमेश्वरः ।
अनन्तेशादितः कृत्वा शिखण्ड्यन्तं वरानने ॥ ३७ ॥

स एव संस्थितो नित्यं मन्त्रात्मा परमेश्वरः ।
लोकपालान् सहास्त्रैश्च त्रैलोक्यं स चराचरम् ॥ ३८ ॥

प्। ३७४)

मन्त्रात्माऽवस्थितो देवः शिवः परमकारणः ।
एवं मन्त्रात्मकं देवि कथितं तव सुवृते ॥ ३९ ॥

ज्ञातव्यं देशिकेनैव शिवतन्त्रानुवर्तिना ।
बिन्दुर्नादश्च शक्तिश्च अतीतः परतश्च यः ॥ ४० ॥

यदा विज्ञानतत्वेन मन्त्रातीतः परस्तु सः ।
शब्दरूपरसादीनाम् अतीतः परमेश्वरः ॥ ४१ ॥

तन्तु देवि विदित्त्वा तु देशिकः पाशहा भवेत् ।
नादातीतः परश्शान्तः शक्तिरित्यभिधीयते ॥ ४२ ॥

तस्यातीतः परन्देवि मन्त्रातीतः स उच्यते ।
पूर्वमुच्चारयेद्वर्णान् शब्दलीनञ्च कारयेत् ॥ ४३ ॥

प्। ३७५)

शब्दलीनः पुनश्शब्दः शब्दातीतं पुनर्नयेत् ।
तस्यातीतं परन्देवि मन्त्रातीतः स उच्यते ॥ ४४ ॥

एष ते कथितो देवि कारिकायाश्च निर्णयः ।
पूर्वसूत्रे तु कथितं व्याख्यातं तव सुवृते ॥ ४५ ॥

देव्युवाच

सकलं पूजयित्वा तु निष्कलन्तु ततोपरि ।
त्वया देव समाख्यातम् आदिसूत्रे महेश्वर ॥ ४६ ॥

पशुस्तु सकलः प्रोक्तः स मूर्तिः परिकीर्तितः ।
निष्कलञ्च कथं तस्मिन् पूज्यते परमेश्वरः ॥ ४७ ॥

निष्कलः कलयातीतं न मन्त्रस्वरयोर्गतिः ।

प्। ३७६)

कथं सकलदेहस्तु स्थातव्यः परमश्शिवः ॥ ४८ ॥

ईश्वरः

मन्त्रमुच्चारयेत्पूर्वं हृदि कृत्वा महेश्वरम् ।
कूटशब्दपरे लीनं स वै निष्कल उच्यते ॥ ४९ ॥

उच्चारणे यदा देवि निर्विकल्पं पदं व्रजेत् ।
देहे सकलयोगेन यदा ज्ञातं महेश्वरि ॥ ५० ॥

अतीतः कलयातीतः स वै निष्कल उच्यते ।
उच्चारणे यदा हीनं निर्विकल्पपदं व्रजेत् ॥ ५१ ॥

मनसा चिन्त्यते यच्च बुद्ध्या यत्र विकल्पना ।
बुध्यहङ्कारनिर्मुक्तं स वै निष्कल उच्यते ॥ ५२ ॥

प्। ३७७)

समयी पुत्रको वाऽपि साधकाचार्य एव वा ।
सर्वैर्विधिरनुष्ठेयो विशेषः कथितो मया ॥ ५३ ॥

इति निश्वासकारिकायां द्विचत्वारिंशत्पटलः ।